ऋषय ऊचुः
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम ॥ ॥१,१६।१अब्।
येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ ॥१,१६।१च्द्।
सूत उवाच
सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम् ॥ ॥१,१६।२अब्।
सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः ॥ ॥१,१६।२च्द्।
अपमृत्युहरं कालमृत्योश्चापि विनाशनम् ॥ ॥१,१६।३अब्।
सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ ॥१,१६।३च्द्।
अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः ॥ ॥१,१६।४अब्।
ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ ॥१,१६।४च्द्।
पुरुषाणां च नारीणामधिकारोत्र निश्चितम् ॥ ॥१,१६।५अब्।
नद्यां तडागे कूपे वा जलान्तर्मृदमाहरेत् ॥ ॥१,१६।५च्द्।
संशोध्य गन्धचूर्णेन पेषयित्वा सुमण्डपे ॥ ॥१,१६।६अब्।
हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ ॥१,१६।६च्द्।
अङ्गप्रत्यङ्गकोपेतामायुधैश्च समन्विताम् ॥ ॥१,१६।७अब्।
पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ ॥१,१६।७च्द्।
विघ्नेशादित्यविष्णूनामम्बायाश्च शिवस्य च ॥ ॥१,१६।८अब्।
शिवस्यशिवलिङ्गं च सर्वदा पूजयेद्द्विज ॥ ॥१,१६।८च्द्।
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये ॥ ॥१,१६।९अब्।
पुष्पेण प्रोक्षणं कुर्यादभिषेकं समन्त्रकम् ॥ ॥१,१६।९च्द्।
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः ॥ ॥१,१६।१०अब्।
गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ ॥१,१६।१०च्द्।
दैवे प्रस्थत्रयं योग्यं स्वयम्भोः प्रस्थपञ्चकम् ॥ ॥१,१६।११अब्।
एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ ॥१,१६।११च्द्।
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः ॥ ॥१,१६।१२अब्।
द्वादशाङ्गुलमायामं द्विगुणं च ततो ऽधिकम् ॥ ॥१,१६।१२च्द्।
प्रमाणमङ्गुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् ॥ ॥१,१६।१३अब्।
अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ ॥१,१६।१३च्द्।
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम् ॥ ॥१,१६।१४अब्।
दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ ॥१,१६।१४च्द्।
जलतैलादिगन्धानां यथायोग्यं च मानतः ॥ ॥१,१६।१५अब्।
मानुषार्षस्वयम्भूनां महापूजेति कथ्यते ॥ ॥१,१६।१५च्द्।
अभिषेकादात्मशुद्धिर्गन्धात्पुण्यमवाप्यते ॥ ॥१,१६।१६अब्।
आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते ॥ ॥१,१६।१६च्द्।
दीपाज्ज्ञानमवाप्नोति ताम्बूलाद्भोगमाप्नुयात् ॥ ॥१,१६।१७अब्।
तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ ॥१,१६।१७च्द्।
नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ ॥ ॥१,१६।१८अब्।
पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः ॥ ॥१,१६।१८च्द्।
सम्पूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः ॥ ॥१,१६।१९अब्।
देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ ॥१,१६।१९च्द्।
तदवान्तरलोके च यथेष्टं भोग्यमाप्यते ॥ ॥१,१६।२०अब्।
तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः ॥ ॥१,१६।२०च्द्।
विघ्नेशपूजया सम्यग्भूर्लोके ऽभीष्टमाप्नुयात् ॥ ॥१,१६।२१अब्।
शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके ॥ ॥१,१६।२१च्द्।
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् ॥ ॥१,१६।२२अब्।
शतं पूजासहस्रं वा तत्सङ्ख्याकदिनैर्व्रजेत् ॥ ॥१,१६।२२च्द्।
देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् ॥ ॥१,१६।२३अब्।
सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ ॥१,१६।२३च्द्।
वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः ॥ ॥१,१६।२४अब्।
तीथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ ॥१,१६।२४च्द्।
तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः ॥ ॥१,१६।२५अब्।
उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ ॥१,१६।२५च्द्।
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् ॥ ॥१,१६।२६अब्।
पूर्वभागः पित्ःणां तु निशि युक्तः प्रशस्यते ॥ ॥१,१६।२६च्द्।
परभागस्तु देवानां दिवा युक्तः प्रशास्यते ॥ ॥१,१६।२७अब्।
उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ ॥१,१६।२७च्द्।
देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः ॥ ॥१,१६।२८अब्।
सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् ॥ ॥१,१६।२८च्द्।
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना ॥ ॥१,१६।२९अब्।
पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा ॥ ॥१,१६।२९च्द्।
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात् ॥ ॥१,१६।३०अब्।
पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः ॥ ॥१,१६।३०च्द्।
नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते ॥ ॥१,१६।३१अब्।
नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ ॥१,१६।३१च्द्।
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् ॥ ॥१,१६।३२अब्।
महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ ॥१,१६।३२च्द्।
पक्षपापक्षयकरी पक्षभोगफलप्रदा ॥ ॥१,१६।३३अब्।
चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ ॥१,१६।३३च्द्।
वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके ॥ ॥१,१६।३४अब्।
श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ ॥१,१६।३४च्द्।
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् ॥ ॥१,१६।३५अब्।
ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवर्णक्षके ॥ ॥१,१६।३५च्द्।
द्वादश्यां विष्णुयजनमिष्टंसम्पत्करं विदुः ॥ ॥१,१६।३६अब्।
श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ ॥१,१६।३६च्द्।
गवादीन्द्वादशानर्थान्साङ्गान्दत्वा तु यत्फलम् ॥ ॥१,१६।३७अब्।
तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ ॥१,१६।३७च्द्।
द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः ॥ ॥१,१६।३८अब्।
षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ ॥१,१६।३८च्द्।
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः ॥ ॥१,१६।३९अब्।
द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ ॥१,१६।३९च्द्।
कर्कटे सोमवारे च नवम्यां मृगशीर्षके ॥ ॥१,१६।४०अब्।
अम्बां यजेद्भूतिकामः सर्वभोगफलप्रदाम् ॥ ॥१,१६।४०च्द्।
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा ॥ ॥१,१६।४१अब्।
आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ॥१,१६।४१च्द्।
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते ॥ ॥१,१६।४२अब्।
माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ ॥१,१६।४२च्द्।
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् ॥ ॥१,१६।४३अब्।
ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ ॥१,१६।४३च्द्।
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः ॥ ॥१,१६।४४अब्।
तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ ॥१,१६।४४च्द्।
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् ॥ ॥१,१६।४५अब्।
वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ ॥१,१६।४५च्द्।
कार्तिके मासि सम्प्राप्ते सर्वान्देवान्यजेद्बुधः ॥ ॥१,१६।४६अब्।
दानेन तपसा होमैर्जपेन नियमेन च ॥ ॥१,१६।४६च्द्।
षोडशैरुपचारैश्च प्रतिमा विप्रमन्त्रकैः ॥ ॥१,१६।४७अब्।
ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ ॥१,१६।४७च्द्।
कार्तिके देवयजनं सर्वभोगप्रदं भवेत् ॥ ॥१,१६।४८अब्।
व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ ॥१,१६।४८च्द्।
कार्तिकादित्यवारेषु नृणामादित्यपूजनात् ॥ ॥१,१६।४९अब्।
तैलकार्पासदानात्तु भवेत्कुष्ठादिसङ्क्षयः ॥ ॥१,१६।४९च्द्।
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः ॥ ॥१,१६।५०अब्।
ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् ॥ ॥१,१६।५०च्द्।
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् ॥ ॥१,१६।५१अब्।
कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ ॥१,१६।५१च्द्।
महादारिद्र्यशमनं सर्वसम्पत्करं भवेत् ॥ ॥१,१६।५२अब्।
गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ ॥१,१६।५२च्द्।
कृत्तिकाभौमवारेषु स्कन्दस्य यजनान्नृणाम् ॥ ॥१,१६।५३अब्।
दीपघण्टादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ ॥१,१६।५३च्द्।
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् ॥ ॥१,१६।५४अब्।
दध्योदनस्य दानं च सत्सन्तानकरं भवेत् ॥ ॥१,१६।५४च्द्।
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः ॥ ॥१,१६।५५अब्।
मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ ॥१,१६।५५च्द्।
कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् १ ॥ ॥१,१६।५६अब्।
गन्धपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ ॥१,१६।५६च्द्।
वन्ध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः ॥ ॥१,१६।५७अब्।
कृत्तिकाशनिवारेषु दिक्पालानां च वन्दनम् ॥ ॥१,१६।५७च्द्।
दिग्गजानां च नागानां सेतुपानां च पूजनम् ॥ ॥१,१६।५८अब्।
गजकोमेडो गजवक्त्रः
त्र्यम्बकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ ॥१,१६।५८च्द्।
ज्ञानदं ब्रह्मणश्चैव धन्वन्तर्यश्विनोस्तथा ॥ ॥१,१६।५९अब्।
रोगापमृत्युहरणं तत्कालव्याधिशान्तिदम् ॥ ॥१,१६।५९च्द्।
लवणायसतैलानां माषादीनां च दानतः ॥ ॥१,१६।६०अब्।
त्रिकटुफलगन्धानां जलादीनां च दानतः ॥ ॥१,१६।६०च्द्।
द्रवाणां कठिनानां च प्रस्थेन पलमानतः ॥ ॥१,१६।६१अब्।
स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ ॥१,१६।६१च्द्।
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये ॥ ॥१,१६।६२अब्।
शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते ॥ ॥१,१६।६२च्द्।
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते ॥ ॥१,१६।६३अब्।
मार्गशीर्षे ऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ ॥१,१६।६३च्द्।
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च ॥ ॥१,१६।६४अब्।
सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ ॥१,१६।६४च्द्।
इहामुत्र महाभोगानन्ते योगं च शाश्वतम् ॥ ॥१,१६।६५अब्।
वेदान्तज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ ॥१,१६।६५च्द्।
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा ॥ ॥१,१६।६६अब्।
यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ ॥१,१६।६६च्द्।
यावत्सङ्गवकालं तु धनुर्मासो विधीयते ॥ ॥१,१६।६७अब्।
धनुर्मासे निराहारो मासमात्रं जितेन्द्रियः ॥ ॥१,१६।६७च्द्।
आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम् ॥ ॥१,१६।६८अब्।
पञ्चाक्षरादिकान्मन्त्रान्पश्चादासप्तिकं जपेत् ॥ ॥१,१६।६८च्द्।
ज्ञानं लब्ध्वा च देहान्ते विप्रो मुक्तिमवाप्नुयात् ॥ ॥१,१६।६९अब्।
अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ ॥१,१६।६९च्द्।
सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते ॥ ॥१,१६।७०अब्।
इष्टमन्त्रान्सदाजप्त्वा महापापक्षयं लभेत् ॥ ॥१,१६।७०च्द्।
धनुर्मासे विशेषेण महानैवेद्यमाचरेत् ॥ ॥१,१६।७१अब्।
शालितण्डुलभारेण मरीचप्रस्थकेन च ॥ ॥१,१६।७१च्द्।
गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि ॥ ॥१,१६।७२अब्।
द्रोणयुक्तेन मुद्गेन द्वादशव्यञ्जनेन च ॥ ॥१,१६।७२च्द्।
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः ॥ ॥१,१६।७३अब्।
द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ ॥१,१६।७३च्द्।
नारिकेलफलादीनां तथा गणनया सह ॥ ॥१,१६।७४अब्।
द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ ॥१,१६।७४च्द्।
कर्पूरखुरचूर्णेन पञ्चसौगन्धिकैर्युतम् ॥ ॥१,१६।७५अब्।
ताम्बूलयुक्तं तु यदा महानैवेद्यलक्षणम् ॥ ॥१,१६।७५च्द्।
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् ॥ ॥१,१६।७६अब्।
वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ ॥१,१६।७६च्द्।
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् ॥ ॥१,१६।७७अब्।
महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ ॥१,१६।७७च्द्।
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः ॥ ॥१,१६।७८अब्।
सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ ॥१,१६।७८च्द्।
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः ॥ ॥१,१६।७९अब्।
तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ ॥१,१६।७९च्द्।
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् ॥ ॥१,१६।८०अब्।
तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते ॥ ॥१,१६।८०च्द्।
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते ॥ ॥१,१६।८१अब्।
जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ ॥१,१६।८१च्द्।
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत् ॥ ॥१,१६।८२अब्।
सङ्क्रान्तिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ ॥१,१६।८२च्द्।
अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् ॥ ॥१,१६।८३अब्।
मासान्तरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ ॥१,१६।८३च्द्।
मेलनेचशनेर्वापितावत्साहस्रमाचरेत् ॥ ॥१,१६।८४अब्।
जन्मनैवेद्यदानेनजन्मार्पणफलंलभेत् ॥ ॥१,१६।८४च्द्।
जन्मार्पणाच्छिवः प्रीतिःस्वसायुज्यन्ददातिहि ॥ ॥१,१६।८५अब्।
इदन्तज्जन्मनैवेद्यंशिवस्यैवप्रदापयेत् ॥ ॥१,१६।८५च्द्।
योनिलिङ्गस्वरूपेणशिवोजन्मानिरूपकः ॥ ॥१,१६।८६अब्।
तस्माज्जन्मनिवृत्त्यर्थञ्जन्म पूजा शिवस्य हि ॥ ॥१,१६।८६च्द्।
बिन्दुनादात्मकंसर्वञ्जगत्स्थावरजङ्गमम् ॥ ॥१,१६।८७अब्।
बिन्दुःशक्तिःशिवोनादःशिवशक्त्यात्मकञ्जगत् ॥ ॥१,१६।८७च्द्।
नादाधारमिदम्बिन्दुर्बिन्द्वाधारमिदं जगत् ॥ ॥१,१६।८८अब्।
जगदाधारभूतौहिबिन्दुनादौ व्यवस्थितौ ॥ ॥१,१६।८८च्द्।
विन्दुनादयुतंसर्वंसकलीकरणम्भवेत् ॥ ॥१,१६।८९अब्।
सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ॥ ॥१,१६।८९च्द्।
बिन्दुनादात्मकंलिङ्गञ्जगत्कारणमुच्यते ॥ ॥१,१६।९०अब्।
बिन्दुर्देर्वीशिवोनादःशिवलिङ्गन्तुकथ्यते ॥ ॥१,१६।९०च्द्।
तस्माज्जन्मनिवृत्त्यर्थंशिवलिङ्गम्प्रपूजयेत् ॥ ॥१,१६।९१अब्।
मातादेवीबिन्दुरूपानादरूपः शिवः पिता ॥ ॥१,१६।९१च्द्।
पूजिताभ्याम्पितृभ्यान्तुपरमानन्द एव हि ॥ ॥१,१६।९२अब्।
परमानन्दलाभार्थंशिवलिङ्गम्प्रपूजयेत् ॥ ॥१,१६।९२च्द्।
सादेवीजगताम्मातासशिवोजगतः पिता ॥ ॥१,१६।९३अब्।
पित्रोः शुश्रूषकेनित्यङ्कृपाधिक्यं हि वर्धते ॥ ॥१,१६।९३च्द्।
कृपयान्तर्गतैश्वर्यम्पूजकस्यददातिहि ॥ ॥१,१६।९४अब्।
तस्मादन्तर्गतानन्दलाभार्थम्मुनिपुङ्गवाः ॥ ॥१,१६।९४च्द्।
पितृमातृस्वरूपेणशिवलिङ्गम्प्रपूजयेत् ॥ ॥१,१६।९५अब्।
भर्गः पुरुषरूपो हि भर्गाप्रकृतिरुच्यते ॥ ॥१,१६।९५च्द्।
अव्यक्तान्तरधिष्ठानं गर्भः पुरुष उच्यते ॥ ॥१,१६।९६अब्।
सुव्यक्तान्तरधिष्ठानङ्गर्भः प्रकृतिरुच्यते ॥ ॥१,१६।९६च्द्।
पुरुषत्वादिगर्भोहिगर्भवाञ्जनकोयतः ॥ ॥१,१६।९७अब्।
पुरुषात्प्रकृतोयुक्तम्प्रथमञ्जन्मकथ्यते ॥ ॥१,१६।९७च्द्।
प्रकृतेर्व्यक्ततांयातन्द्वितीयं जन्म कथ्यते ॥ ॥१,१६।९८अब्।
जन्मजन्तुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ ॥१,१६।९८च्द्।
अन्यतोभाव्यते ऽवश्यम्माययाजन्मकथ्यते ॥ ॥१,१६।९९अब्।
जीर्यतेजन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ ॥१,१६।९९च्द्।
जन्मतेतन्यते पाशैर्जीवशब्दार्थ एव हि ॥ ॥१,१६।१००अब्।
जन्मपाशनिवृत्त्यर्थञ्जन्मलिङ्गम्प्रपूजयेत् ॥ ॥१,१६।१००च्द्।
भं वृद्धिं गच्छतीत्यर्थाद्भगःप्रकृतिरुच्यते ॥ ॥१,१६।१०१अब्।
प्राकृतैः शब्दमात्राद्यैः प्राकृतेन्द्रियभोजनात् ॥ ॥१,१६।१०१च्द्।
भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः ॥ ॥१,१६।१०२अब्।
मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ ॥१,१६।१०२च्द्।
भगवान्भोगदाताहिना ऽन्योभोगप्रदायकः ॥ ॥१,१६।१०३अब्।
भगस्वामीचभगवान्भर्ग इत्युच्यतेबुधैः ॥ ॥१,१६।१०३च्द्।
भगेनसहितंलिङ्गं भगंलिङ्गेनसंयुतम् ॥ ॥१,१६।१०४अब्।
इहामुत्रचभोगार्थन्नित्यभोगार्थमेव च ॥ ॥१,१६।१०४च्द्।
भगवन्तम्महादेवं शिवलिङ्गम्प्रपूजयेत् ॥ ॥१,१६।१०५अब्।
लोकप्रसवितासूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ ॥१,१६।१०५च्द्।
लिङ्गेप्रसूतिकर्तारंलिङ्गिनम्पुरुषोयजेत् ॥ ॥१,१६। १०६अब्।
लिङ्गार्थगमकञ्चिह्नंलिङ्गमित्यभिधीयते ॥ ॥१,१६।१०६च्द्।
लिङ्गमर्थंहिपुरुषं शिवङ्गमयतीत्यदः ॥ ॥१,१६।१०७अब्।
शिवशक्त्योश्चचिह्नस्यमेलनंलिङ्गमुच्यते ॥ ॥१,१६।१०७च्द्।
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते ॥ ॥१,१६।१०८अब्।
चिह्नकार्यन्तुजन्मादिजन्माद्यंविनिवर्तते ॥ ॥१,१६।१०८च्द्।
प्राकृतैः पुरुषैश्चापिबाह्याभ्यन्तरसम्भवैः ॥ ॥१,१६।१०९अब्।
षोडशैरुपचारैश्च शिवलिङ्गम्प्रपूजयेत् ॥ ॥१,१६।१०९च्द्।
एवमादित्यवारेहिपूजाजन्मनिवर्तिका ॥ ॥१,१६।११०अब्।
आदिवारेमहालिङ्गम्प्रणवेनैवपूजयेत् ॥ ॥१,१६।११०च्द्।
आदिवारे पञ्चगव्यैरभिषेको विशिष्यते ॥ ॥१,१६।१११अब्।
गोमयङ्गोजलङ्क्षीरन्दध्याज्यं पञ्चगव्यकम् ॥ ॥१,१६।१११च्द्।
क्षीराद्यञ्चपृथक्च्चैवमधुनाचेक्षुसारकैः ॥ ॥१,१६।११२अब्।
गव्यक्षीरान्ननैवेद्यम्प्रणवेनैवकारयेत् ॥ ॥१,१६।११२च्द्।
प्रणवन्ध्वनिलिङ्गन्तुनादलिङ्गंस्वयम्भुवः ॥ ॥१,१६।११३अब्।
बिन्दुलिङ्गं तु यन्त्रंस्यान्मकारन्तुप्रतिष्ठितम् ॥ ॥१,१६।११३च्द्।
उकारञ्चरलिङ्गंस्यादकारङ्गुरुविग्रहम् ॥ ॥१,१६।११४अब्।
षड्लिङ्गपूजयानित्यञ्जीवन्मुक्तोनसंशयः ॥ ॥१,१६।११४च्द्।
शिवस्यभक्त्यापूजा हि जन्ममुक्तिकरीनृणाम् ॥ ॥१,१६।११५अब्।
रुद्राक्षधारणात्पादमर्धं वैभूतिधारणात् ॥ ॥१,१६।११५च्द्।
त्रिपादं मन्त्रजाप्याच्च पूजया पूर्णभक्तिमान् ॥ ॥१,१६।११६अब्।
शिवलिङ्गं च भक्तं च पूज्य मोक्षं लभेन्नरः ॥ ॥१,१६।११६च्द्।
य इमं पठते ऽध्यायं शृणुयाद्वा समाहितः ॥ ॥१,१६।११७अब्।
तस्यैव शिवभक्तिश्च वर्धतेसुदृढा द्विजाः ॥ ॥१,१६।११७च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशो ऽध्यायः