ऋषय ऊचुः
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ॥ ॥१,१५।१अब्।
सूत उवाच
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ ॥१,१५।१च्द्।
ततो दशगुणं गोष्ठं जलतीरं ततो दश ॥ ॥१,१५।२अब्।
ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ ॥१,१५।२च्द्।
ततो देवालयं विद्यात्तीर्थतीरं ततो दश ॥ ॥१,१५।३अब्।
ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ॥१,१५।३च्द्।
सप्तगङ्गानदीतीरं तस्या दशगुणं भवेत् ॥ ॥१,१५।४अब्।
गङ्गा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ॥१,१५।४च्द्।
सिन्धुश्च सरयू रेवा सप्तगङ्गाः प्रकीर्तिताः ॥ ॥१,१५।५अब्।
ततो ऽब्धितीरं दश च पर्वताग्रे ततो दश ॥ ॥१,१५।५च्द्।
सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ॥ ॥१,१५।६अब्।
कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ ॥१,१५।६च्द्।
त्रेतायुगे त्रिपादं च द्वापरे ऽर्धं सदा स्मृतम् ॥ ॥१,१५।७अब्।
कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्धके ॥ ॥१,१५।७च्द्।
शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ॥ ॥१,१५।८अब्।
तस्माद्दशगुणं ज्ञेयं रविसङ्क्रमणे बुधाः ॥ ॥१,१५।८च्द्।
विषुवे तद्दशगुणमयने तद्दश स्मृतम् ॥ ॥१,१५।९अब्।
तद्दश मृगसङ्क्रान्तौ तच्चन्द्रग्रहणे दश ॥ ॥१,१५।९च्द्।
ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ॥ ॥१,१५।१०अब्।
जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ ॥१,१५।१०च्द्।
अतस्तद्विषशान्त्यर्थं स्नानदानजपां चरेत् ॥ ॥१,१५।११अब्।
विषशान्त्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ ॥१,१५।११च्द्।
जन्मर्क्षे च व्रतान्ते च सूर्यरागोपमं विदुः ॥ ॥१,१५।१२अब्।
महतां सङ्गकालश्च कोट्यर्कग्रहणं विदुः ॥ ॥१,१५।१२च्द्।
तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ॥ ॥१,१५।१३अब्।
पूजायाः पात्रमेते हि पापसङ्क्षयकारणम् ॥ ॥१,१५।१३च्द्।
चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ॥ ॥१,१५।१४अब्।
ब्राह्मणस्तु भवेत्पात्रं सम्पूर्णफलभोगदम् ॥ ॥१,१५।१४च्द्।
पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ॥ ॥१,१५।१५अब्।
दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ ॥१,१५।१५च्द्।
गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ॥ ॥१,१५।१६अब्।
यथा ऽर्थहिनो लोके ऽस्मिन्परस्यार्थं न यच्छति ॥ ॥१,१५।१६च्द्।
अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ॥ ॥१,१५।१७अब्।
स्वयं शुद्धो हि पूतात्मा नरान्सत्रातुमर्हति ॥ ॥१,१५।१७च्द्।
गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ॥ ॥१,१५।१८अब्।
तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ ॥१,१५।१८च्द्।
दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ॥ ॥१,१५।१९अब्।
अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ ॥१,१५।१९च्द्।
ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ॥ ॥१,१५।२०अब्।
तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् ॥ ॥१,१५।२०च्द्।
इच्छावतः प्रदानं च सम्पूर्णफलदं विदुः ॥ ॥१,१५।२१अब्।
यत्प्रश्नानन्तरं दत्तं तदर्थफलदं विदुः ॥ ॥१,१५।२१च्द्।
यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ॥ ॥१,१५।२२अब्।
जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ॥ ॥१,१५।२२च्द्।
दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ॥ ॥१,१५।२३अब्।
वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ ॥१,१५।२३च्द्।
गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ॥ ॥१,१५।२४अब्।
विष्णुभक्तस्य विप्रस्य दत्तं वैकुण्ठदं विदुः ॥ ॥१,१५।२४च्द्।
शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ॥ ॥१,१५।२५अब्।
तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ ॥१,१५।२५च्द्।
दशाङ्गमन्नं विप्रस्य भानुवारे ददन्नरः ॥ ॥१,१५।२६अब्।
परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ ॥१,१५।२६च्द्।
बहुमानमथाह्वानमभ्यङ्गं पादसेवनम् ॥ ॥१,१५।२७अब्।
वासो गन्धाद्यर्चनं च घृतापूपरसोत्तरम् ॥ ॥१,१५।२७च्द्।
षड्रसं व्यञ्जनं चैव ताम्बूलं दक्षिणोत्तरम् ॥ ॥१,१५।२८अब्।
नमश्चानुगमश्चैव स्वन्नदानं दशाङ्गकम् ॥ ॥१,१५।२८च्द्।
दशाङ्गमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ॥ ॥१,१५।२९अब्।
अर्कवारे तथा ऽ ऽरोग्यं शतवर्षं समश्नुते ॥ ॥१,१५।२९च्द्।
सोमवारादिवारेषु तत्तद्वारगुणं फलम् ॥ ॥१,१५।३०अब्।
अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि ॥ ॥१,१५।३०च्द्।
सप्तस्वपि च वारेषु दशभ्यश्च दशाङ्गकम् ॥ ॥१,१५।३१अब्।
अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ ॥१,१५।३१च्द्।
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ॥ ॥१,१५।३२अब्।
सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ ॥१,१५।३२च्द्।
सहस्रेभ्यस्तथा दत्त्वा ऽयुतवर्षं समश्नुते ॥ ॥१,१५।३३अब्।
एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ ॥१,१५।३३च्द्।
भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ॥ ॥१,१५।३४अब्।
अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ ॥१,१५।३४च्द्।
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ॥ ॥१,१५।३५अब्।
अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते ॥ ॥१,१५।३५च्द्।
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ॥ ॥१,१५।३६अब्।
यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ ॥१,१५।३६च्द्।
वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ॥ ॥१,१५।३७अब्।
बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ ॥१,१५।३७च्द्।
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ॥ ॥१,१५।३८अब्।
वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ ॥१,१५।३८च्द्।
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ॥ ॥१,१५।३९अब्।
शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ ॥१,१५।३९च्द्।
शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ॥ ॥१,१५।४०अब्।
कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते ॥ ॥१,१५।४०च्द्।
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ॥ ॥१,१५।४१अब्।
उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ ॥१,१५।४१च्द्।
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ॥ ॥१,१५।४२अब्।
गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ॥ ॥१,१५।४२च्द्।
सम्भूय वा पुण्यकाले दद्यादिष्टसमृद्धये ॥ ॥१,१५।४३अब्।
गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ ॥१,१५।४३च्द्।
रौप्यं लवणकूष्माण्डे कन्याद्वादशकं तथा ॥ ॥१,१५।४४अब्।
गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ॥ ॥१,१५।४४च्द्।
धनधान्याद्याश्रितानां दुरितानां निवारणम् ॥ ॥१,१५।४५अब्।
जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ ॥१,१५।४५च्द्।
कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ॥ ॥१,१५।४६अब्।
तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ ॥१,१५।४६च्द्।
भूदानं तु प्रतिष्ठार्थमिह चा ऽमुत्र च द्विजाः ॥ ॥१,१५।४७अब्।
तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ ॥१,१५।४७च्द्।
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ॥ ॥१,१५।४८अब्।
आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ ॥१,१५।४८च्द्।
धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ॥ ॥१,१५।४९अब्।
रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ ॥१,१५।४९च्द्।
सर्वं सर्वसमृद्ध्यर्थं कूष्माण्डं पुष्टिदं विदुः ॥ ॥१,१५।५०अब्।
प्राप्तिदं सर्वभोगानामिह चा ऽमुत्र च द्विजाः ॥ ॥१,१५।५०च्द्।
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ॥ ॥१,१५।५१अब्।
पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ ॥१,१५।५१च्द्।
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ॥ ॥१,१५।५२अब्।
माषादीनां च मुद्गानां फलं शाकादिकं तथा ॥ ॥१,१५।५२च्द्।
मरीचिसर्षपाद्यानां शाकोपकरणं तथा ॥ ॥१,१५।५३अब्।
यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ ॥१,१५।५३च्द्।
श्रोत्रादीन्द्रियतृप्तिश्च सदा देया विपश्चिता ॥ ॥१,१५।५४अब्।
शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ ॥१,१५।५४च्द्।
वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ॥ ॥१,१५।५५अब्।
कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ ॥१,१५।५५च्द्।
बन्धुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ॥ ॥१,१५।५६अब्।
सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् ॥ ॥१,१५।५६च्द्।
वाचिकं यजनं विद्यान्मन्त्रस्तोत्रजपादिकम् ॥ ॥१,१५।५७अब्।
तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ॥ ॥१,१५।५७च्द्।
येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ॥ ॥१,१५।५८अब्।
देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ ॥१,१५।५८च्द्।
तपश्चर्या च दानं च कर्तव्यमुभयं सदा ॥ ॥१,१५।५९अब्।
प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ॥ ॥१,१५।५९च्द्।
देवानां तृप्तये ऽत्यर्थं सर्वभोगप्रदं बुधैः ॥ ॥१,१५।६०अब्।
इहा ऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ॥ ॥१,१५।६०च्द्।
ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् ॥ ॥१,१५।६०एफ़्।
य इमं पठते ऽध्यायं यः शृणोति सदा नरः ॥ ॥१,१५।६१अब्।
तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ ॥१,१५।६१च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चदशोध्यायः