सूत उवाच
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ॥ ॥१,१२।१अब्।
तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ ॥१,१२।१च्द्।
पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना ॥ ॥१,१२।२अब्।
शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ ॥१,१२।२च्द्।
तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ॥ ॥१,१२।३अब्।
मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ ॥१,१२।३च्द्।
परिग्रहादृषीणां च देवानां परिग्रहात् ॥ ॥१,१२।४अब्।
स्वयम्भूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ ॥१,१२।४च्द्।
तीर्थे क्षेत्रे सदाकार्यं स्नानदानजपादिकम् ॥ ॥१,१२।५अब्।
अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ ॥१,१२।५च्द्।
अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ॥ ॥१,१२।६अब्।
स्वयम्भूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ ॥१,१२।६च्द्।
क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ॥ ॥१,१२।७अब्।
पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ ॥१,१२।७च्द्।
येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ॥ ॥१,१२।८अब्।
सिन्धोः शतनदीतीरे सन्ति क्षेत्राण्यनेकशः ॥ ॥१,१२।८च्द्।
सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ॥ ॥१,१२।९अब्।
तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ ॥१,१२।९च्द्।
हिमवद्गिरिजा गङ्गा पुण्या शतमुखा नदी ॥ ॥१,१२।१०अब्।
तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ ॥१,१२।१०च्द्।
तत्र तीरं प्रशस्तं हि मृगबृहस्पतौ ॥ ॥१,१२।११अब्।
शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ ॥१,१२।११च्द्।
तत्र स्नानोपवासेन पदं वैनायकं लभेत् ॥ ॥१,१२।१२अब्।
चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ ॥१,१२।१२च्द्।
तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ॥ ॥१,१२।१३अब्।
तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ ॥१,१२।१३च्द्।
गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ॥ ॥१,१२।१४अब्।
एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ ॥१,१२।१४च्द्।
कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा ॥ ॥१,१२।१५अब्।
साष्टादशमुखाप्रोक्ता विष्णुलोकप्रदायिनी ॥ ॥१,१२।१५च्द्।
तुङ्गभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ॥ ॥१,१२।१६अब्।
सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ ॥१,१२।१६च्द्।
तत्रैव सुप्रजायन्ते ब्रह्मलोकच्युतास्तथा ॥ ॥१,१२।१७अब्।
सरस्वती च पम्पा च कन्याश्वेतनदी शुभा ॥ ॥१,१२।१७च्द्।
एतासां तीरवासेन इन्द्रलोकमवाप्नुयात् ॥ ॥१,१२।१८अब्।
सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ ॥१,१२।१८च्द्।
सप्तविंशमुखा प्रोक्ता सर्वाभीष्टं प्रदायिनी ॥ ॥१,१२।१९अब्।
तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ ॥१,१२।१९च्द्।
शिवलोकप्रदा शैवास् तथा ऽभीष्टफलप्रदाः ॥ ॥१,१२।२०अब्।
नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ ॥१,१२।२०च्द्।
ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ॥ ॥१,१२।२१अब्।
सिन्धुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ ॥१,१२।२१च्द्।
केदारोदकपानं च स्नानं च ज्ञानदं विदुः ॥ ॥१,१२।२२अब्।
गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ ॥१,१२।२२च्द्।
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ॥ ॥१,१२।२३अब्।
यमुनाशोणयोः स्नायाद्गुरौ कन्यागते रवौ ॥ ॥१,१२।२३च्द्।
धर्मलोके दन्तिलोके महाभोगप्रदं विदुः ॥ ॥१,१२।२४अब्।
कावेर्यां च तथास्नायात्तुलागे तु रवौ गुरौ ॥ ॥१,१२।२४च्द्।
विष्णोर्वचनमहात्म्यात्सर्वाभीष्टप्रदं विदुः ॥ ॥१,१२।२५अब्।
वृश्चिके मासि सम्प्राप्ते तथार्के गुरुवृश्चिके ॥ ॥१,१२।२५च्द्।
नर्मदायां नदीस्नानाद्विष्णुलोकम्वाप्नुयात् ॥ ॥१,१२।२६अब्।
सुवर्णमुखरीस्नानं चापगे च गुरौ रवौ ॥ ॥१,१२।२६च्द्।
शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ॥ ॥१,१२।२७अब्।
मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ ॥१,१२।२७च्द्।
शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ॥ ॥१,१२।२८अब्।
ब्रह्मविष्ण्वोः पदे भुक्त्वा तदन्ते ज्ञानमाप्नुयात् ॥ ॥१,१२।२८च्द्।
गङ्गायां माघमासे तु तथाकुम्भगते रवौ ॥ ॥१,१२।२९अब्।
श्राद्धं वा पिण्डदानं वा तिलोदकमथापिवा ॥ ॥१,१२।२९च्द्।
वंशद्वयपित्ःणां च कुलकोट्युद्धरं विदुः ॥ ॥१,१२।३०अब्।
कृष्णवेण्यां प्रशंसन्ति मीनगे च गुरौ रवौ ॥ ॥१,१२।३०च्द्।
तत्तत्तीर्थे च तन्मासि स्नानमिन्द्रपदप्रदम् ॥ ॥१,१२।३१अब्।
गङ्गां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ ॥१,१२।३१च्द्।
तत्कालकृतपापस्य क्षयो भवति निश्चितम् ॥ ॥१,१२।३२अब्।
रुद्रलोकप्रदान्येव सन्ति क्षेत्राण्यनेकशः ॥ ॥१,१२।३२च्द्।
ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे ॥ ॥१,१२।३३अब्।
तयोस्तीरे हि सन्त्येव क्षेत्राणि स्वर्गदानि च ॥ ॥१,१२।३३च्द्।
सन्ति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः ॥ ॥१,१२।३४अब्।
तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ ॥१,१२।३४च्द्।
सदाचारेण सद्वृत्त्या सदा भावनयापि च ॥ ॥१,१२।३५अब्।
वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ ॥१,१२।३५च्द्।
पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति ॥ ॥१,१२।३६अब्।
पुण्यक्षेत्रे कृतं पापं महदण्वपि जायते ॥ ॥१,१२।३६च्द्।
तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति ॥ ॥१,१२।३७अब्।
पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ ॥१,१२।३७च्द्।
मानसं च तथा पापं तादृशं नाशयेद्द्विजाः ॥ ॥१,१२।३८अब्।
मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ ॥१,१२।३८च्द्।
ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति ॥ ॥१,१२।३९अब्।
वाचिकं जपजालेन कायिकं कायशोषणात् ॥ ॥१,१२।३९च्द्।
दानाद्धनकृतं नश्येन्ना ऽन्यथाकल्पकोटिभिः ॥ ॥१,१२।४०अब्।
क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥ ॥१,१२।४०च्द्।
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ॥ ॥१,१२।४१अब्।
ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ ॥१,१२।४१च्द्।
भोजांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः ॥ ॥१,१२।४२अब्।
बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ ॥१,१२।४२च्द्।
देवानां पूजया चैव ब्रह्मणानां च दानतः ॥ ॥१,१२।४३अब्।
तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् ॥ ॥१,१२।४३च्द्।
तस्मात्पापमकृत्वैव वस्तव्यंस्सुखमिच्छता ॥ ॥१,१२।४३एफ़्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वादशो ऽध्यायः