ऋषय ऊचुः
सूतसूतचिरञ्जीवधन्यस्त्वंशिवभक्तिमान् ॥ ॥१,१९।१अब्।
सम्यगुक्तस्त्वयालिङ्गमहिमासत्फलप्रदः ॥ ॥१,१९।१च्द्।
यत्रपार्थिवमाहेशलिङ्गस्यमहिमाधुना ॥ ॥१,१९।२अब्।
सर्वोत्कृष्टश्चकथितोव्यासतोब्रूहितम्पुनः ॥ ॥१,१९।२च्द्।
सूत उवाच
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ॥ ॥१,१९।३अब्।
शिवपार्थिवलिङ्गस्यमहिमाप्रोच्यतेमया ॥ ॥१,१९।३च्द्।
उक्तेष्वेतेषु लिङ्गेषु पार्थिवं लिङ्गमुत्तमम् ॥ ॥१,१९।४अब्।
तस्यपूजनतोविप्राबहवः सिद्धिमागताः ॥ ॥१,१९।४च्द्।
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ॥ ॥१,१९।५अब्।
सम्पूज्य पार्थिवंलिङ्गम्प्रापुःसर्वेप्सितन्द्विजाः ॥ ॥१,१९।५च्द्।
देवासुरमनुष्याश्चगन्धर्वोरगराक्षसाः ॥ ॥१,१९।६अब्।
अन्येपिबहवस्तंसम्पूज्यसिद्धिङ्गताःपरम् ॥ ॥१,१९।६च्द्।
कृतेरत्नमयंलिङ्गन्त्रेतायांहेमसम्भवम् ॥ ॥१,१९।७अब्।
द्वापरेपारदंश्रेष्ठम्पार्थिवन्तुकलौयुगे ॥ ॥१,१९।७च्द्।
अष्टमूर्तिषुसर्वासुमूर्तिर्वैपार्थिवीवराः ॥ ॥१,१९।८अब्।
अनन्यपूजिताविप्रास्तपस्तस्मान्महत्फलम् ॥ ॥१,१९।८च्द्।
यथासर्वेषुदेवेषुज्येष्ठःश्रेष्ठोमहेश्वरः ॥ ॥१,१९।९अब्।
एवंसर्वेषु लिङ्गेषुपार्थिवंश्रेष्टमुच्यते ॥ ॥१,१९।९च्द्।
यथानदीषुसर्वासुज्येष्ठाश्रेष्ठासुरापगा ॥ ॥१,१९।१०अब्।
तथासर्वेषुलिङ्गेषुपार्थिवंश्रेष्ठमुच्यते ॥ ॥१,१९।१०च्द्।
यथासर्वेषुमन्त्रेषुप्रणवो हि महान्स्मृतः ॥ ॥१,१९।११अब्।
तथेदम्पार्थिवंश्रेष्ठमाराध्यम्पूज्यमेवहि ॥ ॥१,१९।११च्द्।
यथासर्वेषुवर्णेषुब्राह्मणःश्रेष्ठ उच्यते ॥ ॥१,१९।१२अब्।
तथासर्वेषुलिङ्गेषुपार्थिवं श्रेष्ठमुच्यते ॥ ॥१,१९।१२च्द्।
यथापुरीषुसर्वासुकाशीश्रेष्ठतमास्मृता ॥ ॥१,१९।१३अब्।
तथासर्वेषुलिङ्गेषुपार्थिवंश्रेष्ठमुच्यते ॥ ॥१,१९।१३च्द्।
यथाव्रतेषुसर्वेषुशिवरात्रिव्रतम्परम् ॥ ॥१,१९।१४अब्।
तथासर्वेषुलिङ्गेषुपार्थिवंश्रेष्थमुच्यते ॥ ॥१,१९।१४च्द्।
यथादेवीषुसर्वासुशैवीशक्तिः परास्मृता ॥ ॥१,१९।१५अब्।
तथा सर्वेषु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ॥ ॥१,१९।१५च्द्।
प्रकृत्यपार्थिवंलिङ्गंयोन्यदेवम्प्रपूजयेत् ॥ ॥१,१९।१६अब्।
वृथा भवति सा पूजा स्नानदानादिकंवृथा ॥ ॥१,१९।१६च्द्।
पार्थिवाराधनम्पुण्यन्धन्यमायुर्विवर्धनम् ॥ ॥१,१९।१७अब्।
तुष्टिदम्पुष्टिदंश्रीदङ्कार्यंसाधकसत्तमैः ॥ ॥१,१९।१७च्द्।
यथालब्धोपचारैश्चभक्त्या श्रद्धासमन्वितः ॥ ॥१,१९।१८अब्।
पूजयेत्पार्थिवं लिङ्गं सर्वकामार्थसिद्धिदम् ॥ ॥१,१९।१८च्द्।
यःकृत्वापार्थिवंलिङ्गेपूजयेच्छुभवेदिकम् ॥ ॥१,१९।१९अब्।
इहैवधनवाञ्छ्रीमानन्तेरुद्रोभिजायते ॥ ॥१,१९।१९च्द्।
त्रिसन्ध्यंयोर्चयंल्लिङ्गङ्कृत्वाबिल्वेनपार्थिवम् ॥ ॥१,१९।२०अब्।
दशैकादशकंयावत्तस्यपुण्यफलंशृणु ॥ ॥१,१९।२०च्द्।
अनेनैव स्वदेहेन रुद्रलोकेमहीयते ॥ ॥१,१९।२१अब्।
पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ ॥१,१९।२१च्द्।
जीवन्मुक्तः सवैज्ञानीशिव एव न संशयः ॥ ॥१,१९।२२अब्।
तस्यदर्शनमात्रेणभुक्तिर्मुक्तिश्च जायते ॥ ॥१,१९।२२च्द्।
शिवं यः पूजयेन्नित्यं कृत्वालिङ्गं तु पार्थिवम् ॥ ॥१,१९।२३अब्।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ ॥१,१९।२३च्द्।
मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ॥ ॥१,१९।२४अब्।
सकामः पुनरागत्य राजेन्द्रोभारतेभवेत् ॥ ॥१,१९।२४च्द्।
निष्कामः पूजयेन्नित्यं पार्थिवंलिङ्गमुत्तमम् ॥ ॥१,१९।२५अब्।
शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥ ॥१,१९।२५च्द्।
पार्थिवं शिवलिङ्गं च विप्रो यदि न पूजयेत् ॥ ॥१,१९।२६अब्।
सयातिनरकङ्घोरंशूलप्रोतं सुदारुणम् ॥ ॥१,१९।२६च्द्।
यथाकथञ्चिद्विधिनारम्यं लिङ्गं प्रकारयेत् ॥ ॥१,१९।२७अब्।
पञ्चसूत्रविधानां च पार्थिवेन विचारयेत् ॥ ॥१,१९।२७च्द्।
अखण्डन्तद्धिकर्तव्यन्नविखण्डम्प्रकारयेत् ॥ ॥१,१९।२८अब्।
द्विखण्डन्तुप्रकुर्वाणोनैवपूजाफलंलभेत् ॥ ॥१,१९।२८च्द्।
रत्नजं हेमजं लिङ्गं पारदं स्फाटिकं तथा ॥ ॥१,१९।२९अब्।
पार्थिवं पुष्परागोत्थमखण्डं तु प्रकारयेत् ॥ ॥१,१९।२९च्द्।
अखण्डं तु चरं लिङ्गन्द्विखण्डमचरं स्मृतम् ॥ ॥१,१९।३०अब्।
खण्डाखण्डविचारोयं सचराचरयोः स्मृतः ॥ ॥१,१९।३०च्द्।
वेदिकातुमहाविद्यालिङ्गन्देवो महेश्वरः ॥ ॥१,१९।३१अब्।
अतो हि स्थावरेलिङ्गे स्मृताश्रेष्ठादिखण्डिता ॥ ॥१,१९।३१च्द्।
द्विखण्डंस्थावरंलिङ्गङ्कर्तव्यंहिविधानतः ॥ ॥१,१९।३२अब्।
अखण्डञ्जङ्गमम्प्रोक्तंशैवसिद्धान्तवेदिभिः ॥ ॥१,१९।३२च्द्।
द्विखण्डन्तुचरांलिङ्गङ्कुर्वन्त्यज्ञानमोहिताः ॥ ॥१,१९।३३अब्।
नैवसिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ ॥१,१९।३३च्द्।
अखण्डंस्थावरंलिङ्गन्द्विखण्डञ्चरमेवच ॥ ॥१,१९।३४अब्।
येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥ ॥१,१९।३४च्द्।
तस्माच्छास्त्रोक्तविधिना अखण्डञ्चरसञ्ज्ञकम् ॥ ॥१,१९।३५अब्।
द्विखण्डं स्थावरं लिङ्गं कर्तव्यं परया मुदा ॥ ॥१,१९।३५च्द्।
अखण्डे तु चरे पूजासम्पूर्णफलदायिनी ॥ ॥१,१९।३६अब्।
द्विखण्डे तु चरे पूजामहाहानिप्रदा स्मृता ॥ ॥१,१९।३६च्द्।
अखण्डे स्थावरे पूजा न कामफलदायिनी ॥ ॥१,१९।३७अब्।
प्रत्यवायकरीनित्यमित्युक्तंशास्त्रवेदिभिः ॥ ॥१,१९।३७च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिङ्गपूजनमाहात्म्यवर्णनं नामैकोनविंशो ऽध्यायः