ऋषय ऊचुः
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ॥ ॥१,१३।१अब्।
धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ ॥१,१३।१च्द्।
सूत उवाच
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ॥ ॥१,१३।२अब्।
वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ ॥१,१३।२च्द्।
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ॥ ॥१,१३।३अब्।
किञ्चिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ ॥१,१३।३च्द्।
शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ॥ ॥१,१३।४अब्।
असूयालुः परद्रोही चण्डालद्विज उच्यते ॥ ॥१,१३।४च्द्।
पृथिवीपालको राजा इतरेक्षत्रिया मताः ॥ ॥१,१३।५अब्।
धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ ॥१,१३।५च्द्।
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ॥ ॥१,१३।६अब्।
कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ॥१,१३।६च्द्।
सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् ॥ ॥१,१३।७अब्।
धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ॥१,१३।७च्द्।
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ॥ ॥१,१३।८अब्।
व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ॥१,१३।८च्द्।
निशान्त्यायामोषा ज्ञेया यामार्धं सन्धिरुच्यते ॥ ॥१,१३।९अब्।
तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥ ॥१,१३।९च्द्।
गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा ॥ ॥१,१३।१०अब्।
उदङ्मुखः समाविश्य प्रतिबन्धे ऽन्यदिङ्मुखः ॥ ॥१,१३।१०च्द्।
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ॥ ॥१,१३।११अब्।
लिङ्गं पिधाय वामेन मुखमन्येन पाणिना ॥ ॥१,१३।११च्द्।
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ॥ ॥१,१३।१२अब्।
उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥ ॥१,१३।१२च्द्।
अथवा देवपित्रार्षतीर्थावतरणं विना ॥ ॥१,१३।१३अब्।
सप्त वा पञ्च वा त्रीन्वा गुदं संशोधयेन्मृदा ॥ ॥१,१३।१३च्द्।
लिङ्गे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ॥ ॥१,१३।१४अब्।
तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ ॥१,१३।१४च्द्।
येन केन च पत्रेण काष्ठेन च जलाद्बहिः ॥ ॥१,१३।१५अब्।
कार्यं सन्त्यज्य तर्जनीं दन्तधावनमीरितम् ॥ ॥१,१३।१५च्द्।
जलदेवान्नमस्कृत्य मन्त्रेण स्नानमाचरेत् ॥ ॥१,१३।१६अब्।
अशक्तः कण्ठदघ्नं वा कटिदघ्नमथापि वा ॥ ॥१,१३।१६च्द्।
आजानु जलमाविश्य मन्त्रस्नानं समाचरेत् ॥ ॥१,१३।१७अब्।
देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ ॥१,१३।१७च्द्।
धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् ॥ ॥१,१३।१८अब्।
उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥ ॥१,१३।१८च्द्।
नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् ॥ ॥१,१३।१९अब्।
वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥ ॥१,१३।१९च्द्।
शिलादार्वादिके वापि जले वापि स्थलेपि वा ॥ ॥१,१३।२०अब्।
संशोध्य पीडयेद्वस्त्रं पित्ःणां तृप्तये द्विजाः ॥ ॥१,१३।२०च्द्।
जाबालकोक्तमन्त्रेण भस्मना च त्रिपुण्ड्रकम् ॥ ॥१,१३।२१अब्।
अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥ ॥१,१३।२१च्द्।
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशान्तये ॥ ॥१,१३।२२अब्।
यस्येति मन्त्रं पादे तु सन्धिप्रोक्षणमुच्यते ॥ ॥१,१३।२२च्द्।
पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च ॥ ॥१,१३।२३अब्।
हृत्पादमूर्ध्नि सम्प्रोक्ष्य मन्त्रस्नानं विदुर्बुधाः ॥ ॥१,१३।२३च्द्।
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभये ऽपि च ॥ ॥१,१३।२४अब्।
अत्यागतिकाले च मन्त्रस्नानं समाचरेत् ॥ ॥१,१३।२४च्द्।
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ॥ ॥१,१३।२५अब्।
अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ ॥१,१३।२५च्द्।
गायत्र्या जपमन्त्रान्ते वीरूर्ध्वं प्राग्विनिक्षिपेत् ॥ ॥१,१३।२६अब्।
मन्त्रेण सह चैकं वै मध्ये ऽर्घ्यं तु रवेर्द्विजा ॥ ॥१,१३।२६च्द्।
अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ॥ ॥१,१३।२७अब्।
उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेङ्गुलिभिस्तथा ॥ ॥१,१३।२७च्द्।
अङ्गुलीनां च रन्ध्रेण लम्बं पश्येद्दिवाकरम् ॥ ॥१,१३।२८अब्।
आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ ॥१,१३।२८च्द्।
सायं मुहूर्तादर्वाक्तु कृता सन्ध्या वृथा भवेत् ॥ ॥१,१३।२९अब्।
अकालात्काल इत्युक्तो दिने ऽतीते यथाक्रमम् ॥ ॥१,१३।२९च्द्।
दिवा ऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ॥ ॥१,१३।३०अब्।
आदर्शाहात्परा ऽतीते गायत्रीं लक्षमभ्यसेत् ॥ ॥१,१३।३०च्द्।
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ॥ ॥१,१३।३१अब्।
ईशो गौरीगुहो विष्णुर्ब्रह्मा चेन्द्रश्च वै यमः ॥ ॥१,१३।३१च्द्।
एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ॥ ॥१,१३।३२अब्।
ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ ॥१,१३।३२च्द्।
तीर्थदक्षिणतः शस्ते मठे मन्त्रालये बुधः ॥ ॥१,१३।३३अब्।
तत्र देवालये वापि गृहे वा नियतस्थले ॥ ॥१,१३।३३च्द्।
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ॥ ॥१,१३।३४अब्।
प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ ॥१,१३।३४च्द्।
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ॥ ॥१,१३।३५अब्।
त्रैलोक्यसृष्टिकर्तारं स्थितिकर्तारमच्युतम् ॥ ॥१,१३।३५च्द्।
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ॥ ॥१,१३।३६अब्।
ज्ञानकर्मेन्द्रियाणां च मनोवृत्तीर्धियस्तथा ॥ ॥१,१३।३६च्द्।
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ॥ ॥१,१३।३७अब्।
इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥ ॥१,१३।३७च्द्।
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ॥ ॥१,१३।३८अब्।
सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुङ्गवः ॥ ॥१,१३।३८च्द्।
अन्येषां च यथा शक्तिम् अध्याह्ने च शतं जपेत् ॥ ॥१,१३।३९अब्।
सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ ॥१,१३।३९च्द्।
मूलाधारं समारभ्य द्वादशान्तस्थितांस्तथा ॥ ॥१,१३।४०अब्।
विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ ॥१,१३।४०च्द्।
ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् ॥ ॥१,१३।४१अब्।
तानेव ब्रह्मरन्ध्रादौ कायाद्बाह्ये च भावयेत् ॥ ॥१,१३।४१च्द्।
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ॥ ॥१,१३।४२अब्।
एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ ॥१,१३।४२च्द्।
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ॥ ॥१,१३।४३अब्।
शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ ॥१,१३।४३च्द्।
मन्त्राणां जप एवं हि जपमादिक्रमाद्विदुः ॥ ॥१,१३।४४अब्।
सहस्रं ब्राह्मदं विद्याच्छतमैन्द्रप्रदं विदुः ॥ ॥१,१३।४४च्द्।
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ॥ ॥१,१३।४५अब्।
दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ ॥१,१३।४५च्द्।
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ॥ ॥१,१३।४६अब्।
गायत्र्या लक्षहीनं तु वेदकार्येन योजयेत् ॥ ॥१,१३।४६च्द्।
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ॥ ॥१,१३।४७अब्।
प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ ॥१,१३।४७च्द्।
दिने दिने त्वतिक्रान्ते नित्यमेवं क्रमाज्जपेत् ॥ ॥१,१३।४८अब्।
मासादौ क्रमशो ऽतीते सार्धलक्षजपेन हि ॥ ॥१,१३।४८च्द्।
अत ऊर्ध्वमतिक्रान्ते पुनः प्रैषं समाचरेत् ॥ ॥१,१३।४९अब्।
एवं कृत्वा दोषशान्तिरन्यथा रौरवं व्रजेत् ॥ ॥१,१३।४९च्द्।
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ॥ ॥१,१३।५०अब्।
ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् ॥ ॥१,१३।५०च्द्।
धर्मादर्थो ऽर्थतो भोगो भोगाद्वैराग्यसम्भवः ॥ ॥१,१३।५१अब्।
धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ ॥१,१३।५१च्द्।
विपरीतार्थभोगेन राग एव प्रजायते ॥ ॥१,१३।५२अब्।
धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च ॥ ॥१,१३।५२च्द्।
द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ॥ ॥१,१३।५३अब्।
धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥ ॥१,१३।५३च्द्।
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ॥ ॥१,१३।५४अब्।
कृतादौ हि तपःश्लोघ्यं द्रव्यधर्मः कलौ युगे ॥ ॥१,१३।५४च्द्।
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ॥ ॥१,१३।५५अब्।
द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ ॥१,१३।५५च्द्।
यादृशं पुण्यं पापं वा तादृशं फलमेव हि ॥ ॥१,१३।५६अब्।
द्रव्यदेहाङ्गभेदेन न्यूनवृद्धिक्षयादिकम् ॥ ॥१,१३।५६च्द्।
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ॥ ॥१,१३।५७अब्।
अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ ॥१,१३।५७च्द्।
विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ॥ ॥१,१३।५८अब्।
धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥ ॥१,१३।५८च्द्।
सकुटुम्बस्य विप्रस्य चतुर्जनयुतस्य च ॥ ॥१,१३।५९अब्।
शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥ ॥१,१३।५९च्द्।
चान्द्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः ॥ ॥१,१३।६०अब्।
सहस्रस्य कुटुम्बस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ ॥१,१३।६०च्द्।
इन्द्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ॥ ॥१,१३।६१अब्।
यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ ॥१,१३।६१च्द्।
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ॥ ॥१,१३।६२अब्।
अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥ ॥१,१३।६२च्द्।
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ॥ ॥१,१३।६३अब्।
अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ ॥१,१३।६३च्द्।
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः ॥ ॥१,१३।६४अब्।
अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥ ॥१,१३।६४च्द्।
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ॥ ॥१,१३।६५अब्।
न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ ॥१,१३।६५च्द्।
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ॥ ॥१,१३।६६अब्।
मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ ॥१,१३।६६च्द्।
सत्सङ्गात्सर्वमेतद्वै नराणां जायते द्विजाः ॥ ॥१,१३।६७अब्।
धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ ॥१,१३।६७च्द्।
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ॥ ॥१,१३।६८अब्।
तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ ॥१,१३।६८च्द्।
जलं चैव सदा देयमन्नं क्षुद्व्याधिशान्तये ॥ ॥१,१३।६९अब्।
क्षेत्रं धान्यं तथा ऽ ऽमान्नमन्नमेवं चतुर्विधम् ॥ ॥१,१३।६९च्द्।
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ॥ ॥१,१३।७०अब्।
तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥ ॥१,१३।७०च्द्।
ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा ॥ ॥१,१३।७१अब्।
पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ ॥१,१३।७१च्द्।
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ॥ ॥१,१३।७२अब्।
नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ ॥१,१३।७२च्द्।
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ॥ ॥१,१३।७३अब्।
हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥ ॥१,१३।७३च्द्।
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ॥ ॥१,१३।७४अब्।
शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ ॥१,१३।७४च्द्।
अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ॥ ॥१,१३।७५अब्।
वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥ ॥१,१३।७५च्द्।
शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः ॥ ॥१,१३।७६अब्।
अकस्मादुत्थिते ऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ ॥१,१३।७६च्द्।
असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् ॥ ॥१,१३।७७अब्।
आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ ॥१,१३।७७च्द्।
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ॥ ॥१,१३।७८अब्।
जन्मान्तरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ ॥१,१३।७८च्द्।
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ॥ ॥१,१३।७९अब्।
विशेषेण तथाब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ ॥१,१३।७९च्द्।
न वदेत्सर्वजन्तूनां हृदि रोषकरं बुधः ॥ ॥१,१३।८०अब्।
सन्ध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ ॥१,१३।८०च्द्।
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ॥ ॥१,१३।८१अब्।
तण्डुलं धान्यमाज्यं वा फलं कन्दं हविस्तथा ॥ ॥१,१३।८१च्द्।
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ॥ ॥१,१३।८२अब्।
प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ ॥१,१३।८२च्द्।
नित्यसन्धानमित्युक्तं तमजस्रं विदुर्बुधाः ॥ ॥१,१३।८३अब्।
अथवा जपमात्रं वा सूर्यवन्दनमेव च ॥ ॥१,१३।८३च्द्।
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ॥ ॥१,१३।८४अब्।
ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ॥१,१३।८४च्द्।
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ॥ ॥१,१३।८५अब्।
ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ॥१,१३।८५च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशो ऽध्यायः