१०

ब्रह्मविष्णू ऊचतुः
सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ॥ ॥१,१०।१अब्।
शिव उवाच
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ ॥१,१०।१च्द्।
सृष्टिः स्थितिश्च संहारस्तिरोभावो ऽप्यनुग्रहः ॥ ॥१,१०।२अब्।
पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ ॥१,१०।२च्द्।
सर्गः संसारसंरम्भस्तत्प्रतिष्ठा स्थितिर्मता ॥ ॥१,१०।३अब्।
संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ॥१,१०।३च्द्।
तन्मोक्षो ऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् ॥ ॥१,१०।४अब्।
कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिम्बवत् ॥ ॥१,१०।४च्द्।
सर्गादि यच्चतुष्कृत्यं संसारपरिजृम्भणम् ॥ ॥१,१०।५अब्।
पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ ॥१,१०।५च्द्।
तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः ॥ ॥१,१०।६अब्।
सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ॥१,१०।६च्द्।
तिरोभावो ऽनिले तद्वदनुग्रह इहाम्बरे ॥ ॥१,१०।७अब्।
सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ ॥१,१०।७च्द्।
अर्द्यते तेजसा सर्वं वायुना चापनीयते ॥ ॥१,१०।८अब्।
व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ॥१,१०।८च्द्।
पञ्चकृत्यमिदं बोढुं ममास्ति मुखपञ्चकम् ॥ ॥१,१०।९अब्।
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ ॥१,१०।९च्द्।
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ॥ ॥१,१०।१०अब्।
सृष्टिस्थित्यभीधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ ॥१,१०।१०च्द्।
तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ॥ ॥१,१०।११अब्।
अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ ॥१,१०।११च्द्।
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ॥ ॥१,१०।१२अब्।
न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् ॥ ॥१,१०।१२च्द्।
रूपे वेशे च कृत्ये च वाहने चासने तथा ॥ ॥१,१०।१३अब्।
आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ ॥१,१०।१३च्द्।
मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् ॥ ॥१,१०।१४अब्।
मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् ॥ ॥१,१०।१४च्द्।
तस्मान्मज्ज्ञानसिद्ध्यर्थं मन्त्रमोङ्कारनामकम् ॥ ॥१,१०।१५अब्।
इतः परं प्रजपतं मामकं मानभञ्जनम् ॥ ॥१,१०।१५च्द्।
उपादिशं निजं मन्त्रमोङ्कारमुरुमङ्गलम् ॥ ॥१,१०।१६अब्।
ओङ्कारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ ॥१,१०।१६च्द्।
वाचको ऽयमहं वाच्यो मन्त्रो ऽयं हि मदात्मकः ॥ ॥१,१०।१७अब्।
तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ ॥१,१०।१७च्द्।
अकारौत्तरात्पूर्वमुकारः पश्चिमाननात् ॥ ॥१,१०।१८अब्।
मकारो दक्षिणमुखाद्बिन्दुः प्राङ्मुखतस्तथा ॥ ॥१,१०।१८च्द्।
नादो मध्यमुखादेवं पञ्चधा ऽसौ विजृम्भितः ॥ ॥१,१०।१९अब्।
एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् ॥ ॥१,१०।१९च्द्।
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ॥ ॥१,१०।२०अब्।
व्याप्तमेतेन मन्त्रेण शिवशक्त्योश्च बोधकः ॥ ॥१,१०।२०च्द्।
अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्यतत् ॥ ॥१,१०।२१अब्।
आकारादिक्रमेणैव नकारादियथाक्रमम् ॥ ॥१,१०।२१च्द्।
अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः ॥ ॥१,१०।२२अब्।
तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि ॥ ॥१,१०।२२च्द्।
वेदः सर्वस्ततो जज्ञे ततो वै मन्त्रकोटयः ॥ ॥१,१०।२३अब्।
तत्तन्मन्त्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ ॥१,१०।२३च्द्।
अनेन मन्त्रकन्देन भोगो मोक्षश्च सिद्ध्यति ॥ ॥१,१०।२४अब्।
सकला मन्त्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ ॥१,१०।२४च्द्।
नन्दिकेश्वर उवाच
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मन्त्रं च समादिशत्परम् ॥ ॥१,१०।२५अब्।
निधाय तच्छीर्ष्णि कराम्बुजं शनैरुदङ्मुखं संस्थितयोः सहाम्बिकः ॥ ॥१,१०।२५च्द्।
त्रिरुच्चार्याग्रहीन्मन्त्रं यन्त्रतन्त्रोक्तिपूर्वकम् ॥ ॥१,१०।२६अब्।
शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ ॥१,१०।२६च्द्।
प्रबद्धहस्तौ किल तौ तदन्तिके तमेव देवं जगतुर्जगद्गुरुम् ॥ ॥१,१०।२७अब्।
ब्रह्माच्युतावूचतुः
नमो निष्कलरूपाय नमो निष्कलतेजसे ॥ ॥१,१०।२८अब्।
नमः सकलनाथाय नमस्ते सकलात्मने ॥ ॥१,१०।२८च्द्।
नमः
प्रणववाच्याय नमः प्रणवलिङ्गिने ॥ ॥१,१०।२९अब्।
नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखायते ॥ ॥१,१०।२९च्द्।
पञ्चब्रह्मस्वरूपाय पञ्च कृत्यायते नमः ॥ ॥१,१०।३०अब्।
आत्मने ब्रह्मणे तुभ्यमनन्तगुणशक्तये ॥ ॥१,१०।३०च्द्।
सकलाकलरूपाय शम्भवे गुरवे नमः ॥ ॥१,१०।३१अब्।
इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश् च नेमतुः ॥ ॥१,१०।३१च्द्।
ईश्वर उवाच
वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् ॥ ॥१,१०।३२अब्।
जपतं प्रणवं मन्त्रं देवीदिष्टं मदात्मकम् ॥ ॥१,१०।३२च्द्।
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ॥ ॥१,१०।३३अब्।
आर्द्रायां च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ॥ ॥१,१०।३३च्द्।
सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् ॥ ॥१,१०।३४अब्।
मृगशीर्षान्तिमो भागः पुनर्वस्वादिमस्तथा ॥ ॥१,१०।३४च्द्।
आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे ॥ ॥१,१०।३५अब्।
दर्शनं तु प्रभाते च प्रातःसङ्गवकालयोः ॥ ॥१,१०।३५च्द्।
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ॥ ॥१,१०।३६अब्।
प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ ॥१,१०।३६च्द्।
लिङ्गं बेरं च मेतुल्यं यजतां लिङ्गमुत्तमम् ॥ ॥१,१०।३७अब्।
तस्माल्लिङ्गं परं पूज्यं बेरादपि मुमुक्षुभिः ॥ ॥१,१०।३७च्द्।
लिङ्गमोङ्कारमन्त्रेण बेरं पञ्चाक्षरेण तु ॥ ॥१,१०।३८अब्।
स्वयमेव हि द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ ॥१,१०।३८च्द्।
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ॥ ॥१,१०।३९अब्।
इति शास्य तथा शिष्यौ तत्रैवां ऽतर्हितः शिवः ॥ ॥१,१०।३९च्द्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमो ऽध्यायः