०४

मुनय ऊचुः
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ॥ ॥१,४।१अब्।
कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ ॥१,४।१च्द्।
ब्रह्मोवच
पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् ॥ ॥१,४।२अब्।
तत्सन्ततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ ॥१,४।२च्द्।
गीतात्मना श्रुतिपदेन च भाषया वा शम्भुप्रतापगुणरूपविलासनाम्नाम् ॥ ॥१,४।३अब्।
वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति सा धनमत्र मध्यम् ॥ ॥१,४।३च्द्।
येनापि केन करणेन च शब्दपुञ्जं यत्र क्वचिच्छिवपरं श्रवणेन्द्रियेण ॥ ॥१,४।४अब्।
स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ॥१,४।४च्द्।
सत्सङ्गमेन भवति श्रवणं पुरस्तात्सङ्कीर्तनं पशुपतेरथ तद्दृढं स्यात् ॥ ॥१,४।५अब्।
सर्वोत्तमं भवति तन्मननं तदन्ते सर्वं हि सम्भवति शङ्करदृष्टिपाते ॥ ॥१,४।५च्द्।
सूत उवाच
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ॥ ॥१,४।६अब्।
युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ ॥१,४।६च्द्।
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ॥ ॥१,४।७अब्।
तपश्चचार सम्भ्रान्तः सरस्वत्यास्तटे शुभे ॥ ॥१,४।७च्द्।
गच्छन्यदृछया तत्र विमानेनार्करोचिषा ॥ ॥१,४।८अब्।
सनत्कुमारो भगवान्ददर्श मम देशिकम् ॥ ॥१,४।८च्द्।
ध्यानारूढः प्रबुद्धो ऽसौ ददर्श तमजात्मजम् ॥ ॥१,४।९अब्।
प्रणिपत्याह सम्भ्रान्तः परं कौतूहलं मुनिः ॥ ॥१,४।९च्द्।
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् ॥ ॥१,४।१०अब्।
प्रसन्नः प्राह तं प्रह्वं प्रभुर्गम्भीरया गिरा ॥ ॥१,४।१०च्द्।
सनत्कुमार उवाच
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ॥ ॥१,४।११अब्।
स शिवोथासहायोत्र तपश्चरसि किं कृते ॥ ॥१,४।११च्द्।
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ॥ ॥१,४।१२अब्।
धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ ॥१,४।१२च्द्।
बहुधा स्थापिता लोके मया त्वत्कृपया तथा ॥ ॥१,४।१३अब्।
एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः ॥ ॥१,४।१३च्द्।
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् ॥ ॥१,४।१४अब्।
तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ ॥१,४।१४च्द्।
इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः ॥ ॥१,४।१५अब्।
समर्थः प्राह विप्रेन्द्रा निश्चयं मुक्तिकारणम् ॥ ॥१,४।१५च्द्।
श्रवणं कीर्तनं शम्भोर्मननं च महत्तरम् ॥ ॥१,४।१६अब्।
त्रयं साधनमुक्तं च विद्यते वेदसम्मतम् ॥ ॥१,४।१६च्द्।
पुराहमथ सम्भ्रान्तो ह्यन्यसाधनसम्भ्रमः ॥ ॥१,४।१७अब्।
अचले मन्दरे शैले तपश्चरणमाचरम् ॥ ॥१,४।१७च्द्।
शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः ॥ ॥१,४।१८अब्।
स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः ॥ ॥१,४।१८च्द्।
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ॥ ॥१,४।१९अब्।
श्रवणं कीर्तनं शम्भोर्मननं वेदसम्मतम् ॥ ॥१,४।१९च्द्।
त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् ॥ ॥१,४।२०अब्।
श्रवणादिं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः ॥ ॥१,४।२०च्द्।
एवमुक्त्वा ततो व्यासं सानुगो विधिनन्दनः ॥ ॥१,४।२१अब्।
जगाम स्वविमानेन पदं परमशोभनम् ॥ ॥१,४।२१च्द्।
एवमुक्तं समासेन पूर्ववृत्तान्तमुत्तमम् ॥ ॥१,४।२२अब्।
ऋषय ऊचुः
श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः ॥ ॥१,४।२२च्द्।
श्रवणादित्रिके ऽशक्तः किं कृत्वा मुच्यते जनः ॥ ॥१,४।२३अब्।
अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना ॥ ॥१,४।२३च्द्।

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायं साध्यसाधनखण्डे चतुर्थो ऽध्यायः