ऋषय ऊचुः
अग्नियज्ञदेवयज्ञं ब्रह्मयज्ञं तथैव च ॥ ॥१,१४।१अब्।
गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ ॥१,१४।१च्द्।
सूत उवाच
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ॥ ॥१,१४।२अब्।
ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ ॥१,१४।२च्द्।
समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ॥ ॥१,१४।३अब्।
प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ॥१,१४।३च्द्।
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ॥ ॥१,१४।४अब्।
हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ॥१,१४।४च्द्।
औपासनाग्निसन्धानं समारभ्य सुरक्षितम् ॥ ॥१,१४।५अब्।
कुण्डे वाप्यथ भाण्डे वा तदजस्रं समीरितम् ॥ ॥१,१४।५च्द्।
अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ॥ ॥१,१४।६अब्।
अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ ॥१,१४।६च्द्।
सम्पत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ॥ ॥१,१४।७अब्।
आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ ॥१,१४।७च्द्।
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ॥ ॥१,१४।८अब्।
इन्द्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥ ॥१,१४।८च्द्।
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ॥ ॥१,१४।९अब्।
चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ ॥१,१४।९च्द्।
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ॥ ॥१,१४।१०अब्।
ब्रह्मयज्ञ इति प्रोक्तो वेदस्या ऽध्ययनं भवेत् ॥ ॥१,१४।१०च्द्।
नित्यानन्तरमासोयं ततस्तु न विधीयते ॥ ॥१,१४।११अब्।
अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥ ॥१,१४।११च्द्।
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ॥ ॥१,१४।१२अब्।
सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ ॥१,१४।१२च्द्।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ ॥१,१४।१३अब्।
आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ ॥१,१४।१३च्द्।
सम्पत्कारं स्वमायाया वरं च कृतवांस्ततः ॥ ॥१,१४।१४अब्।
जनने दुर्गतिक्रान्ते कुमारस्य ततः परम् ॥ ॥१,१४।१४च्द्।
आलस्यदुरितक्रान्त्यै वारं कल्पितवान्प्रभुः ॥ ॥१,१४।१५अब्।
रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ ॥१,१४।१५च्द्।
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ॥ ॥१,१४।१६अब्।
आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ ॥१,१४।१६च्द्।
त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मणः परमेष्ठिनः ॥ ॥१,१४।१७अब्।
जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ ॥१,१४।१७च्द्।
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ॥ ॥१,१४।१८अब्।
तयोः कर्त्रोस्ततो वारमिन्द्रस्य च यमस्य च ॥ ॥१,१४।१८च्द्।
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ॥ ॥१,१४।१९अब्।
आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ ॥१,१४।१९च्द्।
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ॥ ॥१,१४।२०अब्।
स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥ ॥१,१४।२०च्द्।
आरोग्यं सम्पदश्चैव व्याधीनां शान्तिरेव च ॥ ॥१,१४।२१अब्।
पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ ॥१,१४।२१च्द्।
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ॥ ॥१,१४।२२अब्।
अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ ॥१,१४।२२च्द्।
देवानां प्रीतये पूजापञ्चधैव प्रकल्पिता ॥ ॥१,१४।२३अब्।
तत्तन्मन्त्रजपो होमो दानं चैव तपस्तथा ॥ ॥१,१४।२३च्द्।
स्थण्डिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ॥ ॥१,१४।२४अब्।
समाराधनमित्येवं षोडशैरुपचारकैः ॥ ॥१,१४।२४च्द्।
उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम् ॥ ॥१,१४।२५अब्।
नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शान्तये ॥ ॥१,१४।२५च्द्।
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ॥ ॥१,१४।२६अब्।
दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ ॥१,१४।२६च्द्।
प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रोगजरादिकम् ॥ ॥१,१४।२७अब्।
जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ ॥१,१४।२७च्द्।
पापशान्तिर्विशेषेण ह्यादिवारे निवेदयेत् ॥ ॥१,१४।२८अब्।
आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ ॥१,१४।२८च्द्।
सोमवारे च लक्ष्म्यादीन्सम्पदर्थं यजेद्बुधः ॥ ॥१,१४।२९अब्।
आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥ ॥१,१४।२९च्द्।
काल्यादीन्भौम वारे तु यजेद्रोगप्रशान्तये ॥ ॥१,१४।३०अब्।
माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् ॥ ॥१,१४।३०च्द्।
सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः ॥ ॥१,१४।३१अब्।
पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ ॥१,१४।३१च्द्।
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ॥ ॥१,१४।३२अब्।
उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥ ॥१,१४।३२च्द्।
भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ॥ ॥१,१४।३३अब्।
षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥ ॥१,१४।३३च्द्।
स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम् ॥ ॥१,१४।३४अब्।
अपमृत्युहरे मन्दे रुद्राद्रींश्च यजेद्बुधः ॥ ॥१,१४।३४च्द्।
तिलहोमेन दानेन तिलान्नेन च भोजयेत् ॥ ॥१,१४।३५अब्।
इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ ॥१,१४।३५च्द्।
देवानां नित्ययजने विशेषयजनेपि च ॥ ॥१,१४।३६अब्।
स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ ॥१,१४।३६च्द्।
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ॥ ॥१,१४।३७अब्।
आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ ॥१,१४।३७च्द्।
ततद्रूपेण सर्वेषामारोग्यादिफलप्रदः ॥ ॥१,१४।३८अब्।
देशकालानुसारेण तथा पात्रानुसारतः ॥ ॥१,१४।३८च्द्।
द्रव्यश्रद्धानुसारेण तथा लोकानुसारतः ॥ ॥१,१४।३९अब्।
तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ ॥१,१४।३९च्द्।
शुभादावशुभान्ते च जन्मर्क्षेषु गृहे गृही ॥ ॥१,१४।४०अब्।
आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥ ॥१,१४।४०च्द्।
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ॥ ॥१,१४।४१अब्।
समन्त्रकं ब्राह्मणानामन्येषां चैव तान्त्रिकम् ॥ ॥१,१४।४१च्द्।
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः ॥ ॥१,१४।४२अब्।
सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ ॥१,१४।४२च्द्।
दरिद्रस्तपसा देवान्यजेदाढ्यो धनेन हि ॥ ॥१,१४।४३अब्।
पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ ॥१,१४।४३च्द्।
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ॥ ॥१,१४।४४अब्।
छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसञ्चयम् ॥ ॥१,१४।४४च्द्।
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ॥ ॥१,१४।४५अब्।
कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ॥१,१४।४५च्द्।
य इमं शृणुते ऽध्यायं पठते वा नरो द्विजाः ॥ ॥१,१४।४६अब्।
श्रवणस्योपकर्ता च देवयज्ञफलं लभेत् ॥ ॥१,१४।४६च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशो ऽध्यायः