व्यास उवाच
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ॥ ॥१,३।१अब्।
वेदान्तसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ ॥१,३।१च्द्।
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ॥ ॥१,३।२अब्।
संस्मरञ्छङ्करं सूतः प्रोवाच मुनिसत्तमान् ॥ ॥१,३।२च्द्।
सूत उवाच
शृण्वन्तु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ॥ ॥१,३।३अब्।
पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ॥१,३।३च्द्।
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ॥१,३।४अब्।
वेदान्तवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ ॥१,३।५अब्।
सूत उवाच
शृण्वन्तु ऋषयः सर्वे पुराणं वेदसारजम् ॥ ॥१,३।६अब्।
पुरा कालेन महता कल्पे ऽतीते पुनःपुनः ॥ ॥१,३।६च्द्।
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ ॥१,३।७अब्।
मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ॥१,३।७च्द्।
इदं परमिदं नेति विवादः सुमहानभूत् ॥ ॥१,३।८अब्।
ते ऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ॥१,३।८च्द्।
वाग्भिर्विनयगर्भाभिः सर्वे प्राञ्जलयो ऽब्रुवन् ॥ ॥१,३।९अब्।
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ॥१,३।९च्द्।
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः ॥ ॥१,३।१०अब्।
ब्रह्मोवाच
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ॥१,३।१०च्द्।
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ ॥१,३।११अब्।
सहभूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ ॥१,३।११च्द्।
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ॥ ॥१,३।१२अब्।
अयं तु परया भक्त्या दृश्यते ना ऽन्यथा क्वचित् ॥ ॥१,३।१२च्द्।
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ॥ ॥१,३।१३अब्।
भक्त्या परमया तस्य नित्यं दर्शनकाङ्क्षिणः ॥ ॥१,३।१३च्द्।
बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ॥ ॥१,३।१४अब्।
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसम्भवः ॥ ॥१,३।१४च्द्।
यथेहाङ्कुरतो बीजं बीजतो वा यथाङ्कुरः ॥ ॥१,३।१४एफ़्।
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ॥ ॥१,३।१५अब्।
दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ ॥१,३।१५च्द्।
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ॥ ॥१,३।१६अब्।
वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ ॥१,३।१६च्द्।
मुनय ऊचुः
अथ किं परमं साध्यं किंवा तत्साधनं परम् ॥ ॥१,३।१७अब्।
साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ ॥१,३।१७च्द्।
ब्रह्मोवाच
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ॥ ॥१,३।१८अब्।
साधकस्तत्प्रसादाद्यो ऽनित्यादिफलनिःस्पृहः ॥ ॥१,३।१८च्द्।
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ॥ ॥१,३।१९अब्।
परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ ॥१,३।१९च्द्।
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ॥ ॥१,३।२०अब्।
तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ ॥१,३।२०च्द्।
सङ्क्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ॥ ॥१,३।२१अब्।
श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ ॥१,३।२१च्द्।
मनसा मननं तस्य महासाधनमुच्यते ॥ ॥१,३।२२अब्।
श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ ॥१,३।२२च्द्।
इति श्रुतिप्रमाणं नः साधनेना ऽमुना परम् ॥ ॥१,३।२३अब्।
साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ ॥१,३।२३च्द्।
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते ॥ ॥१,३।२४अब्।
अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ ॥१,३।२४च्द्।
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ॥ ॥१,३।२५अब्।
ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥ ॥१,३।२५च्द्।
क्रमान्मननपर्यन्ते साधने ऽस्मिन्सुसाधिते ॥ ॥१,३।२६अब्।
शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ ॥१,३।२६च्द्।
सर्वाङ्गव्याधयः पश्चात्सर्वानन्दश्च लीयते ॥ ॥१,३।२७अब्।
अभ्यासात्क्लेशमेतद्वै पश्चादाद्यन्तमङ्गलम् ॥ ॥१,३।२७च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे तृतीयो ऽध्यायः