०७

ईश्वर उवाच
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ ॥१,७।१अब्।
जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ ॥१,७।१च्द्।
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ ॥१,७।२अब्।
भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ ॥१,७।२च्द्।
इति सस्मितया माध्व्या कुमारपरिभाषया ॥ ॥१,७।३अब्।
समतोषयदम्बायाः स पतिस्तत्सुरव्रजम् ॥ ॥१,७।३च्द्।
अथ युद्धाङ्गणं गन्तुं हरिधात्रोरधीश्वरः ॥ ॥१,७।४अब्।
आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ ॥१,७।४च्द्।
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ ॥१,७।५अब्।
गणेश्वराश्च सन्नद्धा नानावाहनभूषणाः ॥ ॥१,७।५च्द्।
प्रणवाकारमाद्यन्तं पञ्चमण्डलमण्डितम् ॥ ॥१,७।६अब्।
आरुरोह रथं भद्रमम्बिकापतिरीश्वरः ॥ ॥१,७।६च्द्।
ससूनुगणमिन्द्राद्याः सर्वेप्यनुययुः सुराः ॥ ॥१,७।६एफ़्।
चित्रध्वजव्यजनचामरपुष्पवर्षसङ्गतिनृत्यनिवहैरैपि वाद्यवर्गैः ॥ ॥१,७। ७अब्।
सम्मानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ ॥१,७।७च्द्।
समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः ॥ ॥१,७।८अब्।
समाप्तवाद्यनिर्घोषः शान्तोरुगणनिःस्वनः ॥ ॥१,७।८च्द्।
अथ ब्रह्माच्युतौ वीरौ हन्तुकामौ परस्परम् ॥ ॥१,७।९अब्।
माहेश्वरेण चा ऽस्त्रेण तथा पाशुपतेन च ॥ ॥१,७।९च्द्।
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ ॥१,७।१०अब्।
ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ ॥१,७।१०च्द्।
महानलस्तम्भविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ ॥१,७।११अब्।
ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ ॥१,७।१२अब्।
निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ ॥१,७।१२च्द्।
दृष्ट्वा तदद्भुतं चित्रमस्त्रशान्तिकरं शुभम् ॥ ॥१,७।१३अब्।
किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ ॥१,७।१३च्द्।
अतीन्द्रियमिदं स्तम्भमग्निरूपं किमुत्थितम् ॥ ॥१,७।१४अब्।
अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि ॥ ॥१,७।१४च्द्।
इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ ॥१,७।१५अब्।
तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम् ॥ ॥१,७।१५च्द्।
आवयोर्मिश्रयोस्तत्र कार्यमेकं न सम्भवेत् ॥ ॥१,७।१६अब्।
इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ ॥१,७।१६च्द्।
तथा ब्रह्माहं सतनुस्तदन्तं वीक्षितुं ययौ ॥ ॥१,७।१७अब्।
भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ ॥१,७।१७च्द्।
ना ऽपि श्यात्तस्य संस्थानं स्तम्भस्यानलवर्चसः ॥ ॥१,७।१८अब्।
श्रान्तः स सूकरहरीः प्राप पूर्वं रणाङ्गणम् ॥ ॥१,७।१८च्द्।
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ ॥१,७।१९अब्।
ददर्श केतकी पुष्पं किञ्चिद्विच्युतमद्भुतम् ॥ ॥१,७।१९च्द्।
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ ॥१,७।२०अब्।
अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः ॥ ॥१,७।२०च्द्।
परिहासं तु कृतवान्कम्पनाच्चलितं शिरः ॥ ॥१,७।२१अब्।
तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ ॥१,७।२१च्द्।
किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतम् ॥ ॥१,७।२२अब्।
आदिमस्याप्रमेयस्य स्तम्भमध्याच्च्युतश्चिरम् ॥ ॥१,७।२२च्द्।
न सम्पश्यामि तस्मात्त्वं जह्याशामन्तदर्शने ॥ ॥१,७।२३अब्।
अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ ॥१,७।२३च्द्।
इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् ॥ ॥१,७।२४अब्।
मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ ॥१,७।२४च्द्।
स्तम्भान्तो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ ॥१,७।२५अब्।
इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ ॥१,७।२५च्द्।
असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॥ ॥१,७।२५एफ़्।
समीक्ष्य तत्रा ऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ ॥१,७।२६अब्।
उवाच चैनं परमार्थमच्युतं षण्ढात्तवादः स विधिस्ततो ऽच्युतम् ॥ ॥१,७।२६च्द्।
स्तम्भाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ ॥१,७।२७अब्।
ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदन्तिके ॥ ॥१,७।२७च्द्।
हरिश्च तत्सत्यमितीव चिन्तयंश्चकार तस्मै विधये नमः स्वयम् ॥ ॥१,७।२८अब्।
षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ ॥१,७।२८च्द्।
विधिं प्रहर्तुं शठमग्निलिङ्गतः स ईश्वरस्तत्र बभूव साकृतिः ॥ ॥१,७।२९अब्।
समुत्थितः स्वामि विलोकनात्पुनः प्रकम्पपाणिः परिगृह्य तत्पदम् ॥ ॥१,७।२९च्द्।
आद्यन्तहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ ॥१,७।३०अब्।
स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ ॥१,७।३०च्द्।
ईश्वर उवाच
वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ ॥१,७।३१अब्।
ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ ॥१,७।३१च्द्।
इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ ॥१,७।३२अब्।
इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ ॥१,७।३३अब्।
ददौ स्वसाम्यमत्यर्थं देवसङ्घे च पश्यति ॥ ॥१,७।३३च्द्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः