नन्दिकेश्वर उवाच
तत्रान्तरे तौ च नाथं प्रणम्य विधिमाधवौ ॥ ॥१,९।१अब्।
बद्धाञ्जलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ ॥१,९।१च्द्।
तत्र संस्थाप्य तौ देवं सकुटुम्बं वरासने ॥ ॥१,९।२अब्।
पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ ॥१,९।२च्द्।
पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ॥ ॥१,९।३अब्।
हारनूपुरकेयूरकिरीटमणिकुण्डलैः ॥ ॥१,९।३च्द्।
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्याङ्गुलीयकैः ॥ ॥१,९।४अब्।
पुष्पताम्बूलकर्पूरचन्दनागुरुलेपनैः ॥ ॥१,९।४च्द्।
धूपदीपसितच्छत्रव्यजनध्वजचामरैः ॥ ॥१,९।५अब्।
अन्यैर्दिव्योपहारैश्च वाङ्मनोतीतवैभवैः ॥ ॥१,९।५च्द्।
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ॥ ॥१,९।६अब्।
यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ॥ ॥१,९।६च्द्।
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ॥ ॥१,९।७अब्।
सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ ॥१,९।७च्द्।
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ॥ ॥१,९।८अब्।
तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शङ्करः पुरा ॥ ॥१,९।८च्द्।
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ॥ ॥१,९।९अब्।
ईश्वर उवाच
तुष्टो ऽहमद्य वां वत्सौ पूजया ऽस्मिन्महादिने ॥ ॥१,९।९च्द्।
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ॥ ॥१,९।१०अब्।
शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ ॥१,९।१०च्द्।
एतत्काले तु यः कुर्यात्पूजां मल्लिङ्गबेरयोः ॥ ॥१,९।११अब्।
कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ ॥१,९।११च्द्।
शिवरात्रावहोरात्रं निराहारो जितेन्द्रियः ॥ ॥१,९।१२अब्।
अर्चयेद्वा यथान्यायं यथाबलमवञ्चकः ॥ ॥१,९।१२च्द्।
यत्फलं मम पूजायां वर्षमेकं निरन्तरम् ॥ ॥१,९।१३अब्।
तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ ॥१,९।१३च्द्।
मद्धर्मवृद्धिकालो ऽयं चन्द्रकाल इवाम्बुधेः ॥ ॥१,९।१४अब्।
प्रतिष्ठाद्युत्सवो यत्र मामको मङ्गलायनः ॥ ॥१,९।१४च्द्।
यत्पुनः स्तम्भरूपेण स्वाविरासमहं पुरा ॥ ॥१,९।१५अब्।
स कालो मार्गशीर्षे तु स्यादार्द्रा ऋक्षमर्भकौ ॥ ॥१,९।१५च्द्।
आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ॥ ॥१,९।१६अब्।
मद्बेरमपि वा लिङ्गं स गुहादपि मे प्रियः ॥ ॥१,९।१६च्द्।
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ॥ ॥१,९।१७अब्।
अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ ॥१,९।१७च्द्।
रणरङ्गतले ऽमुष्मिन्यदहं लिङ्गवर्ष्मणा ॥ ॥१,९।१८अब्।
जृम्भितो लिङ्गवत्तस्माल्लिङ्गस्थानमिदं भवेत् ॥ ॥१,९।१८च्द्।
अनाद्यन्तमिदं स्तम्भमणुमात्रं भविष्यति ॥ ॥१,९।१९अब्।
दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको ॥ ॥१,९।१९च्द्।
भोगावहमिदं लिङ्गं भुक्तिं मुक्त्येकसाधनम् ॥ ॥१,९।२०अब्।
दर्शनस्पर्शनध्यानाज्जन्तूनां जन्ममोचनम् ॥ ॥१,९।२०च्द्।
अनलाचलसङ्काशं यदिदं लिङ्गमुत्थितम् ॥ ॥१,९।२१अब्।
अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ ॥१,९।२१च्द्।
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ॥ ॥१,९।२२अब्।
मुक्तिरप्यत्र जन्तूनां वासेन मरणेन च ॥ ॥१,९।२२च्द्।
स्थोत्सवादिकल्याणं जनावासं तु सर्वतः ॥ ॥१,९।२३अब्।
अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ ॥१,९।२३च्द्।
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ॥ ॥१,९।२४अब्।
अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ ॥१,९।२४च्द्।
तस्मान्महत्तरमिदं क्षेत्रमत्यन्तशोभनम् ॥ ॥१,९।२५अब्।
सर्वकल्याणसम्पूर्णं सर्वमुक्तिकरं शुभम् ॥ ॥१,९।२५च्द्।
अर्चयित्वा ऽत्र मामेव लिङ्गे लिङ्गिनमीश्वरम् ॥ ॥१,९।२६अब्।
सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ ॥१,९।२६च्द्।
सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् ॥ ॥१,९।२७अब्।
सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ ॥१,९।२७च्द्।
नन्दिकेश्वर उवाच
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ॥ ॥१,९।२८अब्।
यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ ॥१,९।२८च्द्।
तदुत्थापयदत्यर्थं स्वशक्त्यामृतधारया ॥ ॥१,९।२९अब्।
तयोर्माढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ ॥१,९।२९च्द्।
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ॥ ॥१,९।३०अब्।
नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः ॥ ॥१,९।३०च्द्।
पुरस्तात्स्तम्भरूपेण पश्चाद्रूपेण चार्भकौ ॥ ॥१,९।३१अब्।
ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ ॥१,९।३१च्द्।
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ॥ ॥१,९।३२अब्।
तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ ॥१,९।३२च्द्।
तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ॥ ॥१,९।३३अब्।
तन्निराकर्तुमत्रैवमुत्थितो ऽहं रणक्षितौ ॥ ॥१,९।३३च्द्।
त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ॥ ॥१,९।३४अब्।
मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ॥ ॥१,९।३४च्द्।
गुरूक्तिर्व्यञ्जकं तत्र प्रमाणं वा पुनः पुनः ॥ ॥१,९।३५अब्।
ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ ॥१,९।३५च्द्।
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ॥ ॥१,९।३६अब्।
ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ ॥१,९।३६च्द्।
बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ॥ ॥१,९।३७अब्।
समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ ॥१,९।३७च्द्।
अनात्मानः परे सर्वे जीवा एव न संशयः ॥ ॥१,९।३८अब्।
अनुग्रहाद्यं सर्गाङ्गं जगत्कृत्यं च पङ्कजम् ॥ ॥१,९।३८च्द्।
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ॥ ॥१,९।३९अब्।
आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिङ्गमुत्थितम् ॥ ॥१,९।३९च्द्।
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ॥ ॥१,९।४०अब्।
सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ ॥१,९।४०च्द्।
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ॥ ॥१,९।४१अब्।
यदिदं निष्कलं स्तम्भं मम ब्रह्मत्वबोधकम् ॥ ॥१,९।४१च्द्।
लिङ्गलक्षणयुक्तत्वान्मम लिङ्गं भवेदिदम् ॥ ॥१,९।४२अब्।
तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ ॥१,९।४२च्द्।
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ॥ ॥१,९।४३अब्।
महत्पूज्यमिदं नित्यमभेदाल्लिङ्गसिङ्गिनोः ॥ ॥१,९।४३च्द्।
यत्रप्रतिष्ठितं येन मदीयं लिङ्गमीदृशम् ॥ ॥१,९।४४अब्।
तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ॥ ॥१,९।४४च्द्।
मत्साम्यमेकलिङ्गस्य स्थापने फलमीरितम् ॥ ॥१,९।४५अब्।
द्वितीये स्थापिते लिङ्गे मदैक्यं फलमेव हि ॥ ॥१,९।४५च्द्।
लिङ्गं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ॥ ॥१,९।४६अब्।
लिङ्गाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ॥ ॥१,९।४६च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमो ऽध्यायः