०५

सूत उवाच
श्रवणादित्रिके ऽशक्तो लिङ्गं बेरं च शाङ्करम् ॥ ॥१,५।१अब्।
संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम् ॥ ॥१,५।१च्द्।
अपि द्रव्यं वहेदेव यथाबलमवञ्चयन् ॥ ॥१,५।२अब्।
अर्पयेल्लिङ्गबेरार्थमर्चयेदपि सन्ततम् ॥ ॥१,५।२च्द्।
मण्डपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ॥ ॥१,५।३अब्।
वस्त्रं गन्धं च माल्यं च धूपं दीपं च भक्तितः ॥ ॥१,५।३च्द्।
विविधान्नं च नैवेद्यमपूपव्यञ्जनैर्युतम् ॥ ॥१,५।४अब्।
छत्रं ध्वजं च व्यजनं चामरं चापि साङ्गकम् ॥ ॥१,५।४च्द्।
राजोपचारवत्सर्वं धारयेल्लिङ्गबेरयोः ॥ ॥१,५।५अब्।
प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ॥१,५।५च्द्।
आवाहनादिसर्गान्तं नित्यं कुर्यात्सुभक्तितः ॥ ॥१,५।६अब्।
इत्थमभ्यर्च्य यन्देवं लिङ्गेबेरे च शाङ्करे ॥ ॥१,५।६च्द्।
सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् ॥ ॥१,५।७अब्।
लिङ्गबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ॥१,५।७च्द्।
मनुय ऊचुः
बेरमात्रे तु सर्वत्र पूज्यन्ते देवतागणाः ॥ ॥१,५।८अब्।
लिङ्गेबेरे च सर्वत्र कथं सम्पूज्यते शिवः ॥ ॥१,५।८च्द्।
सूत उवाच
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् ॥ ॥१,५।९अब्।
अत्र वक्ता महादेवो नान्यो ऽस्ति पुरुषः क्वचित् ॥ ॥१,५।९च्द्।
शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् ॥ ॥१,५।१०अब्।
शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ ॥१,५।१०च्द्।
रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ॥ ॥१,५।११अब्।
निष्कलत्वान्निराकारं लिङ्गं तस्य समागतम् ॥ ॥१,५।११च्द्।
सकलत्वात्तथा बेरं साकारं तस्य सङ्गतम् ॥ ॥१,५।१२अब्।
सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः ॥ ॥१,५।१२च्द्।
अपि लिङ्गे च बेरे च नित्यमभ्यर्च्यते जनैः ॥ ॥१,५।१३अब्।
अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित् ॥ ॥१,५।१३च्द्।
तस्मात्ते निष्कले लिङ्गे नाराध्यन्ते सुरेश्वराः ॥ ॥१,५।१४अब्।
अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः ॥ ॥१,५।१४च्द्।
तूष्णीं सकलमात्रत्वादर्च्यन्ते बेरमात्रके ॥ ॥१,५।१५अब्।
जीवत्वं शङ्करान्येषां ब्रह्मत्वं शङ्करस्य च ॥ ॥१,५।१५च्द्।
वेदान्तसारसंसिद्धं प्रणवार्थे प्रकाशनात् ॥ ॥१,५।१६अब्।
एवमेव पुरा पृष्टो मन्दरे नन्दिकेश्वरः ॥ ॥१,५।१६च्द्।
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ॥ ॥१,५।१७अब्।
सनत्कुमार उवाच
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ ॥१,५।१७च्द्।
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ॥ ॥१,५।१८अब्।
शिवमात्रस्य पूजायां लिङ्गं बेरं च दृश्यते ॥ ॥१,५।१८च्द्।
अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ॥ ॥१,५।१९अब्।
नन्दिकेश्वर उवाच
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ ॥१,५।१९च्द्।
कथयामि शिवेनोक्तं भक्तियुक्तस्य ते ऽनघ ॥ ॥१,५।२०अब्।
शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ ॥१,५।२०च्द्।
लिङ्गं तस्यैव पूजायां सर्ववेदेषु सम्मतम् ॥ ॥१,५।२१अब्।
तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ ॥१,५।२१च्द्।
सकलं च तथा बेरं पूजायां लोकसम्मतम् ॥ ॥१,५।२२अब्।
शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः ॥ ॥१,५।२२च्द्।
बेरमात्रं च पूजायां सम्मतं वेदनिर्णये ॥ ॥१,५।२३अब्।
स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ ॥१,५।२३च्द्।
शिवस्य लिङ्गं बेरं च दर्शने दृश्यते खलु ॥ ॥१,५।२४अब्।
सनत्कुमार उवाच
उक्तं त्वया महाभाग लिङ्गबेरप्रचारणम् ॥ ॥१,५।२४च्द्।
शिवस्य च तदन्येषां विभज्य परमार्थतः ॥ ॥१,५।२५अब्।
तस्मात्तदेव परमं लिङ्गबेरादिसम्भवम् ॥ ॥१,५।२५च्द्।
श्रोतुमिच्छामि योगीन्द्र लिङ्गाविर्भावलक्षणम् ॥ ॥१,५।२६अब्।
नन्दिकेश्वर उवाच
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ ॥१,५।२६च्द्।
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ॥ ॥१,५।२७अब्।
आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ ॥१,५।२७च्द्।
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ॥ ॥१,५।२८अब्।
निष्कलस्तम्भरूपेण स्वरूपं समदर्शयत् ॥ ॥१,५।२८च्द्।
ततः स्वलिङ्गचिह्नत्वात्स्तम्भतो निष्कलं शिवः ॥ ॥१,५।२९अब्।
स्वलिङ्गं दर्शयामास जगतां हितकाम्यया ॥ ॥१,५।२९च्द्।
तदाप्रभृति लोकेषु निष्कलं लिङ्गमैश्वरम् ॥ ॥१,५।३०अब्।
सकलं च तथा बेरं शिवस्यैव प्रकल्पितम् ॥ ॥१,५।३०च्द्।
शिवान्येषः तु देवानां बेरमात्रं प्रकल्पितम् ॥ ॥१,५।३१अब्।
तत्तद्बेरं तु देवानां तत्तद्भोगप्रदं शुभम् ॥ ॥१,५।३१च्द्।
शिवस्य लिङ्गबेरत्वं भोगमोक्षप्रदं शुभम् ॥ ॥१,५।३१एफ़्।

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पञ्चमो ऽध्यायः