०१ मुनिप्रश्नवर्णनः

व्यास उवाच
धर्मक्षेत्रे महाक्षेत्रे गङ्गाकालिन्दिसङ्गमे ॥ ॥१,१।१अब्।
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ॥१,१।१च्द्।
मुनयः शंसितात्मनस्सत्यव्रतपरायणाः ॥ ॥१,१।२अब्।
महौजसो महाभागा महासत्रं वितेनिरे ॥ ॥१,१।२च्द्।
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ॥ ॥१,१।३अब्।
आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः ॥ ॥१,१।३च्द्।
तं दृष्ट्वा सूतमायान्तं हर्षिता मुनयस्तदा ॥ ॥१,१।४अब्।
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ॥१,१।४च्द्।
ततो विनयसंयुक्ता प्रोचुः साञ्जलयश्चते ॥ ॥१,१।५अब्।
सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ ॥१,१।५च्द्।
रोमहर्षण सर्वज्ञ भवान् वै भाग्यगौरवात् ॥ ॥१,१।६अब्।
पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ॥१,१।६च्द्।
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ॥१,१।७अब्।
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ॥१,१।७च्द्।
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ॥ ॥१,१।८अब्।
न त्वया ऽविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ॥१,१।८च्द्।
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ॥ ॥१,१।९अब्।
कुर्वन्किमपि नः श्रेयो न वृथा गन्तुमर्हसि ॥ ॥१,१।९च्द्।
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ॥ ॥१,१।१०अब्।
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ ॥१,१।१०च्द्।
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ॥ ॥१,१।११अब्।
तद्रहस्यमपि ब्रूहि यदि ते ऽनुग्रहो भवेत् ॥ ॥१,१।११च्द्।
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ॥ ॥१,१।१२अब्।
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ ॥१,१।१२च्द्।
परापवादनिरताः परद्रव्याभिलाषिणः ॥ ॥१,१।१३अब्।
परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ ॥१,१।१३च्द्।
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ॥ ॥१,१।१४अब्।
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिङ्कराः ॥ ॥१,१।१४च्द्।
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ॥ ॥१,१।१५अब्।
धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ ॥१,१।१५च्द्।
त्यक्तस्वजातिकर्माणः प्राय्हशःपरवञ्चकाः ॥ ॥१,१।१६अब्।
त्रिकालसन्ध्यया हीना ब्रह्मबोधविवर्जिताः ॥ ॥१,१।१६च्द्।
अदयाः पण्डितम्मन्यास्स्वाचारव्रतलोपकाः ॥ ॥१,१।१७अब्।
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ ॥१,१।१७च्द्।
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ॥ ॥१,१।१८अब्।
असत्सङ्गाः पापरता व्यभिचारपरायणाः ॥ ॥१,१।१८च्द्।
अशूरा अरणप्रीताः पलायनपरायणाः ॥ ॥१,१।१९अब्।
कुचौरवृत्तयः शूद्राः कामकिङ्करचेतसः ॥ ॥१,१।१९च्द्।
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ॥ ॥१,१।२०अब्।
शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ ॥१,१।२०च्द्।
प्रजापालनसद्धर्मविहीना भोगतत्पराः ॥ ॥१,१।२१अब्।
प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ ॥१,१।२१च्द्।
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ॥ ॥१,१।२२अब्।
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ ॥१,१।२२च्द्।
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ॥ ॥१,१।२३अब्।
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ ॥१,१।२३च्द्।
कामिनीजारभावेषु सुरता मलिनाशयाः ॥ ॥१,१।२४अब्।
लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ ॥१,१।२४च्द्।
तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः ॥ ॥१,१।२५अब्।
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ ॥१,१।२५च्द्।
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ॥ ॥१,१।२६अब्।
शिश्वल्पमृत्युकाराश्च मन्त्रोच्चारपरायणाः ॥ ॥१,१।२६च्द्।
शीलिग्रामशिलादीनां पूजकाहोमतत्पराः ॥ ॥१,१।२७अब्।
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ ॥१,१।२७च्द्।
धनवन्तः कुकर्माणो विद्यावन्तो विवादिनः ॥ ॥१,१।२८अब्।
आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ ॥१,१।२८च्द्।
सुभूपाकृतयो दम्भाः सुदातारो महामदाः ॥ ॥१,१।२९अब्।
विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ ॥१,१।२९च्द्।
स्वधर्मरहिता मूडाः सङ्कराः क्रूरबुद्धयः ॥ ॥१,१।३०अब्।
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ॥१,१।३०च्द्।
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ॥ ॥१,१।३१अब्।
सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ ॥१,१।३१च्द्।
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ॥ ॥१,१।३२अब्।
श्वशुरद्रोहकारिण्यो निर्भया मलिनाशनाः ॥ ॥१,१।३२च्द्।
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ॥ ॥१,१।३३अब्।
जारसङ्गरता नित्यं स्वस्वामिविमुखास्तथा ॥ ॥१,१।३३च्द्।
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ॥ ॥१,१।३४अब्।
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ॥१,१।३४च्द्।
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ॥ ॥१,१।३५अब्।
परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ ॥१,१।३५च्द्।
इति चिन्ताकुलं चित्तं जायते सततं हि नः ॥ ॥१,१।३६अब्।
परोपकारसदृशो नास्ति धर्मो परः खलु ॥ ॥१,१।३६च्द्।
लघूपायेन येनैषां भवेत्सद्योघनाशनम् ॥ ॥१,१।३७अब्।
सर्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ॥१,१।३७च्द्।
व्यास उवाच
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ ॥१,१।३८अब्।
मनसा शङ्करं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ॥१,१।३८च्द्।

इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनोनामप्रथमो ऽध्यायः