सूतौवाच
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ॥ ॥१,२।१अब्।
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ ॥१,२।१च्द्।
वेदान्तसारसर्वस्वं पुराणं शैवमुत्तमम् ॥ ॥१,२।२अब्।
सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ ॥१,२।२च्द्।
कलिकल्मषविध्वंसि यस्मिञ्च्छिवयशः परम् ॥ ॥१,२।३अब्।
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ॥१,२।३च्द्।
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ॥ ॥१,२।४अब्।
सर्वोत्तमस्य शैवस्य ते यास्यन्ति सुसद्गतिम् ॥ ॥१,२।४च्द्।
तावद्विजृम्भते पापं ब्रह्महत्यापुरस्सरम् ॥ ॥१,२।५अब्।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ॥१,२।५च्द्।
तावत्कलिमहोत्पाताः सञ्चरिष्यन्ति निर्भयाः ॥ ॥१,२।६अब्।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ॥१,२।६च्द्।
तावत्सर्वाणि शास्त्राणि विवदन्ति परस्परम् ॥ ॥१,२।७अब्।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ॥१,२।७च्द्।
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ॥ ॥१,२।८अब्।
यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ॥१,२।८च्द्।
तावद्यमभटाः क्रूराः सञ्चरिष्यन्ति निर्भयाः ॥ ॥१,२।९अब्।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ॥१,२।९च्द्।
तावत्सर्वपुराणानि प्रगर्जन्ति महीतले ॥ ॥१,२।१०अब्।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ॥१,२।१०च्द्।
तावत्सर्वाणि तीर्थानि विवदन्ति महीतले ॥ ॥१,२।११अब्।
यावछिवपुराणं हि नोदेष्यति जगत्यहो ॥ ॥१,२।११च्द्।
तावत्सर्वाणि मन्त्राणि विवदन्ति महीतले ॥ ॥१,२।१२अब्।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ॥१,२।१२च्द्।
तावत्सर्वाणि क्षेत्राणि विवदन्ति महीतले ॥ ॥१,२।१३अब्।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ॥१,२।१३च्द्।
तावत्सर्वाणि पीठानि विवदन्ति महीतले ॥ ॥१,२।१४अब्।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ॥१,२।१४च्द्।
तावत्सर्वाणि दानानि विवदन्ति महीतले ॥ ॥१,२।१५अब्।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ॥१,२।१५च्द्।
तावत्सर्वे च ते देवा विवदन्ति महीतले ॥ ॥१,२।१६अब्।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ॥१,२।१६च्द्।
तावत्सर्वे च सिद्धान्ता विवदन्ति महीतले ॥ ॥१,२।१७अब्।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ ॥१,२।१७च्द्।
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः ॥ ॥१,२।१८अब्।
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ ॥१,२।१८च्द्।
तथापि तस्य माहात्म्यं वक्ष्ये किञ्चित्तु वोनघाः ॥ ॥१,२।१९अब्।
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ ॥१,२।१९च्द्।
एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ॥ ॥१,२।२०अब्।
यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ ॥१,२।२०च्द्।
एतच्छिवपुराणं हि यः प्रत्यहमतन्द्रितः ॥ ॥१,२।२१अब्।
यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ ॥१,२।२१च्द्।
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ॥ ॥१,२।२२अब्।
दिने दिने ऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ ॥१,२।२२च्द्।
एतच्छिवपुराणं यस्साधारणपदेच्छया ॥ ॥१,२।२३अब्।
अन्यतः शृणुयात्सो ऽपि मत्तो मुच्येत पातकात् ॥ ॥१,२।२३च्द्।
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ॥ ॥१,२।२४अब्।
सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ ॥१,२।२४च्द्।
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ॥ ॥१,२।२५अब्।
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ ॥१,२।२५च्द्।
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ॥ ॥१,२।२६अब्।
यत्फलं दुर्लभं लोके तत्फलं तस्य सम्भवेत् ॥ ॥१,२।२६च्द्।
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ॥ ॥१,२।२७अब्।
शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ ॥१,२।२७च्द्।
प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ॥ ॥१,२।२८अब्।
इह भुक्त्वाखिलान्कामानन्ते निर्वाणतां व्रजेत् ॥ ॥१,२।२८च्द्।
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ॥ ॥१,२।२९अब्।
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ ॥१,२।२९च्द्।
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ॥ ॥१,२।३०अब्।
आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे ॥ ॥१,२।३०च्द्।
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ॥ ॥१,२।३१अब्।
तत्फलं सम्भवेत्तस्य सत्यं सत्यं न संशयः ॥ ॥१,२।३१च्द्।
एतच्छिवपुराणं हि गायते योप्यहर्निशम् ॥ ॥१,२।३२अब्।
आज्ञां तस्य प्रतीक्षेरन्दवा इन्द्रपुरोगमाः ॥ ॥१,२।३२च्द्।
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ॥ ॥१,२।३३अब्।
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ॥१,२।३३च्द्।
समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ॥ ॥१,२।३४अब्।
स ब्रह्मघ्नो ऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ ॥१,२।३४च्द्।
तां रुद्रसंहितां यस्तु भैरवप्रतिमान्तिके ॥ ॥१,२।३५अब्।
त्रिः पठेत्प्रत्यहं मौनी स कामानखिलांल्लभेत् ॥ ॥१,२।३५च्द्।
तां रुद्रसंहितां यस्तु सपठेद्वटबिल्वयोः ॥ ॥१,२।३६अब्।
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ॥१,२।३६च्द्।
कैलाससंहिता तत्र ततो ऽपि परमस्मृता ॥ ॥१,२।३७अब्।
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ॥१,२।३७च्द्।
कैलाससंहितायास्तु माहात्म्यं वेत्ति शङ्करः ॥ ॥१,२।३८अब्।
कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः ॥ ॥१,२।३८च्द्।
तत्र किञ्चित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ॥ ॥१,२।३९अब्।
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ॥१,२।३९च्द्।
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ॥ ॥१,२।४०अब्।
तन्न पश्याम्यहं लोके मार्गमाणो ऽपि सर्वदा ॥ ॥१,२।४०च्द्।
शिवेनोपनिषत्सिन्धुमन्थनोत्पादितां मुदा ॥ ॥१,२।४१अब्।
कुमारायार्पितां तां वै सुधां पीत्वा ऽमरो भवेत् ॥ ॥१,२।४१च्द्।
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ॥ ॥१,२।४२अब्।
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ॥१,२।४२च्द्।
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् ॥ ॥१,२।४३अब्।
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ॥१,२।४३च्द्।
शिवालये विल्ववने संहितां तां पठेत्तु यः ॥ ॥१,२।४४अब्।
स तत्फलमवाप्नोति यद्वाचो ऽपि न गोचरे ॥ ॥१,२।४४च्द्।
संहितां तां पठन् भक्त्या यः श्राद्धे भोजयेद्द्विजान् ॥ ॥१,२।४५अब्।
तस्य ये पितरः सर्वे यान्ति शम्भोः परं पदम् ॥ ॥१,२।४५च्द्।
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् ॥ ॥१,२।४६अब्।
बिल्वमूले शिवः साक्षात्सदेवैश्च प्रपूज्यते ॥ ॥१,२।४६च्द्।
अन्यापि संहिता तत्र सर्वकामफलप्रदा ॥ ॥१,२।४७अब्।
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ॥१,२।४७च्द्।
तदिदं शैवमाख्यातं पुराणं वेदसम्मितम् ॥ ॥१,२।४८अब्।
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसम्मितम् ॥ ॥१,२।४८च्द्।
विद्येशञ्च तथारौद्रं वैनायकमथौमिकम् ॥ ॥१,२।४९अब्।
मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ ॥१,२।४९च्द्।
कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ॥ ॥१,२।५०अब्।
वायवीयं धर्मसञ्ज्ञं पुराणमिति भेदतः ॥ ॥१,२।५०च्द्।
संहिता द्वादशमिता महापुण्यतरा मता ॥ ॥१,२।५१अब्।
तासां सङ्ख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ ॥१,२।५१च्द्।
विद्येशं दशासाहस्रं रुद्रं वैनायकं तथा ॥ ॥१,२।५२अब्।
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ॥१,२।५२च्द्।
त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ॥ ॥१,२।५३अब्।
षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम् ॥ ॥१,२।५३च्द्।
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ॥ ॥१,२।५४अब्।
सहस्रकोटिरुद्राख्यमुदितं ग्रन्थसङ्ख्यया ॥ ॥१,२।५४च्द्।
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् ॥ ॥१,२।५५अब्।
तदेवं लक्षसङ्ख्याकं शैवसङ्ख्याविभेदतः ॥ ॥१,२।५५च्द्।
व्यासेन तत्तु सङ्क्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ॥१,२।५६अब्।
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ॥१,२।५६च्द्।
शिवे सङ्कल्पितं पूर्वं पुराणं ग्रन्थसङ्ख्यया ॥ ॥१,२।५७अब्।
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ॥१,२।५७च्द्।
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु ॥ ॥१,२।५८अब्।
चतुर्लक्षेण सङ्क्षिप्ते कृते द्वैपायनादिभिः ॥ ॥१,२।५८च्द्।
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ॥ ॥१,२।५९अब्।
श्लोकानां सङ्ख्यया सप्तसंहितं ब्रह्मसम्मितम् ॥ ॥१,२।५९च्द्।
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ॥ ॥१,२।६०अब्।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ॥१,२।६०च्द्।
पञ्चमी चैव मौमाख्या षष्ठी कैलाससञ्ज्ञिका ॥ ॥१,२।६१अब्।
सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ ॥१,२।६१च्द्।
ससप्तसंहितं दिव्यं पुराणं शिवसञ्ज्ञकम् ॥ ॥१,२।६२अब्।
वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ॥१,२।६२च्द्।
एतच्छिवपुराणं हि सप्तसंहितमादरात् ॥ ॥१,२।६३अब्।
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ॥१,२।६३च्द्।
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ॥ ॥१,२।६४अब्।
एतच्छिवपुराणस्य नार्हन्त्यल्पां कलामपि ॥ ॥१,२।६४च्द्।
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न सङ्गृहीतम् ॥ ॥१,२।६५अब्।
सङ्क्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां हि ॥ ॥१,२।६५च्द्।
विकैतवो धर्म इह प्रगीतो वेदान्तविज्ञानमयः प्रधानः ॥ ॥१,२।६६अब्।
अमत्सरान्तर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ॥ ॥१,२।६६च्द्।
शैवं पुराणतिलकं खलु सत्पुराणं वेदान्तवेदविलसत्परवस्तुगीतम् ॥ ॥१,२।६७अब्।
यो वै पठेच्च शृणुयात्परमादरेण शम्भुप्रियः स हि लभेत्परमां गतिं वै ॥ ॥१,२।६७च्द्।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्विदीयो ऽध्यायः