ऋषय ऊचुः
सूतसूतमहाभागव्यासशिष्यनमोस्तुते ॥ ॥१,२१। १अब्।
सम्यगुक्तन्त्वयातातपार्थिवार्चाविधानकम् ॥ ॥१,२१।१च्द्।
कामनाभेदमाश्रित्यसङ्ख्याम्ब्रूहिविधानतः ॥ ॥१,२१।२अब्।
शिवपार्थिवलिङ्गानां कृपयादीनवत्सल ॥ ॥१,२१।२च्द्।
सूत उवाच
शृणुध्वमृषयः सर्वेपार्थिवार्चाविधानकम् ॥ ॥१,२१।३अब्।
यस्यानुष्ठानमात्रेणकृतकृत्योभवेन्नरः ॥ ॥१,२१।३च्द्।
अकृत्वा पार्थिवं लिङ्गं योन्यदेवम्प्रपूजयेत् ॥ ॥१,२१।४अब्।
वृथाभवतिसापूजादमदानादिकंवृथा ॥ ॥१,२१।४च्द्।
सङ्ख्यापार्थिवलिङ्गानांयथाकामन्निगद्यते ॥ ॥१,२१।५अब्।
सङ्ख्यासद्योमुनिश्रेष्ठनिश्चयेनफलप्रदा ॥ ॥१,२१।५च्द्।
प्रथमावाहनन्तत्रप्रतिष्ठापूजनम्पृथक् ॥ ॥१,२१।६अब्।
लिङ्गाकारंसमन्तत्रसर्वञ्ज्ञेयम्पृथक्पृथक् ॥ ॥१,२१।६च्द्।
विद्यार्थीपुरुषःप्रीत्यासहस्रमितपार्थिवम् ॥ ॥१,२१।७अब्।
पूजयेच्छिवलिङ्गंहिनिश्चयात्तत्फलप्रदम् ॥ ॥१,२१।७च्द्।
नरःपार्थिवलिङ्गानान्धनार्थीचतदर्धकम् ॥ ॥१,२१।८अब्।
पुत्रार्थीसार्धसाहस्रंवस्त्रार्थीशतपञ्चक्रम् ॥ ॥१,२१।८च्द्।
मोक्षार्थीकोटिगुणितम्भूकामश्चसहस्रकम् ॥ ॥१,२१।९अब्।
दयार्थीचत्रिसाहस्रन्तीर्थार्थीद्विसहस्रकम् ॥ ॥१,२१।९च्द्।
सुहृत्कामीत्रिसाहस्रंवश्यार्थीशतमष्टकम् ॥ ॥१,२१।१०अब्।
मारणार्थीसप्तशतम्मोहनार्थीशताष्टकम् ॥ ॥१,२१।१०च्द्।
उच्चाटनपरश्चैवसहस्रञ्चयथोक्ततः ॥ ॥१,२१।११अब्।
स्तम्भनार्थीसहस्रन्तुद्वेषणार्थी तदर्धकम् ॥ ॥१,२१।११च्द्।
निगडान्मुक्तिकामस्तुसहस्रंसर्धमुत्तमम् ॥ ॥१,२१।१२अब्।
महाराजभयेपञ्चशतञ्ज्ञेयंविचक्षणैः ॥ ॥१,२१।१२च्द्।
चौरादिसङ्कटेज्ञेयम्पार्थिवानांशतद्वयम् ॥ ॥१,२१।१३अब्।
डाकिन्यादिभयेपञ्चशतमुक्तञ्जपार्थिवम् ॥ ॥१,२१।१३च्द्।
दारिद्र्येपञ्चसाहस्रमयुतंसर्वकामदम् ॥ ॥१,२१।१४अब्।
अथनित्यविधिंवक्ष्येशृणुध्वम्मुनिसत्तमाः ॥ ॥१,२१।१४च्द्।
एकम्पापहरम्प्रोक्तन्द्विलिङ्गञ्चार्थसिद्धिदम् ॥ ॥१,२१।१५अब्।
त्रिलिङ्गंसर्वकामानाङ्कारणम्परमीरितम् ॥ ॥१,२१।१५च्द्।
उत्तरोत्तरमेवंस्यात्पूर्वोक्तगणानाविधि ॥ ॥१,२१।१६अब्।
मतान्तरमथोवक्ष्येसङ्ख्यायाम्मुनिभेदतः ॥ ॥१,२१।१६च्द्।
लिङ्गानामयुतङ्कृत्वापार्थिवानांसुबुद्धिमान् ॥ ॥१,२१।१७अब्।
निर्भयोहिभवेन्नूनम्महाराजभयंहरेत् ॥ ॥१,२१।१७च्द्।
कारागृहादिमुक्त्यर्थमयुतङ्कारयेद्बुधः ॥ ॥१,२१।१८अब्।
डाकिन्यादिभयेसप्तसहस्रङ्कारयेत्तथा ॥ ॥१,२१।१८च्द्।
सहस्राणिपञ्चपञ्चाशदपुत्रःप्रकारयेत् ॥ ॥१,२१।१९अब्।
लिङ्गानामयुतेनैवकन्यकासन्ततिंलभेत् ॥ ॥१,२१।१९च्द्।
लिङ्गानामयुतेनैवविष्ण्वादैश्वर्यमाप्नुयात् ॥ ॥१,२१।२०अब्।
लिङ्गानाम्प्रयुतेनैवह्यतुलांश्रियमाप्नुयात् ॥ ॥१,२१।२०च्द्।
कोटिमेकान्तुलिङ्गानां यः करोतिनरोभुवि ॥ ॥१,२१।२१अब्।
शिव एवभवेत्सोपिनात्रकार्या विचारणा ॥ ॥१,२१।२१च्द्।
अर्चा पार्थिवलिङ्गानां कोटियज्ञफलप्रदा ॥ ॥१,२१।२२अब्।
भुक्तिदामुक्तिदानित्यन्ततःकामर्थिनान्नृणाम् ॥ ॥१,२१।२२च्द्।
विनालिङ्गार्चनं यस्य कालोगच्छति नित्यशः ॥ ॥१,२१।२३अब्।
महाहानिर्भवेत्तस्यदुर्वृत्तस्यदुरात्मनः ॥ ॥१,२१।२३च्द्।
एकतः सर्वदानानि व्रतानि विविधानि च ॥ ॥१,२१।२४अब्।
तीर्थानिनियमायज्ञालिङ्गार्चाचैकतः स्मृता ॥ ॥१,२१।२४च्द्।
कलौलिङ्गार्चनंश्रेष्ठन्तथालोकेप्रदृश्यते ॥ ॥१,२१।२५अब्।
तथानास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥ ॥१,२१।२५च्द्।
भुक्तिमुक्तिप्रदंलिङ्गं विविधापन्निवारणम् ॥ ॥१,२१।२६अब्।
पूजयित्वानरोनित्यं शिवसायुज्यमाप्नुयात् ॥ ॥१,२१।२६च्द्।
शिवानाममयं लिङ्गन्नित्यं पूज्यं महर्षिभिः ॥ ॥१,२१।२७अब्।
यतश्च सर्वलिङ्गेषु तस्मात्पूज्यंविधानतः ॥ ॥१,२१।२७च्द्।
उत्तमं मध्यमं नीचं त्रिविधं लिङ्गमीरितम् ॥ ॥१,२१।२८अब्।
मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥ ॥१,२१।२८च्द्।
चतुरङ्गुलमुच्छ्रायंरम्यंवेदिकयायुतम् ॥ ॥१,२१।२९अब्।
उत्तमंलिङ्गमाख्यातम्मुनिभिःशास्त्रकोविदैः ॥ ॥१,२१।२९च्द्।
तदर्धम्मध्यमम्प्रोक्तन्तदर्धमघमंस्मृतम् ॥ ॥१,२१।३०अब्।
इत्थन्त्रिविधमाख्यातमुत्तरोत्तरतःपरम् ॥ ॥१,२१।३०च्द्।
अनेकलिङ्गंयोनित्यम्भक्तिश्रद्धासमन्वितः ॥ ॥१,२१।३१अब्।
पूजयेत्सलभेत्कामान्मनसा मानसेप्सितान् ॥ ॥१,२१।३१च्द्।
नलिङ्गाराधनादन्यत्पुण्यंवेदचतुष्टये ॥ ॥१,२१।३२अब्।
विद्यतेसर्वशास्त्राणामेष एवविनिश्चयः ॥ ॥१,२१।३२च्द्।
सर्वमेतत्परित्यज्यकर्मजालमशेषतः ॥ ॥१,२१।३३अब्।
भक्त्यापरमया विद्वांल्लिङ्गमेकम्प्रपूजयेत् ॥ ॥१,२१।३३च्द्।
लिङ्गेर्चितेर्चितंसर्वञ्जगत्स्थावरजङ्गमम् ॥ ॥१,२१।३४अब्।
संसाराम्बुधिमग्नानान्नान्यत्तारणसाधनम् ॥ ॥१,२१।३४च्द्।
अज्ञानतिमिरान्धानांविषयासक्तचेतसाम् ॥ ॥१,२१।३५अब्।
प्लवोनान्योस्तिजगतिलिङ्गाराधनमन्तरा ॥ ॥१,२१।३५च्द्।
हरिब्रह्मादयोदेवामुनयोयक्षराक्षसाः ॥ ॥१,२१।३६अब्।
गन्धर्वाश्चरणास्सिद्धादैतेयादानवास्तथा ॥ ॥१,२१।३६च्द्।
नागाःशेषप्रभृतयोगरुडाद्याःखगास्तथा ॥ ॥१,२१।३७अब्।
सप्रजापतयश्चान्येमनवःकिन्नरानराः ॥ ॥१,२१।३७च्द्।
पूजयित्वामहाभक्त्यालिङ्गंसर्वार्थसिद्धिदम् ॥ ॥१,२१।३८अब्।
प्राप्ताःकामानभीष्टांश्चतांस्तान्सर्वान्हृदिस्थितान् ॥ ॥१,२१।३८च्द्।
ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवाप्रतिलोमजः ॥ ॥१,२१।३९अब्।
पूजयेत्सततंलिङ्गन्तत्तन्मन्त्रेणसादरम् ॥ ॥१,२१।३९च्द्।
किम्बहूक्तेनमुनयःस्त्रीणामपितथान्यतः ॥ ॥१,२१।४०अब्।
अधिकारोस्तिसर्वेषांशिवलिङ्गार्चनेद्विजाः ॥ ॥१,२१।४०च्द्।
द्विजानांवैदिकेनापिमार्गेणाराधनंवरम् ॥ ॥१,२१।४१अब्।
अन्येषामपिजन्तूनांवैदिकेननसम्मतम् ॥ ॥१,२१।४१च्द्।
वैदिकानान्द्विजानाञ्चपूजावैदिकमार्गतः ॥ ॥१,२१।४२अब्।
कर्तव्यानान्यमार्गेण इत्याहभगवाञ्छिवः ॥ ॥१,२१।४२च्द्।
दधीच गौतमादीनांशापेनादग्धचेतसाम् ॥ ॥१,२१।४३अब्।
द्विजानां जायतेश्रद्धानैव वैदिककर्मणि ॥ ॥१,२१।४३च्द्।
योवैदिकमनादृत्यकर्मस्मार्तमथापिवा ॥ ॥१,२१।४४अब्।
अन्यत्समाचरेन्मर्त्योनसङ्कल्पफलंलभेत् ॥ ॥१,२१।४४च्द्।
इत्थङ्कृत्वार्चनंशम्भोर्नैवेद्यान्तंविधानतः ॥ ॥१,२१।४५अब्।
पूजयेदष्टमूर्तीश्चतत्रैवत्रिजगन्मयीः ॥ ॥१,२१।४५च्द्।
क्षितिरापोनलोवायुराकाशः सूर्यसोमकौ ॥ ॥१,२१।४६अब्।
यजमान इति त्वष्टौमूर्तयःपरिकीर्तिताः ॥ ॥१,२१।४६च्द्।
शर्वोभवश्च रुद्रश्च उग्रोभीम इतीश्वरः ॥ ॥१,२१।४७अब्।
महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥ ॥१,२१।४७च्द्।
पूजयेत्परिवारं चततःशम्भोःसुभक्तितः ॥ ॥१,२१।४८अब्।
ईशानादिक्रमात्तत्रचन्दनाक्षतपत्रकैः ॥ ॥१,२१।४८च्द्।
ईशानन्नन्दिनञ्चण्डम्महाकालञ्चभृङ्गिणम् ॥ ॥१,२१।४९अब्।
वृषंस्कन्दङ्कपर्दीशंसोमंशुक्रञ्चतत्क्रमात् ॥ ॥१,२१।४९च्द्।
अग्रतोवीरभद्रं च पृष्ठेकीर्तिमुखं तथा ॥ ॥१,२१।५०अब्।
तत एकादशान्नुद्रान्पूजयेद्विधिनाततः ॥ ॥१,२१।५०च्द्।
ततःपञ्चाक्षरं जप्त्वा शतरुद्रियमेव च ॥ ॥१,२१।५१अब्।
स्तुतीर्नानाविधाः कृत्वा पञ्चाङ्गपठनं तथा ॥ ॥१,२१।५१च्द्।
ततः प्रदक्षिणां कृत्वा नत्वा लिङ्गं विसर्जयेत् ॥ ॥१,२१।५२अब्।
इतिप्रोक्तमशेषं च शिवपूजनमादरात् ॥ ॥१,२१।५२च्द्।
रात्रावुदङ्मुखः कुर्याद्देवकार्यंसदैवहि ॥ ॥१,२१।५३अब्।
शिवार्चनं सदाप्येवंशुचिः कुर्यादुदङ्मुखः ॥ ॥१,२१।५३च्द्।
न प्राचीमग्रतः शम्भोर्नोदीचीं शक्तिसंहितान् ॥ ॥१,२१।५४अब्।
नप्रतीचींयतः पृष्ठमतोग्राह्यं समाश्रयेत् ॥ ॥१,२१।५४च्द्।
विनाभस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ॥ ॥१,२१।५५अब्।
बिल्वपत्रं विना नैव पूजयेच्छङ्करं बुधः ॥ ॥१,२१।५५च्द्।
भस्माप्राप्तौमुनिश्रेष्ठाः प्रवृत्ते शिवपूजने ॥ ॥१,२१।५६अब्।
तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुण्ड्रकम् ॥ ॥१,२१।५६च्द्।
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशो ऽध्यायः