०८

नन्दिकेश्वर उवाच
ससर्जाथ महादेवः पुरुषं कञ्चिदद्भुतम् ॥ ॥१,८।१अब्।
भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥ ॥१,८।१च्द्।
स वै तदा तत्र पतिं प्रणम्य शिवमङ्गणे ॥ ॥१,८।२अब्।
किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ ॥१,८।२च्द्।
वत्सयो ऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ॥ ॥१,८।३अब्।
नूनमर्चय खड्गं स्वं तिग्मेन जवसा परम् ॥ ॥१,८।३च्द्।
स वै गृहीत्वैककरेण केशं तत्पञ्चमं दृप्तमसत्यभाषणम् ॥ ॥१,८।४अब्।
छित्त्वा शिरांस्यस्य निहन्तुमुद्यतः प्रकम्पयन्खड्गमतिस्फुटं करैः ॥ ॥१,८।४च्द्।
पिता तवोत्सृष्टविभूषणाम्बरस्रगुत्तरीयामलकेशसंहतिः ॥ ॥१,८।५अब्।
प्रवातरम्भेव लतेव चञ्चलः पपात वै भैरवपादपङ्कजे ॥ ॥१,८।५च्द्।
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम् ॥ ॥१,८।६अब्।
निषिच्य बाष्पैरवदत्कृताञ्जलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ ॥१,८।६च्द्।
अच्युत उवाच
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पञ्चाननमीशचिह्नम् ॥ ॥१,८।७अब्।
तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥ ॥१,८।७च्द्।
इत्यर्थितो ऽच्युतेनेशस्तुष्टः सुरगणाङ्गणे ॥ ॥१,८।८अब्।
निवर्तयामास तदा भैरवं ब्रह्मदण्डतः ॥ ॥१,८।८च्द्।
अथाह देवः कितवं विधिं विगतकन्धरम् ॥ ॥१,८।९अब्।
ब्रह्मंस्त्वमर्हणाकाङ्क्षी शठमीशत्वमास्थितः ॥ ॥१,८।९च्द्।
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ॥ ॥१,८।१०अब्।
ब्रह्मोवच
स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् ॥ ॥१,८।१०च्द्।
नमस्तुभ्यं भगवते बन्धवे विश्वयोनये ॥ ॥१,८।११अब्।
सहिष्णवे सर्वदोषाणां शम्भवे शैलधन्वने ॥ ॥१,८।११च्द्।
ईश्वर उवाच
अराजभयमेतद्वै जगत्सर्वं न शिष्यति ॥ ॥१,८।१२अब्।
ततस्त्वं जहि दण्डार्हं वह लोकधुरं शिशो ॥ ॥१,८।१२च्द्।
वरं ददामि ते तत्र गृहाण दुर्लभं परम् ॥ ॥१,८।१३अब्।
वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥ ॥१,८।१३च्द्।
निष्फलस्त्वदृते यज्ञः साङ्गश्च सहदक्षिणः ॥ ॥१,८।१४अब्।
अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ ॥१,८।१४च्द्।
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ॥ ॥१,८।१५अब्।
ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥ ॥१,८।१५च्द्।
इत्युक्ते तत्र देवेन केतकं देवजातयः ॥ ॥१,८।१६अब्।
सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ ॥१,८।१६च्द्।
केतक उवाच
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया ॥ ॥१,८।१७अब्।
सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ ॥१,८।१७च्द्।
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ॥ ॥१,८।१८अब्।
तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ ॥१,८।१८च्द्।
तथा स्तुतस्तु भगवान्केतकेन सभातले ॥ ॥१,८।१९अब्।
न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥ ॥१,८।१९च्द्।
मदीयास्त्वां धरिष्यम्इ जन्म ते सफलं ततः ॥ ॥१,८।२०अब्।
त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥ ॥१,८।२०च्द्।
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ॥ ॥१,८।२१अब्।
विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ ॥१,८।२१च्द्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमो ऽध्यायः