ऋष्य ऊचुः
बन्धमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ॥ ॥१,१८।१अब्।
सूत उवाच
बन्धमोक्षन्तथोपायंवक्ष्ये ऽहंशृणुतादरात् ॥ ॥१,१८।१च्द्।
प्रकृत्याद्यष्टबन्धेनबद्धोजीवः स उच्यते ॥ ॥१,१८।२अब्।
प्रकृत्याद्यष्टबन्धेननिर्मुक्तोमुक्त उच्यते ॥ ॥१,१८।२च्द्।
प्रकृत्यादिवशीकारोमोक्ष इत्युच्यतेस्वतः ॥ ॥१,१८।३अब्।
बद्धजीवस्तुनिर्मुक्तोमुक्तजीवः स कथ्यते ॥ ॥१,१८।३च्द्।
प्रकृत्यग्रेततोबुद्धिरहङ्कारोगुणात्मकः ॥ ॥१,१८।४अब्।
पञ्चतन्मात्रमित्येतेप्रकृत्याद्यष्टकंविदुः ॥ ॥१,१८।४च्द्।
प्रकृट्याद्यष्टजोदेहोदेहजङ्कर्म उच्यते ॥ ॥१,१८।५अब्।
पुनश्चकर्मजोदेहोजन्मकर्मपुनःपुनः ॥ ॥१,१८।५च्द्।
शरीरन्त्रिविधञ्ज्ञेयंस्थूलंसूक्ष्मञ्चकारणम् ॥ ॥१,१८।६अब्।
स्थूलंव्यापारदम्प्रोक्तंसूक्ष्ममिन्द्रियभोगदम् ॥ ॥१,१८।६च्द्।
कारणन्त्वात्मभोगार्थञ्जीवकर्मानुरूपतः ॥ ॥१,१८।७अब्।
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ ॥१,१८।७च्द्।
तस्माद्धिकर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ॥ ॥१,१८।८अब्।
शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥ ॥१,१८।८च्द्।
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ॥ ॥१,१८।९अब्।
प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ ॥१,१८।९च्द्।
चक्रकर्तामहेशो हि प्रकृतेः परतोयतः ॥ ॥१,१८।१०अब्।
पिबतिवाथवमतिजीवन्बालोजलंयथा ॥ ॥१,१८।१०च्द्।
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ॥ ॥१,१८।११अब्।
सर्वंवशीकृतंयस्मात्तस्माच्छिव इति स्मृतः ॥ ॥१,१८।११च्द्।
शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ ॥१,१८।११एफ़्।
सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ॥ ॥१,१८।१२अब्।
अनन्तशक्तिश्चमहेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥ ॥१,१८।१२च्द्।
अतः शिवप्रसादेन प्रकृत्यादिवशम्भवेत् ॥ ॥१,१८।१३अब्।
शिवप्रसादलाभार्थं शिवमेवप्रपूजयतेत् ॥ ॥१,१८।१३च्द्।
निःस्पृहस्य च पूर्णस्यतस्य पूजाकथं भवेत् ॥ ॥१,१८।१४अब्।
शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ ॥१,१८।१४च्द्।
लिङ्गेबेरेभक्तजनेशिवमुद्दिश्यपूजयेत् ॥ ॥१,१८।१५अब्।
कायेनमनसावाचाधनेनापिप्रपूजयेत् ॥ ॥१,१८।१५च्द्।
पुजया तु महेशो हि प्रकृतेः परमः शिवः ॥ ॥१,१८।१६अब्।
प्रसादङ्कुरुतेसत्यम्पूजकस्यविशेषतः ॥ ॥१,१८।१६च्द्।
शिवप्रसादात्कर्माद्यङ्क्रमेणस्ववशम्भवेत् ॥ ॥१,१८।१७अब्।
कर्मारभ्यप्रकृत्यन्तंयदासर्वं वशम्भवेत् ॥ ॥१,१८।१७च्द्।
तदामुक्त इतिप्रोक्तःस्वात्मारामोविराजते ॥ ॥१,१८।१८अब्।
प्रसादात्परमेशस्यकर्म देहोयदावशः ॥ ॥१,१८।१८च्द्।
तदावैशिवलोकेतुवासःसालोक्यमुच्यते ॥ ॥१,१८।१९अब्।
सामीप्यंयातिसाम्बस्यतन्मात्रेचवशङ्गते ॥ ॥१,१८।१९च्द्।
तदातुशिवसायुज्यमायुधाद्यैः क्रियादिभिः ॥ ॥१,१८।२०अब्।
महाप्रसादलाभेचबुद्धिश्चापिवशाभवेत् ॥ ॥१,१८।२०च्द्।
बुद्धिस्तुकार्यम्प्रकृतेस्तत्सृष्टिरितिकथ्यते ॥ ॥१,१८।२१अब्।
पुनर्महाप्रसादेनप्रकृतिर्वशमेष्यति ॥ ॥१,१८।२१च्द्।
शिवस्यमानसैश्वर्यन्तदा ऽयत्नम्भविष्यति ॥ ॥१,१८।२२अब्।
सार्वज्ञाद्यंशिवैश्वर्यंलब्ध्वास्वात्मनि राजते ॥ ॥१,१८।२२च्द्।
तत्सायुज्यमितिप्राहुर्वेदागमपरायणाः ॥ ॥१,१८।२३अब्।
एवङ्क्रमेणमुक्तिःस्याल्लिङ्गादौपूजयास्वतः ॥ ॥१,१८।२३च्द्।
अतःशिवप्रसादार्थङ्क्रियाद्यैःपूजयेच्छिवम् ॥ ॥१,१८।२४अब्।
शिवक्रिया शिवतपः शिवमन्त्रजपः सदा ॥ ॥१,१८।२४च्द्।
शिवज्ञानंशिवध्यानमुत्तरोत्तरमभ्यसेत् ॥ ॥१,१८।२५अब्।
आसुप्तेरामृतेःकालन्नयेद्वैशिवचिन्तया ॥ ॥१,१८।२५च्द्।
सद्यादिभिश्चकुसुमैरर्चयेच्छिंवमेष्यति ॥ ॥१,१८। २६अब्।
ऋषय ऊचुः
लिङ्गादौशिवपूजायाविधानम्ब्रूहिसर्वतः ॥ ॥१,१८।२६च्द्।
सूत उवाच
लिङ्गानाञ्चक्रमंवक्ष्येयथावच्छृणुत द्विजाः ॥ ॥१,१८।२७अब्।
तदेवलिङ्गं प्रथमं प्रणवं सार्वकामिकम् ॥ ॥१,१८।२७च्द्।
सूक्ष्मप्रणवरूपंहिसूक्ष्मरूपन्तुनिष्फलम् ॥ ॥१,१८।२८अब्।
स्थूललिङ्गं हि सकलन्तत्पञ्चाक्षरमुच्यते ॥ ॥१,१८।२८च्द्।
तयोः पूजातपः प्रोक्तंसाक्षान्मोक्षप्रदे उभे ॥ ॥१,१८।२९अब्।
पौरुषप्रकृतिभूतानिलिङ्गानिसुबहूनिच ॥ ॥१,१८।२९च्द्।
तानि विस्तरतोवक्तुं शिवो वेत्तिनचापरः ॥ ॥१,१८।३०अब्।
भूविकाराणिलिङ्गानिज्ञातानिप्रब्रवीमिवः ॥ ॥१,१८।३०च्द्।
स्वयम्भूलिङ्गम्प्रथमम्बिन्दुलिङ्गन्द्वितीयकम् ॥ ॥१,१८।३१अब्।
प्रतिष्ठितञ्चरञ्चैवगुरुलिङ्गन्तु पञ्चमम् ॥ ॥१,१८।३१च्द्।
देवर्षितपसा तुष्टः सान्निध्यार्थन्तुतत्रवै ॥ ॥१,१८।३२अब्।
पृथिव्यन्तर्गतःशर्वोबीजं वै नादरूपतः ॥ ॥१,१८।३२च्द्।
स्थावराङ्कुरवद्भूमिमुद्भिद्य व्यक्त एव सः ॥ ॥१,१८।३३अब्।
स्वयम्भूतं जातमिति स्वयम्भूरिति तं विदुः ॥ ॥१,१८।३३च्द्।
तल्लिङ्गपूजया ज्ञानं स्वयमेव प्रवर्धते ॥ ॥१,१८।३४अब्।
सुवर्णरजतादौ वा पृथिव्यांस्थिण्डिलेपिवा ॥ ॥१,१८।३४च्द्।
स्वहस्ताल्लिखितं लिङ्गं शुद्धप्रणवमन्त्रकम् ॥ ॥१,१८।३५अब्।
यन्त्रलिङ्गं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ ॥१,१८।३५च्द्।
बिन्दुनादमयंलिङ्गंस्थावरञ्जङ्गमञ्चयत् ॥ ॥१,१८।३६अब्।
भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ ॥१,१८।३६च्द्।
यत्र विश्वस्यते शम्भुस्तत्र तस्मै फलप्रदः ॥ ॥१,१८।३७अब्।
स्वहस्ताल्लिख्यते यन्त्रे स्थावरादावकृत्रिमे ॥ ॥१,१८।३७च्द्।
आवाह्यपूजयेच्छम्भुंषोडशैरुपचारकैः ॥ ॥१,१८।३८अब्।
स्वयमैस्वर्यमाप्नोतिज्ञानमभ्यासतोभवेत् ॥ ॥१,१८।३८च्द्।
देवैश्च ऋषिभिश्चापिस्वात्मसिद्ध्यर्थमेवहि ॥ ॥१,१८।३९अब्।
समन्त्रेणात्महस्तेनकृतंयच्छुद्धमण्डले ॥ ॥१,१८।३९च्द्।
शुद्धभावनया चैवस्थापितं लिङ्गमुत्तमम् ॥ ॥१,१८।४०अब्।
तल्लिङ्गम्पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ ॥१,१८।४०च्द्।
तल्लिङ्गपूजयानित्यम्पौरुषैश्वर्यमाप्नुयात् ॥ ॥१,१८।४१अब्।
महद्भिर्ब्राह्मणैश्चापिराजभिश्चमहाधनैः ॥ ॥१,१८।४१च्द्।
शिल्पिनाकल्पितंलिङ्गम्मन्त्रेणस्थापितञ्चयत् ॥ ॥१,१८।४२अब्।
प्रतिष्ठितम्प्राकृतंहिप्राकृतैश्वर्यभोगदम् ॥ ॥१,१८।४२च्द्।
यदूर्जितञ्चनित्यं च तद्धि पौरुषमुच्यते ॥ ॥१,१८।४३अब्।
यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ ॥१,१८।४३च्द्।
लिङ्गन्नाभिस्तथाजिह्वानासाग्रञ्चशिखाक्रमात् ॥ ॥१,१८।४४अब्।
कट्यादिषुत्रिलोकेषु लिङ्गमाध्यात्मिकञ्चरम् ॥ ॥१,१८।४४च्द्।
पर्वतम्पौरुषं प्रोक्तम्भूतलं प्राकृतं विदुः ॥ ॥१,१८।४५अब्।
वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ ॥१,१८।४५च्द्।
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ॥ ॥१,१८।४६अब्।
ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ ॥१,१८।४६च्द्।
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ॥ ॥१,१८।४७अब्।
प्रथमं चरलिङ्गेषु रसलिङ्गं प्रकथ्यते ॥ ॥१,१८।४७च्द्।
रसलिङ्गम्ब्राह्मणानांसर्वाभीष्टप्रदम्भवेत् ॥ ॥१,१८।४८अब्।
बाणलिङ्गङ्क्षत्रियाणां महाराज्यप्रदंशुभम् ॥ ॥१,१८।४८च्द्।
स्वर्णलिङ्गं तु वैश्यानाम्महाधनपतित्वदम् ॥ ॥१,१८।४९अब्।
शिलालिङ्गन्तुशूद्राणाम्महाशुद्धिकरंशुभम् ॥ ॥१,१८।४९च्द्।
स्फाटिकम्बाणलिङ्गं च सर्वेषांसर्वकामदम् ॥ ॥१,१८।५०अब्।
स्वीयाभावे ऽन्यदीयन्तुपूजायान्ननिषिद्ध्यते ॥ ॥१,१८।५०च्द्।
स्त्रीणान्तुपार्थिवंलिङ्गंसभत्ःणांविशेषतः ॥ ॥१,१८।५१अब्।
विधवानाम्प्रवृत्तानांस्फाटिकं परिकीर्तितम् ॥ ॥१,१८।५१च्द्।
विधवानां निवृत्तानां रसलिङ्गं विशिष्यते ॥ ॥१,१८।५२अब्।
बाल्येवायौवनेवापिवार्धकेवापिसुव्रताः ॥ ॥१,१८।५२च्द्।
शुद्धस्फटिकलिङ्गन्तुस्त्रीणान्तत्सर्वभोगदम् ॥ ॥१,१८।५३अब्।
प्रवृत्तानाम्पीठपूजासर्वाभीष्टप्रदा भुवि ॥ ॥१,१८।५३च्द्।
पात्रेणैवप्रवृत्तस्तुसर्वपूजांसमाचरेत् ॥ ॥१,१८।५४अब्।
अभिषेकान्तेनैवेद्यंशाल्यन्नेनसमाचरेत् ॥ ॥१,१८।५४च्द्।
पूजान्तेस्थापयेल्लिङ्गंसम्पुटेषुपृथग्गृहे ॥ ॥१,१८।५५अब्।
करपूजानिवृत्तानांस्वभोज्यन्तुनिवेदयेत् ॥ ॥१,१८।५५च्द्।
निवृत्तानाम्परंसूक्ष्मलिङ्गमेवविशिष्यते ॥ ॥१,१८।५६अब्।
विभूत्यभ्यर्चनं कुर्याद्विभूतिञ्चनिवेदयेत् ॥ ॥१,१८।५६च्द्।
पूजाङ्कृत्वाथतल्लिङ्गंशिरसाधारयेत्सदा ॥ ॥१,१८।५७अब्।
विभूतिस्त्रिविधाप्रोक्तालोकवेदशिवाग्निभिः ॥ ॥१,१८।५७च्द्।
लोकाग्निजमथो भस्मद्रव्यशुद्ध्यर्थमावहेत् ॥ ॥१,१८।५८अब्।
मृद्दारुलोहरूपाणान्धान्यानाञ्चतथैवच ॥ ॥१,१८।५८च्द्।
तिलादीनां च द्रव्याणांवस्त्रादीनान्तथैव च ॥ ॥१,१८।५९अब्।
तथापर्युषितानाञ्चभस्मनाशिद्धिरिष्यते ॥ ॥१,१८।५९च्द्।
श्वादिभिर्दूषितानाञ्चभस्मनाशुद्धिरिष्यते ॥ ॥१,१८।६०अब्।
सजलन्निर्जलम्भस्म यथायोग्यं तु योजयेत् ॥ ॥१,१८।६०च्द्।
वेदाग्निजन्तथाभस्मतत्कर्मान्तेषु धारयेत् ॥ ॥१,१८।६१अब्।
मन्त्रेणक्रिययाजन्यङ्कर्माग्नौ भस्मरूपधृक् ॥ ॥१,१८।६१च्द्।
तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ॥ ॥१,१८।६२अब्।
अघोरेणात्मन्त्रेण बिल्वकाष्ठम्प्रदाहयेत् ॥ ॥१,१८।६२च्द्।
शिवाग्निरितिसम्प्रोक्तस्तेनदग्धंशिवाग्निजम् ॥ ॥१,१८।६३अब्।
कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ ॥१,१८।६३च्द्।
शम्यस्वत्थपलाशान्वावटारम्वधबिल्वकान् ॥ ॥१,१८।६४अब्।
शिवाग्निनादहेच्छुद्धन्तद्वैभस्म शिवाग्निजम् ॥ ॥१,१८।६४च्द्।
दर्भाग्नौ वादहेत्काष्ठंशिवमन्त्रंसमुच्चरन् ॥ ॥१,१८।६५अब्।
सम्यक्संशोध्यवस्त्रेणनवकुम्भेनिधापयेत् ॥ ॥१,१८।६५च्द्।
दीप्त्यर्थं तत्तु सङ्ग्राह्यं मन्यते पूज्यतेपि च ॥ ॥१,१८।६६अब्।
भस्मशब्दार्थ एवं हि शिवःपूर्वन्तथा ऽकरोत् ॥ ॥१,१८।६६च्द्।
यथास्वविषयेराजासारङ्गृह्णातियत्करम् ॥ ॥१,१८।६७अब्।
यथामनुष्याःसस्यादीन्दग्ध्वासारम्भजन्तिवै ॥ ॥१,१८।६७च्द्।
यथाहिजाठराग्निश्चभक्ष्यादीन्विविधान्बहून् ॥ ॥१,१८।६८अब्।
दग्ध्वासारतरंसारात्स्वदेहम्परिपुष्यति ॥ ॥१,१८।६८च्द्।
तथाप्रपञ्चकर्तापिसशिवःपरमेश्वरः ॥ ॥१,१८।६९अब्।
स्वाधिष्ठेयप्रपञ्चस्यदग्ध्वासारङ्गृहीतवान् ॥ ॥१,१८।६९च्द्।
दग्ध्वाप्रपञ्चन्तद्भस्मस्वात्मन्यारोपयच्छिवः ॥ ॥१,१८।७०अब्।
उद्धूलनेनव्याजेन जगत्सारं गृहीतवान् ॥ ॥१,१८।७०च्द्।
स्वरत्नंस्थापयामास स्वकीयेहिशरीरके ॥ ॥१,१८।७१अब्।
केशमाकाशसारेणवायुसारेणवैमुखम् ॥ ॥१,१८।७१च्द्।
हृदयञ्चाग्निसारेणत्वपांसारेणवैकटिम् ॥ ॥१,१८।७२अब्।
जानुचावनिसारेणतद्वत्सर्वं तदङ्गकम् ॥ ॥१,१८।७२च्द्।
ब्रह्मविष्ण्वोश्चरुद्राणांसारञ्चैवत्रिपुण्ड्रकम् ॥ ॥१,१८।७३अब्।
तथातिलकरूपेणललाटान्तेमहेश्वरः ॥ ॥१,१८।७३च्द्।
भवृद्ध्यासर्वमेतद्धिमन्यतेस्वयमैत्यसौ ॥ ॥१,१८।७४अब्।
प्रपञ्चसारसर्वस्वमनेनैववशीकृतम् ॥ ॥१,१८।७४च्द्।
तस्मादस्यवशीकर्तानास्तीतिसशिवःस्मृतः ॥ ॥१,१८।७५अब्।
यथासर्वमृगाणाञ्चहिंसकोमृगहिंसकः ॥ ॥१,१८।७५च्द्।
अस्यहिंसामृगोनास्तिततस्मात्सिम्ह इतीरितः ॥ ॥१,१८।७६अब्।
शं नित्यंसुखमानन्दमिकारः पुरुषः स्मृतः ॥ ॥१,१८।७६च्द्।
वकारः शक्तिरमृतम्मेलनंशिव उच्यते ॥ ॥१,१८।७७अब्।
तस्मादेवंस्वमात्मानं शिवङ्कृत्वार्चयेच्छिवम् ॥ ॥१,१८।७७च्द्।
तस्मादुद्धूलनम्पूर्वं त्रिपुण्ड्रन्धारयेत्परम् ॥ ॥१,१८।७८अब्।
पूजाकालेहिसजलंशुद्ध्यर्थन्निर्जलम्भवेत् ॥ ॥१,१८।७८च्द्।
दिवावा यदिवारात्रौनारीवाथनरोपिवा ॥ ॥१,१८।७९अब्।
पूजार्थंसजलम्भस्मत्रिपुण्ड्रेणैवधारयेत् ॥ ॥१,१८।७९च्द्।
त्रिपुण्ड्रंसजलम्भस्मधृत्वापूजाङ्करोतियः ॥ ॥१,१८।८०अब्।
शिवपूजाम्फलंसाङ्गन्तस्यैवहिसुनिश्चितम् ॥ ॥१,१८।८०च्द्।
भस्मवैशिवमन्त्रेणधृत्वाह्यत्याश्रमीभवेत् ॥ ॥१,१८।८१अब्।
शिवाश्रमीतिसम्प्रोक्तः शिवैकपरमोयतः ॥ ॥१,१८।८१च्द्।
शिवव्रतैकनिष्ठस्यनाशौचन्नचसूतकम् ॥ ॥१,१८।८२अब्।
ललाटे ऽग्रेसितम्भस्मतिलकन्धारयेन्मृदा ॥ ॥१,१८।८२च्द्।
स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्यलक्षणम् ॥ ॥१,१८।८३अब्।
गुणान्रुन्ध इति प्रोक्तोगुरुशब्दस्यविग्रहः ॥ ॥१,१८।८३च्द्।
सविकारान्राजसादीन्गुणान्रुन्धेव्यपोहति ॥ ॥१,१८।८४अब्।
गुणातीतः परशिवोगुरुरूपंसमाश्रितः ॥ ॥१,१८।८४च्द्।
गुणत्रयंव्यपोह्याग्रेशिवम्बोधयतीतिसः ॥ ॥१,१८।८५अब्।
विश्वस्तानान्तुशिष्याणाङ्गुरुरित्यभिधीयते ॥ ॥१,१८।८५च्द्।
तस्माद्गुरुशरीरन्तुगुरुलिङ्गम्भवेद्बुधः ॥ ॥१,१८।८६अब्।
गुरुलिङ्गस्यपूजातुगुरुशुश्रूषणं भवेत् ॥ ॥१,१८।८६च्द्।
श्रुतङ्करोतिशुश्रूषाकायेनमनसागिरा ॥ ॥१,१८।८७अब्।
उक्तं यद्गुरुणापूर्वं शक्यंवा ऽशक्यमेववा ॥ ॥१,१८।८७च्द्।
करोत्येवहिपूतात्माप्राणैरपिधनैरपि ॥ ॥१,१८।८८अब्।
तस्माद्वैशासनेयोग्यः शिष्य इत्यभिधीयते ॥ ॥१,१८।८८च्द्।
शरीराद्यर्थकंसर्वङ्गुरोर्दत्त्वासुशिष्यकः ॥ ॥१,१८।८९अब्।
अग्रपाकन्निवेद्याग्रेभुञ्जीयाद्गुर्वनुज्ञया ॥ ॥१,१८।८९च्द्।
शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ॥ ॥१,१८।९०अब्।
जिह्वालिङ्गान्मन्त्रशुक्रङ्कर्णयोनौनिषिच्यवै ॥ ॥१,१८।९०च्द्।
जातःपुत्रोमन्त्रपुत्रःपितरम्पूजयेद्गुरुम् ॥ ॥१,१८।९१अब्।
निमज्जयतिपुत्रंवैसंसारेजनकःपिता ॥ ॥१,१८।९१च्द्।
सन्तारयतिसंसाराद्गुरुर्वैबोधकः पिता ॥ ॥१,१८।९२अब्।
उभयोरन्तरञ्ज्ञात्वापितरङ्गुरुमर्चयेत् ॥ ॥१,१८।९२च्द्।
अङ्गशुश्रूषयाचापि धनाद्यैः स्वार्जितैर्गुरुम् ॥ ॥१,१८।९३अब्।
पादादिकेशपर्यन्तंलिङ्गान्यङ्गानियद्गुरोः ॥ ॥१,१८।९३च्द्।
धनरूपैः पादुकाद्यैः पादसङ्ग्रणादिभिः ॥ ॥१,१८।९४अब्।
स्नानाभिषेकनैवेद्यैर्भोजनैश्चप्रपूजयेत् ॥ ॥१,१८।९४च्द्।
गुरुपूजैवपूजास्याच्छिवस्यपरमात्मनः ॥ ॥१,१८।९५अब्।
गुरुशेषन्तुयत्सर्वमात्मशुद्धिकरम्भवेत् ॥ ॥१,१८।९५च्द्।
गुरोःशेषःशिवोच्छिष्टञ्जलमन्नादिनिर्मितम् ॥ ॥१,१८।९६अब्।
शिष्याणांशिवभक्तानाङ्ग्राह्यम्भोज्यम्भवेद्द्विजाः ॥ ॥१,१८।९६च्द्।
गुर्वनुज्ञाविरहितञ्चोरवत्सकलम्भवेत् ॥ ॥१,१८।९७अब्।
गुरोरपिविशेषज्ञंयत्नाद्गृह्णीतवैगुरुम् ॥ ॥१,१८।९७च्द्।
अज्ञानमोचनंसाध्यंविशेषज्ञोहिमोचकः ॥ ॥१,१८।९८अब्।
आदौचविघ्नशमनङ्कर्तव्यङ्कर्मपूर्तये ॥ ॥१,१८।९८च्द्।
निर्विघ्नेनकृतंसाङ्गङ्कर्मवैसफलं भवेत् ॥ ॥१,१८।९९अब्।
तस्मात्सकलकर्मादौविघ्नेशं पूजयेद् बुधः ॥ ॥१,१८।९९च्द्।
सर्वबाधानिवृत्त्यर्थंसर्वान्देवान्यजेद्बुधः ॥ ॥१,१८।१००अब्।
ज्वरादिग्रन्थिरोगाश्चबाधाह्याध्यात्मिकामता ॥ ॥१,१८।१००च्द्।
पिशाचजम्बुकादीनांवल्मीकाद्युद्भवेतथा ॥ ॥१,१८।१०१अब्।
अकस्मादेवगोधादिजन्तूनाम्पतनेपिच ॥ ॥१,१८।१०१च्द्।
गृहेकच्छपसर्पस्त्रीदुर्जनादर्शनेपिच ॥ ॥१,१८।१०२अब्।
वृक्षनारीगवादीनाम्प्रसूतिविषयेपिच ॥ ॥१,१८।१०२च्द्।
भाविदुःखंसमायातितस्मात्तेभौतिकामता ॥ ॥१,१८।१०३अब्।
अमेध्या शनिपातश्चमहामारीतथैवच ॥ ॥१,१८।१०३च्द्।
ज्वरमारीविषूचिश्चगोमारीचमसूरिका ॥ ॥१,१८।१०४अब्।
जन्मर्क्षग्रहसङ्क्रान्तिग्रहयोगास्वराशिके ॥ ॥१,१८।१०४च्द्।
दुःस्वप्नदर्शनाद्याश्चमतावैह्यधिदैविकाः ॥ ॥१,१८।१०५अब्।
शवचाण्डालपतितस्पर्शाद्येन्तर्गृहेगते ॥ ॥१,१८।१०५च्द्।
एतादृशेसमुत्पन्नेभाविदुःखस्यसूचके ॥ ॥१,१८।१०६अब्।
शान्तियज्ञन्तुमतिमान्कुर्यात्तद्दोषशान्तये ॥ ॥१,१८।१०६च्द्।
देवालये ऽथगोष्ठेवाचैत्येवापिगृहाङ्गणे ॥ ॥१,१८।१०७अब्।
प्रादेशोन्नतधिष्ण्येवैद्विहस्तेयस्वलङ्कृते ॥ ॥१,१८।१०७च्द्।
भारमात्रव्रीहिधान्यम्प्रस्थाप्यपरिसृत्यच ॥ ॥१,१८।१०८अब्।
मध्येविलिख्यकमलन्तथादिक्षुविलिख्यवै ॥ ॥१,१८।१०८च्द्।
तन्तुनावेष्टितङ्कुम्भं नवगुग्गुलधूपितम् ॥ ॥१,१८।१०९अब्।
मध्येस्थाप्यमहाकुम्भन्तथादिक्ष्वपिविन्यसेत् ॥ ॥१,१८।१०९च्द्।
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ॥ ॥१,१८।११०अब्।
पूरयेन्मन्त्रपूतेनपञ्चद्रव्ययुतेनहि ॥ ॥१,१८।११०च्द्।
प्रक्षिपेन्नवरत्नानिनीलादीन्क्रमशस्तथा ॥ ॥१,१८।१११अब्।
कर्मज्ञञ्चसपत्नीकमाचार्यंवरयेद्बुधः ॥ ॥१,१८।१११च्द्।
सुवर्णप्रतिमां विष्णोरिन्द्रादीनाञ्च निक्षिपेत् ॥ ॥१,१८।११२अब्।
सशिरस्केमध्यकुम्भेविष्णुमाबाह्यपूजयेत् ॥ ॥१,१८।११२च्द्।
प्रागादिषुयथामन्त्रमिन्द्रादीन्क्रमशोयजेत् ॥ ॥१,१८।११३अब्।
तत्तन्नाम्नाचतुर्थ्याञ्चनमोन्ते नयथाक्रमम् ॥ ॥१,१८।११३च्द्।
आवाहनादिकंसर्वमाचार्येणैवकारयेत् ॥ ॥१,१८।११४अब्।
आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ ॥१,१८।११४च्द्।
कुम्भस्य पश्चिमे भागेजपान्तेहोममाचरेत् ॥ ॥१,१८।११५अब्।
कोटिंलक्षंसहस्रंवाशतमष्टोत्तरं बुधाः ॥ ॥१,१८।११५च्द्।
एकाहंवानवाहंवातथामण्डलमेव वा ॥ ॥१,१८।११६अब्।
यथायोग्यम्प्रकुर्वीतकालदेशानुसारतः ॥ ॥१,१८।११६च्द्।
शमीहोमश्च शान्त्यर्थे वृत्त्यर्थेचपलाशकम् ॥ ॥१,१८।११७अब्।
समिदन्नाज्यकैर्द्रव्यैर्नाम्नामन्त्रेण वा हुनेत् ॥ ॥१,१८।११७च्द्।
प्रारम्भेयत्कृतन्द्रव्यन्तत्क्रियान्तंसमाचरेत् ॥ ॥१,१८।११८अब्।
पुण्याहंवाचयित्वान्ते दिनेसम्प्रोक्ष्ययेज्जलैः ॥ ॥१,१८।११८च्द्।
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसङ्ख्यया ॥ ॥१,१८।११९अब्।
आचार्यश्चहविष्याशीत्विजश्चभवेद्बुधाः ॥ ॥१,१८।११९च्द्।
आदित्यादीन्ग्रहानिष्ट्वासर्वहोमान्त एवहि ॥ ॥१,१८।१२०अब्।
ऋत्विभ्योदक्षिणान्दद्यान्नवरत्नंयथा क्रमम् ॥ ॥१,१८।१२०च्द्।
दशदानन्ततःकुर्याद्भूरिदानन्ततः परम् ॥ ॥१,१८।१२१अब्।
बालानामुपनीतानाङ्गृहिणांवनिनान्धनम् ॥ ॥१,१८।१२१च्द्।
कन्यानाञ्चसभर्त्ःणांविधवानान्ततःपरम् ॥ ॥१,१८।१२२अब्।
तन्त्रोपकरणंसर्वमाचार्यायनिवेदयेत् ॥ ॥१,१८।१२२च्द्।
उत्पातानाञ्चमारीणान्दुःखस्वामीयमःस्मृतः ॥ ॥१,१८।१२३अब्।
तस्माद्यमस्यप्रीत्यर्थङ्कालदानम्प्रदापयेत् ॥ ॥१,१८।१२३च्द्।
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ॥ ॥१,१८।१२४अब्।
पाशाङ्कुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ ॥१,१८।१२४च्द्।
तत्स्वर्णप्रतिमादानङ्कुर्याद्दक्षिणयासह ॥ ॥१,१८।१२५अब्।
तिलदानन्ततःकुर्यात्पूर्णायुष्यप्रसिद्धये ॥ ॥१,१८।१२५च्द्।
आज्यावेक्षणदानञ्चकुर्याद्व्याधिनिवृत्तये ॥ ॥१,१८।१२६अब्।
सहस्रम्भोजयेद्विप्रान्दरिद्रःशतमेववा ॥ ॥१,१८।१२६च्द्।
वित्ताभावेदरिद्रस्तुयथाशक्तिसमाचरेत् ॥ ॥१,१८।१२७अब्।
भैरवस्यमहापूजाङ्कुर्याद्भूतादिशान्तये ॥ ॥१,१८।१२७च्द्।
महाभिषेकन्नैवेद्यंशिवस्यान्तेतुकारयेत् ॥ ॥१,१८।१२८अब्।
ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥ ॥१,१८।१२८च्द्।
एवङ्कृतेनयज्ञेनदोषशान्तिमवाप्नुयात् ॥ ॥१,१८।१२९अब्।
शान्तियज्ञमिमङ्कुर्याद्वर्षेवर्षेतुफाल्गुने ॥ ॥१,१८।१२९च्द्।
दुर्दर्शनादौ सद्यो वै मासमात्रेसमाचरेत् ॥ ॥१,१८।१३०अब्।
महापापादिसम्प्राप्तौ कुर्याद्भैरवपूजनम् ॥ ॥१,१८।१३०च्द्।
महाव्याधिसमुत्पत्तौसङ्कल्पम्पुनराचरेत् ॥ ॥१,१८।१३१अब्।
सर्वभावे दरिद्रस्तु दीपदानमथाचरेत् ॥ ॥१,१८।१३१च्द्।
तदप्यशक्तः स्नात्वावैयत्किञ्चिद्दानमाचरेत् ॥ ॥१,१८।१३२अब्।
दिवाकरन्नमस्कुर्यान्मन्त्रेणाष्टोत्तरंशतम् ॥ ॥१,१८।१३२च्द्।
सहस्रमयुतंलक्षङ्कोटिंवाकारयेद् बुधः ॥ ॥१,१८।१३३अब्।
नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ ॥१,१८।१३३च्द्।
त्वत्स्वरूपेर्पिताबुद्धिर्नते ऽशून्ये च रोचति ॥ ॥१,१८।१३४अब्।
या चास्त्यस्मदहन्तेति त्वयिदृष्टे विवर्जिता ॥ ॥१,१८।१३४च्द्।
नम्रो ऽहंहिस्वदेहेनभोमहांस्त्वमसिप्रभो ॥ ॥१,१८।१३५अब्।
नशून्योमत्स्वरूपोवैतवदासो ऽस्मिसाम्प्रतम् ॥ ॥१,१८।१३५च्द्।
यथायोग्यंस्वात्मयज्ञन्नमस्कारम्प्रकल्पयेत् ॥ ॥१,१८।१३६अब्।
अथात्रशिवनैवेद्यन्दत्त्वाताम्बूलमाहरेत् ॥ ॥१,१८।१३६च्द्।
शिवप्रदक्षिणङ्कुर्यात्स्वयमष्टोत्तरं शतम् ॥ ॥१,१८।१३७अब्।
सहस्रमयुतंलक्षं कोटिमन्येन कारयेत् ॥ ॥१,१८।१३७च्द्।
शिवप्रदक्षिणात्सर्वम्पातकन्नश्यतिक्षणात् ॥ ॥१,१८।१३८अब्।
दुःखस्यमूलंव्याधिर्हिव्याधेर्मूलंहिपातकम् ॥ ॥१,१८।१३८च्द्।
धर्मेणैवहिपापानामपनोदनमीरितम् ॥ ॥१,१८।१३९अब्।
शिवोद्देशकृतोधर्मःक्षमःपापविनोदने ॥ ॥१,१८।१३९च्द्।
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ॥ ॥१,१८।१४०अब्।
क्रियया जपरूपंहिप्रणवन्तुप्रदक्षिणम् ॥ ॥१,१८।१४०च्द्।
जननम्मरणन्द्वन्द्वम्मायाचक्रमितीरितम् ॥ ॥१,१८।१४१अब्।
शिवस्यमायाचक्रंहिबलिपीठन्तदुच्यते ॥ ॥१,१८।१४१च्द्।
बलिपीठंसमारभ्यप्रादक्षिण्यक्रमेणवै ॥ ॥१,१८।१४२अब्।
पदेपदान्तरङ्गत्वाबलिपीठं समाविशेत् ॥ ॥१,१८।१४२च्द्।
नमस्कारन्ततः कुर्यात्प्रदक्षिणमितीरितम् ॥ ॥१,१८।१४३अब्।
निर्गमाज्जननम्प्राप्तन्नमस्त्वात्मसमर्पणम् ॥ ॥१,१८।१४३च्द्।
जननं मरणं द्वन्द्वं शिवमायासमर्पितम् ॥ ॥१,१८।१४४अब्।
शिवमायार्पितद्वन्द्वो न पुनस्त्वात्मभाग्भवेत् ॥ ॥१,१८।१४४च्द्।
यावद्देहङ्क्रियाधीनःसजीवोबद्ध उच्यते ॥ ॥१,१८।१४५अब्।
देहत्रयवशीकारेमोक्ष इत्युच्यते बुधैः ॥ ॥१,१८।१४५च्द्।
मायाचक्रप्रणेताहिशिवः परमकारणम् ॥ ॥१,१८।१४६अब्।
शिवमायार्पितद्वन्द्वंशिवस्तुपरिमार्जति ॥ ॥१,१८।१४६च्द्।
शिवेनकल्पितन्द्वन्द्वन्तस्मिन्नेव समर्पयेत् ॥ ॥१,१८।१४७अब्।
शिवस्यातिप्रियंविद्यात्प्रदक्षिणन्नमोबुधाः ॥ ॥१,१८।१४७च्द्।
प्रदक्षिणनमस्काराः शिवस्यपरमात्मनः ॥ ॥१,१८।१४८अब्।
षोडशैरुपचारैश्चकृतपूजाफलप्रदा ॥ ॥१,१८।१४८च्द्।
प्रदक्षिणा ऽविनाश्यंहि पातकन्नास्ति भूतले ॥ ॥१,१८।१४९अब्।
तस्मात्प्रदक्षिणेनैवसर्वपापंविनाशयेत् ॥ ॥१,१८।१४९च्द्।
शिवपूजापरोमौनीसत्यादिगुणसंयुतः ॥ ॥१,१८।१५०अब्।
क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ ॥१,१८।१५०च्द्।
ऐश्वर्यन्दिव्यदेहश्चज्ञानमज्ञानसंशयः ॥ ॥१,१८।१५१अब्।
शिवसान्निध्यमित्येतेक्रियादीनाम्फलम्भवेत् ॥ ॥१,१८।१५१च्द्।
करणेनफलंयातितमसः परिहापनात् ॥ ॥१,१८।१५२अब्।
जन्मनःपरिमार्जित्वाज्ज्ञबुद्ध्याजनितानिच ॥ ॥१,१८।१५२च्द्।
यथादेशं यथाकालं यथादेहं यथाधनम् ॥ ॥१,१८।१५३अब्।
यथायोग्यम्प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥ ॥१,१८।१५३च्द्।
न्यायार्जितसुवित्तेनवसेत्प्राज्ञः शिवस्थले ॥ ॥१,१८।१५४अब्।
जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ ॥१,१८।१५४च्द्।
पञ्चाक्षरेणजप्तञ्चतोयमन्नंविदुः सुखम् ॥ ॥१,१८।१५५अब्।
अथवा ऽहुर्दरिद्रस्यभिक्षान्नञ्ज्ञानदम्भवेत् ॥ ॥१,१८।१५५च्द्।
शिवभक्तस्यभिक्षान्नंशिवभक्तिविवर्धनम् ॥ ॥१,१८।१५६अब्।
शम्भुसत्रमितिप्राहुर्भिक्षान्नंशिवयोगिनः ॥ ॥१,१८।१५६च्द्।
येनकेनाप्युपायेनयत्रकुत्रापिभूतले ॥ ॥१,१८।१५७अब्।
शुद्धान्नभुक्सदामौनीरहस्यं न प्रकाशयेत् ॥ ॥१,१८।१५७च्द्।
प्रकाशयेत्तुभक्तानांशिवमाहात्म्यमेवहि ॥ ॥१,१८।१५८अब्।
रहस्यंशिवमन्त्रस्यशिवोजानातिनापरः ॥ ॥१,१८।१५८च्द्।
शिवभक्तोवसेन्नित्यंशिवलिङ्गंसमाश्रितः ॥ ॥१,१८।१५९अब्।
स्थाणुलिङ्गाश्रयेणैवस्थाणुर्भवतिभूसुराः ॥ ॥१,१८।१५९च्द्।
पूजयाचरलिङ्गस्यक्रमान्मुक्तोभवेद्ध्रुवम् ॥ ॥१,१८।१६०अब्।
सर्वमुक्तंसमासेनसाध्यसाधनमुत्तमम् ॥ ॥१,१८।१६०च्द्।
व्यासेनयत्पुराप्रोक्तंयच्छ्रुतंहिमयापुरा ॥ ॥१,१८।१६१अब्।
भद्रमस्तुहिवो ऽस्माकं शिवभक्तिर्दृढा ऽस्तुसा ॥ ॥१,१८।१६१च्द्।
य इमम्पठते ऽध्यायं यः शृणोति नरः सदा ॥ ॥१,१८।१६२अब्।
शिवज्ञानंसलभतेशिवस्यकृपयाबुधाः ॥ ॥१,१८।१६२च्द्।
इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवलिङ्गमहिमावर्णनं नामाष्टादशो ऽध्यायः