२० पार्थिवशिवलिङ्गपूजाविधिवर्णनम्

सूत उवाच
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ॥ ॥१,२०।१अब्।
वैदिकेनैवमार्गेणभुक्तिमुक्तिप्रदायिनी ॥ ॥१,२०।१च्द्।
सूत्रोक्तविधिनास्नात्वासन्ध्यां कृत्वा यथाविधि ॥ ॥१,२०।२अब्।
ब्रह्मयज्ञंविधायादौततस्तर्पणमाचरेत् ॥ ॥१,२०।२च्द्।
नैत्यिकं सकलङ्कामं विधायानन्तरम्पुमान् ॥ ॥१,२०। ३अब्।
शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः ॥ ॥१,२०।३च्द्।
वेदोक्ताविधिना सम्यक्सम्पूर्णफलसिद्धये ॥ ॥१,२०।४अब्।
पूजयेत्परयाभक्त्यापार्थिवंलिङ्गमुत्तमम् ॥ ॥१,२०।४च्द्।
नदीतीरे तडागे च पर्वतेकानने ऽपिच ॥ ॥१,२०।५अब्।
शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ ॥१,२०।५च्द्।
शुद्धप्रदेशसम्भूतां मृदमाहृत्य यत्नतः ॥ ॥१,२०।६अब्।
शिवलिङ्गं प्रकल्पेत सावधानतया द्विजाः ॥ ॥१,२०।६च्द्।
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ॥ ॥१,२०।७अब्।
वैश्येकृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ ॥१,२०।७च्द्।
सङ्गृह्यमृत्तिकांलिङ्गनिर्माणार्थम्प्रयत्नतः ॥ ॥१,२०।८अब्।
अतीवशुभदेशेचस्थापयेत्ताम्मृदंशुभाम् ॥ ॥१,२०।८च्द्।
संशोध्यचजलेनापिपिण्डीकृत्य शनैः शनैः ॥ ॥१,२०।९अब्।
विधीयेतशुभंलिङ्गम्पार्थिवंवेदमार्गतः ॥ ॥१,२०।९च्द्।
ततः सम्पूजयेद्भक्त्याभुक्तिमुक्तिफलाप्तये ॥ ॥१,२०।१०अब्।
तत्प्रकारमहंवच्मिशृणुध्वंसंविधानतः ॥ ॥१,२०।१०च्द्।
नमः शिवायमन्त्रेणार्चनन्द्रव्यञ्चप्रोक्षयेत् ॥ ॥१,२०।११अब्।
भूरसीतिचमन्त्रेणक्षेत्रसिद्धिम्प्रकारयेत् ॥ ॥१,२०।११च्द्।
आपोस्मानितिमन्त्रेणजलसंस्कारमाचरेत् ॥ ॥१,२०।१२अब्।
नमस्ते रुद्रमन्त्रेण फाटिकाबन्धमुच्यते ॥ ॥१,२०।१२च्द्।
शम्भवायेतिमन्त्रेणक्षेत्रशुद्धिं प्रकारयेत् ॥ ॥१,२०।१३अब्।
नमः पूर्वेण कुर्यात्पञ्चामृतस्यापि प्रोक्षणम् ॥ ॥१,२०।१३च्द्।
नीलग्रीवायमन्त्रेणनमःपूर्वेणभक्तिमान् ॥ ॥१,२०।१४अब्।
चरेच्छङ्करलिङ्गस्यप्रतिष्ठापनमुत्तमम् ॥ ॥१,२०।१४च्द्।
भक्तितस्तत एतत्तेरुद्रायेति च मन्त्रतः ॥ ॥१,२०।१५अब्।
आसनं रमणीयं वैदद्याद्वैदिकमार्गकृत् ॥ ॥१,२०।१५च्द्।
मानोमहन्तमितिचमन्त्रेणावाहनञ्चरेत् ॥ ॥१,२०।१६अब्।
यातेरुद्रेणमन्त्रेणसञ्चरेदुपवेशनम् ॥ ॥१,२०।१६च्द्।
मन्त्रेणयामिषुमिति न्यासङ्कुर्याच्छिवस्यच ॥ ॥१,२०।१७अब्।
अध्यवोचदिति प्रेम्णाधिवासम्मनुनाचरेत् ॥ ॥१,२०।१७च्द्।
मनुनासौजीव इतिदेवतान्यासमाचरेत् ॥ ॥१,२०।१८अब्।
असौयोवसर्पतीति चाचरेदपसर्पणम् ॥ ॥१,२०।१८च्द्।
नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥ ॥१,२०। १९अब्।
अर्घ्यं च रुद्रगायत्र्या ऽचमनं त्र्यम्बकेण च ॥ ॥१,२०।१९च्द्।
पयःपृथिव्यामिति च पयसास्नानमाचरेत् ॥ ॥१,२०।२०अब्।
दधिक्राव्णेतिमन्त्रेणदधिस्नानं च कारयेत् ॥ ॥१,२०।२०च्द्।
घृटंस्नानेखलुघृतङ्घृतंयावेतिमन्त्रतः ॥ ॥१,२०। २१अब्।
मधुवातामधुनक्तम्मधुमान्न इति त्र्यृचा ॥ ॥१,२०। २१च्द्।
मधुखण्डस्नपनम्प्रोक्तमितिपञ्चामृतं स्मृतम् ॥ ॥१,२०।२२अब्।
अथवा पाद्यमन्त्रेण स्नानम्पञ्चामृतेन च ॥ ॥१,२०।२२च्द्।
मानस्तोके इति प्रेम्णा मन्त्रेण कटिबन्धनम् ॥ ॥१,२०।२३अब्।
नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ ॥१,२०।२३च्द्।
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ॥ ॥१,२०।२४अब्।
शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ ॥१,२०।२४च्द्।
नमः श्वभ्य इति प्रेम्णा गन्धं दद्यादृचा सुधीः ॥ ॥१,२०।२५अब्।
नमस्तक्षभ्य इति चाक्षतान्मन्त्रेण चार्पयेत् ॥ ॥१,२०। २५च्द्।
नमः पार्याय इति वा पुष्प मन्त्रेण चार्पयेत् ॥ ॥१,२०।२६अब्।
नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ ॥१,२०।२६च्द्।
नमःकपर्दिनेचेति धूपं दद्याद्यथाविधि ॥ ॥१,२०।२७अब्।
दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ ॥१,२०।२७च्द्।
नमोज्येष्ठायमन्त्रेण दद्यान्नैवेद्यमुत्तमम् ॥ ॥१,२०।२८अब्।
मनुनात्र्यम्बकमितिपुनराचमनंस्मृतम् ॥ ॥१,२०।२८च्द्।
इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ॥ ॥१,२०।२९अब्।
नमो व्रज्यायेति ऋचा सकलं शम्भवेर्पयेत् ॥ ॥१,२०।२९च्द्।
मनो महान्तमिति च मानस्तोके इति ततः ॥ ॥१,२०।३०अब्।
मन्त्रेद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत् ॥ ॥१,२०।३०च्द्।
हिरण्यगर्भ इति त्र्यृचादक्षिणांहिसमर्पयेत् ॥ ॥१,२०।३१अब्।
देवस्यत्वेतिमन्त्रेणह्यभिषेकञ्चरेद्बुधः ॥ ॥१,२०।३१च्द्।
दीपमन्त्रेणवाशम्भोर्नीराजनविधिञ्चरेत् ॥ ॥१,२०।३२अब्।
पुष्पाञ्जलिञ्चरेद्भक्त्या इमा रुद्रायचत्र्यृचा ॥ ॥१,२०।३२च्द्।
मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ॥ ॥१,२०।३३अब्।
मानस्तोकेति मन्त्रेण साष्टाङ्गम्प्रणमेत्सुधीः ॥ ॥१,२०।३३च्द्।
एषते इतिमन्त्रेणशिवमुद्राम्प्रदर्शयेत् ॥ ॥१,२०। ३४अब्।
यतोयत इत्यभयाञ्ज्ञानाख्यां त्र्यम्बकेण च ॥ ॥१,२०।३४च्द्।
नमःसेनेति मन्त्रेणमहामुद्राम्प्रदर्शयेत् ॥ ॥१,२०।३५अब्।
दर्शयेद्धेनुमुद्राञ्चनमोगेभ्य ऋचानया ॥ ॥१,२०।३५च्द्।
पञ्चमुद्राःप्रदर्श्याथ शिवमन्त्रजपं चरेत् ॥ ॥१,२०।३६अब्।
शतरुद्रियमन्त्रेण जपेद्वेदविचक्षणः ॥ ॥१,२०।३६च्द्।
ततः पञ्चाङ्गपाठञ्चकुर्याद्वेदविचक्षणः ॥ ॥१,२०।३७अब्।
देवागात्वितिमन्त्रेणकुर्याच्छम्भोर्विसर्जनम् ॥ ॥१,२०।३७च्द्।
इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः ॥ ॥१,२०।३८अब्।
समासतश्चशृणुतवैदिकंविधिमुत्तमम् ॥ ॥१,२०।३८च्द्।
ऋचासद्योजातमितिमृदाहरणमाचरेत् ॥ ॥१,२०।३९अब्।
वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ ॥१,२०।३९च्द्।
अघोरेण च मन्त्रेणलिङ्गनिर्माणमाचरेत् ॥ ॥१,२०।४०अब्।
तत्पुरुषायमन्त्रेणाह्वानं कुर्याद्यथाविधि ॥ ॥१,२०।४०च्द्।
संयोजयेद्वेदिकायामीशानमनुनाहरम् ॥ ॥१,२०।४१अब्।
अन्यत्सर्वं विधानञ्चकुर्यात्सङ्क्षेपतः सुधीः ॥ ॥१,२०।४१च्द्।
पञ्चाक्षरेणमन्त्रेणगुरुदत्तेनवातथा ॥ ॥१,२०।४२अब्।
कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ ॥१,२०।४२च्द्।
भवायभवनाशायमहादेवायधीमहि ॥ ॥१,२०।४३अब्।
उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ ॥१,२०।४३च्द्।
अनेन मनुना वापि पूजयेच्छङ्करंसुधीः ॥ ॥१,२०।४४अब्।
सुभक्त्या चभ्रमन्त्यक्त्वाभक्त्यैवफलदः शिवः ॥ ॥१,२०।४४च्द्।
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ॥ ॥१,२०।४५अब्।
प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः ॥ ॥१,२०।४५च्द्।
पूजापार्थिवलिङ्गस्यसम्प्रोक्ताशिवनामभिः ॥ ॥१,२०।४६अब्।
तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ ॥१,२०। ४६च्द्।
हरोमहेश्वरः शम्भुःशूलपाणिः पिनाकधृक् ॥ ॥१,२०।४७अब्।
शिवः पशुपतिश्चैवमहादेव इति क्रमात् ॥ ॥१,२०।४७च्द्।
मृदाहरणसङ्घट्टप्रतिष्ठाह्वानमेवच ॥ ॥१,२०।४८अब्।
स्नपनम्पूजनञ्चैवक्षमस्वेतिविसर्जनम् ॥ ॥१,२०।४८च्द्।
अङ्कारादिचतुर्थ्यन्तैर्नमोन्तैर्नामभिः क्रमात् ॥ ॥१,२०।४९अब्।
कर्तव्याचक्रियासर्वाभक्त्यापरमयामुदा ॥ ॥१,२०।४९च्द्।
कृत्वा न्यासविधिंसम्यक्षडङ्गकरयोस्तथा ॥ ॥१,२०।५०अब्।
षडक्षरेणमन्त्रेणततोध्यानंसमाचरेत् ॥ ॥१,२०।५०च्द्।
कैलासपीठासनमध्यसंस्थं भक्तैः सनन्दादिभिरर्च्यमानम् ॥ ॥१,२०।५१अब्।
भक्तर्तिदावानलमप्रमेयन्ध्यायेदुमालिङ्गितविश्वभूषणम् ॥ ॥१,२०।५१च्द्।
ध्यायेन्नित्यम्महेशंरजतगिरिनिभञ्चारुचन्द्रावतंसंरत्नाकल्पोज्ज्वलाङ्गम्परशुमृगवराभीतिहस्तम्प्रसन्नम् ॥ ॥१,२०।५२अब्।
पद्मासीनंसमन्तात्स्थितममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्वबीजन्निखिलभयहरम्पञ्चवक्त्रन्त्रिनेत्रम् ॥ ॥१,२०।५२च्द्।
इतिध्यात्वाचसम्पूज्यपार्थिवंलिङ्गमुत्तमम् ॥ ॥१,२०।५३अब्।
जपेत्पञ्चाक्षरम्मन्त्रङ्गुरुदत्तंयथाविधि ॥ ॥१,२०।५३च्द्।
स्तुतिभिश्चैवदेवेशंस्तुवीतप्रणमन्सुधीः ॥ ॥१,२०।५४अब्।
नानाभिधाभिर्विप्रेन्द्राः पठेद्वैशतरुद्रियम् ॥ ॥१,२०।५४च्द्।
ततः साक्षतपुष्पाणिगृहीत्वाञ्जलिनामुदा ॥ ॥१,२०।५५अब्।
प्रार्थयेच्छङ्करम्भक्त्यामन्त्रैरेभिःसुभक्तितः ॥ ॥१,२०।५५च्द्।
तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहंसदामृड ॥ ॥१,२०।५६अब्।
कृपानिध इतिज्ञात्वाभूतनाथप्रसीदमे ॥ ॥१,२०।५६च्द्।
अज्ञानाद्यदिवाज्ञानाज्जप पूजादिकं मया ॥ ॥१,२०।५७अब्।
कृतं तदस्तुसफलङ्कृपयातवशङ्कर ॥ ॥१,२०।५७च्द्।
अहम्पापीमहानद्यपावनश्चभवान्महान् ॥ ॥१,२०।५८अब्।
इतिविज्ञायगौरीशयदिच्छसितथाकुरु ॥ ॥१,२०।५८च्द्।
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ॥ ॥१,२०।५९अब्।
नज्ञातोसिमहादेवकुतोहन्त्वम्महाशिव ॥ ॥१,२०।५९च्द्।
यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ॥ ॥१,२०।६०अब्।
रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥ ॥१,२०।६०च्द्।
इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ॥ ॥१,२०।६१अब्।
प्रणमेद्भक्तितश्शम्भुं साष्टाङ्गं विधिवन्मुने ॥ ॥१,२०।६१च्द्।
ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ॥ ॥१,२०।६२अब्।
पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ ॥१,२०।६२च्द्।
ततो गलरवङ्कृत्वा प्रणमेच्छुचिनम्रधीः ॥ ॥१,२०।६३अब्।
कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ ॥१,२०।६३च्द्।
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ॥ ॥१,२०।६४अब्।
भुक्तिदामुक्तिदाचैवशिवभक्तिविवर्धिनी ॥ ॥१,२०।६४च्द्।
इत्यध्यायंसुचित्तेनयःपठेच्छृणुयादपि ॥ ॥१,२०।६५अब्।
सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ॥ ॥१,२०।६५च्द्।
आयुरायोग्यदञ्चैवयशस्यंस्वर्ग्यमेवच ॥ ॥१,२०।६६अब्।
पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ ॥१,२०।६६च्द्।

इति श्रीशिवमहापुराणे प्र- विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिङ्गपूजाविधिवर्णनं नाम विंशो ऽध्यायः