ऋषय ऊचुः
प्रणवस्यचमाहात्म्यंषड्लिङ्गस्यमहामुने ॥ ॥१,१७।१अब्।
शिवभक्तस्यपूजाञ्चक्रमशोब्रूहिनःप्रभो ॥ ॥१,१७।१च्द्।
सूत उवाच
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः ॥ ॥१,१७।२अब्।
अस्योत्तरम्महादेवोजानातिस्मनचापरः ॥ ॥१,१७।२च्द्।
अथापिवक्ष्येतमहंशिवस्यकृपयैवहि ॥ ॥१,१७।३अब्।
शिवो ऽस्माकञ्चयुष्माकंरक्षाङ्गृह्णातुभूरिशः ॥ ॥१,१७।३च्द्।
प्रोहिप्रकृतिजातस्यसंसारस्यमहोदधेः ॥ ॥१,१७।४अब्।
नवं नावान्तरमिति प्रणवं वै विदुर्बुधाः ॥ ॥१,१७।४च्द्।
प्रःप्रपञ्चोननास्तिवो युष्माकम्प्रणवंविदुः ॥ ॥१,१७।५अब्।
प्रकर्षेणनयेद्यस्मान्मोक्षंवः प्रणवं विदुः ॥ ॥१,१७।५च्द्।
स्वजापकानांयोगिनांस्वमन्त्रपूजकस्यच ॥ ॥१,१७।६अब्।
सर्वकर्मक्षयङ्कृत्वादिव्यज्ञानन्तुनूतनम् ॥ ॥१,१७।६च्द्।
तमेव मायारहितं नूतनं परिचक्षते ॥ ॥१,१७।७अब्।
प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ ॥१,१७।७च्द्।
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ॥ ॥१,१७।८अब्।
प्रणवन्द्विविधम्प्रोक्तंसूक्ष्मस्थूलविभेदतः ॥ ॥१,१७।८च्द्।
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः ॥ ॥१,१७।९अब्।
सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत् ॥ ॥१,१७।९च्द्।
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्यहि ॥ ॥१,१७।१०अब्।
मन्त्रेणार्थानुसन्धानं स्वदेहविलयावधि ॥ ॥१,१७।१०च्द्।
स्वदेहेगलितेपूर्णंशिवम्प्राप्नोतिनिश्चयः ॥ ॥१,१७।११अब्।
केवलम्मन्त्रजापीतुयोगम्प्राप्नोतिनिश्चयः ॥ ॥१,१७।११च्द्।
षट्त्रिंशत्कोटिजापीतुनिश्चयंयोगमाप्नुयात् ॥ ॥१,१७।१२अब्।
सूक्ष्मञ्चद्विविधञ्ज्ञेयंह्रस्वदीर्घविभेदतः ॥ ॥१,१७।१२च्द्।
अकारश्च उकारश्चमकारश्चततःपरम् ॥ ॥१,१७।१३अब्।
बिन्दुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ ॥१,१७।१३च्द्।
दीर्घप्रणवमेवंहियोगिनामेवहृद्गतम् ॥ ॥१,१७।१४अब्।
मकारन्तन्त्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ ॥१,१७।१४च्द्।
शिवःशक्तिस्तयोरैक्यम्मकारन्तुत्रिकात्मकम् ॥ ॥१,१७।१५अब्।
ह्रस्वमेवंहिजाप्यंस्यात्सर्वपापक्षयैषिणाम् ॥ ॥१,१७।१५च्द्।
भूवायुकनकार्णोद्योःशब्दाद्याश्चतथादश ॥ ॥१,१७।१६अब्।
आशान्वयेदशपुनः प्रवृत्ता इतिकथ्यते ॥ ॥१,१७।१६च्द्।
ह्रस्वमेवप्रवृत्तानान्निवृत्तानान्तुदीर्घकम् ॥ ॥१,१७।१७अब्।
व्याहृत्यादौचमन्त्रादौकामंशब्दकलायुतम् ॥ ॥१,१७।१७च्द्।
वेदादौचप्रयोज्यंस्याद्वन्दनेसन्ध्ययोरपि ॥ ॥१,१७।१८अब्।
नवकौटिजपाञ्जप्त्वासंशुद्धःपुरुषोभवेत् ॥ ॥१,१७।१८च्द्।
पुनश्चनवकोट्यातुपृथिवीजयमाप्नुयात् ॥ ॥१,१७।१९अब्।
पुनश्चनवकोट्यातुह्यपाञ्जयमवाप्नुयात् ॥ ॥१,१७।१९च्द्।
पुनश्चनवकोट्यातुतेजसाञ्जयमाप्नुयात् ॥ ॥१,१७।२०अब्।
पुनश्चनवकोट्या तु वायोर्जयमवाप्नुयात् ॥ ॥१,१७।२०च्द्।
आकाशजयमाप्नोति नवकोटिजपेन वै ॥ ॥१,१७।२०एफ़्।
गन्धादीनाङ्क्रमेणैवनवकोटिजपेणवै ॥ ॥१,१७।२१अब्।
अहङ्कारस्य च पुनर्नव कोटिजपेन वै ॥ ॥१,१७।२१च्द्।
सहस्रमन्त्रजप्तेन नित्यशुद्धो भवेत्पुमान् ॥ ॥१,१७।२२अब्।
ततः परंस्वसिद्ध्यर्थञ्जपोभवतिहिद्विजाः ॥ ॥१,१७।२२च्द्।
एवमष्टोत्तरशतकोटिजप्तेनवैपुनः ॥ ॥१,१७।२३अब्।
प्रणवेनप्रबुद्धस्तुशुद्धयोगमवाप्नुयात् ॥ ॥१,१७।२३च्द्।
शुद्धयोगेनसंयुक्तोजीवन्मुक्तोनसंशयः ॥ ॥१,१७।२४अब्।
सदाजपन्सदाध्यायञ्छिवं प्रणवरूपिणम् ॥ ॥१,१७।२४च्द्।
समाधिस्थोमहायोगीशिव एव नसंशयः ॥ ॥१,१७।२५अब्।
ऋषिच्छन्दोदेवतादिन्यस्यदेहेपुनर्जपेत् ॥ ॥१,१७।२५च्द्।
प्रणवं मातृकायुक्तन्देहेत्यस्य ऋषिर्भवेत् ॥ ॥१,१७।२६अब्।
दशमातृषडध्वादि सर्वन्न्यासफलं लभेत् ॥ ॥१,१७।२६च्द्।
प्रवृत्तानां चमिश्राणांस्थूलप्रणवमिष्यते ॥ ॥१,१७।२७अब्।
क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ ॥१,१७।२७च्द्।
धनादिविभवैश्चैवकराद्यङ्गैर्नमादिभिः ॥ ॥१,१७।२८अब्।
क्रियया पूजयायुक्तःक्रियायोगीति कथ्यते ॥ ॥१,१७।२८च्द्।
पूजायुक्तश्चमितभुग्बाह्यन्द्रियजयान्वितः ॥ ॥१,१७।२९अब्।
परद्रोहादिरहितस्तपोयोगीति कथ्यते ॥ ॥१,१७।२९च्द्।
एतैर्युक्तःसदाक्रुद्धःसर्वकामादिवर्जितः ॥ ॥१,१७।३०अब्।
सदाजपपरःशान्तोजपयोगीति तंविदुः ॥ ॥१,१७।३०च्द्।
उपचारैः षोडशभिः पूजया शिवयोगिनाम् ॥ ॥१,१७।३१अब्।
सालोक्यादिक्रमेणैवशुद्धोमुक्तिंलभेन्नरः ॥ ॥१,१७।३१च्द्।
जपयोगमथोवक्ष्येगदतः शृणुतद्विजाः ॥ ॥१,१७।३२अब्।
तपःकर्तुर्जपः प्रोक्तोयज्जमन्परिमार्जते ॥ ॥१,१७।३२च्द्।
शिवनामनमःपूर्वञ्चतुर्थ्याम्पञ्चतत्त्वकम् ॥ ॥१,१७।३३अब्।
स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः ॥ ॥१,१७।३३च्द्।
पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ॥ ॥१,१७।३४अब्।
प्रणवेनादिसंयुक्तंसदापञ्चाक्षरञ्जपेत् ॥ ॥१,१७।३४च्द्।
गुरूपदेशंसङ्गम्यसुखवासेसुभूतले ॥ ॥१,१७।३५अब्।
पूर्वपक्षेसमारभ्यकृष्णभूतावधिद्विजाः ॥ ॥१,१७।३५च्द्।
माघम्भाद्रंविशिष्टन्तुसर्वकालोत्तमोत्तमम् ॥ ॥१,१७।३६अब्।
एकवारम्मिताशीतुवाग्यतोनियतेन्द्रियः ॥ ॥१,१७।३६च्द्।
स्वस्यराजपित्ःणाञ्चशुश्रूषणञ्चनित्यशः ॥ ॥१,१७।३७अब्।
सहस्रजपमात्रेणभवेच्छुद्धो ऽन्यथा ऋणी ॥ ॥१,१७।३७च्द्।
पञ्चाक्षरम्पञ्चलक्षञ्जपेच्छिवमनुस्मरन् ॥ ॥१,१७।३८अब्।
पद्मासनस्थंशिवदङ्गङ्गाचन्द्रकलान्वितम् ॥ ॥१,१७।३८च्द्।
वामोरुस्थितशक्त्याचविराजन्तम्महागणैः ॥ ॥१,१७।३९अब्।
मृगटङ्कधरन्देवंवरदाभयपाणिकम् ॥ ॥१,१७।३९च्द्।
सदानुग्रहकर्तारं सदाशिवमनुस्मरन् ॥ ॥१,१७।४०अब्।
सम्पूज्यमनसा पूर्वंहृदिवासूर्यमण्डले ॥ ॥१,१७।४०च्द्।
जपेत्पञ्चाक्षरींविद्याम्प्राङ्मुखः शुद्धकर्मकृत् ॥ ॥१,१७।४१अब्।
प्रातःकृष्णचतुर्दश्यां नित्यकर्मसमाप्यच ॥ ॥१,१७।४१च्द्।
मनोरमेशुचौदेशेनियतः शुद्धमानसः ॥ ॥१,१७।४२अब्।
पञ्चाक्षरस्यमन्त्रस्य सहस्रन्द्वादशञ्जपेत् ॥ ॥१,१७।४२च्द्।
वरयेच्चसपत्नीकाञ्छैवान्वैब्राह्मणोत्तमान् ॥ ॥१,१७।४३अब्।
एकङ्गुरुवरंशिष्टंवरयेत्साम्बमूर्तिकम् ॥ ॥१,१७।४३च्द्।
ईशानञ्चाथपुरुषमघोरंवाममेव च ॥ ॥१,१७।४४अब्।
सद्योजातं चपञ्चैवशिवभक्तान्द्विजोत्तमान् ॥ ॥१,१७।४४च्द्।
पूजाद्रव्याणिसम्पाद्यशिवपूजांसमारभेत् ॥ ॥१,१७।४५अब्।
शिवपूजाञ्चविधिवत्कृत्वाहोमंसमारभेत् ॥ ॥१,१७।४५च्द्।
मुखान्तं च स्वसूत्रेणकृत्याहोमंसमारभेत् ॥ ॥१,१७।४६अब्।
दशैकंवाशतैकंवासहस्रैकमथापिवा ॥ ॥१,१७।४६च्द्।
कापिलेनघृतेनैवजुहुयात्स्वयमेवहि ॥ ॥१,१७।४७अब्।
कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतम्बुधः ॥ ॥१,१७।४७च्द्।
होमान्ते दक्षिणादेयागुरोर्गोमिथुनं तथा ॥ ॥१,१७।४८अब्।
ईशानादिस्वरूपांस्तान्गुरुंसाम्बंविभाव्य च ॥ ॥१,१७।४८च्द्।
तेषां पत्सिक्ततोयेनस्वशिरः स्नानमाचरेत् ॥ ॥१,१७।४९अब्।
षट्त्रिंशत्कोटितीर्थेषुसद्यःस्नानफलंलभेत् ॥ ॥१,१७।४९च्द्।
दशाङ्गमन्नन्तेषां वैदद्याद्वैभक्तिपूर्वकम् ॥ ॥१,१७।५०अब्।
पराबुद्ध्यागुरोः पत्नीमीशानादिक्रमेण तु ॥ ॥१,१७।५०च्द्।
परमान्नेनसम्पूज्ययथाविभवविस्तरम् ॥ ॥१,१७।५१अब्।
रुद्राक्षवस्त्रपूर्वञ्चवटकापूपकैर्युतम् ॥ ॥१,१७।५१च्द्।
बलिदानन्ततः कृत्वाभूरिभोजनमाचरेत् ॥ ॥१,१७।५२अब्।
ततः सम्प्रार्थ्यदेवेशञ्जपन्तावत्समापयेत् ॥ ॥१,१७।५२च्द्।
पुरश्चरणमेवन्तुकृत्वामन्त्रीभवेन्नरः ॥ ॥१,१७।५३अब्।
पुनश्चपञ्च लक्षेणसर्वपापक्षयोभवेत् ॥ ॥१,१७।५३च्द्।
अतलादिसमारभ्यसत्यलोकावधिक्रमात् ॥ ॥१,१७।५४अब्।
पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ ॥१,१७।५४च्द्।
मध्येमृतश्चेद्भोगान्तेभूमौतज्जापकोभवेत् ॥ ॥१,१७।५५अब्।
पुनश्चपञ्चलक्षेणब्रह्मसामीप्यमाप्नुयात् ॥ ॥१,१७।५५च्द्।
पुनश्चपञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् ॥ ॥१,१७।५६अब्।
आहत्यशतलक्षेणसाक्षाद्ब्रह्मसमोभवेत् ॥ ॥१,१७।५६च्द्।
कार्यब्रह्मण एवं हि सायुज्यम्प्रतिपद्य वै ॥ ॥१,१७।५७अब्।
यथेष्टम्भोगमाप्नोतितद्ब्रह्मप्रलयावधि ॥ ॥१,१७।५७च्द्।
पुनः कल्पान्तरेवृत्ते ब्रह्मपुत्रः सजायते ॥ ॥१,१७।५८अब्।
पुनश्चतपसादीप्तःक्रमान्मुक्तोभविष्यति ॥ ॥१,१७।५८च्द्।
पृथ्व्यादिकार्यभूतेभ्योलोकावैनिर्मिताःक्रमात् ॥ ॥१,१७।५९अब्।
पातालादि च सत्यान्तम्ब्रह्मलोकाश्चतुर्दश ॥ ॥१,१७।५९च्द्।
सत्यादूर्ध्वङ्क्षमान्तंवैविष्णुलोकाश्चतुर्दश ॥ ॥१,१७।६०अब्।
क्षमलोकेकार्यविष्णुर्वैकुण्ठेवरपत्तने ॥ ॥१,१७।६०च्द्।
कार्यलक्ष्म्यामहाभोगिरक्षाङ्कृत्वा ऽधितिष्ठति ॥ ॥१,१७।६१अब्।
तदूर्ध्वगाश्चाशुच्यन्तालोकाष्टाविंशतिः स्थिताः ॥ ॥१,१७।६१च्द्।
शुचौलोकेतुकैलासेरुद्रोवैभूतहृत्स्थितः ॥ ॥१,१७।६२अब्।
षडुत्तराश्चपञ्चाशदहिंसान्तास्तदूर्ध्वगाः ॥ ॥१,१७।६२च्द्।
अहिंसालोकमास्थायज्ञानकैलासकेपुरे ॥ ॥१,१७।६३अब्।
कार्येश्वरस्तिरोभावंसर्वान्कृत्वाधितिष्ठति ॥ ॥१,१७।६३च्द्।
तदन्तेकालचक्रंहिकालातीतस्ततःपरम् ॥ ॥१,१७।६४अब्।
शिवेनाधिष्ठितस्तत्रकालश्चक्रेश्वराह्वयः ॥ ॥१,१७।६४च्द्।
माहिषं धर्ममास्थायसर्वान्कालेन युञ्जति ॥ ॥१,१७।६५अब्।
असत्यश्चाशुचिश्चैव हिंसाचैवाथनिर्घृणा ॥ ॥१,१७।६५च्द्।
असत्यादिचतुष्पादःसर्वांशः कामरूपधृक् ॥ ॥१,१७।६६अब्।
नास्तिक्यलक्ष्मीर्दुःसङ्गोवेदबाह्यध्वनिःसदा ॥ ॥१,१७।६६च्द्।
क्रोधसङ्गःकृष्णवर्णोमहामहिषवेषवान् ॥ ॥१,१७।६७अब्।
तावन्महेश्वरःप्रोक्तस्तिरोधास्तावदेव हि ॥ ॥१,१७।६७च्द्।
तदर्वाक्कर्मभोगो हि तदूर्ध्वञ्ज्ञानभोगकम् ॥ ॥१,१७।६८अब्।
तदर्वाक्कर्म मायाहिज्ञानमाया तदूर्ध्वकम् ॥ ॥१,१७।६८च्द्।
मा लक्ष्मीः कर्मभोगोवैयातिमायेतिकथ्यते ॥ ॥१,१७।६९अब्।
मा लक्ष्मीर्ज्ञानभोगोवैयातिमायेतिकथ्यते ॥ ॥१,१७।६९च्द्।
तदूर्ध्वन्नित्यभोगोहितदर्वाङ्नश्वरंविदुः ॥ ॥१,१७।७०अब्।
तदर्वाक्चतिरोधानन्तदूर्ध्वन्नतिरोधनम् ॥ ॥१,१७।७०च्द्।
तदर्वाक्पाशबन्धोहितदूर्ध्वन्नहिबन्धनम् ॥ ॥१,१७।७१अब्।
तदर्वाक्परिवर्तन्तेकाम्यकर्मानुसारिणः ॥ ॥१,१७।७१च्द्।
निष्कामकर्मभोगस्तुतदूर्ध्वम्परिकीर्तितः ॥ ॥१,१७।७२अब्।
तदर्वाक्परिवर्तन्तेबिन्दुपूजापरायणाः ॥ ॥१,१७।७२च्द्।
तदूर्ध्वंहिव्रजन्त्येवनिष्कामालिङ्गपूजकाः ॥ ॥१,१७।७३अब्।
तदर्वाक्परिवर्तन्तंशिवान्यसुरपूजकाः ॥ ॥१,१७।७३च्द्।
शिवैकनिरताये च तदूर्ध्वंसम्प्रयान्तिते ॥ ॥१,१७।७४अब्।
तदर्वाग्जीवकोटिःस्यात्तदूर्ध्वम्परकोटिकाः ॥ ॥१,१७।७४च्द्।
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ॥ ॥१,१७।७५अब्।
तदर्वाक्परिवर्तन्ते प्राकृतद्रव्यपूजकाः ॥ ॥१,१७।७५च्द्।
तदूर्ध्वंहिव्रजन्त्येतेपौरुषद्रव्यपूजकाः ॥ ॥१,१७।७६अब्।
तदर्वाक्छक्तिलिङ्गं तु शिवलिङ्गं तदूर्ध्वकम् ॥ ॥१,१७।७६च्द्।
तदर्वागावृतं लिङ्गं तदूर्ध्वं हि निरावृति ॥ ॥१,१७।७७अब्।
तदर्वाक्कल्पितं लिङ्गं तदूर्ध्वं वै न कल्पितम् ॥ ॥१,१७।७७च्द्।
तदर्वाग्बाह्यलिङ्गं स्यादन्तरङ्गं तदूर्ध्वकम् ॥ ॥१,१७। ७८अब्।
तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ ॥१,१७।७८च्द्।
तदर्वाग्बिन्दुरूपं हि नादरूपं तदुत्तरम् ॥ ॥१,१७।७९अब्।
तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ ॥१,१७।७९च्द्।
नमस्कारस्तदूर्ध्वंहिमदाहङ्कारनाशनः ॥ ॥१,१७।८०अब्।
जनिजन्तिरोधानन्नानिषिद्ध्यातते इति ॥ ॥१,१७।८०च्द्।
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ॥ ॥१,१७।८१अब्।
तदर्वाक्परिवर्तन्तेह्याधिभौतिकपूजकाः ॥ ॥१,१७।८१च्द्।
आध्यात्मिकार्चका एव तदूर्ध्वंसम्प्रयान्तिवै ॥ ॥१,१७।८२अब्।
तावद्वैवेदिभागन्तन्महालोकात्मलिङ्गके ॥ ॥१,१७।८२च्द्।
प्रकृत्याद्यष्टबन्धोपिवेद्यन्तेसम्प्रतिष्ठतः ॥ ॥१,१७।८३अब्।
एवमेतादृशञ्ज्ञेयंसर्वंलौकिकवैदिकम् ॥ ॥१,१७।८३च्द्।
अधर्ममहिषारूढङ्कालचक्रन्तरन्तिते ॥ ॥१,१७।८४अब्।
सत्यादिधर्मयुक्तायेशिवपूजापराश्चये ॥ ॥१,१७।८४च्द्।
तदूर्ध्वंवृषभोधर्मोब्रह्मचर्यस्वरूपधृक् ॥ ॥१,१७।८५अब्।
सत्यादिपादयुक्तस्तुशिवलोकाग्रतःस्थितः ॥ ॥१,१७।८५च्द्।
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः ॥ ॥१,१७।८६अब्।
आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ ॥१,१७।८६च्द्।
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ॥ ॥१,१७।८७अब्।
तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ॥ ॥१,१७।८७च्द्।
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ॥ ॥१,१७।८८अब्।
तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ ॥१,१७। ८८च्द्।
पुनः कारणसत्यान्ताः कारणब्रह्मणस्तथा ॥ ॥१,१७।८९अब्।
गन्धादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ ॥१,१७।८९च्द्।
सूक्ष्मगन्धस्वरूपाहिस्थितालोकाश्चतुर्दश ॥ ॥१,१७।९०अब्।
पुनः कारणविष्णोर्वैस्थिता लोकाश्चतुर्दश ॥ ॥१,१७।९०च्द्।
पुनःकारणरुद्रस्यलोकाष्टाविंशका मताः ॥ ॥१,१७।९१अब्।
पुनश्चकारणेशस्यषट्पञ्चाशत्तदूर्ध्वगाः ॥ ॥१,१७।९१च्द्।
ततः परम्ब्रह्मचर्यलोकाख्यं शिवसम्मतम् ॥ ॥१,१७।९२अब्।
तत्रैवज्ञानकैलासेपञ्चावरणसंयुते ॥ ॥१,१७।९२च्द्।
पञ्चमण्डलसंयुक्तम्पञ्चब्रह्मकलान्वितम् ॥ ॥१,१७।९३अब्।
आदिशक्तिसमायुक्तमादिलिङ्गन्तुतत्रवै ॥ ॥१,१७।९३च्द्।
शिवालयमिदम्प्रोक्तंशिवस्यपरमात्मनः ॥ ॥१,१७।९४अब्।
परशक्त्यासमायुक्तस्तत्रैवपरमेश्वरः ॥ ॥१,१७।९४च्द्।
सृष्टिः स्थितिश्चसंहारस्तिरोभावोप्यनुग्रहः ॥ ॥१,१७।९५अब्।
पञ्चकृत्यप्रवीणो ऽसौसच्चिदानन्दविग्रहः ॥ ॥१,१७।९५च्द्।
ध्यानधर्मः सदायस्यसदानुग्रहतत्परः ॥ ॥१,१७।९६अब्।
समाध्यासनमासीनः स्वात्मारामोविराजते ॥ ॥१,१७।९६च्द्।
तस्यसन्दर्शनंसान्ध्यङ्कर्मध्यानादिभिः क्रमात् ॥ ॥१,१७।९७अब्।
नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ ॥१,१७।९७च्द्।
क्रियादिशिवकर्मभ्यः शिवज्ञानम्प्रसाधयेत् ॥ ॥१,१७।९८अब्।
तद्दर्शनगताःसर्वेमुक्ता एव नसंशयः ॥ ॥१,१७।९८च्द्।
मुक्तिरात्मस्वरूपेणस्वात्मारामत्वमेवहि ॥ ॥१,१७।९९अब्।
क्रियातपोजपज्ञानध्यानधर्मेषुसुस्थितः ॥ ॥१,१७।९९च्द्।
शिवस्यदर्शनंलब्धास्वात्मारामत्वमेवहि ॥ ॥१,१७।१००अब्।
यथारविःस्वकिरणादशुद्धिमपनेष्यति ॥ ॥१,१७।१००च्द्।
कृपाविचक्षणःशम्भुरज्ञानमपनेष्यति ॥ ॥१,१७।१०१अब्।
अज्ञानविनिवृत्तौतुशिवज्ञानम्प्रवर्तते ॥ ॥१,१७।१०१च्द्।
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ॥ ॥१,१७।१०२अब्।
आत्मारामत्वसंसिद्धौकृतकृत्योभवेन्नरः ॥ ॥१,१७।१०२च्द्।
पुनश्चशतलक्षेणब्रह्मणःपदमाप्नुयात् ॥ ॥१,१७।१०३अब्।
पुनश्चशतलक्षेणविष्णोःपदमवाप्नुयात् ॥ ॥१,१७।१०३च्द्।
पुनश्चशतलक्षेणरुद्रस्यपदमाप्नुयात् ॥ ॥१,१७।१०४अब्।
पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ ॥१,१७।१०४च्द्।
पुनश्चैवंविधेनैव जपेन सुसमाहितः ॥ ॥१,१७।१०५अब्।
शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ ॥१,१७।१०५च्द्।
कालचक्रम्पञ्चचक्रमेकैकेनक्रमोत्तरे ॥ ॥१,१७।१०६अब्।
सृष्टिमोहौब्रह्मचक्रम्भोगमोहौतुवैष्णवम् ॥ ॥१,१७।१०६च्द्।
कोपमोहौरौद्रचक्रम्भ्रमणञ्चैश्वरंविदुः ॥ ॥१,१७।१०७अब्।
शिवचक्रञ्ज्ञानमोहौपञ्चचक्रंविदुर्बुधाः ॥ ॥१,१७।१०७च्द्।
पुनश्चदशकोट्या हि कारणब्रह्मणः पदम् ॥ ॥१,१७।१०८अब्।
पुनश्च दशकोट्याहितत्पदैश्वर्यमाप्नुयात् ॥ ॥१,१७।१०८च्द्।
एवं क्रमेण विष्ण्वादेः पदंलब्ध्वामहौजसः ॥ ॥१,१७।१०९अब्।
क्रमेणतत्पदैश्वर्यं लब्ध्वाचैवमहात्मनः ॥ ॥१,१७।१०९च्द्।
शतकोटिमनुं जप्त्वा पञ्चोत्तरमतन्द्रितः ॥ ॥१,१७।११०अब्।
शिवलोकमवाप्नोतिपञ्चमावरणाद्बहिः ॥ ॥१,१७।११०च्द्।
राजसम्मण्डपन्तत्रनन्दीसंस्थानमुत्तमम् ॥ ॥१,१७।१११अब्।
तपोरूपश्चवृषभस्तत्रैवपरिदृश्यते ॥ ॥१,१७।१११च्द्।
सद्योजातस्यतत्स्थानम्पञ्चमावरणम्परम् ॥ ॥१,१७।११२अब्।
वामदेवस्यचस्थानञ्चतुर्थावरणम्पुनः ॥ ॥१,१७।११२च्द्।
अघोरनिलयम्पश्चात्तृतीयावरणम्परम् ॥ ॥१,१७।११३अब्।
पुरुषस्यैवसाम्बस्यद्वितीयावरणंशुभम् ॥ ॥१,१७।११३च्द्।
ईशानस्यपरस्यैवप्रथमावरणन्ततः ॥ ॥१,१७।११४अब्।
ध्यानधर्मस्य च स्थानम्पञ्चमम्मण्डपन्ततः ॥ ॥१,१७।११४च्द्।
बलिनाथस्यसंस्थानन्तत्रपूर्णामृतप्रदम् ॥ ॥१,१७।११५अब्।
चतुर्थम्मण्डपम्पश्चाच्चन्द्रशेखरमूर्तिमत् ॥ ॥१,१७।११५च्द्।
सोमस्कन्दस्यचस्थानन्तृतीयम्मण्डपम्परम् ॥ ॥१,१७।११६अब्।
द्वितीयम्मण्डपन्नृत्यमण्डपम्प्राहुरास्तिकाः ॥ ॥१,१७।११६च्द्।
प्रथमम्मूलमायायाः स्थानन्तत्रैवशोभनम् ॥ ॥१,१७।११७अब्।
ततः परं गर्भगृहंलिङ्गस्थानं परं शुभम् ॥ ॥१,१७।११७च्द्।
नन्दिसंस्थानतः पश्चान्नविदुः शिववैभवम् ॥ ॥१,१७।११८अब्।
नन्दीश्वरोबहिस्तिष्ठन्पञ्चाक्षरमुपासते ॥ ॥१,१७।११८च्द्।
एवं गुरुक्रमाल्लब्धं नन्दीशाच्च मयापुनः ॥ ॥१,१७।११९अब्।
ततः परंस्वसंवेद्यं शिवे नैवानुभावितम् ॥ ॥१,१७।११९च्द्।
शिवस्यकृपयासाक्षाच्छिवलोकस्यवैभवम् ॥ ॥१,१७।१२०अब्।
विज्ञातुंशक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः ॥ ॥१,१७।१२०च्द्।
एवङ्क्रमेणमुक्ताःस्युर्ब्राह्मणावैजितेन्द्रियः ॥ ॥१,१७।१२१अब्।
अन्येषां च क्रमंवक्ष्ये गदतः शृणुतादरात् ॥ ॥१,१७।१२१च्द्।
गुरूपदेशाज्जाप्यंवैब्राह्मणानान्नमो ऽन्तकम् ॥ ॥१,१७।१२२अब्।
पञ्चाक्षरं पञ्चलक्षमायुष्यम्प्रजपेद्विधिः ॥ ॥१,१७।१२२च्द्।
स्त्रीत्वापनयनार्थन्तुपञ्चलक्षञ्जपेत्पुनः ॥ ॥१,१७।१२३अब्।
मन्त्रेणपुरुषोभूत्वाक्रमान्मुक्तोभवेद्बुधः ॥ ॥१,१७।१२३च्द्।
क्षत्रियःपञ्चलक्षेणक्षत्त्रत्वमपनेष्यति ॥ ॥१,१७।१२४अब्।
पुनश्चपञ्चलक्षेणक्षत्त्रियोब्राह्मणोभवेत् ॥ ॥१,१७।१२४च्द्।
मन्त्रसिद्धिर्जपाच्चैवक्रमान्मुक्तोभवैन्नरः ॥ ॥१,१७।१२५अब्।
वैश्यस्तुपञ्चलक्षेणवैश्यत्वमपनेष्यति ॥ ॥१,१७।१२५च्द्।
पुनश्चपञ्चलक्षेणमन्त्रक्षत्त्रिय उच्यते ॥ ॥१,१७।१२६अब्।
पुनश्चपञ्चलक्षेण क्षत्त्रत्वमपनेष्यति ॥ ॥१,१७।१२६च्द्।
पुनश्चपञ्चलक्षेणमन्त्रब्राह्मण उच्यते ॥ ॥१,१७।१२७अब्।
शूद्रश्चैवनमोन्तेन पञ्चविंशतिलक्षतः ॥ ॥१,१७।१२७च्द्।
मन्त्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः ॥ ॥१,१७।१२८अब्।
नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ ॥१,१७।१२८च्द्।
नमोन्तं वा नमः पूर्वमातुरः सर्वमातुरः सर्वदा जपेत् ॥ ॥१,१७।१२९अब्।
ततः स्त्रीणान्तथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् ॥ ॥१,१७।१२९च्द्।
साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि ॥ ॥१,१७।१३०अब्।
महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् ॥ ॥१,१७।१३०च्द्।
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ॥ ॥१,१७।१३१अब्।
शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ ॥१,१७।१३१च्द्।
शिवस्वरूपमन्त्रस्यधारणाच्छिव एव हि ॥ ॥१,१७।१३२अब्।
शिवभक्तशरीरे हि शिवेतत्परमोभवेत् ॥ ॥१,१७।१३२च्द्।
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियांविदुः ॥ ॥१,१७।१३३अब्।
यावद्यावच्छिवम्मन्त्रंयेनजप्तम्भवेत्क्रमात् ॥ ॥१,१७।१३३च्द्।
तावद्वैशिवसान्निध्यं तस्मिन्देहे न संशयः ॥ ॥१,१७।१३४अब्।
देवीलिङ्गम्भवेद्रूपं शिवभक्तस्त्रियास्तथा ॥ ॥१,१७।१३४च्द्।
यावन्मन्त्रञ्जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ॥ ॥१,१७।१३५अब्।
शिवंसम्पूजयेद्धीमान्स्वयंवैशब्दरूपभाक् ॥ ॥१,१७।१३५च्द्।
स्वयञ्चैवशिवोभूत्वापरांशक्तिम्प्रपूजयेत् ॥ ॥१,१७।१३६अब्।
शक्तिम्बेरञ्चलिङ्गं च ह्यालेख्यामाययायजेत् ॥ ॥१,१७।१३६च्द्।
शिवलिङ्गं शिवम्मत्वास्वात्मानंशक्तिरूपकम् ॥ ॥१,१७।१३७अब्।
शक्तिलिङ्गञ्चदेवीञ्चमत्वास्वंशिवरूपकम् ॥ ॥१,१७।१३७च्द्।
शिवलिङ्गन्नादरूपबिन्दुरूपन्तुशक्तिकम् ॥ ॥१,१७।१३८अब्।
उपप्रधानभावेन अन्योन्यासक्तलिङ्गकम् ॥ ॥१,१७।१३८च्द्।
पूजयेच्च शिवंशक्तिसशिवोमूलभावनात् ॥ ॥१,१७।१३९अब्।
शिवभक्ताञ्छिवमत्ररूपकाञ्छिवरूपकान् ॥ ॥१,१७।१३९च्द्।
षोडशैरुपचारैश्चपूजयेदिष्टमाप्नुयात् ॥ ॥१,१७।१४०अब्।
येनशुश्रूषणाद्यैश्च शिवभक्तस्य लिङ्गिनः ॥ ॥१,१७।१४०च्द्।
आनन्दञ्जनयेद्विद्वाञ्छिवःप्रीततरो भवेत् ॥ ॥१,१७।१४१अब्।
शिवभक्तान्सपत्नीकान्पत्न्यासहसदैवतत् ॥ ॥१,१७।१४१च्द्।
पूजयेद्भोजनाद्यैश्चपञ्चवादशवाशतम् ॥ ॥१,१७।१४२अब्।
धनेदेहेचमन्त्रेचभावनायामवञ्चकः ॥ ॥१,१७।१४२च्द्।
शिवशक्तिस्वरूपेणनपुनर्जायते भुवि ॥ ॥१,१७।१४३अब्।
नाभेरधो ब्रह्मभागमाकण्ठंविष्णुभागकम् ॥ ॥१,१७।१४३च्द्।
मुखंलिङ्गमितिप्रोक्तंशिवभक्तशरीरकम् ॥ ॥१,१७।१४४अब्।
मृतान्दाहादियुक्तान्वादाहादिरहितान्मृतान् ॥ ॥१,१७।१४४च्द्।
उद्दिश्यपूजयेदादिपितरंशिवमेवहि ॥ ॥१,१७।१४५अब्।
पूजाङ्कृत्वादिमातुश्चशिवभक्तांश्च पूजयेत् ॥ ॥१,१७।१४५च्द्।
पितृलोकंसमासाद्यक्रमान्मुक्तोभवेन्मृतः ॥ ॥१,१७।१४६अब्।
क्रियायुक्तदशभ्यश्चतपोयुक्तोविशिष्यते ॥ ॥१,१७।१४६च्द्।
तपोयुक्तशतेभ्यश्चजपयुक्तोविशिष्यते ॥ ॥१,१७।१४७अब्।
जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ ॥१,१७।१४७च्द्।
शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते ॥ ॥१,१७।१४८अब्।
ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ ॥१,१७।१४८च्द्।
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम् ॥ ॥१,१७।१४९अब्।
फलंवैशिष्ट्यरूपञ्चदुर्विज्ञेयम्मनीषिभिः ॥ ॥१,१७।१४९च्द्।
तस्माद्वैशिवभक्तस्यमहिमानंवेत्तिकोनरः ॥ ॥१,१७।१५०अब्।
शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् ॥ ॥१,१७।१५०च्द्।
कुरुतेयोनरोभक्त्यासशिवः शिवमेधते ॥ ॥१,१७।१५१अब्।
य इमं पठते ऽध्यायमर्थवद्वेदसम्मतम् ॥ ॥१,१७।१५१च्द्।
शिवज्ञानीभवेद्विप्रःशिवेन सहमोदते ॥ ॥१,१७।१५२अब्।
श्रावयेच्छिवभक्तांश्चविशेषज्ञो मनीश्वराः ॥ ॥१,१७।१५२च्द्।
शिवप्रसादशिद्धिः स्याच्छिवस्यकृपया बुधाः ॥ ॥१,१७।१५३अब्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशो ऽध्यायः