शिवधर्मोत्तर

शिवधर्मोत्तरः

प्। २५(१)

श्रीः

ॐ गणेशाय नमः । शिवायनमः ॥

गजाननकटद्वन्द्वविनिष्यन्दिमदाम्बुनम् ।
प्रत्यूहपङ्कनिवहं प्रक्षालयतु सन्ततम् ॥ १-१ ॥

शिवमादौ शिवम्मध्ये शिवमन्ते च सर्वदा ।
सर्वेषां शिवभक्तानामनुगानां भवेच्छिवम् ॥ १-२ ॥

मेरुपृष्ठे समासीनम् ऋषिसङ्घैस्समावृतम् ।
लोकानुग्रहकं शान्तं सर्वज्ञं नन्दिकेश्वरम् ॥ १-३ ॥

तेषाम्मध्ये समुत्थाय मुनिः ब्रह्मसुतोत्तमः ।
सनत्कुमारस्सुतपाः पृच्छतिस्म यथाविधि ॥ १-४ ॥

भगवन्सर्वधर्मज्ञ शिवधर्मपरायण ।
श्रोतुकामाः परन्धर्ममिमे सर्वे समागताः ॥ १-५ ॥

अग्निष्ठोमादयोयज्ञाः बहुवित्तक्रियान्विताः ।
अशक्तास्ते यतः कर्तुमल्पवित्तैर्द्विजादिभिः ॥ १-६ ॥

सुखोपायमतो ब्रूहि सर्वकामार्थसाधकम् ।
हिताय सर्वमर्त्यानां शिवधर्मं सनातनम् ॥ १-७ ॥

येन सिद्धास्सुरा दैत्या गन्धर्वोरगराक्षसाः ।
ऋषयः किन्नरा यक्षाः तथा किम्पुरुषादयः ॥ १-८ ॥

प्। २ (२८)

गणाश्च विविधाश्चान्ये शिवधर्मपरायणाः ।
सम्पूज्यास्ससुरास्सर्वे तद्भक्त्या शिवधार्मिकाः ॥ १-९ ॥

श्रीनन्दिकेश्वर उवाच

श्रूयतामभिधास्यामि सुखोपायम्महत्फलम् ।
परमं सर्वधर्माणां शिवधर्मं शिवात्मकम् ॥ १-१० ॥

शिवेन कथितं पूर्वं पार्वत्याष्षण्मुखस्य च ।
गणानान्देवमुख्यानामस्माकञ्च विशेषतः ॥ १-११ ॥

अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम् ।
शिवधर्मोडुपः श्रीमानुत्तारार्थमुदाहृतः ॥ १-१२ ॥

यैरयं शान्तचेतस्कैः शिवभक्तैश्शिवार्थिभिः ।
संसेव्यते परोधर्मः ते रुद्रा नात्र संशयः ॥ १-१३ ॥

ग्रामे वा यदि वारण्ये जलेवापि स्थलेऽपि वा ।
यत्रैव दृश्यते लिङ्गं सर्वतीर्थानि तत्र वै ॥ १-१४ ॥

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
ये स्मरन्ति विरूपाक्षं विज्ञेयास्ते गणेश्वराः ॥ १-१५ ॥

सङ्कीर्तयन्ति ये रुद्रं सकृदप्याशु ते नराः ।
सर्वपापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ॥ १-१६ ॥

येर्चयन्ति सदारुद्रं न ते प्राकृतमानुषाः ।
रुद्रलोकादिहं प्राप्ताः ते रुद्राः नात्र संशयः ॥ १-१७ ॥

जाते नात्मद्रुहा येन न ना * * तो भगवान् * * * ।

प्। ३ (२९)

सुचिरं सञ्चरत्यस्मिन् संसारे दुःखसागरे ॥ १-१८ ॥

तस्य चिम्महच्छिद्रं सम्मोहस्यान्ध्यमूकता ।
यत् क्षणं वा मुहूर्तं वा शर्वमेको न चिन्तयेत् ॥ १-१९ ॥

दुर्लभं प्राप्यमानुष्यं यर्चयन्ति सदाशिवम् ।
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ १-२० ॥

भवभक्तिपराये तु भवप्रणतचेतसः ।
भवसंस्मरणो युक्ताः तेन दुःखस्य भाजनम् ॥ १-२१ ॥

भवनानि मनोज्ञानि विभ्रमा भरणाः स्त्रियः ।
धनञ्चादृष्टपर्यन्तं शिवपूजा विधेः फलम् ॥ १-२२ ॥

ये वाञ्छन्ति महाभोगान् राज्यं वा त्रिदशालयम् ।
येर्चयन्ति सदा कालं हरस्य चरणाम्बुजम् ॥ १-२३ ॥

सौभाग्यं कान्तिमद्रूपं सत्यं त्यागः प्रभावता(प्रवक्तृता) ।
शौर्यञ्च जगतिख्यातिः शिवमर्चयतां फलम् ॥ १-२४ ॥

ध्यायन्ति ये शिवं नित्यमन्तर्यामिणमन्ततः ।
सम्भवन्ति सदा तेषामायुरारोग्यसम्पदः ॥ १-२५ ॥

जपतां ध्यायतान्नित्यं शिवमर्चयतां सदा ।
नमतां च चतुर्वर्गफलं मुक्तिश्चतुर्विधा ॥ १-२६ ॥

नारुद्रस्संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् ।
नारुद्रः कीर्तयेद्रुद्रं नारुद्रोरुद्रमाप्नुयात् ॥ १-२७ ॥

सम्पर्कात् कौतुकाल्लाभात् भयाद्वापि च संस्मरेत् ।

प्। ४ (२८)

कीर्तयेदर्चयेद्वापि सोप्यवश्यं गणो भवेत् ॥ १-२८ ॥

शिवधर्मस्य सारोयं शिवभक्तिश्च निश्चला ।
साचाष्टाङ्गी शिवेनोक्ता कार्या नित्यं प्रयत्नतः ॥ १-२९ ॥

श्रीभगवानुवाच

मद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् ।
स्वयमभ्यर्चनं भक्त्या ममार्थे चाङ्गचेष्टनम् ॥ १-३० ॥

मत्कथाश्रवणे भक्तिस्वरनेत्राङ्गविक्रिया ।
ममानुस्मरणं नित्यं कीर्तनेनोपजीवति ॥ १-३१ ॥

भक्तिरष्टविधाह्येषा यस्मिन् म्लेच्छेऽपि वर्तते ।
सं विप्रेन्द्रो मुनिश्श्रीमान् सयतिस्स च पण्डितः ॥ १-३२ ॥

येर्चयन्ति सदा भक्त्या हीनाश्च विभवैरपि ।
पत्रपुष्पफलैस्तोयैः मत्तुल्यायान्ति मत्पदम् ॥ १-३३ ॥

पूजोपकरणं वापि पूजाया द्रव्यमेव वा ।
मम बक्तोपकारं च मनोवाक्कायकर्मभिः ॥ १-३४ ॥

तस्य वित्तग्रहक्षेत्रप्रदानमपि पूजनम् ।
मत्पूजायास्समं पुण्यं सत्यमेव वदाम्यहम् ॥ १-३५ ॥

न मे प्रियश्चतुर्वेदी मद्भक्तश्श्वपचोपि वा ।
तस्मै देयं ततो ग्राह्यं स सम्पूज्यो यथाह्यहम् ॥ १-३६ ॥

पत्रं पुष्पं फलन्तोयं यो मे भक्त्या प्रयच्छति ।
तदहं प्रीतिभावेन ह्यश्नामि प्रयतात्मनः ॥ १-३७ ॥

प्। ५(३१)

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ १-३८ ॥

अर्चयेन्न सदात्मस्थं यो मांसमयमास्थितः ।
नैति दुर्गेषु मार्गेषु मार्गमाणोपि पश्यति ॥ १-३९ ॥

यो मां सर्वगतं पश्येत् सर्वं च मयि संस्थितम् ।
तस्याहन्नित्यमात्मस्थः स च नित्यम्मयि स्थितः ॥ १-४० ॥

श्रीनन्दिकेश्वरः

सुदुर्लभा शिवे भक्तिः दुर्लभञ्च शिवार्चनम् ।
सुदुर्लभं शिवज्ञानं शिवहोमञ्च दुर्लभम् ॥ १-४१ ॥

सुदुर्लभं शिवज्ञानं तदभ्यासोपि दुर्लभः ।
सुदुर्लभतरं ज्ञेयं जपध्यानं शिवात्मकम् ॥ १-४२ ॥

सुदुर्लभा तयोः प्राप्तिः तदभ्यासोपि दुर्लभः ।
सुदुर्लभं शिवं ज्ञात्वा शिवे भक्तिं समाश्रयेत् ॥ १-४३ ॥

लाभस्तेषां मनुष्याणां ये शिवं शरणं गताः ।
तेषान्दिवा च रात्रौ च नित्यं शिवगता स्मृतिः ॥ १-४४ ॥

नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ।
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ १-४५ ॥

इत्येष वस्समासेन शिवधर्मोखिलः क्रमात् ।
निर्दिष्टः प्रथमाध्याये शेषोस्यैव प्रविस्तरः ॥ १-४६ ॥

य इमं पठते नित्यं शृणुयाद्वापि भक्तितः ।

प्। ६ (३२)

स मुक्तस्सर्वपापेभ्यः शिवलोके महीयते ॥ १-४७ ॥

डाकिन्यो विविधाकारा राक्षसाः प्रेतनायकाः ।
तस्य पीठान्न कुर्वन्ति तथा चान्येपि हिंसकाः ॥ १-४८ ॥

शत्रवो नाशमायान्ति सङ्ग्रामे जयमाप्नुयात् ।
सर्वरोगैर्नबाध्येत आपदो न स्पृशन्ति तम् ॥ १-४९ ॥

धनमायुर्यशो विद्यां प्रभावमतुलं भवेत् ।
शुम्भेनोपचयं यान्ति नित्यं पूर्णमनोरथः ॥ १-५० ॥

इति श्रीशिवधर्मोत्तरे श्रीनन्दिकेश्वरप्रोक्ते शिवभक्तलक्षणं नाम
प्रथमोध्यायः ॥

प्। ७ (३३)

श्रीः

अथ द्वितीयोध्यायः

सनत्कुमारः उवाच

लिङ्गार्चनविधिं पुण्यं श्रोतुमिच्चामि तत्त्वतः ।
त्वत्प्रसादाद्विशेषण भगवन्नन्दिकेश्वर ॥ २-१ ॥

यत्पुण्यं स्थापिते लिङ्गे कृते यच्च शिवालये ।
सम्मार्जने च यत्पुण्यं यत्पुण्यमनुलेपने ॥ २-२ ॥

नीराजनोषधीबीज स्नानमङ्गलवादने ।
यत्पुण्यमर्घ्यदानेन तोयस्नानेन यद्भवेत् ॥ २-३ ॥

उद्वर्तनन्तरस्नाने कुशपुष्पोदकेन च ॥ २-४ ॥

पञ्चगव्यपयस्नाने दधिस्नानेन यत्फलम् ।
घृताभ्यङ्गेन यत्पुण्यं घृतस्नानेन यद्भवेत् ॥ २-५ ॥

सुवर्णरत्नतोयैश्च स्वच्छतो येन यत्फलम् ।
विलेपनैश्च गन्धाद्यैः विलिप्तेन च यद्भवेत् ॥ २-६ ॥

बिल्वबृन्दप्रदानेन दीपदर्पणदर्शने ।
मुक्तपुष्पार्चने चैव मालाभिर्लिङ्गपूरणे ॥ २-७ ॥

पुष्पमण्टपिकायाञ्च पुष्पमालावलम्बने ।
पूजाभक्तिविशेषैश्च वेद्यामालेपकल्पने ॥ २-८ ॥

पुष्पजातिविशेषेषु धूपेष्वपि च यत्फलम् ।

प्। ८(३४)

वस्त्रालङ्कारदानेन दीपिकार्पणदर्शने ॥ २-९ ॥

भक्ष्यभोज्यान्नपानादिफलकन्दनिवेदने ।
प्रदक्षिणनमस्कार प्रणामस्तात्रकीर्तनैः ॥ २-१० ॥

छत्रध्वजपताकानां घण्टावादित्रशङ्खयोः ।
वितानवस्त्रपूजायां बलिहोमक्रियासु च ॥ २-११ ॥

गजाश्वभृत्यनागानां भूमिदानेन यत्फलम् ।
ग्रामखेटपुराणां च दशदानेन यत्फलम् ॥ २-१२ ॥

स्त्रीणां सङ्गीतदानेन नाट्ये नैव विशेषतः ।
स्वयम्माल्योपहारेण पुंसां पुण्यन्तु यद्भवेत् ॥ २-१३ ॥

तत्पुण्यस्यापहारेण पुण्यापुण्यं च यद्भवेत् ।
यतीनामन्नपानादिमठोपकरणानि च ॥ २-१४ ॥

दत्वा किं लभते पुण्यं कृत्वा वा तत्प्रतिश्रयम् ।
तत्संस्कारे तथा तेषां प्रत्युत्थादाभिवादनैः ॥ २-१५ ॥

यद्यदन्यद्भवेत् सूक्ष्मज्ञानान्न प्रचोदितम् ।
तत्सर्वं कथयास्माकं भक्तानामनुकम्पया ॥ २-१६ ॥

इति शिवधर्मोत्तरे प्रश्नभेदो नाम द्वितीयोध्यायः ॥

प्। ९ (३५)

श्रीः

अथ तृतीयोध्यायः

नन्दिकेश्वर उवाच

त्वमतीव शिवे भक्तः पद्मयोनिसुतोत्तम ।
तेन ते निखिलं वक्ष्ये श्रुणुष्वेकाग्रमानसः ॥ ३-१ ॥

पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
विवादस्तु महानासीत् ब्रह्मविष्ण्वोः परस्परम् ॥ ३-२ ॥

अहं कर्तास्म्यहं कर्ता न मत्तोन्यो जगत्प्रभुः ।
एवमाह हरिं ब्रह्मा ब्रह्माणं च हरिस्तथा ॥ ३-३ ॥

तयोर्दर्पापहाराय प्रबोधाय च देवयोः ।
मध्ये समुद्भवल्लिङ्गमैश्वरन्तैजसः परम् ॥ ३-४ ॥

ज्वालामालावृतन्दिव्यमप्रमेयमनूपमम् ।
योजनायुतविस्तीर्णं स्थितन्तद्विमलाम्भसि ॥ ३-५ ॥

ज्वालाभिर्मोहितौ तस्य लिङ्गस्य सुरसत्तमौ ।
तदा विस्मयमापन्नौ पश्यन्तावमराधिपौ ॥ ३-६ ॥

गतावूर्ध्वमधस्तस्य सम्प्रधार्य परस्परम् ।
अधोदृष्टिं गतो विष्णुरुर्ध्वञ्चैव पितामहः ॥ ३-७ ॥

कृताञ्जलिपुटौ भूत्वा लिङ्गन्तुष्टुवतुस्तदा ।
लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेशसम्मितम् ॥ ३-८ ॥

समाधिस्थौ तु सम्पन्नौ दृष्टवन्तौ शिवात्मकम् ।

प्। १०(३६)

नैव तत्काञ्चनं रौप्यं ताम्रं स्फाटिकमौक्तिकम् ॥ ३-९ ॥

लक्ष्यमात्रं स्थितं शान्तं केवलन्तच्छिवात्मकम् ।
तयोस्तुष्टो महादेवः प्रदायवरमुत्तमम् ॥ ३-१० ॥

कारणत्वमनुज्ञाय तत्रैवान्तरधीयत ।
ब्रह्माद्यास्तु तदारभ्य प्रतिष्ठाप्य सुरासुराः ॥ ३-११ ॥

तल्लिङ्गानुकृतिं लिङ्गमीडिरे मुनयस्तथा ।
परं गूढशरीरं च लिङ्गं क्षेत्रमनादिमत् ॥ ३-१२ ॥

यदाद्यमैश्वरन्तेजस्तल्लिङ्गं पञ्चसञ्ज्ञितम् ।
सकलं निष्कलन्तच्च व्यक्ताव्यक्तं सनातनम् ॥ ३-१३ ॥

लीयन्ते सर्वभूतानि गच्छन्ति परमं पदम् ।
तस्माल्लिङ्गमिति प्रोक्तं जगतामादिकारणम् ॥ ३-१४ ॥

कल्पान्ते तस्य लिङ्गस्य लीयन्ते सर्वदेवताः ।
दक्षिणे लीयते ब्रह्मा वामे तस्य जनार्दनः ॥ ३-१५ ॥

हृदये चैव गायत्री सर्वदेवोत्तमोत्तमा ।
लीयन्ते मूर्ध्नि वै वेदाः सषडङ्गपदक्रमाः ॥ ३-१६ ॥

जठरे लीयते तस्य जगत्स्थावरजङ्गमम् ।
पुनरुत्पद्यते तस्मात् ब्रह्माद्यं सचराचरम् ॥ ३-१७ ॥

आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका ।
आलयं सर्वभूतानां लयनाल्लिङ्गमुच्यते ॥ ३-१८ ॥

तस्माल्लिङ्गं प्रतिष्ठाप्य सर्वदेव भवोद्भवम् ।

प्। ११ (३७) स्थापितं तेन सर्वं स्यात् पूजितं च न संशयः ॥ ३-१९ ॥

कृताञ्जलिपुटो विष्णुः ब्रह्माचापि विशेषतः ।
पूर्वं लिङ्गं समभ्यर्च्य तदा कार्याणि चक्रतुः ॥ ३-२० ॥

ब्रह्मा ब्रह्माक्षरैः दिव्यैः लिङ्गं पूजयते सदा ।

ब्रह्मा पूजयते नित्यं लिङ्गं शैवमयं शुभम् ।
तस्य सम्पूजनादेव प्राप्तं ब्रह्मत्वमुत्तमम् ॥ ३-२२ ॥

शक्रोपि देवरा * * * * * * * * * * ।
भक्त्या पूजयते नित्यं तेन शक्रत्वमाप्तवान् ॥ ३-२३ ॥

लिङ्गं हेममयं कान्तं धनदोर्च्चयते सदा ।
तेनासौ धनदो देवो धनदत्वमवाप्तवान् ॥ ३-२४ ॥

वायुः परेण भावेन पैत्तलजं शुभम् ।
त्रिकालाभ्यर्चने नैव वायुर्वायुत्वमाप्तवान् ॥ ३-२५ ॥

इन्द्रनीलमयं लिङ्गं विष्णुः पूजयते सदा ।
विष्णुं प्राप्तवांस्तेन सोद्भुतैकं सनातनम् ॥ ३-२६ ॥

वसवः कांस्यकं लिङ्गं पूजयन्ति विधानतः ।
प्राप्तास्तेन महात्मानो वसुत्वं च महोदयम् ॥ ३-२७ ॥

अश्विनौ पार्थिवं लिङ्गं पूजयन्तौ विधानतः ।
तेन तावश्विनौ देवौ दिव्यदेहं गतावुभौ ॥ ३-२८ ॥

स्फाटिकं निर्मलं लिङ्गं वरुणोर्चयते सदा ।

प्। १२ (३८)

तेन तद्वारुणत्वं हि प्राप्तमृद्धिबलान्वितम् ॥ ३-२९ ॥

लिङ्गमन्नमयं पुण्यमग्निर्यजति भावितः ।
अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् ॥ ३-३० ॥

शैवन्ताम्रमयं लिङ्गं भक्त्या देवो दिवाकरः ।
त्रिकालं यजते तेन प्राप्तं सूर्यत्वमुत्तमम् ॥ ३-३१ ॥

मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा ।
तेन सोमोपसम्प्राप सोमत्वं सततोज्वलम् ॥ ३-३२ ॥

प्रवालकमयं लिङ्गं यजन्ते पन्नगोत्तमाः ।
तेन नागेषु भोगाढ्यं प्राप्तास्ते परमं पदम् ॥ ३-३८ ॥

पूज्यगन्धेन गन्धर्वा गन्धर्वत्वमवापिरे ।
फलेन गोमये नैव दारुणा कुसुमेन च ॥ ३-३४ ॥

आशया च रसेनैव बहवोभीष्टमाप्नुयुः ।
कार्ष्णायसमयं लिङ्गं पूजयन्त्यसुरोत्तमाः ॥ ३-३५ ॥

राक्षसास्ते महात्मानः तेन तेमितविक्रमाः ।
त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्ति ये ॥ ३-३६ ॥

ते महर्धिबलाधाराः प्राप्नुवन्ति परं पदम् ।
बहुलोहमयं लिङ्गं यजन्ते मातरस्सदा ॥ ३-३७ ॥

मातृत्वं प्राप्य तास्सर्वाः प्रयान्ति परमं पदम् ।
एवन्देवास्सगन्धर्वास्सयक्षोरगराक्षसाः ॥ ३-३८ ॥

पूजयन्ति सदाकालमीशानं सुरनायकम् ।

प्। १३ (३९)

सर्वं लिङ्गमयं लोकं सर्वं लिङ्गे प्रतिष्ठितम् ॥ ३-३९ ॥

तस्मात् सम्पूजयेल्लिङ्गं यदीच्छेत्सिद्धिमात्मनः ।
लिङ्गे देवो महादेवस्साक्षादेव व्यवस्थितः ॥ ३-४० ॥

अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् ।
यो न पूजयते मोहात् लिङ्गं त्रिभुवनेशितुः ॥ ३-४१ ॥

व्यर्थन्तज्जन्म विज्ञेयं तस्य वंशं निरर्थकम् ।
न च स्वर्गस्य मोक्षस्य न स राज्यस्य भाजनम् ॥ ३-४२ ॥

यस्तु पूजयते लिङ्गं नित्यं त्रिभुवनेश्वरम् ।
स स्वर्गमोक्षराज्यस्य क्षिप्रं भवति भाजनम् ॥ ३-४३ ॥

तस्मादेकमनाभूत्वा यावज्जीवं प्रतिज्ञया ।
अर्चयेत महादेवम् आपन्नोपि सदाबुधः ॥ ३-४४ ॥

उद्धृत्यासप्तमं वंशं शिवेन सह लीयते ।
वरं प्राणपरित्यागः छेदनं शिरसोपि वा ॥ ३-४५ ॥

न त्वनभ्यर्च्य भुञ्जीयात् भगवन्तं त्रिलोचनम् ।
एवं निर्वहते यस्तु यावज्जीवं प्रतिज्ञया ॥ ३-४६ ॥

मानुष्यचर्मणाबद्धः स रुद्रो नात्र संशयः ।
नास्ति लिङ्गार्चनात्पुण्यं पुण्यमप्यधिकं क्वचित् ॥ ३-४७ ॥

इति विज्ञाययत्नेन पूजनीयस्सदाशिवः ।
संसारसागरन्तर्तुं नास्त्युपायोन्यथा नृणाम् ॥ ३-४८ ॥

जननाम्बुधिमग्नानां प्लवोयं लिङ्गपूजनम् ।

प्। १४ (४०)

यो लिङ्गन्द्वेष्टिपापेन सर्वदेवनमस्कृतम् ॥ ३-४९ ॥

नरो नरकगामी स्यात् तस्य सम्भाषणादपि ।
महेश्वरकृतं सर्वं त्रैलोक्यं सचराचरम् ॥ ३-५० ॥

ते कृतघ्ना भवन्तीह येन भक्ता महेश्वरे ।
जगतामन्तरात्मानं यो न पूजयते धिया ॥ ३-५१ ॥

आत्मद्रोही स विज्ञेयः पितृद्रोही च स स्मृतः ।
यस्मात् सर्वेषु भूतेषु गतिर्देवो महेश्वरः ॥ ३-५२ ॥

तस्मात् सर्वप्रयत्नेन शिवमेव समाश्रयेत् ।
सागराणां क्षयोप्यस्ति क्षीयते हिमवानपि ॥ ३-५३ ॥

रुद्रलोकक्षयो नास्ति शङ्करं ये समाश्रिताः ।
एष्टव्या बहवः पुत्राः शिवमन्त्रानुसारिणः ॥ ३-५४ ॥

समुद्धरन्ति ते गोत्रं रज्जुः कूपात् घटं यथा ।
समुद्धृत्य तथाह्यन्ते कुलानामेकविंशतिम् ॥ ३-५५ ॥

शिवत्वं यान्ति वै क्षिप्रं धर्माधर्मविवर्जिताः ।
लिङ्गद्वयं समाख्यातं चरञ्चाचरमेव च ॥ ३-५६ ॥

चरं प्रतीतिविख्यातम् अचरं पार्थिवादिषु ।
चरे सदा वसत्येव प्रीतियुक्तो महेश्वरः ॥ ३-५७ ॥

अचरे मन्त्रसंस्कारात् द्वयं सत्यं सदाशिवः ।
स्थावरं जङ्गमं * * द्विविध * * * च्यते ॥ ३-५८ ॥

जङ्गमस्यावमानेन स्थावरं निष्फलं भवेत् ।

प्। १५ (४१)

तस्माल्लिङ्गद्वयं प्राज्ञो नावमन्येतपण्डितः ॥ ३-५९ ॥

लिङ्गमित्थं प्रतिष्ठाप्य सर्वयत्नैविधानतः ।
यत्पुण्यं * * * * * * * * * * * * शृणु ॥ ३-६० ॥

सर्वयज्ञतपोदान तीर्थसेवासु यत्फलम् ।
तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ॥ ३-६१ ॥

यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् ।
सर्वागमोदितं लिङ्गं पुण्यं कोटिगुणं भवेत् ॥ ३-६२ ॥

मातृतः पितृतश्चैव यतश्चोद्वहति स्त्रियः ।
कुलत्रयं समुद्धृत्य रुद्रलोके महीयते ॥ ३-६३ ॥

भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते ।
ज्ञानयोगं समास्थाय तत्रैव स विमुच्यते ॥ ३-६४ ॥

अथ चेद्राज्यमाकाङ्क्षेत् जायते स भवान्तरे ।
सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥ ३-६५ ॥

यः कृत्वा पार्थिवं लिङ्गम् अर्चयेत स वैदिकम् ।
इहैव धनवान् श्रीमान् सोन्ते रुद्रश्च जायते ॥ ३-६६ ॥

त्रिसन्ध्यास्वर्चयेल्लिङ्गं कृत्वा बिम्बेन पार्थिवम् ।
शतैकादशिकां यावत् तस्य पुण्यफलं शृणु ॥ ३-६७ ॥

अनेनैव तु देहेन रुद्रस्सन्तिष्ठते क्षितौ ।
पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ ३-६८ ॥

उद्धृत्य दिवि संस्थाप्य कुलानामेकविंशतिम् ।

प्। १६ (४२)

सहायैस्सहितो नित्यं मोदते दिवि रुद्रवत् ॥ ३-६९ ॥

शालिपिष्टमयं लिङ्गं सगन्धर्वोपशोभितम् ।
कुसुमैस्ससुगन्धैश्च फलैश्च विविधैरपि ॥ ३-७० ॥

भक्ष्यभोज्यैरनेकैश्च घृतापूपैश्च संयुतम् ।
तस्य दक्षिणपार्श्वे तु न्यसेदागरवं बुधः ॥ ३-७१ ॥

दद्यात्पश्चिमभागे तु शोभनान्तु मनश्शिलाम् ।
उत्तरे चन्दनन्दद्यात् हरितालन्तु पूजितम् ॥ ३-७२ ॥

एवं वित्तानुसारेण कृत्वा विभवविस्तरम् ।
कृष्णपक्षे चतुर्दश्यां शिवाय विनिवेदयत् ॥ ३-७३ ॥

यः कश्चित् सकृदप्येवं लिङ्गं कुर्याद्विचक्षणः ।
यत्फलं लभते सोपि तम्मे निगदतः शृणु ॥ ३-७४ ॥

श्रवणात्पापनिर्मुक्तः सर्वदुःखविवर्जितः ।
निष्कलः सर्वगो भूत्वा प्रविशेच्छिवमव्ययम् ॥ ३-७५ ॥

अप्यामलकमात्रं वा लिङ्गं कृत्वाभिपूज्य च ।
यन्मयन्तन्मयञ्चैव शिवलोके महीयते ॥ ३-७६ ॥

पुण्यक्षयात्क्षितिं प्राप्य राजा भवति धार्मिकः ।
वेदवेदाङ्गतत्वज्ञो ब्राह्मणो वापि जायते ॥ ३-७७ ॥

मृद्भस्मगोशकृत्पिण्डं तथा वालुकयापि वा ।
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि ॥ ३-७८ ॥

कुशाग्रैस्तरुकुड्ये वाप्यङ्गुल्या वापि यो लिखेत् ।

प्। १७(४३)

क्रीडायां वायुतं कल्पं भवत् सोपि गणेश्वरः ॥ ३-७९ ॥

आत्मनोपि हितञ्चैव तदन्यत्र च निश्चयम् ।
सर्वत्र बान्धवैस्सार्धं पुनात्यासप्तमं कुलम् ॥ ३-८० ॥

पांसुना क्रीडमानश्च लिङ्गं कुर्यात्तु यो नरः ।
प्रेत्यान्ते लभते राज्यं सुसम्पन्नमकण्टकम् ॥ ३-८१ ॥

हीनवश्येषु ये जाताः पापिष्ठा ये च मानवाः ।
भव भावप्रपन्नाश्च मुच्यन्ते नात्र संशयः ॥ ३-८२ ॥

अलिङ्गी लिङ्गरूपेण यो लिङ्गमुपजीवति ।
स पच्यते महाघोरे नरके कालमक्षयम् ॥ ३-८३ ॥

सूक्ष्मेणापि प्रयोगेनाप्रमेयफलं लभेत् ।
शिवमर्चयतो यस्मात् तस्मान्नित्यं समर्चयेत् ॥ ३-८४ ॥

अनादि देवदेवेश विश्वेश्वर महेश्वर ।
सर्वज्ञ ज्ञानविज्ञान प्रदानैक नमोस्तु ते ॥ ३-८५ ॥

अनन्तकान्तिसम्पन्न अनन्तासनसंस्थित ।
अनन्तशक्तिसम्भोग परमेश नमोस्तु ते ॥ ३-८६ ॥

परावर परातीत उत्पत्तिस्थितिकारण ।
सर्वार्थसाधनोपाय विश्वेश्वर नमोस्तु ते ॥ ३-८७ ॥

बहुरूप महारूप सर्वरूपोत्तमोत्तम ।
पशुपाशार्णवातीत वरप्रदनमोस्तु ते ॥ ३-८८ ॥

स्वभावनिर्मलाभोग सर्वव्यापिन् सदाशिव ।

प्। १८(४४)

योगयोगि महायोगि योगेश्वर नमोस्तु ते ॥ ३-८९ ॥

निरञ्जन निराधार सर्वाधारनिरूपप्लव ।
प्रसन्न परमेशान योगेश्वर नमोस्तु ते ॥ ३-९० ॥

जिह्वाचापलभावेन वेदितोसि हि यन्मया ।
तत्क्षन्तव्यमनौपम्यं कस्त्वां स्तौति गुणार्णवम् ॥ ३-९१ ॥

लिङ्गोत्पत्तिस्तवं पुण्यं यश्शृणोति नरस्सदा ।
नोत्पद्यते च संसारे स्थानमाप्नोति शाश्वतम् ॥ ३-९२ ॥

तस्मात् सर्वप्रयत्नेन शृणुया * * * * * ।

इति श्रीशिवधर्मोत्तरे लिङ्गोत्पत्तिर्नाम तृतीयोध्यायः ॥

प्। १९ (४५)

श्रीः

अथ चतुर्थोध्यायः

श्रीनन्दिकेश्वर * * *

शिवभक्ता महोत्साहाः शिवार्चनपरायणाः ।
संयताः सर्वसम्पन्नाः सर्वार्थान् साधयन्ति ते ॥ ४-१ ॥

सर्वद्वन्द्वसहाधीरा नित्यमुद्युक्तचेतसः ।
परोपकारनिरताः गुरुशुश्रूषणे रताः ॥ ४-२ ॥

ऋजवो मृदवःस्वच्छा अनुकूलाः प्रियंवदाः ।
अमानिनो बुद्धिमन्तः त्यक्तस्पर्धागतस्पृहा ॥ ४-३ ॥

शान्ताः स्मितमुखा भद्रा नित्यं स्वागतवादिनः ।
अल्पवाचः सुवक्तारो गुरुभक्तिविशारदाः ॥ ४-४ ॥

शौचाचारसमायुक्ताः दयादाक्षिण्यगोचराः ।
डम्भमात्सर्यनिर्मुक्ताः यथातथ्याभिभाषिणः ॥ ४-५ ॥

संविभोगपरा प्राज्ञाप्यशठाश्चाप्यकुत्सिताः ।
विषयेष्वपि निर्लेपाः पद्मपत्रमिवाम्भसा ॥ ४-६ ॥

नदी नानापि मलिनाः न चरोषवशानुगाः ।
भवन्ति भावितात्मानः सुस्निग्धाः साधुसेविनः ॥ ४-७ ॥

न पादपाणिवाक्चक्षु श्रोत्रशिश्नवशङ्गताः ।
चापल्यानि न कुर्वन्ति सर्वव्यासङ्गवर्जिताः ॥ ४-८ ॥

रुद्रात्मानो रुद्रपरा रुद्रांशा रुद्रभाविताः ।

प्। २० (४६)

एवं विधसमाचारा भवन्ति भुवि मानवाः ॥ ४-९ ॥

एकान्तभक्तिमास्थाय गुणेष्वेतेषु वर्तिनः ।
पूजनीयस्सवो नित्यं परावरविभूतये ॥ ४-१० ॥

किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् ।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥ ४-११ ॥

वेदश्शिवः शिवो वेदः वेदाध्यायी सदाशिवः ।
तस्माद्वेदविदे देयं शिवभक्तैर्यथाबलम् ॥ ४-१२ ॥

श्रीनन्दिकेश्वरः

सर्वेषामपि पात्राणाम् अतिपात्रं महेश्वराः ।
पतनात् त्रायते यस्मात् अतीव नरकार्णवात् ॥ ४-१३ ॥

तस्य पात्रस्य माहात्म्यात् दानञ्चापि तदक्षयम् ।
तस्मात्तस्मै सदा देयमप्रमेयफलार्थिभिः ॥ ४-१४ ॥

शिवे दत्तं हुतं जप्तं पूजाबलिनिवेदनम् ।
एकान्तानन्तफलदं तद्भवेन्नात्र संशयः ॥ ४-१५ ॥

भक्त्या वित्तानुरोधेन कुर्यात्प्रासादसञ्चयम् ।
अल्पं महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ४-१६ ॥

वित्तशाठ्येन यः कुर्यात् धर्ममाढ्योपि मानवः ।
न स तत्फलमाप्नोति प्रलोभाक्रान्तमानसः ॥ ४-१७ ॥

भागद्वयं च धर्मार्थमनित्यं जीवितं यतः ।
भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ ४-१८ ॥

प्। २१ (४७)

महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ।
सर्वस्वमपि यो दद्यात् शिवे भक्तिविवर्जितः ॥ ४-१९ ॥

न तेन धर्मभाक् तस्मात् भक्तिरेवात्रकारणम् ।
न तत्तपोभिरत्युग्रैः न च सर्वैर्महामखैः ॥ ४-२० ॥

गच्छे च्छिवपुरं दिव्यं त्यक्त्वा भक्तिं शिवात्मिकाम् ।
मृदा दार्विष्टकाशैलैः यः कुर्याद्वै शिवालयम् ॥ ४-२१ ॥

त्रिसप्तकुलसंयुक्तः शिवलोके महीयते ।
मृण्मयात्कोटिगुणितं पुण्यं स्यात् दारुभिः कृतम् ॥ ४-२२ ॥

कोटिकोट्येकमधिकं दारुकादिष्टकामयम् ।
द्विगुणञ्चेष्टकादिभ्यः शैलेपि स्याच्छिवालये ॥ ४-२३ ॥

मृच्छैलयोः समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः ।
यत्र यत्र कृतं भक्त्या पुण्यं शैलेष्टकामयम् ॥ ४-२४ ॥

पुराणरहितं तस्मात् यः कुर्यात् तु शिवालयम् ।
विधूयपापसङ्घातं सोपि गच्छेच्छिवालयम् ॥ ४-२५ ॥

क्रीडमानोपि यः कुर्यात् बालभावे शिवालयम् ।
रुद्रलोको भवेत् तस्य विमानं सार्वगामिकम् ॥ ४-२६ ॥

पुष्पमालापरिक्षिप्तं दिव्यगन्धर्वनादितम् ।
डोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम् ॥ ४-२७ ॥

मुक्तादामवितानेन शोभितं सूर्यसप्रभम् ।
अप्सरोगणसङ्कीर्णं सर्वकामसुखप्रदम् ॥ ४-२८ ॥

प्। २२ (४८)

तत्रोषित्वा महाभोगैः कोटिकोट्ययुतं सुखी ।
क्रमादागत्य लोकेस्मिन् राजाभवति धार्मिकः ॥ ४-२९ ॥

पश्यन् परिहरन् जन्तून् मार्जन्या मृदुसूक्ष्मया ।
शनैः सम्मार्जनं कुर्यात् चान्द्रायणफलं लभेत् ॥ ४-३० ॥

नाहारवशजीर्णाया नवध्या क्षीणवत्सयोः ।
रोगार्तानैव सूते या गोष्ठे गोमयमाहरेत् ॥ ४-३१ ॥

खं संस्थं गोमयं ग्राह्यं स्थाने वा पतितं शुभे ।
उपर्यधश्च सन्त्यज्य प्रत्यग्रं जन्तुवर्जितम् ॥ ४-३२ ॥

वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम् ।
पश्यन् परिहरन् जन्तून् चान्द्रायणफलं लभेत् ॥ ४-३३ ॥

स मुनिः स महासाधुः स योगी स शिवं व्रजेत् ॥ ४-३४ ॥

क्षरन्ति सर्वदानानि यज्ञहोमबलिक्रियाः ।
न तु क्षरैर्महादानम् अभयं सर्वदेहिनाम् ॥ ४-३५ ॥

नैरन्तर्येण यः कुर्यात् पक्षं सम्मार्जनाञ्जनम् ।
युगकोटिशतं दिव्यं रुद्रलोके महीयते ॥ ४-३६ ॥

तस्यान्ते च चतुर्वेदी स्वरूपः प्रियदर्शनः ।
आढ्यस्सर्वगुणोपेतः राजा भवति धार्मिकः ॥ ४-३७ ॥

सम्पर्केणापि यः कुर्यात् नरः कर्म शिवालये ।
सोपि देहत्रयात् ज्ञानं प्राप्य शान्तिमवाप्नुयात् ॥ ४-३८ ॥

प्। २३ (४९)

रुद्रदेहं निराकुर्वन् किञ्चित् ज्ञानमवाप्नुयात् ।
कश्चिदेव तु मेदिन्यां लब्ध्वा ज्ञानं विमुच्यते ॥ ४-३९ ॥

तावद्भ्रमन्ति संसारे दुःखशोकपरिप्लुताः ।
न भवन्ति शिवे भक्ता यावत् सर्वेपि देहिनः ॥ ४-४० ॥

समासक्तं यथाचित्तु जन्तोर्विषयगोचरे ।
यदि नाम शिवेप्येवं को न मुच्येत बन्धनात् ॥ ४-४० ॥

यः कुर्यात् कुट्टिमां भूमिं दर्पणोदरसन्निभाम् ।
नानावस्त्रविचित्राञ्च विचित्रकुसुमोज्वलाम् ॥ ४-४२ ॥

क्वचित्कलशविन्यस्तां पङ्कजाद्युपशोभिताम् ।
मरोनमां च सं समां शिवायतनसंश्रयाम् ॥ ४-४३ ॥

यावद्दण्डा भवेद्भूमिः मीयमाना समन्ततः ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ ४-४४ ॥

सुधावलिप्तं यः कुर्यात् सर्वयत्नैश्शिवालयम् ।
तावत्पुण्यं लभेत् सोपि यावदा यतने कृते ॥ ४-४५ ॥

प्रत्यब्दं यश्च कुर्वीत शम्भोरायतनं बुधः ।
धवलः क्षीरसुधया यथाशोभञ्च वर्णकैः ॥ ४-४६ ॥

यावन्त्यब्दानि कुरुते धवलन्तच्छिवालयम् ।
तावद्यङ्गसहस्राणि रुद्रलोके महीयते ॥ ४-४७ ॥

कारयेच्चित्रशास्त्रज्ञैः यत्नात् चित्रं शिवालये ।
रुद्रावतारक्रीडाद्यैः प्रयोगैरागमोदितैः ॥ ४-४८ ॥

प्। २४(५०) यावन्ति रुद्ररूपाणि सुरूपाण्यत्र लेखयेत् ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ४-४९ ॥

खण्डस्फुटितसंस्कारं यः कुर्वीत शिवालये ।
आरामावसितं चापि लभते लौकिकं फलम् ॥ ४-५० ॥

नास्ति रुद्रसमो देवः नास्ति रुद्रसमो गुरुः ।
नास्ति रुद्रसमं ज्ञानं नास्ति रुद्रसमं तपः ॥ ४-५१ ॥

निर्द्धूतामलदेहाय स्वभावामलमूर्तये ।
सितभस्माङ्गरागाय देवेशाय नमोस्तु ते ॥ ४-५२ ॥

नीलकण्ठाय शर्वाय जयाय सितमूर्तये ।
बहुरूपाय कान्ताय शाश्वताय नमोस्तु ते ॥ ४-५३ ॥

पराय परमेशाय सर्वज्ञाय नमोस्तु ते ।
अतीतगुणसङ्घाय विश्वेशाय नमोस्तु ते ॥ ४-५४ ॥

महाभोगीन्द्रहाराय पिङ्गलोचनचारवे ।
विचित्रचरिताढ्याय अनन्ताय नमोस्तु ते ॥ ४-५५ ॥

सर्वप्रणतदेहाय स्वयमप्रणतात्मने ।
पूज्यानामपि पूज्यायाप्यनाथाय नमोस्तु ते ॥ ४-५६ ॥

ब्रह्मेन्द्रविष्णुवन्द्याय उत्पत्तिस्थिति हेतवे ।
भुक्तिमुक्तिप्रदानाय संयताय नमोस्तु ते ॥ ४-५७ ॥

वामाय वामरूपाय वामाचाराविभाविने ।
वामकान्तार्धदेहायाप्यनन्ताय नमोस्तु ते ॥ ४-५८ ॥

प्। २५ (५१)

य इदं कीर्तयेत्पुण्यं प्रसादाध्यायमुत्तमम् ।
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ४-५९ ॥

इति श्रीशैवशास्त्रे शिवधर्मोत्तरे शिवायतनकथनन्नाम
चतुर्थोध्यायः ॥

प्। २६(५२)

श्रीः

अथ पञ्चमोध्यायः

श्रीनन्दिकेश्वरः

लिङ्गमूर्तेः महेशस्य शिवस्य परमेष्ठिनः ।
स्नानकाले प्रकुर्वीत जयशब्दादिमङ्गलम् ॥ ५-१ ॥

त्रिशूलवज्रशङ्खाब्ज श्रीवत्सस्वस्तिकादिभिः ।
हेमरौप्यादिपात्रेषु कल्पितैः गोमयादिभिः ॥ ५-२ ॥

नानावर्णैकसंयुक्तैः अक्षतैस्तिलतण्डुलैः ।
सिद्धार्थदधिसम्मिश्रैः यथा शोभञ्चपूरितैः ॥ ५-३ ॥

दर्जैः पिष्टप्रदीपाद्यैः चूताश्वत्थादिपल्लवैः ।
ओषधीभिश्च मेध्याभिः सर्वबीजैर्यवाङ्कुरैः ॥ ५-४ ॥

अष्टम्यादिषु सर्वेषु दिवसेषुत्सवेषु च ।
सर्वकालेषु पुण्येषु पुण्ये पोषस्य पर्वणि ॥ ५-५ ॥

शङ्खभेर्यादिभिर्घोषैः महद्भिर्गेयसंयुतैः ।
कुर्यान्नीराजनं लिङ्गे शिवमुद्दिश्य मङ्गलम् ॥ ५-६ ॥

यावत्पर्वाणि विधिवत् कुर्यान्नीराजनं शिवे ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ५-७ ॥

स्नानकाले त्रिसन्ध्यासु यः कुर्याद्गेयवादनम् ।
नाट्यं वा मुखवाद्यं वा तस्य पुण्यफलं शृणु ॥ ५-८ ॥

यावन्त्यब्दानि कुरुते गेयनृत्तादिवादनम् ।

प्। २७(५३)

तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ५-९ ॥

कपिलापञ्चगव्येन कुशवारियुतेन च ।
स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानं हि तत् स्मृतम् ॥ ५-१० ॥

एकाहमपि यो लिङ्गे ब्रह्मस्नानं समाचरेत् ।
विधूय * * पापानि शिवलोके महीयते ॥ ५-११ ॥

कपिलापञ्चगव्येन दधिक्षीर घृतेन च ।
स्नानं शतगुणं ज्ञेयमितरस्मान्नसंशयः ॥ ५-१२ ॥

देवाग्निकार्यमुद्दिश्य देहशुध्यै च शाश्वतीम् ।
कपिलामहरेत्तस्मात् मुनिदेवादिवन्दिताम् ॥ ५-१३ ॥

कापिलं यः पिबेत् शूद्रो देवकार्योचितं पयः ।
स पच्यते महाघोरे सुचिरं नरकार्णवे ॥ ५-१४ ॥

वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।
घृताभ्यङ्गेन लिङ्गस्य दहेत्सर्वं न संशयः ॥ ५-१५ ॥

कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।
घृतस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ ५-१६ ॥

कृष्णाष्टम्यां घृतस्नानं कृत्वा लिङ्गे सकृन्नरः ।
कुलैकविंशमुद्धृत्य शिवलोके महीयते ॥ ५-१७ ॥

अयुतं योगवान्दद्यात् दोग्ध्रीणां वेदपारगे ।
वस्त्रहेमादि युक्ताङ्गां घृतस्नानेन तत्फलम् ॥ ५-१८ ॥

सकृदाढकदुग्धेन यो लिङ्गं स्नापयेन्नरः ।

प्। २८(५४)

राजतेन विमानेन सोमलोके महीयते ॥ ५-१९ ॥

स्नाप्य दध्ना सकृल्लिङ्गं सद्भक्त्या तु यथा नरः ।
सर्वपापविनिर्मुक्तः विष्णुलोकं स गच्छति ॥ ५-२० ॥

मधुना स्नापयेल्लिङ्गं सकृद्भक्त्या तु यो नरः ।
सर्वपापविनिर्मुक्तो वह्निलोके महीयते ॥ ५-२१ ॥

स्नापयेत्तिलतैलेन हस्तयन्त्रोद्भवेन च ।
श्वेतपिष्टानुलिप्तेन वायुलोके महीयते ॥ ५-२२ ॥

स्नानमिक्षुरसेनापि यो लिङ्गे सकृदाचरेत् ।
लभेद्वैद्याधरं लोकं सर्वकामसमन्वितम् ॥ ५-२३ ॥

फलोदकेन यो लिङ्गं तद्भक्त्या स्नापयेन्नरः ।
उत्सृज्यपापकलिलं पितृलोके महीयते ॥ ५-२४ ॥

सितेन भस्मना स्नाप्य सकृल्लिङ्गं प्रमोदते ।
चन्द्रांशु निर्मलश्श्रीमान्निववत्सोममण्डले ॥ ५-२५ ॥

वस्त्रपूतेन तोयेन यो लिङ्गं स्नापयेत्सकृत् ।
सर्वकामसुतृप्तात्मा वारुणं लोकमाप्नुयात् ॥ ५-२६ ॥

कुशतोयेन यो लिङ्गं भक्तितः स्नापयेत्सकृत् ।
काञ्चनेन विमानेन ब्रह्मलोके महीयते ॥ ५-२७ ॥

गन्धचन्दनतोयेन स्नापयेत्सकृदीश्वरम् ।
गन्धर्वलोकमाप्नोति गन्धर्वैश्च स पूज्यते ॥ ५-२८ ॥

पुष्पोदकेन सावित्रं कौबेरं हेमवारिणा ।

प्। २९(५५)

रत्नोदकेन माहेन्द्रं लोकं सम्प्राप्य मोदते ॥ ५-२९ ॥

पाटलोत्पलपद्मानि करवीराणि सर्वदा ।
स्नानतोयेषु योज्यानि स्निग्धानि सुरभीणि च ॥ ५-३० ॥

एवमेकतमं स्नानं यः कुर्याद्भक्तितः शिवे ।
विधूतपापकलिलः शिवलोके महीयते ॥ ५-३१ ॥

मन्त्राष्टशतजप्तेन यो लिङ्गं स्नापयेत्सकृत् ।
कर्पूरागरुतोयेन यो लिङ्गं स्नापयेत्सकृत् ॥ ५-३२ ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
मन्त्राष्टशतजप्तेन विमलेनाम्भसा शिवम् ॥ ५-३३ ॥

स्नापयित्वा सकृद्भक्त्या शिवलोके महीयते ।
स्नाप्य लिङ्गं सकृद्भक्त्या कृष्णाष्टम्यामुपोषितः ॥ ५-३४ ॥

कुलैकविंशमुद्धृत्य शिवलोके महीयते ।
पितॄनुद्दिश्य यो लिङ्गं स्नापयेच्छीववारिणा ॥ ५-३५ ॥

तृप्ताः स्वर्गं प्रयास्यन्ति पितरो नरकादपि ।
लिङ्गं शीताम्बुनास्नाप्य धारोष्णपयसा तथा ॥ ५-३६ ॥

स्नापयित्वा घृतस्नानं कृतमेव विशिष्यते ।
एतत्स्नानत्रयं कृत्वा पूजयित्वा तु भक्तितः ॥ ५-३७ ॥

अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
मृत्कुम्भात्ताम्रकुम्भेन स्नानं शतगुणोत्तरम् ॥ ५-३८ ॥

रौप्याल्लक्षोत्तरं पुण्यं हैमात्कोट्यधिकं फलम् ।

प्। ३०(५६)

लिङ्गस्य दर्शनं पुण्यं दर्शनात् स्पर्शनं शुभम् ॥ ५-३९ ॥

स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् ।
इहामुत्र कृतं पापं घृतस्नानेन देहिनाम् ॥ ५-४० ॥

क्षिपते शङ्करो यस्मात् तस्मात्स्नानं समाचरेत् ।
दशापराधं तोयेन क्षीरेण तु शतं तथा ॥ ५-४१ ॥

सहस्रं क्विमते दध्ना घृतेनाप्ययुतन्तथा ।
मधुना नाशयेल्लक्षमिक्षुणा दशलक्षकम् ॥ ५-४२ ॥

नालिकेरोदलैः कोटिं गन्धतोयैरनन्तकम् ।
शिवं नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् ॥ ५-४३ ॥

एकविंशकुलोपेतः क्रीडते दिवि रुद्रवत् ।
स्नानं शतफलं ज्ञेयमभ्यङ्गं पञ्चविंशतिः ॥ ५-४४ ॥

फलानान्तु सहस्रन्तु महास्नानं प्रकीर्तितम् ।
तैलाभ्यङ्ग्यघृतस्नाने लिङ्गं यत्नाद्विरूप * * ॥ ५-४५ ॥

यवगोधूमजैः पिष्टैः तस्य पुण्यफलं शृणु ।
चामरासक्तहस्ताग्र दिव्यस्त्रीपरिवारितः ॥ ५-४६ ॥

महाभोगविमानस्थं चिरं शिवपुरं व्रजेत् ।
इत्यर्चनाप्रकारेण अनन्तं पुण्य * * * ॥ ५-४७ ॥

सनत्कुमारः

पुष्पैः कतिविधैः पूजा कर्तव्या कथयस्व मे ।

प्। ३१(५७)

नन्दिकेश्वरः

पुष्पैरारण्डसम्भूतैः पत्रैर्वा गिरिसम्भवैः ॥ ५-४८ ॥

अपर्युषितनिश्छिद्रैः प्रोक्षितैः जन्तुवर्जितैः ।
आत्मारामोद्भवैर्वापि पुष्पैस्सम्पूजयेच्छिवम् ॥ ५-४९ ॥

पुष्पजातिविशेषेषु भवेत्पुण्यं नतोधिकम् ।
ततः शीलगुणोपेतः पात्रे वेदस्य पारगे ॥ ५-५० ॥

दशदत्वा सुवर्णानि तत्फलं पूजिते शिवे ।
एवमर्कप्रसूनं वा यश्शिवाय निवेदयेत् ॥ ५-५१ ॥

दशदत्वा सुवर्णानि यत्फलं तदवाप्नुयात् ।
एवं पुष्पविशेषेण फलन्तस्य ततोधिकम् ॥ ५-५२ ॥

ज्ञेयं पुष्पान्तरं येन यथा स्यात्तन्निवोधत ।
अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ॥ ५-५३ ॥

करवीरसहस्रेभ्यो जातिपुष्पं विशिष्यते ।
जातिपुष्पसहस्रेभ्यः पद्ममेकं विशिष्यते ॥ ५-५४ ॥

पद्मपुष्पसहस्रेभ्यः बकपुष्पं विशिष्यते ।
बकपुष्पसहस्रेभ्य एकं धुर्धूरकं वरम् ॥ ५-५५ ॥

धुर्धूरकसहस्रेभ्यः बृहत्पुष्पं विशिष्यते ।
बृहत्पुष्पसहस्रेभ्यः द्रोणपुष्पं विशिष्यते ॥ ५-५६ ॥

द्रोणपुष्पसहस्रेभ्यः अपामार्गं विशिष्यते ।
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ॥ ५-५७ ॥

प्। ३२ (५८)

कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ।
शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्पलं वरम् ॥ ५-५८ ॥

सर्वेषामेव जातीनां प्रवरन्नीलमुत्पलम् ।
नीलोत्पलसहस्रेभ्यः बिल्वपत्रं विशिष्यते ॥ ५-५९ ॥

शिवप्रियतरं पत्रं बिल्वपत्रान्न विद्यते ।

प्रणववर्णस्वरूपाणि त्रिकालज्ञानदानि च ।
त्रिलोकजयकारीणि त्रिविधाघहराणि च ॥ ५-६१ ॥

अमृतेन श्रिया चैव सहोत्पन्नानि सागरे ।
दलत्रयेणार्चयित्वा श्रियं मुक्तिञ्च विन्दति ॥ ५-६२ ॥

पत्रपुष्पसहस्रेभ्यो भक्तिरेकाविशिष्यते ।
शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥ ५-६३ ॥

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वसेच्छिवपुरे श्रीमान् शिवतुल्यपराक्रमः ॥ ५-६४ ॥

शेषाणां पुष्पजातीनां तत्फलं परिकीर्तितम् ।
तत्फलस्यानुसारेण शिवलोके महीयते ॥ ५-६५ ॥

शम्याश्चैव बृहत्याश्च कुसुमन्तुल्यमुच्यते ।
सर्वपुष्पसमा दूर्वा द्रोणबिल्वैस्सहार्च येत् ॥ ५-६६ ॥

करवीरसमाज्ञेया जाती कुटजपाटलाः ।
श्वेतमन्दारकुसुमं सितपद्मसमं भवेत् ॥ ५-६७ ॥

प्। ३८ (५९)

नागचम्पकपुन्नाग घुर्घुरकसमा स्मृताः ।
केतकी चातिमुक्ताश्च कुन्दयूथिमदन्तिका ॥ ५-६८ ॥

शिरीषसज्जबन्धूक कुसुमानि विवर्जयेत् ।
वागुचीकुसुमं पत्रं करञ्जेन्द्रतरूद्भवम् ॥ ५-६९ ॥

वैभीतकानि पत्राणि तत्पुष्पाणि विवर्ज्जयेत् ।
निर्गन्धान्युग्रगन्धानि यानि कानि विवर्जयेत् ॥ ५-७० ॥

गन्धवन्ति पवित्राणि कुसुमानि न वर्जयेत् ।
गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिवत् ॥ ५-७१ ॥

निर्गन्धकुसुमे प्रीतिः निर्गुणस्य शिवस्य तु ।
सात्विकन्तद्धिकुसुमं पवित्रं चैव तामसम् ॥ ५-७२ ॥

काननानि कदम्बानि रात्रौ देयानि शङ्करे ।
दिवाशेषाणि पुष्पाणि दिवारात्रौ च मल्लिका ॥ ५-७३ ॥

प्रहरन्तिष्ठते जातिः करवीरमहर्निशम् ।
करवीरे स्थितश्शम्भुः त्रिरात्रं करवीरकम् ॥ ५-७४ ॥

बिल्वं त्रिमासं मासार्धं दशत्रिदिनमेव वा ।
अतिप्रियत्वाच्छिवयोरमृतद्रुमसम्भवात् ॥ ५-७५ ॥

अपर्युषितदोषत्वात् शिवे योज्यं मुमुक्षुभिः ।
केशकीटापविद्धानि जीर्णपर्युषितानि च ॥ ५-७६ ॥

स्वयञ्च पतितैः चूर्णैः कषायैः गन्धयोजितैः ।
सुखोष्णेनाम्बुनावाह्य स्नापयेत्तदनन्तरम् ॥ ५-७७ ॥

प्। ३४ (६०)

वर्षयेद्बिल्वपत्रैश्च तद्वत्पीठं विशोधयेत् ।
दशधेनुसहस्राणि यद्दत्वा लभते फलम् ॥ ५-७८ ॥

तत्फलं लभते मर्त्यो लिङ्गस्योद्वर्तने कृते ।
अर्घ्यं पुष्पं जलोपेतं यश्शिवाय निवेदयेत् ॥ ५-७९ ॥

स पूज्यस्सर्वलोकेषु शिववन्मोदते चिरम् ।
गन्धोदकेन सम्मिश्रमुदकार्घ्याद्दशोत्तरम् ॥ ५-८० ॥

पञ्चगव्यसमायुक्तमर्घ्यन्दशगुणं भवेत् ।
अर्घ्यमष्टाङ्गमापूर्य लिङ्गमूर्ध्नि निवेदयेत् ॥ ५-८१ ॥

दशवर्षसहस्राणि रुद्रलोके महीयते ।
आपः क्षीरं कुशाग्राणि दध्नाज्येन च तण्डुलैः ॥ ५-८२ ॥

तिलैस्सिद्धार्थकैश्चैवमर्घ्या अष्टौ प्रकीर्तिताः ।
दारवेणार्घ्यपात्रेण यद्दत्वा लभते फलम् ॥ ५-८३ ॥

ताम्रपात्रार्घ्यदानेन पुण्यं शतगुणोत्तरम् ॥ ५-८४ ॥

पलाशपद्मपत्राभ्यां ताम्रपात्रसमं भवेत् ।
रौप्य * * ज्ञेयम् अर्घ्यं लक्षोत्तरं भवेत् ॥ ५-८५ ॥

सुवर्णपात्रविन्यस्तमर्घ्यं कोटिगुणोत्तरम् ।
एवं स्नानार्घ्यनैवेद्यबलिधूपादिभिः क्रमात् ॥ ५-८६ ॥

पात्रान्तरविशेषेण तत्फलन्नोत्तरोत्तरम् ।
रौप्यपात्रप्रदानेन यत्फलं वेदपारगे ॥ ५-८७ ॥

प्। ३५(६१)

तस्माच्छतगुणं पुण्यं शिवे मृत्पात्रदानतः ।
हेमपात्रन्तु यद्दत्वा पुण्यं स्याद्वेदपारगे ॥ ५-८८ ॥

ताम्रपात्रप्रदानेन तस्माच्छतगुणं शिवे ।
फलकोटिं सुवर्णस्य यो दद्याद्वेदपारगे ॥ ५-८९ ॥

शिवस्यरौप्यपात्रेण तस्य पुण्यन्ततोधिकम् ।
हेमपात्रन्तु यो भक्त्या शिवाय विनिवेदयेत् ॥ ५-९० ॥

न तस्य शक्यते वक्तुं पुण्यानामन्तमाखिलम् ।
तुल्यमेव फलं प्रोक्तं शिवेचाढ्यदरिद्रयोः ॥ ५-९१ ॥

तयोरप्यधिकन्तस्य यश्शिवे भावनाधिकः ।
विभवे सति यो मोहात् न कुर्याद्विधिविस्तरम् ॥ ५-९२ ॥

नैव तत्फलमाप्नोति प्रलोभाक्रान्तमानसः ।
तस्मात्पत्रैः फलैस्तोयैः एवमाद्यैश्च यत्कृतम् ॥ ५-९३ ॥

तदनन्तफलं ज्ञेयं भक्तिरेवात्रकारणम् ।
लिङ्गस्यालेपनं कुर्यात् दिव्यगन्धैस्सुगन्धिभिः ॥ ५-९४ ॥

वर्षकोटिशतं दिव्यं रुद्रलोके महीयते ।
गन्धानुलेपनात्पुण्यं द्विगुणं चन्दनस्य तु ॥ ५-९५ ॥

चन्दनादगरोर्ज्ञेयं पुण्यमष्टगुणाधिकम् ।
कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते ॥ ५-९६ ॥

तस्माच्छतगुणं पुण्यं कुङ्कुमस्य विधीयते ।
चन्दनागरुकर्पूरैः श्लक्ष्नपिष्टैस्सकुङ्कुमैः ॥ ५-९७ ॥

प्। ३६(६२)

लिङ्गं पर्याप्तमालिप्य कल्पकोटिं वसेद्दिवि ।
संवीज्य तालवृन्तेन लिङ्गं गन्धैः प्रलेपितम् ॥ ५-९८ ॥

वर्षकोटिसहस्राणि वायुलोकेमहीयते ।
भक्त्या निवेद्यरुद्राय तालवृन्तं सुशोभनम् ॥ ५-९९ ॥

दशवर्षसहस्राणि रुद्रलोके महीयते ।
मायूरव्यजनन्दत्वा शिवायातीव शोभनम् ॥ ५-१०० ॥

वर्षकोटिशतं पुण्यं रुद्रलोके महीयते ।
शिवायचामरं दद्यात् वृणिदण्डविभूषितम् ॥ ५-१०१ ॥

हेमरौप्यादिदण्डं वा तस्य पुण्यफलं शृणु ।
पूजासुशम्भोः पुष्पाणि त्यजेदुपहितानि च ॥ ५-१०२ ॥

मुकुलैर्नार्चयेद्देवम् अपक्वान्नं न निवेदयेत् ।
फलं कौशिकविद्धं च यत्नात्पक्वमपि त्यजेत् ॥ ५-१०३ ॥

अलाभेन तु पुष्पाणां पत्राण्यपि निवेदयेत् ।
पत्राणामप्यभावेन दूर्वाद्रोणतिलाक्षतान् ॥ ५-१०४ ॥

दूर्वाद्रोणतिलाभावे फलान्यपि निवेदयेत् ।
फलानामप्यभावेन तृणगुल्मौषधीरपि ॥ ५-१०५ ॥

ओषधीनामभावेन भक्त्या भवति पूजितः ।
प्रत्येकम्मुक्तपुष्पेषु दशसौवर्णकं फलम् ॥ ५-१०६ ॥

स्रग्विधानेषु तेष्वेव द्विगुणं फलमिष्यते ।
यस्सुगन्धैर्मुक्तपुष्पैः सम्यग्लिङ्गं प्रपूजयेत् ॥ ५-१०७ ॥

प्। ३७(६३)

मालाभिर्वा सुगन्धाभिः सोनन्तफलमाप्नुयात् ।
बिल्वपत्रैरखण्डैश्च सकृल्लिङ्गं प्रपूजयेत् ॥ ५-१०८ ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
घुर्घुरकैश्च यो लिङ्गं सकृत्पूजयते नरः ॥ ५-१०९ ॥

सगोलक्षफलं प्राप्य शिवलोके महीयते ।
बृहतीकुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् ॥ ५-११० ॥

गवामयुतदानस्य फलं प्राप्य शिवं व्रजेत् ।
मल्लिकोत्पलपद्मानि जातीपुन्नामचम्पकैः ॥ ५-१११ ॥

अशोकश्वेतमन्दारकर्णिकारबकानि च ।
करवीरार्कमन्दारशमीतगरकेसरम् ॥ ५-११२ ॥

कुशापामार्गकुसुमैः कदम्बद्रोणजैरपि ।
सौगन्धिकासनागस्त्यसिन्दुशेफालिकार्जुनैः ॥ ५-११३ ॥

तुलसीकुरवां कोलनागवञ्चुलसम्भवैः ।
नन्द्यावर्ताश्च शम्याकतिलकस्तेन मालिका ॥ ५-११४ ॥

अन्यैस्सुगन्धिभिः पत्रैः ग्रामारण्यसमुद्भवैः ।
पुष्पैरपि यथालाभं योनरः पूजयेच्छिवम् ॥ ५-११५ ॥

स च यत्फलमाप्नोति तदेकाग्रमनाः शृणु ।
सूर्यकोटिप्रतीकाशैः विमानैस्सार्वगामिकैः ॥ ५-११६ ॥

पुष्पमालापरिक्षिप्तैः गीतवादित्रनादितैः ।
तन्त्रीमधुरवाद्यैश्च स्वच्छन्दगमनालसैः ॥ ५-११७ ॥

प्। ३८(६४)

रुद्रकन्यासमाकीर्णैः देवदानवदुर्लभैः ।
धोधूयमानैश्चमरैः स्तूयमानैस्सुरासुरैः ॥ ५-११८ ॥

गच्छेच्छिवपुरन्दिव्यं यत्र वा रुचिरं भवेत् ।
यैस्तैर्वापीह कुसुमैः जलस्थलरुहैश्शिवम् ॥ ५-११९ ॥

सम्पूज्य प्रोक्षितैर्भक्त्या शिवलोके महीयते ।
शिवस्योपरि यः कुर्यात् सुघनं पुष्पमण्टपम् ॥ ५-१२० ॥

शोभितं पुष्पस्रग्दामैः आपीठान्तप्रलम्बितैः ।
अन्याश्चर्यैर्महायानैः दिव्यपुष्पोपशोभितैः ॥ ५-१२१ ॥

सर्वोपकरणः श्रीमान् गच्छेच्छिवपुरं सुखी ।
अनेकाकारविन्यस्त सुगन्धकुसुमैर्गृहम् ॥ ५-१२२ ॥

यः कुर्यात्पर्वकालेषु विचित्रकुसुमोज्ज्वलम् ।
सपुष्पैकविमानादि सहस्रैः परिवारितैः ॥ ५-१२३ ॥

दिव्यस्त्री सुखसम्भोगैः क्रीडारतिसमन्वितैः ।
अक्षयम्मोदते कालमितराकृतशासनः ॥ ५-१२४ ॥

शिवादिसर्वलोकेषु यथेष्ठं तत्र याति सः ।
पूजादिभक्तिविन्यासरचनादि विशेषतः ॥ ५-१२५ ॥

फलमेवं समासेन ज्ञेयं वित्तानुसारतः ।
मालाभिर्वेष्टयेद्वेदिं लिङ्गं सम्पूजयेत्ततः ॥ ५-१२६ ॥

शिवो देव्या सपुत्रस्तु तदभ्यासेन मोदते ।
लिङ्गवेदी भवेद्देवी लिङ्गं साक्षान्महेश्वरः ॥ ५-१२७ ॥

प्। ३९(६५)

भवेत् सम्पूजनात् ताभ्यां देवी देवश्च पूजितौ ।
स्वयमुत्पाद्य पुष्पाणि यश्शिवं सम्यगर्चयेत् ॥ ५-१२८ ॥

तानि साक्षात्प्रगृह्णाति तद्भक्त्या सततं शिवम् ।
यः कुर्याच्च शिवाराममाम्रबिल्वादिशोभितम् ॥ ५-१२९ ॥

जातीविजयराजार्ककरवीराब्जकुब्जकैः ।
पुन्नागनागवकुलैः अशोकोत्पलचम्पकैः ॥ ५-१३० ॥

कदली हेमयूथाद्यैः तस्य पुण्यफलं शृणु ।
यावत् तत् पत्रकुसुमं बीजाङ्कुरफलानि च ॥ ५-१३१ ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
लाक्षापाण्यङ्गनिर्मुक्तां धूपां दद्यात्सकृच्छिवे ॥ ५-१३२ ॥

चतुर्वेदी भवेज्जन्म प्राप्नोति सततं सुखी ।
कृष्णागरुसकर्पूरं धूपं दद्यान्महेश्वरे ॥ ५-१३३ ॥

नैरन्तर्येण मासार्धं तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ५-१३४ ॥

भुक्त्वा शिवपुरे भोगान् तस्यान्ते तु महीपतिः ।
गुल्गुलुं घृतसंयुक्तं साक्षाद्गृह्णाति शङ्करः ॥ ५-१३५ ॥

माषार्धदानमात्रेण शिवलोके महीयते ।
शिवात्कृष्णचतुर्दश्यां यस्साज्यं गुल्गुलुं दहेत् ॥ ५-१३६ ॥

अपराधसहस्राणि क्षमते तस्य शङ्करः ।
देवदारुन्नमेरुञ्च सर्जनीर्यासकुन्दुरुम् ॥ ५-१३७ ॥

प्। ४०(६६)

श्रीफलञ्चाज्यसम्मिश्रं दग्ध्वाप्नोति परां श्रियम् ।
एभिस्सुगन्धकैर्धूपं षट्सहस्रगुणोत्तरम् ॥ ५-१३८ ॥

अगरुं दशसाहस्रं द्विगुणञ्चासितागरुम् ।
गुल्गुलुं दशसाहस्रं सघृतं द्विगुणं भवेत् ॥ ५-१३९ ॥

प्रियञ्च गुल्गुलुं नित्यम् आज्ययुक्तं विशेषतः ।
द्विसहस्रफलानान्तु माहिषाक्षस्य गुल्गुलोः ॥ ५-१४० ॥

दग्ध्वाब्दमाज्यमिश्रस्य शिवतुल्यः प्रजायते ।
अगरुं घृतसंयुक्तं दग्ध्वा बिल्वमथापि वा ॥ ५-१४१ ॥

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।
शोधयेत्पापसंयुक्तान् पुरुषान्नात्र संशयः ॥ ५-१४२ ॥

कृष्णागरुद्भवो धूपः तुषाग्निरिवकाञ्चनम् ।
योन्तश्शिवपुरं भक्तिस्सुसुगन्धैः प्रलेपयेत् ॥ ५-१४३ ॥

कवाटद्वारकुड्यान्तं तिर्यगूर्ध्वं सवेदिकम् ।
वासयेत्पुष्पमालाभिः धूपैश्चापि विशेषतः ॥ ५-१४४ ॥

यः कुर्यात्सकृदप्येवं पुण्यं तदवधारय ।
सर्वकामसुसम्पूर्णा महायानैस्सहस्रशः ॥ ५-१४५ ॥

आपूरयन् दिशस्सर्वा आमोदैश्च सुगन्धिभिः ।
कल्पकोटिशतं दिव्यं शिवलोके महीयते ॥ ५-१४६ ॥

तस्यान्ते धर्मशेषेण त्रैलोक्याधिपतिर्भवेत् ।
ऋतामृतौ तु यः कुर्यात् दिव्यगन्धैश्शिवालयम् ॥ ५-१४७ ॥

प्। ४१(६७)

स समस्तकुलोपेतः शिवलोके महीयते ।
कृष्णं पीतं च शुक्लं च पट्टसूत्रादिनिर्मितम् ॥ ५-१४८ ॥

यज्ञोपवीतं रुद्राय दत्वा वेदान्तगो भवेत् ।
वासांसिसुविचित्राणि सारवन्ति मृदूनि च ॥ ५-१४९ ॥

सूचितानि शिवेदद्यात् विकोशानि नवानि च ।
यावत्तु वस्त्रतन्तूनां परिमाणं विधीयते ॥ ५-१५० ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
त्रुटिमात्रं तु यो दद्यात् हेमलिङ्ग * * * ॥ ५-१५१ ॥

इन्द्रस्याध्यासनं तावत् याव * * * श ।
एवं वित्तानुसारेण फलं ज्ञेयं समासतः ॥ ५-१५२ ॥

सर्वेषां हेमपात्राणां मकुटानां च सर्वशः ।
योर्कपत्रपुटं पुण्यं मधुपर्केणमन्त्रितम् ॥ ५-१५३ ॥

निवेदयीत शर्वाय सोश्वमेधफलं लभेत् ।
शालिकन्तण्डुलप्रस्थं कुर्यादन्नं सुसंस्कृतम् ॥ ५-१५४ ॥

शिवाय तच्छिरं दद्यात् चतुर्दश्यां विशेषतः ।
हारिद्रं कृसरं शक्यं पायसं यावकं तथा ॥ ५-१५५ ॥

गुलखण्डैश्च सम्मिश्रं नैवेद्यं चेत्सुकल्पितम् ।
यावन्तण्डुलास्तस्मिन् नैवेद्ये परिसङ्ख्यया ॥ ५-१५६ ॥

तावद्युगसहस्राणि रुद्रलोके महीयते ।
गुलखण्डकृतानां च भक्ष्याणां विनिवेदने ॥ ५-१५७ ॥

प्। ४२(६८)

घृतेन पाचितानां स्यादनाच्छतगुणं फलम् ।
मजूनां पातकानां च भक्ष्याद * * फलं स्मृतम् ॥ ५-१५८ ॥

तदर्धं सलिलस्यापि वासितस्य निवेदने ।
मातुलङ्गफलाद्यानि सुपक्वानि निवेदयेत् ॥ ५-१५९ ॥

शिवाय तत्फलं तस्य यद्भक्ष्याणान्निवेदने ।
पञ्चसौगन्धिकोपेतं यस्ताम्बूलन्निवेदयेत् ॥ ५-१६० ॥

शिवाय गुरवे चैव तस्य पुण्यफलं शृणु ।
सुगन्धदेहस्तेजस्वी सर्वावयवसुन्दरः ॥ ५-१६१ ॥

वर्षकोटिशतं दिव्यं शिवलोकेमहीयते ।
घृतदीपप्रदानेन शिवाय शतयोजनम् ॥ ५-१६२ ॥

लङ्घयित्वा तमो यान्ति विमानैस्सूर्यसप्रभैः ।
यः कुर्यात्कृत्तिकामासे शोभनान्दीपमालिकाम् ॥ ५-१६३ ॥

घृतेन वै चतुर्दश्यां पौणमास्यामथापि वा ।
सूर्यायुतप्रतीकाशस्तेजसा भासयन्दिशः ॥ ५-१६४ ॥

तेजोराशिविमानस्थः कुलमुद्धृत्य सर्वशः ।
यावत्प्रदीपसङ्ख्यानं घृतेनापूर्य बोधितम् ॥ ५-१६५ ॥

तावद्युगसहस्राणि रुद्रलोके महीयते ।
दीपं वाक्षं समुद्धृत्य लोहमुच्चं शिवालये ॥ ५-१६६ ॥

पूर्वस्माद्द्विगुणं पुण्यं लभते नात्र संशयः ।
शिरसा धारयेद्दीपं दिवारात्रं शिवाग्रतः ॥ ५-१६७ ॥

प्। ४३(६९)

ललाटे वाथ हस्ताभ्यामुद्युक्तश्च तथोरसि ।
सूर्यायुतप्रतीकाशैः विमानैः सार्वगामिकैः ॥ ५-१६८ ॥

कल्पायुतशतं दिव्यं रुद्रलोके महीयते ।
शिवस्य पुरतो दद्यात् स्वच्छन्निर्मितदर्पणम् ॥ ५-१६९ ॥

पर्यन्तशोभितं कृत्वा श्वेतमाल्यैस्स चन्दनैः ।
चन्द्रांशुनिर्मलः श्रीमान् सुभगः कामरूपधृक् ॥ ५-१७० ॥

कल्पायुतसहस्राणि रुद्रलोके महीयते ।
कृत्वा प्रदक्षिणं भक्त्या शिवस्योभयधा नरः ॥ ५-१७१ ॥

अश्वमेधसहस्रस्य सुखेन लभते फलम् ।
नमस्कारस्मृतिर्यज्ञः सर्वयज्ञोत्तमः शुभः ॥ ५-१७२ ॥

नमस्कृत्वा महादेवम् अश्वमेधफलं लभेत् ।
प्रणम्य दण्डवद्भूमौ नमस्कारेण योर्चयेत् ॥ ५-१७३ ॥

स च यां गतिमाप्नोति न तां यज्ञशतैरपि ।
सर्वयज्ञोपवासेषु सर्वतीर्थेषु यत्फलम् ॥ ५-१७४ ॥

स्तुतिजप्योपहारेण शिवे तत्फलमाप्नुयात् ।
श्वेतम्महध्वजन्दद्यात् कृत्वा वा पञ्चरङ्गिकम् ॥ ५-१७५ ॥

किङ्किणीखकोपेतं मायूरछत्रशोभितम् ।
सर्वगेन विमानेन सर्वदेवोपरि स्थितः ॥ ५-१७६ ॥

मन्वन्तरसहस्रैकं मोदते दिवि रुद्रवत् ।

प्। ४४(७०)

ध्वजं छत्रं विमानानि दिग्विदिक्षु प्रकल्पते ॥ ५-१७७ ॥

महाध्वजाष्टकञ्चापि दिग्विदिक्षुप्रकल्पते ।
सविमानसहस्रेण दिव्यध्वजसुशोभिना ॥ ५-१७८ ॥

कल्पायुतशतं दिव्यं मोदते दिवि रुद्रवत् ।
श्रच्चन्द्रांशुविमलं मुक्ताजालोपशोभितम् ॥ ५-१७९ ॥

मणिदण्डमयञ्छत्रं दद्याद्वा काञ्चनाञ्चितम् ।
छत्रेण सुविचित्रेण धार्यमाणेन शोभिना ॥ ५-१८० ॥

विमानशतसम्भोगैः चिरं शिवपुरं व्रजेत् ।
यदिचेद्राज्यमाकाङ्क्षेत् सदेहीकालपर्ययात् ॥ ५-१८१ ॥

भुङ्क्ते समुद्रपर्यन्ताम् एकछत्रां वसुन्धराम् ।
अयश्शृङ्खलया युक्तां महाघण्टां महास्वनाम् ॥ ५-१८२ ॥

कांसलोहमयीं वापि बध्नीयाद्वै शिवालये ।
घण्टाकर्णगणः श्रीमान् शिवस्यातीव वल्लभः ॥ ५-१८३ ॥

शिवतुल्यवलोपेतः शिवलोके महीयते ।
भेरीमृदङ्गमुखन्तिमिलापटहादिकम् ॥ ५-१८४ ॥

वंशकांस्यादिवादित्रं यश्शिवाय निवेदयेत् ।
स विमानैर्मिहाभोगैः वंशवीणाकृतस्वनैः ॥ ५-१८५ ॥

युगायुतशतं दिव्यं शिवलोके महीयते ।
स्त्रीसङ्गीतदानेन नाट्येनैव विशेषतः ॥ ५-१८६ ॥

यथेष्टमैश्वरे लोके मोदते कालमक्षयम् ।

प्। ४५(७१)

महामहास्वनन्दत्वा शङ्खयुग्मं शिवालये ॥ ५-१८७ ॥

युगकोटि * * दिव्यं रुद्रलोके महीयते ।
वितानं पीतपद्माभमप्यामलकभूषितम् ॥ ५-१८८ ॥

विचित्रमेकवर्णं वा नववस्त्रोपशोभितम् ।
किङ्किणीखकोपेतं कञ्चुकैश्चोपशोभितम् ॥ ५-१८९ ॥

शिवस्योपरि यो दद्यात् पुरतोवापि कल्पयेत् ।
रुद्रवत्सर्वलोकेषु युगकोटिं स मोदते ॥ ५-१९० ॥

शिवस्योपरि यो दद्यात् सर्वरत्नोपशोभितम् ।
मण्टपं मौक्तिकं श्रीमान् तस्य पुण्यफलं शृणु ॥ ५-१९१ ॥

कोटिकोटिविमानैश्च सर्वकामसमन्वितैः ।
आभूतसम्प्लवं यावदास्ते शिवपुरं सुखी ॥ ५-१९२ ॥

शर्वस्यायतनं कुर्यात् वस्त्रं पूजासुशोभितम् ।
दुकूलपट्टदेवाङ्कैः वस्त्रैर्वा वर्णकान्वितैः ॥ ५-१९३ ॥

वस्त्रादिपट्टतन्तूनां परिसङ्ख्या तु यावती ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ५-१९४ ॥

शिवाहुत्या जगत्सर्वं सृष्टिद्वारेण धार्यते ।
यत्सन्धाय जगत्पुण्यम् अग्निकार्येण तद्भवेत् ॥ ५-१९५ ॥

यः कुर्यादिष्टकागारं रुद्राग्नेरतिशोभिनम् ।
सकृत्तत्राग्निकार्येण रुद्रसायुज्यमाप्नुयात् ॥ ५-१९६ ॥

शिवाग्निकार्यं यः कृत्वा त्रियायुषमिहात्मनः ।

प्। ४६(७२)

मुच्यते दशभिः पापैः शिवेन सितभस्मना ॥ ५-१९७ ॥

कृत्वा शिवालयप्रान्ते दशमण्डलकानि तु ।
सर्वाश्रकामसंयुक्तः तेषु नित्यं बलिं हरेत् ॥ ५-१९८ ॥

पुष्पधूपसमोपेतां ताम्रपात्रे प्रकल्पयेत् ।
रुद्रमातृगणादानीं दिक्पतीनां च सर्वशः ॥ ५-१९९ ॥

यः कुर्यात्सकृदप्येवं दशदिक्षु बलिक्रियाम् ।
दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ५-२०० ॥

रौद्रं सन्ध्याबलिं कृत्वा नित्यं पर्वसु वा निशम् ।
कल्पायुतशतं साग्रं शिवलोके महीयते ॥ ५-२०१ ॥

दधिभक्तमयं लिङ्गं हेमपात्रादिसंस्थितम् ।
पुष्पदूर्वाचितं भद्रं विधानोपरिशोभितम् ॥ ५-२०२ ॥

शिरसा धार्य तत्पात्रं शनैर्गच्छेत्प्रदक्षिणम् ।
शिवायतनपर्यन्तं शङ्खभेर्यादिभिस्वनैः ॥ ५-२०३ ॥

दर्पणेध्वजमालाभिः गेयनृत्तादिशोभितम् ।
छत्रचामरधूपाद्यैः यष्टिदीपादिभिस्तथा ॥ ५-२०४ ॥

तच्छेषन्दधिभक्तेन लिङ्गस्य पुरतः स्थितः ।
पुष्पाक्षतविमिश्रेण सर्वदिक्षु बलिं हरेत् ॥ ५-२०५ ॥

एतेन मातरो रौद्राः शिवोमाषण्मुखादयः ।
शान्तिं कुर्वन्तु मे प्रीताः रौद्रेण बलिना सदा ॥ ५-२०६ ॥

शिवमाल्यापनयनं पूजान्ते तु प्रमार्जनम् ।

प्। ४७(७३)

एकैकमेव तुल्यं स्यात् चान्द्रायणफलं लभेत् ॥ ५-२०७ ॥

शिवमण्डलकं कृत्वा हस्तमात्रं शिवाग्रतः ।
अवकीर्याक्षतैः पुष्पैः पत्रैर्वाप्यथ केवलैः ॥ ५-२०८ ॥

सुरूपस्सुभगश्श्रीमान् तेजस्वी देववत्सुखी ।
चतुर्वेदी भवेज्जन्म सकृत्वा लभते नरः ॥ ५-२०९ ॥

एवं स्वस्तिकपद्माद्यैः भूमिशोभां शिवालये ।
कृत्वावर्णकपिष्टाद्यैः लभेच्छतगुणं फलम् ॥ ५-२१० ॥

शिवे यज्ञोपकरणं दत्वाल्पं बहुवा यदि ।
स च वित्तानुसारेण शिवलोके महीयते ॥ ५-२११ ॥

शिवमुद्दिश्य यद्दत्वा सर्वकारणकारणम् ।
तदनन्तफलन्दातुः भवतीति किमद्भुतम् ॥ ५-२१२ ॥

यद्यदिष्टं विशिष्टं च न्यायेन समुपार्जितम् ।
शिवाय तन्निवेद्यं स्यात् भक्त्यानन्तफलार्थिभिः ॥ ५-२१३ ॥

कर्मशाठ्येन यः कुर्यात् कालेनापि शिवालये ।
सोपि शाठ्याद्दिवं याति कर्मणा पापवर्जितः ॥ ५-२१४ ॥

कूपारामान्नपानादि शिवायतनकर्मसु ।
उपयुक्तानि भूतानि खननोत्पाटनादिषु ॥ ५-२१५ ॥

अकामतोपि सर्वाणि स्थावराणि चराणि च ।
दिवं प्रयान्त्यसन्देहात् प्रभावात् परमेष्ठिनः ॥ ५-२१६ ॥

लिङ्गाद्धस्तशतं साग्रं शिवक्षेत्रं समन्ततम् ।

प्। ४८(७४)

देहिनां तत्रं पाश्चात्यं शिवसायुज्यकारणम् ॥ ५-२१७ ॥

मनुजैस्स्थापितैः लिङ्गैः क्षेत्रमानमिदं स्मृतम् ।
स्वयं भूते सहस्रं स्यादार्षे चैव तदर्धकम् ॥ ५-२१८ ॥

पापाचारोपि नामास्मिन् यस्माच्छिवपुरं व्रजेत् ।
तस्मादावसथं कुर्यात् शिवक्षेत्रसमीपतः ॥ ५-२१९ ॥

शिवलिङ्गसमीपस्थं यत्तोयं पुरतश्शुचिः ।
शिवगङ्गेति विज्ञेया तत्र स्नात्वा शिवं व्रजेत् ॥ ५-२२० ॥

यः कुर्याद्दीर्घिकां वापिं कृत्वा चापि शिवालये ।
त्रिसप्तकुलसंयुक्तः शिवलोके महीयते ॥ ५-२२१ ॥

सर्वमन्यत्परित्यज्य शिवैकाहितमानसः ।
शिवपूजाविधिं कुर्यात् यदीच्छेत्सिद्धिमात्मनः ॥ ५-२२२ ॥

त्वरितं जीवितं याति त्वरितं याति यौवनम् ।
त्वरितं व्याधिरप्येति तस्मात्पूज्यः सदाशिवः ॥ ५-२२३ ॥

यावन्न याति मरणं यावन्नाक्रमते जरा ।
यावन्नेन्द्रियवैकल्यं तावत्पूजयशङ्करम् ॥ ५-२२४ ॥

न शिवार्चनतुल्योस्ति धर्मोन्यो भुवनत्रये ।
इति विज्ञाय यत्नेन पूजये युस्सदाशिवम् ॥ ५-२२५ ॥

यो भक्त्या देवदेवेशं शिवं शान्तमजं प्रभुम् ।
इह लोके सुखं प्राप्य ते यान्ति परमं पदम् ॥ ५-२२६ ॥

सम्पूज्य पशुभर्तारं विशुद्धेनान्तरात्मना ।

प्। ४९(७५)

कृताञ्जलिपुटो भूत्वा भक्त्या स्तोत्रमुदीरयेन् ॥ ५-२२७ ॥

शिवमार्गप्रणेतारं प्रणमामि सदाशिवम् ॥ ५-२२८ ॥

शाश्वतं शोभनं शुद्धं शासकं दोषशोधकम् ।
विश्व * * विश्वेश्वरं देवं शङ्करं प्रणमाम्यहम् ॥ ५-२२९ ॥

सर्वपापहरं नाथं सर्वरोगहरं शुभम् ।
ईशानं वरदं देवमीशानं मन्त्रनायकम् ॥ ५-२३० ॥

इति पूजाविधिं पुण्यं यश्शृणोति सकृन्नरः ।
समुक्तः सर्वपापेभ्यो रुद्रलोके महीयते ॥ ५-२३१ ॥

इति श्रीशैवशास्त्रे शिवधर्मोत्तरे नन्दिकेश्वरप्रोक्ते
शिवार्चनाद्रव्यपुण्याख्यानं नाम पञ्चमोध्यायः ॥

प्। ५०(७६)

श्रीः

अथ षष्ठाध्यायः

श्रीनन्दिकेश्वर उवाच

अतः परमिदं गुह्यं रुद्रोद्गीतं महोदयम् ।
महाविग्नप्रशमनं महाशान्तिकरं शुभम् ॥ ६-१ ॥

अकालमृत्युशमनं सर्वव्याधिनिवारणम् ।
परचक्रप्रशमनं सदा विजयवर्धनम् ॥ ६-२ ॥

स्तम्भनं रिपुसैन्यस्याप्यप्रसादकरं सदा ।
सर्वदेवग्रहानीकसमभीष्ठावभासकम् ॥ ६-३ ॥

सर्वशान्त्यधिकाराख्यं धर्मं वक्ष्यामि तत्वतः ।
शशाङ्कार्धधरस्त्र्यक्षः नागयज्ञोपवीतवान् ॥ ६-४ ॥

चतुर्मुखश्चतुर्बाहुः सितभस्मावकुण्डितः ।
वरो वरेण्यो वरदो देवदेवो महेश्वरः ॥ ६-५ ॥

त्रैलोक्यनमितः श्रीमान् शान्तिमाशु करोतु मे ।
सर्वावयवमुख्येन गात्रेण तनुमध्यमा ॥ ६-६ ॥

पीतश्यामातिसौम्येन शिवरूपेण शोभिता ।
ललाटतिलकोपेता चन्द्ररेखार्धधारिणी ॥ ६-७ ॥

दिव्याम्बरधरा देवी सर्वाभरणभूषिता ।
वरस्त्रीसर्वनारीणां शोभागुणमहास्पदा ॥ ६-८ ॥

प्। ५१(७७)

भावनामात्रसन्तुष्टा उमा देवी वरप्रदा ।
साक्षादागत्य रूपेण शान्तेनामिततेजसा ॥ ६-९ ॥

शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला ।
पद्मरागद्युतिस्सौम्यः रक्तमाल्यानुलेपनः ॥ ६-१० ॥

अबालो बालरूपेण षड्वक्तश्शिखिवाहनः ।
पूर्णेन्दुवदनस्सौम्यः त्रिशिवाशक्तिसंयुतः ॥ ६-११ ॥

कृत्तिकोमाग्निरुद्राङ्गसमुद्भूतस्सुरार्चितः ।
कार्तिकेयो महातेजा वरदानैकतत्परः ॥ ६-१२ ॥

शान्तिं करोतु मे नित्यं बलं सौख्यं च मे सदा ।
श्वेतवस्त्रपरीधानः त्र्यक्षः कनकसप्रभः ॥ ६-१३ ॥

शूलपाणिर्महाप्राज्ञः नन्दीशः शिवभावितः ।
शान्तिं करोतु मे शान्तः धर्मे च मतिमुत्तमाम् ॥ ६-१४ ॥

महोदरो महाकायः स्निग्धाञ्जनसमद्युतिः ।
एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः ॥ ६-१५ ॥

नागयज्ञोपवीतेन नागाभरणभूषितः ।
सर्वाथसम्पदाधारः गणाध्यक्षो वरप्रदः ॥ ६-१६ ॥

रुद्रस्य तनयो देवः नायकोथविनायकः ।
करोतु मे महाशान्तिं महासिद्धिं च सर्वदा ॥ ६-१७ ॥

मन्द्रनीलनिभः त्र्यक्षः दीप्तशूलायुधोद्यतः ।
रक्ताम्बरधरश्श्रीमान् कृष्णाङ्गोरगभूषणः ॥ ६-१८ ॥

प्। ५२(७८)

पापापनोदमतुलम् अलक्ष्मीमलनाशनम् ।
करोतु मे महाशान्तिं महाकालो महाबलः ॥ ६-१९ ॥

शङ्खकुन्देन्दुवर्णाभः कण्ठेमरतकप्रभः ।
अक्षमालाधरोग्रश्च स्वयं विष्णुरिवस्थितः ॥ ६-२० ॥

चतुर्मुखश्चतुर्बाहुः त्रिणेत्रः सततोज्वलः ।
क्षित्याः पतिर्वृषो धर्मः सर्वधर्मोत्तमोत्तमः ॥ ६-२१ ॥

ईशं वहति पृष्ठेन तस्माद्धर्मो जगत्पतिः ।
वृषो वृषधरः श्रीमान् करोतु मम शान्तिकम् ॥ ६-२२ ॥

सर्वज्ञस्सर्वसदृशः सर्वगः शीर्षजः प्रभुः ।
शमनश्शत्रुसैन्यानां शास्ताशान्तिं करोतु मे ॥ ६-२३ ॥

पीतवस्त्रपरीधाना कन्यारूपा ह्यलङ्कृता ।
गणमाताम्बिकात्र्यक्षा पुण्या गौरी महेश्वरी ॥ ६-२४ ॥

सर्वसिद्धिकरा देवी प्रसादपरमापरा ।
शान्तिं करोतु मे माता सिद्धिमाशु प्रयच्छतु ॥ ६-२५ ॥

निर्मांसेन शरीरेण स्नारवस्थिसुनिबन्धनः ।
अतिसूक्ष्मोत्यतिक्रान्तः त्र्यक्षो भृङ्गिरिटिर्महान् ॥ ६-२६ ॥

रुद्रात्मजो महावीरो रुद्रैकगतमानसः ।
सोपि शान्तात्मभावेन शान्तिमाशु प्रयच्छतु ॥ ६-२७ ॥

प्रचण्डगणसैन्येन महाटङ्काक्षधारकः ।
अक्षमालाधृतकरः त्र्यक्षश्चण्डेश्वरः प्रभुः ॥ ६-२८ ॥

प्। ५३(७९)

चण्डपापापहरणः ब्रह्महत्यादिशोधकः ।
करोतु मे महायोगी कल्याणं परमं शुभम् ॥ ६-२९ ॥

पद्मासनः पद्मनिभः चतुर्वदनपङ्कजः ।
कमण्डलुधरः श्रीमान् सिद्धगन्धर्वपूजितः ॥ ६-३० ॥

शिवध्यानेकनिरतः शिवसद्भावकोविदः ।
ब्रह्मशब्देन दिव्येन ब्रह्माशान्तिं करोतु मे ॥ ६-३१ ॥

तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ।
श्यामः पीताम्बरधरः वनमालाविभूषितः ॥ ६-३२ ॥

यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ।
शिवप्रसादसम्पन्नः शिवध्यानपरायणः ॥ ६-३८ ॥

शिवार्चनपरः श्रीमान् विष्णुः शान्तिं करोतु मे ।
पद्मरागनिभा देवी चतुर्वदनपङ्कजा ॥ ६-३४ ॥

अक्षमालाञ्चितकरा कमण्डलुधरा शुभा ।
ब्रह्माणी सौम्यवदना शिवपूजापरायणा ॥ ६-३५ ॥

शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा ।
हिमशैलनिभा देवी महावृषभवाहिनी ॥ ६-३६ ॥

त्रिशूलहस्ता वरदा नागाभरणभूषिता ।
रुद्रभक्ता महावीर्या रुद्रार्चनरता सदा ॥ ६-३७ ॥

चतुर्भुजा चतुर्वक्त्रा त्रिणेत्रा पापहारिणी ।
आर्तिं हरतु मे प्रीता माहेशी नित्यमुज्वला ॥ ६-३८ ॥

प्। ५४(८०)

मयूरवाहना देवी सिन्दूरारुणविग्रहा ।
शक्तिहस्ता महावीर्या सर्वालङ्कारभूषिता ॥ ६-३९ ॥

रुद्रभक्ता महादेवी रुद्रार्चनरता सदा ।
कौमारी वरदा देवी शान्तिमाशुकरोतु मे ॥ ६-४० ॥

शङ्खचक्रगदाहस्ता श्यामापीताम्बरप्रिया ।
चतुर्भुजा तार्क्ष्यगता वैष्णवी सुरपूजिता ॥ ६-४१ ॥

शिवार्चनरता नित्यं रुद्रैकगतमानसा ।
शान्तिं करोतु मे नित्यं सर्वासुरविमर्दिनी ॥ ६-४२ ॥

वाराहघोणविकटा वराहवरवाहिनी ।
श्यामाभा सर्ववरदा शङ्खचक्रगदायुधा ॥ ६-४३ ॥

तर्जयन्ती सदा विघ्नम् अर्चयन्ती सदाशिवम् ।
वाराही वरदा देवी क्षमारोग्यन्ददातु मे ॥ ६-१४४ ॥

ऐरावतसमारूढा वक्रहस्ता महाबला ।
नेत्राणान्तु सहस्रेण भूषिता काञ्चनप्रभा ॥ ६-४५ ॥

सिद्धगन्धर्वनमिता सर्वालङ्कार भूषिता ।
ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे ॥ ६-४६ ॥

ऊर्ध्वकेशोत्कटाश्यामा निर्मांसा स्नायुबन्धना ।
करालवदनाघोरा खड्गखेटकधारिणी ॥ ६-४७ ॥

कपालमालिनी देवी क्रूरा खट्वाङ्गधारिणी ।
आरक्तपिङ्गनयना गजचर्मावकुण्ठिता ॥ ६-४८ ॥

प्। ५६(८१)

नानानागपरीताङ्गी प्रेतस्थाननिवासिनी ।
शिवरूपेण * * * * घोरा च भयङ्करी ॥ ६-४९ ॥

चामुण्डा चण्डरूपेण चित्रयन्त्रासनेन तु ।
भूतप्रेतपिशाचेभ्यः मम रक्षां करोत्विह ॥ ६-५० ॥

आयुः श्रियं बलं सौख्यं यशो वृद्धिश्रियावहम् ।
आकाशमातरो दिव्याः तथान्या लोकमातरः ॥ ६-५१ ॥

भूतानाम्मातरः सर्वाः तथान्या देवमातरः ।
सर्वमातृमहादेव्यः स्वायुधासक्तपाणयः ॥ ६-५२ ॥

जगद्व्याप्यावतिष्ठन्त्यः बलिकामा महोदराः ।
रुद्रभक्ता महावीर्या रौद्रा रुद्रार्चनेरताः ॥ ६-५३ ॥

शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः ।
ये रुद्रा रौद्रकर्माणः रौद्रस्थाननिवासिनः ॥ ६-५५ ॥

मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथाचान्ये दशदिक्षु समाश्रिताः ॥ ६-५५ ॥

सर्वेसु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ।
सिद्धिं कुर्वन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा ॥ ६-५६ ॥

ऐन्द्र्यां दिशिगणा ये तु वज्रहस्ता महाबलाः ।
सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः ॥ ६-५७ ॥

दिव्यन्तरिक्षा भौमाश्च पातालतलवासिनः ।
रुद्रार्चनरता हृष्टाः शान्तिं कुर्वन्तु मे सदा ॥ ६-५८ ॥

प्। ५६(८२)

आग्नेय्यां च गणास्सर्वे स्रुवहस्ता निषङ्गिणः ।
सुरक्ताक्षा रक्तनिभाः तथा वै रक्तलोचनाः ॥ ६-५९ ॥

दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ।
परमेशार्चनरताः कुर्वन्त्वारोग्यमुत्तमम् ॥ ६-६० ॥

वायव्यान्तु गणा ये तु सततं ध्वजपाणयः ।
सुपद्माक्षाः पद्मनिभाः तथा वै पद्मलोहिताः ॥ ६-६१ ॥

दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ।
परमेशार्चनरताः शान्तिं कुर्वन्तु मे सदा ॥ ६-६२ ॥

कौबेर्या ये गणास्सर्वे सततं निधिपाणयः ।
सुपीताक्षाः पीतनिभाः तथा वै पीतलोहिताः ॥ ६-६३ ॥

दिव्यन्तरिक्ष भौमाश्च पातालतलवासिनः ।
परमेशार्चनरताः शान्तिं कुर्वन्तु मे सदा ॥ ६-६४ ॥

ऐशान्यां तु गणा ये तु प्रशान्ताः शूलपाणयः ।
सुसूक्ष्माक्षाः सूक्ष्मनिभाः तथा वै सूक्ष्मलोहिताः ॥ ६-६५ ॥

दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु मे सदा ॥ ६-६६ ॥

अधोभागगणा ये तु सततं चक्रपाणयः ।
सुधूम्राक्षा धूम्रनिभाः तथा वै धूम्रलोहिताः ॥ ६-६७ ॥

दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ।
शिवपूजासमुद्युक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ६-६८ ॥

प्। ५७(८३)

ऊर्ध्वभागगणा ये तु सततं पद्मपाणयः ।
सुसू * * * षाः सूक्ष्म * ः तथा वै सूक्ष्मलोहिताः ॥ ६-६९ ॥

दिव्यन्तरिक्ष भौमाश्च पातालतलवासिनः ।
शिवपूजासमासक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ६-७० ॥

एते गणा महात्मानः महाबल * * ः ।
शिवं सम्पूज्य यत्नेन बलिमेषां विनिक्षिपेत् ॥ ६-७१ ॥

ततस्सुप्रीतमनसः शान्तिं कुर्वन्तु मे सदा ।
नाम्नामरावतीपुर्याः पूर्वभागे व्यवस्थिता ॥ ६-७२ ॥

विद्याधरगणाकीर्ण सिद्धगन्धर्वसेविता ।
रत्नप्राकारखचिता महारत्नोपशोभिता ॥ ६-७३ ॥

तत्र देवपतिः श्रीमान् वज्रहस्तो महाबलः ।
नेत्राणान्तु सहस्रेण शोभनेन विराजते ॥ ६-७४ ॥

ऐरावतगजारूढा हेमवर्णो महाद्युतिः ।
देवेन्द्रः सततं हृष्टः परमेशार्चने रतः ॥ ६-७५ ॥

शिवध्यानैकपर्याप्तः शिवभक्तिसमन्वितः ।
शिवभक्तैस्तथान्यैश्च देवैरपि सहानुगैः ॥ ६-७६ ॥

शिवप्रणामपरमः करोतु मम शान्तिकम् ।
आग्नेये तु विभागे तु पुरी तेजोवती शुभा ॥ ६-७७ ॥

नानादेव समाकीर्णा रत्नज्वालासमाकुला ।
तत्रज्वालापरीताङ्गो दीपाङ्गारसमद्युतिः ॥ ६-७८ ॥

प्। ५८(८४)

भूतिकृद्देहिनान्देवो ज्वलनः पापनाशनः ।
शिवपूजाजपोद्युक्तः शिवस्मरणपावितः ॥ ६-७९ ॥

शान्तिं करोतु मे देवः तथा पापपरिक्षयम् ।
वैवस्वतपुरी नाम दक्षिणेन व्यवस्थिता ॥ ६-८० ॥

लोहप्राकारसंयुक्ता प्रासादैरुपशोभिता ।
तस्य तस्यां मध्ये स्थितः सर्वकामदो हर्म्यगस्तथा ॥ ६-८१ ॥

सुरासुरशतानीक पितृयक्षोरगालया ।
तत्रेन्द्रनीलसङ्काशः रक्तान्तायतलोचनः ॥ ६-८२ ॥

महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः ।
श्रीमान्यमोमहातेजाः शिवधर्मपरायणः ॥ ६-८३ ॥

शिवपूजासमुद्युक्तः क्षेमारोग्यं ददातु मे ।
नैर्-ऋते तु शिशोभागे पुरीकृष्णावती शुभा ॥ ६-८४ ॥

महारक्षोगणाकीर्णा पिशाचप्रेतसङ्कुला ।
तत्र जीमूतसङ्काशः कृष्णस्रग्वस्त्रभूषणः ॥ ६-८५ ॥

खड्गपाणिर्महातेजाः करालवदनोज्वलः ।
रक्षोराट् नैर्-ऋतिर्नित्यं शिवार्चनरतः सदा ॥ ६-८६ ॥

करोतु मे महाशान्तिं शिवभक्तिसमुत्सुकः ।
पश्चिमे तु दिशो भागे पुरीशुद्धवती शुभा ॥ ६-८७ ॥

नानारत्नसमाकीर्णा नानाकिन्नरसङ्कुला ।
तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः ॥ ६-८८ ॥

प्। ५९(८५)

शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः ।
वरुणः ॥ ६-* * * * परया भक्त्या शिवैकाहितमानसः ॥ ६-८९ ॥

रोगशोकार्तिसन्तापभयं निर्नाशयन्तु मे ।
वायव्ये तु दिशो भागे पुरी गन्धवती शुभा ॥ ६-९० ॥

ऋषिसिद्धगणाकीर्णा हेमप्राकारतोरणा ।
तत्र ताम्रेण लोहेन कृष्णपिङ्गललोहितः ॥ ६-९१ ॥

नभो व्याप्तान्तरालीनः ध्वजयष्ट्यायुधो यतः ।
पवनः परमो देवः परमेश्वरभावितः ॥ ६-९२ ॥

क्षेमारोग्यं बलं शान्तिं करोतु सततं मम ।
महोदधिपुरी नाम उत्तरे च महोज्वला ॥ ६-९३ ॥

अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता ।
हेमप्राकारसंयुक्ता रत्नप्राकारसंयुता ॥ ६-९४ ॥

तत्र देवो गदाहस्तः चित्रस्रग्वस्त्रभूषणः ।
ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः ॥ ६-९५ ॥

कुबेरो वरदः श्रीमान् हरपादार्चने रतः ।
शान्तिं करोतु मे प्रीतः शान्तः शान्तेन चेतसा ॥ ६-९६ ॥

यशोवती पुरी रम्या ऐशान्यां दिशि संस्थिता ।
नानागणसमाकीर्णा नानारत्नसुरालया ॥ ६-९७ ॥

तेजः प्राकारपर्यन्ता निरौपम्या सदौज्वला ।
तत्र मौक्तिकसङ्काशः शशाङ्ककृतशेखरः ॥ ६-९८ ॥

प्। ६०(८६)

त्रिणेत्रश्शान्तरूपाङ्गोप्यक्षमालाधरो हरः ।
ईशानः परमो देवः सर्वदेवोत्तमोत्तमः ॥ ६-९९ ॥

सोपि सर्वात्मभावेन शान्तिमाशु करोतु मे ।
भूलोके च भुवर्लोके स्वर्गलोके वसन्ति ये ॥ ६-१०० ॥

देवा दिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा ।
महर्लोके जनो लोके तपोलोके च ये स्थिताः ॥ ६-१०१ ॥

तेपि प्रमुद्यता देवाः शान्तिं कुर्वन्तु मे सदा ।
जनलोके च ये देवाः धौतचामीकर प्रभाः ॥ ६-१०२ ॥

ईशानं प्रणता नित्यं शान्तिं कुर्वन्तु मे सदा ।
महर्लोके च ये देवा विमानोज्वलसंस्थिताः ॥ ६-१०३ ॥

भव प्रणामपरमाः नाशयन्तु भयं सदा ।
स्वर्लोकस्थाश्च ये देवा दीप्तिमन्तोमहाज्वलाः ॥ ६-१०४ ॥

शङ्करं प्रणता नित्यं कुर्वन्तु विजयं मम ।
भूलोके चैव ये देवा भासयन्तो दिशो दश ॥ ६-१०५ ॥

शिवैकाहितचेतस्काः पापं प्रशमयन्तु मे ।
गिरिकन्दरदुर्गेषु वनेषु निवसन्ति ये ॥ ६-१०६ ॥

रुद्रार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा ।
शरच्चन्द्रांशुगौरेण देहेनामलतेजसा ॥ ६-१०७ ॥

सरस्वती शिवे भक्ता शान्तिमाशुकरोतु मे ।
चारुचामीकरच्छाया सरोजकरपल्लवा ॥ ६-१०८ ॥

प्। ६१(८७)

श्रीदेवी च शिवे भक्ता श्रीमद्भूतिन्ददातु मे ।
चारुतामुखचन्द्रेण विचित्रकनकोज्वला ॥ ६-१०९ ॥

जयादेवी शिवे भक्ता सर्वान्कामान्ददातु मे ।
हारेण सुविचित्रेण भास्वत्कनकमेखला ॥ ६-११० ॥

पराजिता शिवे भक्ता करोतु विजयं मम ।
सिन्दूरारुणरक्ताङ्गः कर्णान्तायतलोचनः ॥ ६-१११ ॥

किरणावलिसंयुक्तः सप्तसप्तिकवाहनः ।
गभस्तिमाली भगवान् हरपादार्चने रतः ॥ ६-११२ ॥

करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ।
पद्मरागनिभेनापि देहानापिङ्गलोचनः ॥ ६-११३ ॥

अङ्गारकश्शिवे भक्तो रुद्रार्चन परायणः ।
रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमानसः ॥ ६-११४ ॥

ग्रहपीडाभयं सर्वं विनाशयतु मे सदा ।
कुङ्कुमछविना श्रीमद्देहेन परिमण्डितः ॥ ६-११५ ॥

शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ।
तप्तचामीकरछायः सर्वज्ञानकृतालयः ॥ ६-११६ ॥

बृहस्पतिस्सदाकालमीशानार्चनतत्परः ।
सोपि शान्तात्मभावेन परमेण समाधिना ॥ ६-११७ ॥

ग्रहपीडां विनिर्जित्य करोतु विजयं मम ।
हिमकुन्देन्दुवर्णाभः सुरदैत्येन्द्रपूजितः ॥ ६-११८ ॥

प्। ६२(८८)

शुक्रश्शिवार्चनरतः ग्रहपीडां व्यपोहतु ।
नीलजीमूतसङ्काशः सुरक्तनयनद्युतिः ॥ ६-११९ ॥

शनैश्चरश्शिवे भक्तः ग्रहपीडां व्यपोहतु ।
नीलमेधाञ्जनछायः सैह्मिकेयो महाबलः ॥ ६-१२० ॥

शिवपूजापरो राहुः ग्रहपीडां व्यपोहतु ।
धूम्रदेहयुतः क्रूरः सर्वोत्पातसमन्वितः ॥ ६-१२१ ॥

शिवार्चनरतः केतुः ग्रहपीडां व्यपोहतु ।
एते ग्रहा महात्मानः शिवार्चनरतास्सदा ॥ ६-१२२ ॥

शान्तिं कुर्वन्तु मे नित्यं सदाकालं हितैषिणः ।
मुखे यस्याः स्थितो मृत्युः वृष्टिर्नाम महाबला ॥ ६-१२३ ॥

सुमुखा विघ्नकर्त्री च पुष्ट्यै च विजयङ्करी ।
रुद्रप्रणामपरमा शान्तिमाशु करोतु मे ॥ ६-१२४ ॥

तृतीया सप्तमी चैव दशमी च चतुर्दशी ।
चतुर्थीत्वष्टमी चैव एकादश्या तु पूर्णिमा ॥ ६-१२५ ॥

एताविघ्नकरा भद्राः शुक्लकृष्णसमुद्भवाः ।
नाशयन्तु भयं नित्यं कुर्वन्तु विजयं मम ॥ ६-१२६ ॥

अमावास्या महापुण्या पितृदेवसमन्विता ।
शान्ता ह्येषा तु परमा शिवस्य च महाप्रिया ॥ ६-१२७ ॥

शिवतेजस्समायुक्ता करोतु मम शान्तिकम् ।
प्रतिपद्वह्निसंयुक्ता द्वितीया चाधिदैवता ॥ ६-१२८ ॥

प्। ६३(८९)

तृतीया च महापुण्या धनदेन समन्विता ।
चतुर्थी च महापुण्या गजवक्त्राधिदेवता ॥ ६-१२९ ॥

पञ्चमी श्रीयुता नित्यं षष्ठीस्कन्दाधिदेवता ।
सप्तमी रविसंयुक्ता ह्यष्टमी रुद्रदैवता ॥ ६-१३० ॥

नवमी तिथिरत्युग्रा दुर्गादेव्यधिदैवता ।
दशमी यमसंयुक्ता चैन्द्रेणैकादशीयुता ॥ ६-१३१ ॥

द्वादशीविष्णुसंयुक्ता मदनेन त्रयोदशी ।
चतुर्दशी महेशेन पौर्णमासी हिमांशुना ॥ ६-१३२ ॥

एतास्तु तिथयः सर्वा ईशानार्चनतत्पराः ।
शान्तिं कुर्वन्तु मे नित्यं सदाकालं हितेरताः ॥ ६-१३३ ॥

विष्कम्भः प्रीतिरायुष्मान् सौभाग्यश्शोभनस्तथा ।
अतिगण्डस्सुकर्मा च धृतिश्शूलस्तथैव च ॥ ६-१३४ ॥

गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ।
वज्रस्सिद्धिर्व्यतीपातो वरीयान् परिघश्शिवः ॥ ६-१३५ ॥

सिद्धं साध्यं शुभं शुभ्रं ब्राह्मो माहेन्द्रवैधृतिः ।
चन्द्रस्य भानोरुत्पन्ना ह्येते योगा महाबलाः ॥ ६-१३६ ॥

शिवभक्तिरतास्सर्वे शिवभक्तिविधायिनः ।
एते शिवार्चनरताः कुर्वन्तु मम शान्तिकम् ॥ ६-१३७ ॥

कृत्तिका परमा देवी रोहिणी रुचिरानना ।
श्रीमन्मृगशिरो भद्रा आर्द्रा च परमोज्ज्वला ॥ ६-१३८ ॥

प्। ६४(९०)

पुनर्वसुस्तथापुष्यः आश्लेषा च महाबला ।
नक्षत्रमातरो ह्येताः प्रभामालावभासकाः ॥ ६-१३९ ॥

महादेवार्चनरताः महादेवानुभाविताः ।
पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा ॥ ६-१४० ॥

मखा सर्वगुणो पेता पूर्वा चैव तु फाल्गुनी ।
उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा ॥ ६-१४१ ॥

स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः ।
अर्चयन्ती सदा कालं देव * * परम् ॥ ६-१४२ ॥

ममापि शान्तिकं ह्येताः कुर्वन्तु शिवचोदिताः ।
अनूराधा तथाज्येष्ठा मूला ऋद्धिबलान्विता ॥ ६-१४३ ॥

पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा ।
अभिजिन्नामनक्षत्रं श्रवणं परमोज्वला ॥ ६-१४४ ॥

एताः पश्चिमतो दीप्ताः राजन्त्यः चारुमूर्तयः ।
ईशानं पूजयन्त्येताः सार्वकालं सुभाविताः ॥ ६-१४५ ॥

शान्तिं कुर्वन्तु मे प्रीताः विभूतिञ्च समाहिताः ।
श्रविष्ठयां शतभिषक् पूर्वभाद्रपदा तथा ॥ ६-१४६ ॥

रेवत्युत्तरभाद्रा च अश्विनी च महर्द्धिका ।
भरणी च महावीर्या नित्यमुत्तरसंस्थिताः ॥ ६-१४७ ॥

शिवार्चनरताः नित्यं शिवध्यानैकमानसाः ।
शान्तिं कुर्वन्तु मे नित्यं बलं सौभाग्यमेव च ॥ ६-१४८ ॥

प्। ६५(९१)

कन्या च परमा देवी मकरश्च महर्धिकः ।
ऋषभश्च महावीर्यः शिवभावसुभावितः ॥ ६-१४९ ॥

एते दक्षिणभागे तु पूजयन्ति सदाशिवम् ।
भक्त्या च परया नित्यं शान्तिं कुर्वन्तु मे सदा ॥ ६-१५० ॥

मिथुनश्च तुलाकुम्भः पश्चिमेन व्यवस्थितः ।
शिवपूजार्चनरताः शान्तिं कुर्वन्तु मे सदा ॥ ६-१५१ ॥

कर्कटो वृश्चिको मीनः एते चोत्तरसंस्थिताः ।
यजन्त्येते सदाकालं रुद्रं भुवननायकम् ॥ ६-१५२ ॥

शान्तिं कुर्वन्तु मे नित्यं रुद्रध्यानपरायणाः ।
ऋषयः सप्तविख्याताः ध्रुवान्ताः परमोज्वलाः ॥ ६-१५३ ॥

शिवप्रसादसम्पन्नाः शान्तिं कुर्वन्तु मे सदा ।
काश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ॥ ६-१५४ ॥

मनुर्दक्षो वसिष्ठश्च मार्कण्डः पुलहः क्रतुः ।
नारदो भृगुरात्रेयो भारद्वाजोङ्गिरा मुनिः ॥ ६-१५५ ॥

शाल्मलिः कौशिकः कण्।वः शाकल्योथपुनर्वसुः ।
शालङ्कायन इत्येते मुनयोथ महातपाः ॥ ६-१५६ ॥

शिवध्यानार्चनोद्युक्ताः शान्तिं कुर्वन्तु मे सदा ।
ऋषिपत्न्यो महापुण्याः ऋषिकन्याकुमारकाः ॥ ६-१५७ ॥

शिवार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा ।
सिद्धाश्च सिद्धतपसो गन्धर्वाप्सरसो गणाः ॥ ६-१५८ ॥

प्। ६६(९२)

विद्या * * * * त्मानः गरुडाश्च महर्षिकाः ।
महेश्वरपराह्येते महेश्वरपदार्चकाः ॥ ६-१५९ ॥

सिद्धिमाशु प्रयच्छन्तु शिवधर्मपरायणाः ।
नमुचिद्दैत्यराजेन्द्रः शङ्कुकर्णोमहाबलः ॥ ६-१६० ॥

जम्भोनिकुम्भश्शकटः शिवभक्तिपरायणाः ।
एते दैत्या महात्मानः शिवसद्भावभाविताः ॥ ६-१६१ ॥

पुष्टिं बलं तथा वीर्यं प्रयच्छन्तु सुखोदयम् ।
महानागोथविख्यातो दैत्यः परमवीर्यवान् ॥ ६-१६२ ॥

हाटकेश्वरदेवस्य नित्यं पूजापरायणाः ।
बलं वीर्यं च मे क्षिप्रं प्रयच्छतु महर्धिकाः ॥ ६-१६३ ॥

महाजम्भो हयग्रीवः प्रह्लादो दैत्यपुङ्गवः ।
तारकाक्षमुखा दैत्याः कालनेमिर्महात्मवान् ॥ ६-१६४ ॥

वैरोचनो हिरण्याक्षः सुपर्वा च सुलोमकः ।
मुचुकुन्दस्सुकुन्दश्च दैत्यो रोचनकस्तथा ॥ ६-१६५ ॥

भावेन परमेणाशु यजन्ते सर्वदा शिवम् ।
सदाशिवात्मभावेन पुष्टिं कुर्वन्तु मे सदा ॥ ६-१६६ ॥

दैत्यपत्न्यो महाभागाः दैत्यानां कन्यकाः शुभाः ।
कुमारकाश्च दैत्यानां शान्तिं कुर्वन्तु मे सदा ॥ ६-१६७ ॥

आरक्तेन शरीरेण रक्तान्तायतलोचनः ।
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ॥ ६-१६८ ॥

प्। ६७(९३)

अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ।
महापापविषं हत्वा शान्तिमाशुकरोतु मे ॥ ६-१६९ ॥

सुश्वेतेन तु देहेन सुश्वेतोपलशेखरः ।
चारुभोगकृताटोपः हरचारुविभूषितः ॥ ६-१७० ॥

वासुकिर्नागराजेन्द्रः शिवपादार्चने रतः ।
महापापविषं हत्वा क्षेमारोग्यं ददातु मे ॥ ६-१७१ ॥

अतिपीतेन देहेन प्रक्षुरद्भोगसम्पदा ।
तेजसाचातिदीप्तेन कृतस्वस्तिकलाञ्छनः ॥ ६-१७२ ॥

नागेन्द्रस्तक्षकः श्रीमान् नागकोट्यासमद्युतिः ।
करोतु मे महाशान्तिं सर्वदोषविनाशनम् ॥ ६-१७३ ॥

अतिकृष्णेन वर्णेन क्षीरद्विकटमस्तकः ।
कण्ठेरेखात्रयोपेतः घोरदंष्ट्रायुधोद्यतः ॥ ६-१७४ ॥

कार्कोटको महातेजा विषदर्पसमन्वितः ।
विषाण्युग्राणि सहसा हत्वा शान्तिं करोतु मे ॥ ६-१७५ ॥

पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ।
पद्मबिन्दुक्षताभासो ग्रीवायां शुभलक्षणः ॥ ६-१७६ ॥

ख्यातः पद्मो महाभोगो हरपादार्चने रतः ।
करोतु * * * महाशान्तिं महापापवि * * * यम् ॥ ६-१७७ ॥

पुण्डरीक नापि देहेनामिततेजसा ।
शङ्खशूलाब्जरुचिरो भूषितो मूर्ध्नि सर्वदा ॥ ६-१७८ ॥

प्। ६८(९४)

महापद्मो महाभोगो नित्यं पशुपतौरतः ।
विनिहत्य विषं घोरं शान्तिमाशुकरोतु मे ॥ ६-१७९ ॥

श्यामेन देहाभरणैः श्रीमान् कमललोचनः ।
विषदर्पबलोन्मत्तः ग्रीवायामेकरेखया ॥ ६-१८० ॥

शङ्खवालक्षिया दीप्तः शिवपादाब्जपूजकः ।
महाघोरं विषं हत्वा करोतु मम शान्तिकम् ॥ ६-१८१ ॥

अतिगौरेण देहेन चन्द्रार्धकृतशेखरः ।
दीप्तभोगकृतार्वापश्शम्भुलक्षणलक्षितः ॥ ६-१८२ ॥

गुलिको नाम नागेन्द्रो नित्यं हरपरायणः ।
अपहृत्यविषं घोरं करोतु मम शान्तिकम् ॥ ६-१८३ ॥

अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ।
गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः ॥ ६-१८४ ॥

पाताले ये स्थिता नागाः सर्वेप्यत्र समाहिताः ।
रुद्रपादार्चने सक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ६-१८५ ॥

नागिन्यो नागकन्याश्च तथा नागकुमारकाः ।
शिवभक्तास्सुमनसः शान्तिं कुर्वन्तु मे सदा ॥ ६-१८६ ॥

य इदं नाग संस्थानं कीर्तयेद्वा शृणोति वा ।
न तस्य सर्पा हिंसन्ति विषं नाक्रमते च तम् ॥ ६-१८७ ॥

चिन्तितं लभते नित्यं तथापापपरिक्षयम् ।
सिद्धिमाशुप्रयच्छन्ति सर्वविघ्नविवर्जिताम् ॥ ६-१८८ ॥

प्। ६९(९५)

गङ्गा पुण्या महादेवी यमुना नर्मदा नदी ।
गोमती चापि कावेरी वरुणा देविका तथा ॥ ६-१८९ ॥

सर्वभूतपतिं देवं परमेशम्महेश्वरम् ।
पूजयन्त्यो महानद्यः शिवसद्भावभाविताः ॥ ६-१९० ॥

शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् ।
सिद्धिमाशु प्रयच्छन्तु सर्वपापविनाशनम् ॥ ६-१९१ ॥

चन्द्रभागा महापुण्या नदी गोदावरी शुभा ।
सरयू गण्डकी श्रेष्ठा कौशिकी च सरस्वती ॥ ६-१९२ ॥

एता नद्यो महापुण्याः शिवपादार्चने रताः ।
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः ॥ ६-१९३ ॥

नैरञ्जना नाम नदी शोणश्चापि महानदः ।
मन्दाकिनी च परमा तथा न्निहिता शुभा ॥ ६-१९४ ॥

एताश्चान्याश्च या नद्यः भुवि दिव्यन्तरिक्षगाः ।
रुद्रार्चनपरा नद्यः शान्तिं कुर्वन्तु मे सदा ॥ ६-१९५ ॥

गुह्यानि यानि तीर्थानि आसमुद्रात्सरांसि च ।
कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु ॥ ६-१९६ ॥

महावैश्रवणो देवो यक्षराजो महर्धिकः ।
यक्षकोटिपरीवारो यक्षासङ्ख्येयसंयुतः ॥ ६-१९७ ॥

महाविभवसम्पन्नो हरपादार्चने रतः ।
शिवध्यानैकपरमो हरपादरतोत्तमः ॥ ६-१९८ ॥

प्। ७०(९६)

शान्तिं करोतु मे प्रीतः पद्मपत्रायतेक्षणः ।
माणिभद्रो महायक्षो मणिरत्नविभूषितः ॥ ६-१९९ ॥

मनोहरेण हारेण कण्ठलग्नेन राजते ।
यक्षिणी यक्षकन्याभिः परिवारितविग्रहा ॥ ६-२०० ॥

शिवपूजार्चनोद्युक्ता करोतु मम शान्तिकम् ।
पाञ्चिको नाम यक्षेन्द्रः कर्णिकाकटकोज्वलः ॥ ६-२०१ ॥

मकुटेन विचित्रेण केयूराभ्यां विराजते ।
यक्षासङ्ख्येययुक्तश्च यक्षकोटिसमन्वितः ॥ ६-२०२ ॥

हरार्चनपरोनित्यं करोतु मम शान्तिकम् ।
श्रीमान्विभण्डको यक्षो नानारत्नविभूषितः ॥ ६-२०३ ॥

चारुणाकुण्डले नैव कर्णो नित्यं विराजते ।
यक्षेश्वरः यक्षपतिः यक्षसेनापतिर्बुधः ॥ ६-२०४ ॥

हरपादार्चनरतः करोतु मम शान्तिकम् ।
धृतराष्ट्रो महातेजाः यक्षो यक्षाधिपः प्रभुः ॥ ६-२०५ ॥

दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः ।
शिवभक्तः शिवध्यायी शिवपूजापरायणः ॥ ६-२०६ ॥

शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् ।
पूर्णभद्रो महायक्षः सर्वालङ्कारभूषितः ॥ ६-२०७ ॥

रत्नदीप्तेन पट्टेन हैमेनैव विराजते ।
यक्षकोटिसहस्रेण परिवारितविग्रहः ॥ ६-२०८ ॥

प्। ७१(९७)

रुद्रप्रणामपरमो रुद्रभक्तिरतस्सदा ।
रुद्रार्चनसमुद्युक्तः करोतु मम शान्तिकम् ॥ ६-२०९ ॥

विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः ।
चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः ॥ ६-२१० ॥

विभूषितस्सदाकालं वरदानैकतत्परः ।
रुद्रपूजापरोनित्यं करोतु मम शान्तिकम् ॥ ६-२११ ॥

अन्तरिक्षे च ये यक्षा ये यक्षास्स्वर्गसंस्थिताः ।
गिरिकन्दरदुर्गेषु ये यक्षा भूतवासिनः ॥ ६-२१२ ॥

पातालवासिनो यक्षा नानारूपोद्यतायुधाः ।
शिवभक्तास्सुमनसः शिवपूजासमुत्सुकाः ॥ ६-२१३ ॥

शान्तिं कुर्वन्तु मे हृष्टाः शान्ताः शान्तिपरायणाः ।
यक्षिण्यो विविधाकाराः तथा यक्षकुमारकाः ॥ ६-२१४ ॥

यक्षकन्या महाभोगाः शिवध्यान * * * * ः ।
शान्तिं स्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् ॥ ६-२१५ ॥

सिद्धिमाशुप्रयच्छन्तु नित्यमेव समाहिताः ।
पर्वताः सर्वतः सर्वे पर्वताश्च महर्धिकाः ॥ ६-२१६ ॥

शिवे भक्तास्सुमनसः क्षेमं कुर्वन्तु मे सदा ।
सागराः सर्वतः सर्वे ये चान्ये सागरा भुवि ॥ ६-२१७ ॥

रुद्र पूजारता नित्यं कुर्वन्तु मम शान्तिकम् ।
राक्षसाः सर्वतः सर्वे राक्षसा घोररूपिणः ॥ ६-२१८ ॥

प्। ७२(९८)

राक्षसा ये महावीर्याः राक्षसाश्च महाबलाः ।
जलस्था राक्षसा ये तु येन्तरिक्षे तु राक्षसाः ॥ ६-२१९ ॥

पातालराक्षसा ये तु नित्यं रुद्रार्चने रताः ।
शान्तिं कुर्वन्तु मे नित्यं सन्ततं शिवभाविताः ॥ ६-२२० ॥

भैरवं यस्य रूपन्तु प्रेतभस्मावकुण्ठितम् ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥ ६-२२१ ॥

नित्यमुज्वलवेषेण योगिन्योथ महावलाः ।
अनेकरूपधारिण्यो डाकिन्यश्च महर्धिकाः ॥ ६-२२२ ॥

रुद्रप्रणामपरमा रुद्रपूजारतास्सदा ।
रुद्रैकाहितचेतस्काः शान्तिं कुर्वन्तु मे सदा ॥ ६-२२३ ॥

अन्तरिक्षगतायाश्च डाकिन्यः स्वर्गसंस्थिताः ।
पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः ॥ ६-२२४ ॥

त्रितयं लोचनं यस्य त्रिशूलं यस्य भासुरम् ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥ ६-२२५ ॥

सर्वे भूता महारूपाः सर्वे भूता महोज्वलाः ।
सर्वे भूताः स्थिता येत्र भूता येन्ये परत्र च ॥ ६-२२६ ॥

अन्तरिक्षे च ये भूता ये भूता दिवि संस्थिताः ।
पाताले भूतले ये तु भूता भूतिविधायिनः ॥ ६-२२७ ॥

खट्वाङ्गं यस्य विमलं त्रिशूलं करपल्लवे ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥ ६-२२८ ॥

प्। ७३(९९)

प्रेताः प्रेतगणास्सर्वे ये प्रेतास्सर्वतो मुखाः ।
अतिदीप्ताश्च ये प्रेताः ये प्रेतारुधिराशनाः ॥ ६-२२९ ॥

अन्तरिक्षे च ये प्रेता ये प्रेतास्स्वर्गसंस्थिताः ।
पाताले भूतले प्रेता ये ये प्रेताः कामरूपिणः ॥ ६-२३० ॥

नानारूपधरास्सर्वे पिशाचागुणवत्तराः ।
अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः ॥ ६-२३१ ॥

भूतले ये पिशाचाश्च बहुरूपा मनोजवाः ।
चन्द्रार्धम्मस्तस्के यस्य भस्म यस्य विभूषणम् ॥ ६-२३२ ॥

तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
अपस्मारग्रहास्सर्वे सर्वे चापि ज्वरग्रहाः ॥ ६-२३३ ॥

गर्भबालग्रहा ये तु नानारोगग्रहास्तु ये ।
अन्तरिक्षे ग्रहाये तु स्वर्गे ये तु ग्रहोत्तमाः ॥ ६-२३४ ॥

पाताले भूतले ये च ये ग्रहाः सर्वतोदिशि ।
कण्ठं यस्य महानीलं भूषणं यस्य पन्नगाः ॥ ६-२३५ ॥

तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ।
इति देवादयस्सर्वे शिवाज्ञानु विधायिनः ॥ ६-२३६ ॥

कुर्वन्तु शान्तिं जगतः शिवभक्तेषु सर्वदा ।
इत्युक्त्वा देवदेवस्य सन्निधौ च कृताञ्जलिः ॥ ६-२३७ ॥

शिवध्यानपरो भूत्वा भक्त्या स्तोत्रमुदीरयन् ।
जयात्मयोगसंस्थाय जय संसिद्धचेतसे ॥ ६-२३८ ॥

प्। ७४(१००)

जयदानैकशूराय जयेशान नमोस्तु ते ।
जयोत्तमाय देवाय जय कल्याणकीर्तये ॥ ६-२३९ ॥

जय प्रकटदेहाय जितजप्याय ते नमः ।
जय लक्ष्मी विधानाय जय कान्तिविधायिने ॥ ६-२४० ॥

जय वाक्यविशुद्धाय अजिताय नमो नमः ।
यज त्रिशूलहस्ताय जय खट्वाङ्ग धारिणे ॥ ६-२४१ ॥

जय निर्जितलोकाय जय रूपाय ते नमः ।
जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ॥ ६-२४२ ॥

जय देव त्रिदेवाय जय रुद्राय ते नमः ।
जय त्रिभुवनेशाय जय विख्यातकीर्तये ॥ ६-२४३ ॥

जयाधाराय शर्वाय जय कर्त्रे नमोस्तु ते ।
जय निर्मलदेहाय जय सर्वार्थकारिणे ॥ ६-२४४ ॥

जय मन्मथनाशाय ईशानाय नमोस्तु ते ।
इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयात्तथा ॥ ६-२४५ ॥

विधूय सर्वपापानि शिवलोके महीयते ।
कन्यार्थी लभते कन्यां जयकामो जयं लभेत् ॥ ६-२४६ ॥

अर्थकामोलभेदर्थं पुत्रकामो लभेत्सुतान् ।
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ॥ ६-२४७ ॥

यान्यान् प्रार्थयते कामान् मानवः श्रवणादिह ।
तत्सर्वं शीघ्रमाप्नोति देवानाञ्च प्रियो भवेत् ॥ ६-२४८ ॥

प्। ७५(१०१)

श्रुत्वाध्यायमिमं पुण्यं सङ्ग्रामं प्रविशेन्नरः ।
सनिर्जित्याखिलान् शत्रून् कल्याणैः प्रतिपूर्यते ॥ ६-२४९ ॥

अक्षयं मोदते कालम् इतरस्तुतशासनः ।
व्याधिभिर्नभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः ॥ ६-२५० ॥

श्रुत्वाध्यायमिदं पुण्यं यमुद्दिश्य पठेन्नरः ।
तस्य रोगा न बाधन्ते वातपित्तादिसम्भवाः ॥ ६-२५१ ॥

नाकाले मरणन्तस्य न सर्पैश्चापि दंश्यते ।
न विषं क्रमते देहे न जडान्धत्वमूकता ॥ ६-२५२ ॥

नोपसर्गभयन्तस्य नचोत्पातभयं भवेत् ।
नाभिचारकृतैर्दोषैः लिप्यते स कदाचन ॥ ६-२५३ ॥

यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः ।
तत्पुण्यं कोटिगुणितम् प्राप्नोति श्रवणादिह ॥ ६-२५४ ॥

दशानां राजसूयानाम् अग्निष्टोमशतस्य च ।
श्रवणात्फलमाप्नोति कोटिकोटिगुणोत्तरम् ॥ ६-२५५ ॥

अवध्यस्सर्वदेवानाम् अन्येषां च विशेषतः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ ६-२५६ ॥

गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः ।
शरणागतघाती च मित्र विस्रम्भघातकः ॥ ६-२५७ ॥

दुष्टपापसमारो मातृहा पितृहा तथा ।

प्। ७६(१०२)

श्रवणादस्य भावेन मुच्यते सर्वपातकैः ॥ ६-२५८ ॥

शान्त्यध्यायमिमं पुण्यं न दद्याद्यस्य कस्य चित् ।
शिवभक्ते समादेयः शिवेन कथितः पुरा ॥ ६-२५९ ॥

नित्यं खचितशक्तिश्च शक्तिव्याघातवर्जितः ।
सर्वकामसमृद्धः स्यात् यः पठेत दिने दिने ॥ ६-२६० ॥

इति शिवधर्मशास्त्रे शिवधर्मोत्तरे नन्दिकेश्वरप्रोक्ते
शान्तिपाठकथनन्नाम षष्ठोऽध्यायः ॥

प्। ७७(१०३)

श्रीः

अथ सप्तमोध्यायः

शिवाय नमः

नन्दिकेश्वर उवाच

ये स्मरन्ति सदाकालमीशानं पूजयन्ति वा ।
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ७-१ ॥

अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गार्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७-२ ॥

सदा यजति यज्ञेन सदा दानं प्रयच्छति ।
सदा च वायुभक्षः स्यात् सदा यो भ्यर्च्येच्छिवम् ॥ ७-३ ॥

यश्शिवं पूजयेन्नित्यं प्रणमेद्वापि भक्तितः ।
तस्य योगं च मोक्षं च शिवः प्रीतः प्रयच्छति ॥ ७-४ ॥

यः कुर्यादर्चनं मासमेकाहारो जितेन्द्रियः ।
स च यत् फलमाप्नोति न तत् सर्वैः महामखैः ॥ ७-५ ॥

पौर्णमास्याममवास्यां चतुर्दश्यष्ठमीषु च ।
स्नापयित्वा सदा लिङ्गं सर्वयज्ञफलं लभेत् ॥ ७-६ ॥

कृष्णपक्षे त्रयोदश्याम् उपोष्य परमेश्वरे ।
प्रातर्मध्याह्नयोः पूजां चतुर्दश्यां समाचरेत् ॥ ७-७ ॥

पञ्चगव्यं सकृत् पीत्वा हविर्भुञ्जीत वाग्यतः ।

प्। ७८(१०४)

दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ७-८ ॥

कृष्णाष्टम्यामुपोष्यान्यः पूजयित्वा तु शङ्करम् ।
प्राप्नोति परमं स्थानं देवदेवं महेश्वरम् ॥ ७-९ ॥

ब्रह्मचारी शुचिर्भूत्वा सन्ध्यायां पूजयेच्छिवम् ।
कुलसप्तकमुद्धृत्य शिवलोके महीयते ॥ ७-१० ॥

महास्नानादिविधिना शिवं पर्वसु पूजयेत् ।
यावत् स्यात् सर्वकालं च पूजा या शङ्करस्य तु ॥ ७-११ ॥

तावत्कालार्चनं पुण्यं यत्तत्पर्वार्चनाद्भवेत् ।
तस्मात् सर्वप्रयत्नेन यथा विभवविस्तरम् ॥ ७-१२ ॥

पूजनीयः शिवो नित्यं पुण्यलोकजिगीषया ।
नैरन्तर्येण षण्मासं विधिना पूजयेच्छिवम् ॥ ७-१३ ॥

पुण्यं तदेव सङ्कल्पं लभते विषुवार्चनात् ।
एतदेव तु विज्ञेयं ग्रहणे चोत्तरायणे ॥ ७-१४ ॥

सङ्क्रान्तौ च दिनच्छिद्रे षडशीतिमुखेषु च ।
मासैश्चतुर्भिर्यत्पुण्यं विधिना पूज्य शङ्करम् ॥ ७-१५ ॥

तत्कार्तिक्यां भवेत्पुण्यं पौर्णमास्यां शिवार्चनात् ।
पुण्यमेवञ्च फाल्गुन्याम् आषाढ्यामेव मेव च ॥ ७-१६ ॥

चतुर्मासार्चनं ह्येतत् महापुण्यफलं भवेत् ।
माघमासे समुद्युक्तः त्रिसन्ध्यं योर्चयेच्छिवम् ॥ ७-१७ ॥

लभेत् षाण्मासिकं पुण्यं मासे नैव न संशयः ।

प्। ७९(१०५)

यथा माघे तथाषाढे मासे चैव तु कार्तिके ॥ ७-१८ ॥

त्रिषु पुण्यं समं ज्ञेयं मासेष्वेतेषु यत्कृतम् ।
चतुर्मासार्चनं पुण्यं पुष्यमासार्चनाल्लभेत् ॥ ७-१९ ॥

चैत्रफाल्गुनयोः पुण्यं द्विमासजनितं फलम् ।
चतुर्दश्याममावास्यां पौर्णमास्यान्तु पाक्षिकम् ॥ ७-२० ॥

पुण्यमष्टगुणं ज्ञेयम् अष्टम्यां योर्चयेच्छिवम् ।
यो ददातिगवां लक्षं दोग्ध्रीणां वेदपारगे ॥ ७-२१ ॥

एकाहमर्चयेल्लिङ्गं तस्य पुण्यं ततोधिकम् ।
मासे मासे तु योश्नीयात् यावज्जीवं द्विजोत्तमः ॥ ७-२२ ॥

यश्चार्चयेत् सकृल्लिङ्गं समन्तत्र न संशयः ।
अनेन क्रमयोगेन पुण्यवृद्धिर्दिने दिने ॥ ७-२३ ॥

यः पुनस्सङ्गमुत्सृज्यं शिवशब्दं प्रपूजयेत् ॥ ७-२४ ॥

नैरन्तर्याच्छतगुणं पुण्यं तस्य प्रवर्धते ।
पञ्चाशद्गुणितं पुण्यं * * * * * * च्छिवम् ॥ ७-२५ ॥

ऋतावृतौ तदर्धं स्यात् मासेनापि तदर्धकम् ।
मासार्धमपि यो लिङ्गे नैरन्तर्येण पूजयेत् ॥ ७-२६ ॥

नरोत्तमस्सविज्ञेयो नैरन्तर्यं हि दुष्करम् ।
प्रातरुत्थाय यो लिङ्गं भक्त्या पूजयते सकृत् ॥ ७-२७ ॥

सम्पूर्णां पृथिवीं दत्वा यत् फलं तदवाप्नुयात् ।

प्। ८०(१०६)

मध्यं दिनकरे प्राप्ते नैरन्तर्येण पूजयेत् ॥ ७-२८ ॥

कपिलानां शतं दत्वा पुण्यं यत्तदवाप्नुयात् ।
वारुणीमाश्रिते सूर्ये यश्शिवं सम्यगर्चयेत् ॥ ७-२९ ॥

गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् ।
शिवलिङ्गं महापुण्यं सर्वदेवनमस्कृतम् ॥ ७-३० ॥

यस्स्पृशेदपि पाणिभ्यां न स पापैः प्रलिप्यते ।
न ते भुयः प्रयास्यन्ति योनिं संसारसागरम् ॥ ७-३१ ॥

क्रमान्मोक्षं गमिष्यन्ति ये नरा लिङ्गमात्रतः ।
मेरुमन्दरमात्रोपि राशिः पापस्य कर्मणः ॥ ७-३२ ॥

ईश्वरं वैयमासाद्य नश्यन्ते दुष्टरोगवत् ।
लिङ्गार्चनरतो नित्यं महापातकसम्भवैः ॥ ७-३३ ॥

दोषैः कृतैर्नलिप्येत पद्मपत्रमिवाम्भसा ।
छित्वा भित्वा च भूतानि हत्वा सर्वमिदञ्जगत् ॥ ७-३४ ॥

यजेदेकं विरूपाक्षं न स पापैः प्रलिप्यते ।
सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः ॥ ७-३५ ॥

शिवमिष्ट्वा नरस्सोपि प्रयाति परमां गतिम् ।
सरित्समुद्रतीरेषु वनेषुपवनेषु च ॥ ७-३६ ॥

गिरिशृङ्गेषु कूपेषु गहनोपवनेषु च ।
पुष्करिण्यां तटाकेषु तीर्थायतनसंश्रये ॥ ७-३७ ॥

यत्र वा रमते बुद्धिः तत्रैव शिवमर्चयेत् ।

प्। ८१(१०७)

सर्वदानेन यत्पुण्यं तल्लभेन्नात्र संशयः ॥ ७-३८ ॥

यः पुनस्स्नानसङ्कल्पमुत्सृज्यशिवमर्चयेत् ।
सोश्वमेधफलं सर्वं लभते नात्र संशयः ॥ ७-३९ ॥

अयं विनैव मन्त्रेण पुण्यराशिः प्रकीर्तितः ।
स्यादयं मन्त्रसंयुक्तः पुण्यं शतगुणाधिकम् ॥ ७-४० ॥

तस्मान्मन्त्रेण सर्वासु स्नानं गन्धफलादिकम् ।
गजाश्वरथवस्त्रं च हैमाद्यादि निवेदयेत् ॥ ७-४१ ॥

आदौ नमश्शिवायेति मन्त्रः सर्वार्थसाधकः ।
सर्वमन्त्राधिकश्चाय मोङ्काराद्यष्षडक्षरः ॥ ७-४२ ॥

शिवेनान्तर्बहिर्व्याप्तं सर्वमेतच्चराचरम् ।
जगदोमिति यच्चक्रे तस्मादोमिति सञ्ज्ञितः ॥ ७-४३ ॥

अयमर्थश्च तिसृभिर्मात्राभिः परिगीयते ।
ब्रह्मा हरिश्च रुद्रश्च मात्रास्त्रिस्रः प्रकीर्तिताः ॥ ७-४४ ॥

त्रिभिरेतैर्जगद्व्याप्तं कारणैरात्मकर्मभिः ।
तिस्रो मात्रा शिवस्यैताः सर्वलोकप्रपूजिताः ॥ ७-४५ ॥

एता एव त्रयो वेदाः त्रयोलोकास्त्रयोग्नयः ।
त्रयो गुणास्त्रिवर्गाश्च यच्चान्यज्जगदि स्थितम् ॥ ७-४६ ॥

अर्धमात्रापरोरुद्रः शिवः परमकारणः ।
तस्मादेतत्समुत्पन्नं जगतः कारणत्रयम् ॥ ७-४७ ॥

सर्वयज्ञफलश्शुद्धो नमस्कारो महेश्वरः ।

प्। ८२(१०८)

नमस्कारात्मयज्ञेन तस्मात् सम्पूजयेच्छिवम् ॥ ७-४८ ॥

अज्ञानं शिवतत्त्वं स्यात् सर्वदुःखालयं यतः ।
स्वबावात्तदपांसुं हि यस्माद्रुद्रः परश्शिवः ॥ ७-४९ ॥

नमश्शिवाय शान्ताय कारणत्रय हेतवे ।
निवेदयामि चात्मानं त्वं गतिः परमेश्वर ॥ ७-५० ॥

जप्त्वोन्नमश्शिवायेति मुच्यते सर्वपातकात् ।
यस्मात् तस्मात् सदा मन्त्रमोङ्काराद्यमनुस्मरेत् ॥ ७-५१ ॥

सर्वदा सर्वकार्येषु क्षुतनिष्ठीवनादिषु ।
यश्चोन्नमश्शिवायेति गिरमुक्त्वा शिवं व्रजेत् ॥ ७-५२ ॥

यः स्वयं प्रतिबुद्धस्तु प्राणोत्क्रान्ते च संस्मरेत् ।
य ॐ नमश्शिवायेति स गच्छेत् परमां गतिम् ॥ ७-५३ ॥

शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ।
संसारस्थूलबन्धानामुद्वेष्टनकरो भवेत् ॥ ७-५४ ॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
सकृत्स्मरति यो रुद्रं सर्वपापैः प्रमुच्यते ॥ ७-५५ ॥

स्मरणादेव रुद्रस्य पापसङ्घातपञ्जरम् ।
शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥ ७-५६ ॥

सर्वेषां शिवभक्तानाम् अशेषार्थप्रसिद्धये ।
मन्त्रो महेश्वरः साक्षात् अशेषार्थप्रसाधनम् ॥ ७-५७ ॥

यद्बीजं सर्वविद्यानाम् आद्यं ब्रह्म परात्परम् ।

प्। ८३(१०९)

सर्वार्थसाधनं मन्त्रं शिवसूत्रं षडक्षरम् ॥ ७-५८ ॥

भाषितस्यैव सूत्रस्य शिवज्ञानानि शम्भुना ।
तस्मात् परावराणीह प्यक्ताक्तगदितानि तु ॥ ७-५९ ॥

तस्मादनेन मन्त्रेण प्रकुर्वीत शिवार्चनम् ।
सन्ध्यायान्तु जपेदेनं सर्वपापविशुद्धये ॥ ७-६० ॥

ग्रहाच्छतगुणं तस्मात् सन्ध्यायान्तु जलाशये ।
शिवाग्राद्दक्षिणामूर्तेः तत्पुण्यमयुताधिकम् ॥ ७-६१ ॥

तस्माच्छिवालये जप्यं * * * * * * * * ।
मन्त्रेण * * सततं सर्वकामप्रसिद्धये ॥ ७-१६२ ॥

जितेन्द्रियः शान्तमनाः शिवमन्त्रेण योर्चयेत् ।
न तस्य शक्यते वक्तुं पुण्यं वर्षशतैरपि ॥ ७-१६३ ॥

एतावच्छक्यते वक्तुं यस्मिन्देशे वसत्ययम् ।
सोपि देशो भवेत्पूतः किं पुनस्तस्य बान्धवाः ॥ ७-६४ ॥

यस्मिन्निवासे चाश्नाति ये चास्य परिचारकाः ।
ते पीह तत्समा ज्ञेयाः तैर्विना न शिवार्चनम् ॥ ७-६५ ॥

न तत्र देशे दुर्भिक्षं न च मारी प्रवर्तते ।
नाकाले म्रियते राजा पूज्यते यत्र शङ्करः ॥ ७-१६६ ॥

दीक्षितः सूत्रमन्त्रज्ञः योर्चयेत सदाशिवम् ।
स च यत्फलमाप्नोति तदेकाग्रमनाश्शृणु ॥ ७-६७ ॥

सर्ववेदेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।

प्। ८४(११०)

तत्फलं कोटिगुणितं लभते नात्र संशयः ॥ ७-६८ ॥

यश्शिवं पूजयेन्नित्यम् अन्त्यजोपि जितेन्द्रियः ।
भवभावसमायुक्तः सोपि गच्छेत्परां गतिम् ॥ ७-६९ ॥

नोपनीतसहस्रेभ्यो ब्रह्मचारी विशिष्यते ।
ब्रह्मचारि सहस्रेभ्यो वेदाध्यायी विशिष्यते ॥ ७-७० ॥

वेदाध्यायि सहस्रेभ्यो ह्यग्निहोत्री विशिष्यते ।
अग्निहोत्रिसहस्रेभ्यो यज्ञयाजी विशिष्यते ॥ ७-७१ ॥

यज्ञयाजिसहस्रेभ्यो सत्रयाजी विशिष्यते ।
सत्रयाजिसहस्रेभ्यस्सर्वविद्यान्तपारगाः ॥ ७-७२ ॥

सर्वविद्यान्तवित्कोट्याः शिवभक्तो विशिष्यते ।
यस्मादेव शिवं तस्मात् अर्चयेच्छान्तमानसः ॥ ७-७३ ॥

शिवभक्तो जितक्रोधः शिवज्ञानपरायणः ।
मैत्रीकारुणिकोजस्रं प्राप्नोति सततं शिवम् ॥ ७-७४ ॥

क्षणार्धेनापि यत्पुण्यं कुर्यान्मैत्रीसुभावितः ।
न तद्वर्षशतेनापि तपो यज्ञशतैर्भवेत् ॥ ७-७५ ॥

सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयेत् ।
सुखं प्राणिषु मैत्री स्यात् मुदितापुण्यशालिषु ॥ ७-७६ ॥

अपुण्यवत्सुचोपेक्षा सर्वेषाञ्च देच्छिवः ।
इत्येवं पञ्चधाचित्तं भावयित्वार्चयेच्छिवम् ॥ ७-७७ ॥

इष्ट्वा तु परया भक्त्या भगवन्तं महेश्वरम् ।

प्। ८५(१११)

कृताञ्जलिपुटो भूत्वा स्तोत्रमेतज्जपेन्नरः ॥ ७-७८ ॥

स्तुताय स्तुतिरूपाणि स्तूयमानाय सर्वदा ।
स्तुतिहेतुनिधानाय नमस्त्रिणयनाय ते ॥ ७-७९ ॥

देवाय देवदेवाय सर्वदेवैकहेतवे ।
दीप्यानामपि दीप्याय नमो दीप्यतमाय ते ॥ ७-८० ॥

नमस्ते ज्ञानरूपाय सर्वज्ञानैकहेतवे ।
ज्ञानविज्ञानशुद्धाय नित्यं ज्ञानरताय ते ॥ ७-८१ ॥

सूक्ष्माय सूक्ष्मसूक्ष्माय सूक्ष्मज्ञानैकहेतवे ।
सूक्ष्माणामपि सूक्ष्माय नमस्सूक्ष्मतमाय ते ॥ ७-८२ ॥

दिव्याय दिव्यरूपाय दिव्यरूपैकहेतवे ।
पूज्यानामपि पूज्याय नमः पूज्यतमाय ते ॥ ७-८३ ॥

नित्याय नित्यनित्याय नित्यानित्यैकहेतवे ।
नित्यानामपि नित्याय नमो नित्यतमाय ते ॥ ७-८४ ॥

दीप्ताय दीप्तदीप्ताय सर्वदीप्त्यैकहेतवे ।
दीप्तानामपि दीप्ताय नमो दीप्तितमाय ते ॥ ७-८५ ॥

शुद्धाय शुद्धरूपाय सर्वसुध्यैकहेतवे ।
शुद्धानमपि शुद्धाय नमश्शुद्धतमाय ते ॥ ७-८६ ॥

साराय साररूपाय सर्वसारैकहेतवे ।
साराणामपि साराय नमस्सारतमाय ते ॥ ७-८७ ॥

शक्ताय शक्तिरूपाय सर्वशक्त्यैकहेतवे ।

प्। ८६(११२)

शक्तानामपि शक्ताय नमश्शक्ततमाय ते ॥ ७-८८ ॥

कालाय कालरूपाय सर्वकालैकहेतवे ।
कालानामपि कालाय नमः कालतमाय ते ॥ ७-८९ ॥

सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे ।
मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय ते ॥ ७-९० ॥

व्योमप्रमाणरूपाय ईशानाय नमो नमः ।
व्योमप्रमाणधर्माय धर्मेशाय नमो नमः ॥ ७-९१ ॥

व्योमप्रमाणभोगाय भोगेशाय नमो नमः ।
व्योमप्रमाणमोक्षाय मोक्षेशाय नमो नमः ॥ ७-९२ ॥

एकदेहद्विदेहाय बहुदेहाय ते नमः ।
देहासङ्ख्येय युक्ताय त्र्यम्बकाय नमो नमः ॥ ७-९३ ॥

एकवक्त्रद्विवक्त्राय बहुवक्त्राय ते नमः ।
वक्त्रासङ्ख्येययुक्ताय परमेशाय ते नमः ॥ ७-९४ ॥

एकजिह्वद्विजिह्वाय बहुजिह्वाय ते नमः ॥
जिह्वासङ्ख्येययुक्ताय त्रिणेत्राय नमो नमः ॥ ७-९५ ॥

एककर्णद्विकर्णाय बहुकर्णाय ते नमः ।
कर्णासङ्ख्येय युक्ताय नीलकण्ठाय ते नमः ॥ ७-९६ ॥

एकनासाद्विनासाय बहुनासाय ते नमः ।
नानासङ्ख्येय युक्ताय नित्यं शर्वाय ते नमः ॥ ७-९७ ॥

एकहस्तद्विहस्ताय बहुहस्ताय ते नमः ।

प्। ८७(११३)

हस्तासङ्ख्येययुक्ताय शङ्कराय नमो नमः ॥ ७-९८ ॥

एकवस्त्रद्विवस्त्राय बहुवस्त्राय ते नमः ।
वस्त्रासङ्ख्येययुक्ताय नित्यं रुद्राय ते नमः ॥ ७-९९ ॥

एकनेत्रद्विनेत्राय बहुनेत्राय ते नमः ।
नेत्रासङ्ख्येय युक्ताय शङ्कराय नमो नमः ॥ ७-१०० ॥

नमोस्तु ते महादेव नमस्तेस्तु महे * * ।
योगिन् नमस्ते * * ज्वल * * * * * * * ॥ ७-१०१ ॥

नमोस्तु ते महेशाय नमस्तेस्तु महोत्तम ।
नमस्तेस्तु महारूप नमस्तेस्तु सदाशिव ॥ ७-१०२ ॥

नमस्तेस्तु सदाशुद्ध नमस्ते * * * * * ।
नमस्तेस्तु महादेव * * सदाशिव * * ॥ ७-१०३ ॥

नमस्ते भगवन् शान्त नमस्ते भगवन् ध्रुव ।
नमस्ते भगवन्दीप्त नमस्ते भगवन् हर ॥ ७-१०४ ॥

अजिताय नमस्तुभ्यं भस्माङ्गाय नमोस्तु ते ।
सर्वज्ञाय नमस्तुभ्यम् अनाथाय नमोस्तु ते ॥ ७-१०५ ॥

अव्यक्ताय नमस्तुभ्यं प्रशान्ताय नमोस्तु ते ।
सुपूज्याय नमस्तुभ्यं वरदाय नमोस्तु ते ॥ ७-१०६ ॥

अनन्ताय नमस्तुभ्यं सर्वगाय नमोस्तु ते ।
इति स्तवेन दिव्येन यः स्तौति च महेश्वरम् ॥ ७-१०७ ॥

स विधूयाशु पापानि रुद्रलोके महीयते ।

प्। ८८(११४)

भोगार्थी लभते भोगान् राज्यार्थी राज्यमाप्नुयात् ॥ ७-१०८ ॥

मुच्यते व्याधिमान् व्याधेः दुःखी दुःखात्प्रमुच्यते ।
बन्धनान्मुच्यते बद्धः यशोर्थी सुयशो भवेत् ॥ ७-१०९ ॥

भक्तिः परशिवे नित्यमवाप्य सुखमेधते ।
यान्यान् चिन्तयते कामान् तां स्तान् प्राप्नोति मानवः ॥ ७-११० ॥

शिवस्य पदमाप्नोति नित्यं पठति यो नरः ।

इति शिवधर्मशास्त्रे श्रीनन्दिकेश्वरप्रोक्ते दानधर्मविधिर्नाम
सप्तमोध्यायः ॥

प्। ८९(११५)

श्रीः

अथ अष्टमोध्यायः

नन्दिकेश्वर उवाच

पृथिव्यां यानि तीर्थीनि पुण्यान्यायतनानि च ।
लीयन्ते तानि लिङ्गे तु तस्माल्लिङ्गं प्रपूजयेत् ॥ ८-१ ॥

सस्नातस्सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
यः पूजयेन्महादेवं स गच्छेत्परमं पदम् ॥ ८-२ ॥

शतेन स्थापितं लिङ्गं सहस्रेण न चालयेत् ।
सुस्थितं दुस्थितं वापि शिवलिङ्गं न चालयेत् ॥ ८-३ ॥

घृताभिषेकं यः कुर्यात् अहोरात्रं शिवस्य तु ।
सूक्ष्मधारेण कुम्भेन पुण्यमासे समुद्यतः ॥ ८-४ ॥

गीतनृत्तोपहारेण शङ्खवादित्रनिस्वनैः ।
कुर्वन्जागरणन्तत्र प्रदीपाद्युपशोभया ॥ ८-५ ॥

समस्तपापनिर्मुक्तः समस्तकुलसंयुतः ।
समस्तकामसम्पूर्णः समस्तगुणसंयुक्तः ॥ ८-६ ॥

ज्वलद्भिस्समहायानैः असङ्ख्येयैरनूपमैः ।
युक्तः शिवपुरे नित्यं मोदते शिववत्सुखी ॥ ८-७ ॥

ग्रहणे विषुवे चैव पुण्येषु दिवसेषु च ।
घृताभिषेकं यः कुर्यात् महापुण्यमवाप्नुयात् ॥ ८-८ ॥

प्। ९०(११६)

घृताभिषेकं यः पश्येत् आसमाप्तमुपोषितः ।
विधूय सर्वपापानि शिवलोकं स गच्छति ॥ ८-९ ॥

एकः पूजयते भक्त्या त्वन्यो भक्त्या प्रपश्यति ।
सममेवफलन्ताभ्यां भक्तिरेवात्रकारणम् ॥ ८-१० ॥

यः कुर्यात्पर्वकालेषु महापूजाप्रवर्तनम् ।
शिवस्य रथयात्रां वा नगरान्तः परिक्रमात् ॥ ८-११ ॥

महाचित्रध्वजैः चित्रैः किङ्किणीखकान्वितैः ।
वितानध्वजमालाभिः घण्टाचामरदर्पणैः ॥ ८-१२ ॥

शङ्खभेर्यादिनिर्घोषैः गीतवाद्यादिसङ्कुलैः ।
लेख्या दारुमयैर्यन्त्रैः मातृयक्षगणादिभिः ॥ ८-३ ॥

उदगाग्नेय यन्त्रैश्च बह्वाश्चर्यैरनेकशः ।
स्त्रिडोलचक्रयन्त्रैश्च रथमन्दिरशोभिताम् ॥ ८-१४ ॥

उद्यानपानखानाद्यैः महासत्रसभायुताम् ।
महाजनसमाकीर्णां यथाविभवकल्पिताम् ॥ ८-१५ ॥

सर्वदानस्य पुण्यानि सर्वयज्ञफलानि च ।
अत्युग्रतपसां पुण्यं सर्वतीर्थफलानि च ॥ ८-१६ ॥

लब्ध्वानखरः श्रीमान् विधियात्राप्रवर्तनात् ।
शिवलोके महाभोगैः शिववन्मोदते सदा ॥ ८-१७ ॥

तस्यान्ते देवराजत्वं सुचिरं कालमाप्नुयात् ।
जम्बूद्वीपाधिपः श्रीमान् तस्यान्ते च भवेत्पुनः ॥ ८-१८ ॥

प्। ९१(११७)

आलिङ्गवेदिपर्यन्तं यो दद्यात् घृतकम्बलम् ।
घतधाराफलन्तस्य माघे पूर्णे च पर्वणि ॥ ८-१९ ॥

जागरन् गीतनृत्ताद्यैः सकृत्कृत्वा तु पर्वणि ।
मन्वन्तरं शतं साग्रं रुद्रलोके महीयते ॥ ८-२० ॥

छत्राभिरामनाट्याद्यं शिवस्यायतनाग्रतः ।
सम्यक् सम्प्रोक्षणं कृत्वा रुद्रलोके महीयते ॥ ८-२१ ॥

सुरूपः सुभगश्श्रीमान् परिभ्रष्टोत्र जायते ।
रूपं पिष्टमयं कृत्वा त्रिणेत्रं रत्नभूषितम् ॥ ८-२२ ॥

दन्तेषु मौक्तिकं तस्य प्रवालमधरोष्ठयोः ।
दद्याद्वज्रञ्च नेत्रेभ्यो वैडूर्यं चापि मस्तके ॥ ८-२३ ॥

हेमरौप्यम् च हस्ताभ्यां ताम्रं पादे प्रकल्पयेत् ।
अण्डजैर्वापि कार्पास सूत्रैरप्युपवेष्टयेत् ॥ ८-२४ ॥

सुगन्धैदूपगन्धैश्च पुष्पैश्चापि विभूषयेत् ।
विविधैर्भक्ष्य भोज्यैश्च बलिं तत्रोपकल्पयेत् ॥ ८-२५ ॥

भोजयेच्छिवभक्तांश्च विप्रान् भक्त्या समर्चयेत् ।
प्रीयतां मे शिवो नित्यम् इत्युक्त्वोत्थापयेद्द्विजान् ॥ ८-२६ ॥

तैरेव सार्धं विप्रेन्द्रैः आनयेत्तं शिवालयम् ।
नीत्वा समर्पयेद्वेद्यां शिवलिङ्गसमीपतः ॥ ८-२७ ॥

सर्वयज्ञफलं प्राप्य सर्वदानफलानि च ।
सुरूपोरूप्यदानेन शिवलोके महीयते ॥ ८-२८ ॥

प्। ९२(११८)

भाजनं घृतसम्पूर्णं मधुना परिशोभितम् ।
दद्यात्कृष्णतिलानान्तु प्रस्थमेकन्तु मागधम् ॥ ८-२९ ॥

द्विगुणन्तण्डुलानान्तु पृथक् प्रस्थं प्रकल्पयेत् ।
अण्डजैः पौण्ट्रजैर्वस्त्रैः विचित्रैः परिवेष्टितम् ॥ ८-३० ॥

लिङ्गं संवेष्ट्यवस्त्राभ्यां बलिमेतन्निवेदयेत् ।
अर्चयित्वा विधानेन पौर्णमास्यां विशेषतः ॥ ८-३१ ॥

युगकोटिसहस्राणि शिवलोके महीयते ।
पुण्यक्षयादिहागत्य समृद्धे जायते कुले ॥ ८-३२ ॥

मेधावी सुभगः श्रीमान् वेदवेदाङ्गपारगः ।
ताम्रपात्रं पयः पूर्णं कृत्वा तत्स्थं च काञ्चनम् ॥ ८-३३ ॥

प्रच्छाद्योपरि पद्मे * * * * * * * * हत् ।
शिवभक्तद्विजं स * * पूजयित्वा विधानतः ॥ ८-३४ ॥

प्राच्यां समुद्भवे सोमे प्रतीच्यां तु खौ गते ।
पौर्णमास्यां सवैशाख्यां गृह्यपात्रं शिवाग्रतः ॥ ८-३५ ॥

प्रीयताम्मे महादेवः सोममूर्तिः जगत्पतिः ।
तस्मै विप्राय तत्पात्रम् अर्पयेद्भक्तितः शनैः ॥ ८-३६ ॥

एतत्सौमव्रतन्नाम कृत्वा रुद्रान्तिकं व्रजेत् ।
रुद्रलोकात्परिभ्रष्टो भवेज्जातिस्मरो नरः ॥ ८-३७ ॥

स पूर्वाभ्यासके नैव पुनः शिवपदं व्रजेत् ।
पौर्णमास्यां त्वथाषाढ्यां शिवं सम्पूज्ययत्नतः ॥ ८-३८ ॥

प्। ९३(११९)

उपवीतं शिवे दद्यात् शिवभक्तांश्च भोजयेत् ।
पुनरेव तु कार्तिक्यां पूज्य शम्भुं क्षमापयेत् ॥ ८-१३९ ॥

यतीनां दक्षिणां दद्यात् सूत्रवस्त्रादिपूर्वकाम् ।
यः कुर्यात्सकृदप्येवं चातुर्मास्य पवित्रकम् ॥ ८-४० ॥

कल्पकोटिशतं दिव्यं रुद्रलोके महीयते ।
पुण्यक्षयात्परिभ्रष्टः चतुर्वेदी च जायते ॥ ८-४१ ॥

इच्छया तु भवेद्राजा गुणरूपसमन्वितः ।
भूमिदानस्य यत्पुण्यं कन्यादानस्य यत्फलम् ॥ ८-४२ ॥

मुखवाद्येन यत्पुण्यमुभयं लभते नरः ।
तदेव पुण्यं गीतस्य नृत्तस्य च विशेषतः ॥ ८-४३ ॥

तदेव जयशब्दस्य तदेवन्तालकध्वनेः ।
यो गां पयस्विनीं दद्यात् तरुणीं वृषसंयुताम् ॥ ८-४४ ॥

शिवाय तेन दत्तं दत्तं स्यात् जगत्सर्वं चराचरम् ।
वृषस्य परिपूर्णाङ्गमुदारञ्च शशिप्रभम् ॥ ८-४५ ॥

गोपतिं धूर्वहञ्चापि यथेष्टञ्च निवेदयेत् ।
यावन्ति देहरोमाणि तत्प्रसूतिकुलेषु च ॥ ८-४६ ॥

तावद्युगसहस्राणि शिवलोके महीयते ।
शिवाग्निकार्यमुद्दिश्य सुरूपां सुपयस्विनीम् ॥ ८-४७ ॥

कुलीनां कपिलां दत्वा दत्तं भवति चाक्षयम् ।
भयकान्तारदुर्गेभ्यः कपिला त्राति मातृवत् ॥ ८-४८ ॥

प्। ९४(१२०)

यजने कपिलान्तस्मात् शिवाय विनिवेदयेत् ।
शिवस्नानादिकार्यार्थमुत्पन्नं कपिलाघृतम् ॥ ८-४९ ॥

तस्मात्तत्रैव सा योज्या कपिला शुभमिछता ।
कापिलं यः पिबेच्छूद्रः शिवसंस्कारवर्जितः ॥ ८-५० ॥

स प्रयाति महाघोरं नरकं यातनाकुलम् ।
हुतशेषं पिबेद्विप्रः स्वर्गीस्यादन्यथा पशुः ॥ ८-५१ ॥

गामालभ्य नमस्कृत्वा यः कुर्याद्द्विःप्रदक्षिणम् ।
प्रदक्षिणी कृता तेन सप्तद्वीपा वसुन्धरा ॥ ८-५२ ॥

गवां हुङ्कारशब्देन दर्शनस्पर्शनेन च ।
पापं प्रणश्यते यस्मात् तस्मात् पश्येत् सृशेत् सदा ॥ ८-५३ ॥

कुतस्तेषां हि पापानि येषां ग्रहमलङ्कृतम् ।
सततं बालवत्साभिः गोभिः श्रीभिरिवस्वयम् ॥ ८-५४ ॥

यानि तीर्थानि मेदिन्यामासमुद्रात् सरांसि च ।
गवां शृङ्गोदके स्नात्वा कलान्नार्हन्ति षोडशीम् ॥ ८-५५ ॥

न लङ्घयेद्गवामस्थि मृतगन्धन्नवर्जयेत् ।
यावत् पिबति तद्गन्धन्तावत्पुण्यैस्सपूर्यते ॥ ८-५६ ॥

गवां कण्डूयनाद्धूपात् गोप्रदानफलं लभेत्
तुल्यं गोशतदानेन भयरोगादिपालनात् ॥ ८-५७ ॥

तृणोदकादिसंयुक्तं यः प्रदद्याद्गवान्तिकम् ।
सोश्वमेधशतं पुण्यं लभते नात्र संशयः ॥ ८-५८ ॥

प्। ९५(१२१)

बहुनात्र किमुक्तेन गावः पाल्याः प्रयत्नतः ।
गावो देवास्सदा रक्ष्याः पोष्याः पाल्याश्च सर्वदा ॥ ८-५९ ॥

ये ताडयन्ति गां पापाः सर्वलोकस्य मातरम् ।
आक्रोशयन्ति ये यस्मात् आक्रुष्टैस्ताडितञ्जगत् ॥ ८-६० ॥

ताडयेद्यदि गां मोहात् यावत्क्रोशेन्नराधमः ।
नरकाग्नौ स पच्येत गवान्निश्वासपीडितः ॥ ८-६१ ॥

स पलाशेन दण्डेन ताडयन् स्तान्निवर्तयेत् ।
गच्छगच्छेति तां ब्रूयात् मातर्मातेति वारयेत् ॥ ८-६२ ॥

हलोत्सर्गन्तु यः कुर्यात् पक्षयोरुभयोरपि ।
द्वादश्यां पौर्णमास्यां वा चतुर्दश्यष्टमीषु वा ॥ ८-६३ ॥

तस्य भावप्रियो विष्णुः शिवोमासर्वदेवताः ।
शान्तिं पुष्णन्तु मे प्रीताः स्वर्गमायुर्बलं श्रियम् ॥ ८-६४ ॥

एवं गौर्वर्तते गोषु ताडनाक्रोशवर्जितः ।
महतीं श्रियमाप्नोति रुद्रलोकं स गच्छति ॥ ८-६८ ॥

गो ब्राह्मणार्थमुद्युक्तः प्राणैर्यदिवियुज्यते ।
प्राप्नोति परमं स्थानं यत्र देवो महेश्वरः ॥ ८-६६ ॥

ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् ।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ ८-६७ ॥

गोषु यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः ।
गोभिर्वेदास्समाकीर्णाः सषडङ्गपदक्रमाः ॥ ८-६८ ॥

प्। ७६(१२२)

शृङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ ।
शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥ ८-६९ ॥

शिरो मध्ये महादेवः सर्वदेवोपरिस्थितः ।
ललाटाग्रे स्थिता देवी नासावंशे च षण्मुखः ॥ ८-७० ॥

कम्बलाश्वतरौ नागौ नासापुटसमास्थितौ ।
कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥ ८-७१ ॥

दन्तेषु वसवः सर्वे जिह्वायां वरुणः स्थितः ।
सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः ॥ ८-७२ ॥

सन्ध्याद्वये तथोष्ठाभ्यां ग्रीवामिन्द्रः समाश्रितः ।
ऋक्षाणि ककुदिद्यौश्च सिद्धाश्चोरसि संस्थिताः ॥ ८-७३ ॥

चतुष्पात्सकलोधर्मः स्वयं जङ्घाधिसंस्थितः ।
खुरमध्ये तु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥ ८-७४ ॥

खुराणां पश्चिमाग्रेषु श्रितास्त्वप्सरसां गणाः ।
रुद्रैकादशकः पृष्ठे वायवः सर्वसन्धिषु ॥ ८-७५ ॥

श्रोणी संस्थाश्च पितरः स्थिता योनौ तु मातरः ।
श्रीरपाने गवां नित्यं नागा लाङ्गूलमाश्रिताः ॥ ८-७६ ॥

आदित्यरश्मयो वाले पिण्डीभूता व्यवस्थिताः ।
उदरे पृथिवी सर्वा सशैलवनकाननाअ ॥ ८-७७ ॥

साक्षाद्गङ्गा च गोमूत्रे गोमये यमुना स्थिता ।
अष्टाविंशति देवानां कोट्यो रोमसुसंस्थिताः ॥ ८-७८ ॥

प्। ९७(१२३)

ऋषयश्च तथा सर्वे रोमकूपेषु संस्थिताः ।
चत्वारस्सागराः पूर्णा ऊधस्येव पयोधराः ॥ ८-७९ ॥

जटरे गार्हपत्योग्निः हृदये दक्षिणानलः ।
मुखे ह्याहवनीयस्तु स्थिता तेन गरीयसा ॥ ८-८० ॥

सन्धिषु क्रतवस्सर्वे हयमेधादयः स्थिताः ।
एतद्धि कथितं सर्वं यथा गोषु प्रतिष्ठितम् ॥ ८-८१ ॥

गोषु दत्तं हुतं भुक्तं गोषु सर्वं चराचरम् ।
तस्मान्न हिंस्याद्गावो वै पालनीयास्तु सर्वदा ॥ ८-८२ ॥

गावस्तुत्याश्च वन्द्याश्च गावो मां पान्तु नित्यशः ।
ब्राह्मणा ब्रह्मशब्देन स्तूयते प्रणवेन यः ॥ ८-८३ ॥

स शिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु ।
इहामुत्र च साम्बार्धो विघ्नेशगणपूजितः ॥ ८-८४ ॥

स शिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु ।
लम्बोदरेण देवेन गजवक्त्रेण यः स्तुतः ॥ ८-८५ ॥

स शिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु ।
श्रीमता रुचिनागेण घण्टाकर्णगणेन यः ॥ ८-८६ ॥

नित्यं प्रणम्यते भक्त्या हृष्टेनात्यक्तचेतसम् ।
सशिवः शाश्वतो देवो गोषु मारीर्व्यपोहतु ॥ ८-८७ ॥

नित्यं रुद्रबलोपेतो रुद्रशक्तिसमन्वितः ।
घण्टाकर्णगणो देवः शिवाज्ञानुविधायकः ॥ ८-८८ ॥

प्। ९८(१२४)

शिवस्तेजोभिभावेन गोषु मारीर्व्यपोहतु ।
शिवाय देवदेवाय महादेवाय भाविने ॥ ८-८९ ॥

रुद्राय स्थाणवे नित्यमरोगाय नमो नमः ।
परमेशाय सिद्धाय मन्त्रसिद्धिप्रदायिने ॥ ८-९० ॥

त्र्यम्बकाय महेशाय त्वतिशान्ताय ते नमः ।
अभिमन्त्र्य सदा तोयमेतैर्मन्त्रैर्यथाक्रमम् ॥ ८-९१ ॥

प्रोक्षयेत् गवान्देह मतश्शान्तिर्भविष्यति ।
य इमं पठते गोषु रोगार्तासु विशेषतः ॥ ८-९२ ॥

गो सावित्रिं सदाकालं गवां शान्तिर्भविष्यति ।
प्रातरुत्थाय सततं गोसावित्रीमिमां पठेत् ॥ ८-९३ ॥

गवाञ्चोत् वकालेषु प्रस्थाने वा समागमे ।
आयुष्मान् बलवान् श्रीमान् गोमानर्थपतिर्भवेत् ॥ ८-९४ ॥

देहान्ते च परं स्थानं सगच्छेन्नात्र संशयः ।
सर्वपापविशुध्यर्थं गोसावित्रीमिमां पठेत् ॥ ८-९५ ॥

स * * तोयेषु बृहत्त्रिणेषु
सपुङ्गवन्नित्यमरोगवत्साः ।
चरन्तु गावः सुखिता वनेषु
क्षीरं प्रयच्छन्तु सुखं स्वपन्तु ॥ ८-९६ ॥

योलङ्कृत्य शिवायाश्वमुत्तमं विनिवेदयेत् ।
सोश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ॥ ८-९७ ॥

प्। ९९(१२५)

सुविनीतां स्त्रियं दासीं भृत्यं वा विनिवेदयेत् ।
नरमेधस्य यज्ञस्य फलमष्टगुणं भवेत् ॥ ८-९८ ॥

निवेदयीत यो नागं भक्त्या भद्रमलङ्कृतम् ।
शिवाय पर्वदिवसे तस्य पुण्यफलं शृणु ॥ ८-९९ ॥

मत्तैरैरावतप्रख्यैर्गजैर्युक्तैस्सुशोभनैः ।
प्रक्रीडति महायानैः शतसङ्ख्यैरनेकशः ॥ ८-१०० ॥

कल्पकोटिसहस्राणि कल्पकोट्ययुतानि च ।
रुद्रलोकगतश्चान्ते भवेदिन्द्रस्सुराधिपः ॥ ८-१०१ ॥

चतुर्युगसहस्रान्ते भूमिं प्राप्य नराधिपः ।
भवेदिन्द्रसमः श्रीमान् रूपवीर्यश्रियान्वितः ॥ ८-१०२ ॥

शिवाय यः फलोपेतां सर्वसस्य प्ररोहिणीम् ।
महीम्महीपतिर्दद्यात् तस्य पुण्यफलं शृणु ॥ ८-१०३ ॥

यावद्दण्डा भवेद्भूमिः मीयमाना समन्ततः ।
तावत्कल्पस्य सङ्ख्यानं रुद्रलोके महीयते ॥ ८-१०४ ॥

एवं सर्वत्र विज्ञेयं फलं दण्डप्रमाणतः ।
ग्रामखेटपुरक्षेत्रे विषयादिनिवेदने ॥ ८-१०५ ॥

सर्वसस्यजलोपेतां सर्वबाधाविवर्जिताम् ।
ग्रामं शिवाय यो दद्यात् तस्य पुण्यफलं शृणु ॥ ८-१०६ ॥

सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
सर्वदानेषु यत्पुण्यं ग्रामदानेषु तत्फलम् ॥ ८-१०७ ॥

प्। १००(१२६)

सूर्यकोटिप्रतीकाशैः दिव्यस्त्रीकोटिसंयुतैः ।
संयुक्तः कोटिशो नेकैस्सर्वकामसमन्वितः ॥ ८-१०८ ॥

विमानैर्ग्रामदानेन त्रिसप्तकुलसंयुतः ।
यथेष्टमैश्वरे लोके क्रीडते कालमक्षयम् ॥ ८-१०९ ॥

यत्पुण्यन्नगरस्यैव ग्रामदानाच्छताधिकम् ।
दशदानेनचानन्त्यं नशक्यं परिकीर्तितुम् ॥ ८-११० ॥

रत्नान्नपानगोश्वाद्यं सार्वभौमे प्रजायते ।
तस्माद्भूमिप्रदानेन नरो भवति सर्वदा ॥ ८-१११ ॥

योन्यदत्तां स्वदत्तां वा हरेद्भूमिन्नराधमः ।
प्रपच्यतेऽक्षयं कालं नरकेषु क्रमेण सः ॥ ८-११२ ॥

सर्वं वा भूमिहरणे हृतमेव न संशयः ।
भूमिहर्ता वसेत्तत्र नरके कालमक्षयम् ॥ ८-११३ ॥

देवस्वन्निर्हरन्तीह नरा नरकनिर्भयाः ।
ब्रह्मस्वहारिणो मोहात् पच्यन्ते नरकाग्निषु ॥ ८-११४ ॥

देवब्रह्मस्वपुष्टानि वाहनानि महीपतिः ।
युद्धकाले विशीर्यन्ते सैकतास्सेतवो यथा ॥ ८-११५ ॥

यावद्दाता वसेत्स्वर्गे तावत्कालस्य सङ्ख्यया ।
तस्माच्छतगुणं प्रोक्तं तद्धर्ता नरके वसेत् ॥ ८-११६ ॥

विंशत्यष्टौ हि कोट्या हि नरकाणां सुदारुणाः ।
क्रमेण तेषु पच्यन्ते देवब्रह्मस्वहारिणः ॥ ८-११७ ॥

प्। १०१(१२७)

कल्पान्ते ते समुत्तीर्णा वृक्षकीटादि योनिषु ।
भ्रमन्ति सुचिरं कालं क्षुत्पिपासादिपीडिताः ॥ ८-११८ ॥

एवं भ्रमन्ति सुचिरमीश्वराज्ञाप्रचोदिताः ।
केनचिच्छिवभक्तेन शिवार्चायतनादिषु ॥ ८-११९ ॥

ततो निर्द्धूतपाप्मानः ते नराः शिवतेजसा ।
दिव्यं प्रयान्ति सन्त्यज्य शरीरं यातनाकृतम् ॥ ८-१२० ॥

इति श्रीशिवधर्मोत्तरे शैवशास्त्रे नन्दिकेश्वरप्रोक्ते
शिवधर्मप्रदानन्नाम अष्टमोध्यायः ॥

प्। १०२(१२८)

श्रीः

अथ नवमोध्यायः

नन्दिकेश्वरः

अतः परमिदं गुह्यं वक्ष्यामि मुनिसत्तम ।
पुण्यातिशयसंयुक्तं सर्वदेवैरनुष्ठितम् ॥ ९-१ ॥

ब्रह्मणा विष्णुना देव्या स्कन्देन्द्रेण यमेन च ।
वरुणादित्यसोमाग्निमरुद्दहननारदैः ॥ ९-२ ॥

धर्मश्रीशुक्रनक्षत्र विलोहितशनैश्चरैः ।
विश्वामित्रवसिष्ठात्रि बृहस्पतिबुधादिभिः ॥ ९-११३ ॥

श्वेतागस्त्यदधीचाद्यैः सर्वैश्च मुनिसत्तमैः ।
भृङ्गिमातृमहाकालचण्डेश्वरगणाधिपैः ॥ ९-४ ॥

वृषवासुकिकार्कोटगुलिकानन्ततक्षकैः ।
शङ्खपद्ममहापद्मैरन्यैश्चापि महोरगैः ॥ ९-५ ॥

सिद्धैर्यक्षैः किम्पुरुषैः बहुभिश्च महात्मभिः ।
अप्सरोदैत्यगन्धर्वै रक्षोभूतगणैरपि ॥ ९-६ ॥

विश्वेदेवैस्तथा सर्वैस्तैस्तैस्सुकृतिभिर्वरैः ।
शिवागतिर्यथाप्राप्ता सर्वगत्यातिशायिनी ॥ ९-७ ॥

मयाचेशप्रसादेन तथाविधमिमं शृणु ।
सितचन्दनतोयेन स्नाप्यलिङ्गं विलिप्य च ॥ ९-८ ॥

प्। १०३(१२९)

शतैर्विकसितैः पद्मैः सम्पूज्य प्रणिपत्य च ।
पङ्कजे विमले सौम्ये निच्छिद्रे पुष्पिते सिते ॥ ९-९ ॥

मध्ये केसरजालस्य स्थाप्य लिङ्गं कनीयकम् ।
अङ्गुष्ठमात्रं विधिवत् सर्वगन्धमयं शुभम् ॥ ९-१० ॥

संस्थाप्य दक्षिणामूर्तौ बिल्वपत्रैस्समर्चयेत् ।
अगरुन्दक्षिणे पार्श्वे पश्चिमे तु मनश्शिलाः ॥ ९-११ ॥

उत्तरे चन्दनं दद्यात् हरितालन्तु पूर्वतः ।
सुसुगन्धैश्च कुसुमैः विचित्रैश्चापि पूजयेत् ॥ ९-१२ ॥

धूपं कृष्णागरुं दद्यात् सघृतं चापि गुल्गुलु ।
वासांस्यच्छानि सूक्ष्माणि विकेशानि निवेदयेत् ॥ ९-१३ ॥

शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ।
अनेन विधिना देवाः सर्वे देवत्वमागताः ॥ ९-१४ ॥

देवी देवत्वमापन्ना गुहःस्कन्दत्वमागतः ।
ब्रह्मा ब्रह्मत्वमापन्नो हरिर्विष्णुत्वमागतः ॥ ९-१५ ॥

इन्द्रश्च देवराजत्वं गणाश्च गणतां गताः ।
एवं योर्चयते लिङ्गं सर्वगन्धमयं सकृत् ॥ ९-१६ ॥

सर्वपापविनिर्मुक्तः शिवमेवाधिगच्छति ।
एतद्व्रतोत्तमं गुह्यं शिवलिङ्गं महाव्रतम् ॥ ९-१७ ॥

भक्तस्य ते मयाख्यातं न देयं यस्य कस्यचित् ।
चिरं पर्युषितं माल्यं शिवस्यापनयीत यः ॥ ९-१८ ॥

प्। १०४(१३०)

गोसहस्रफलन्तस्य भवतीति न संशयः ।

इति श्वधर्मोत्तरे शिवधर्मशास्त्रे शिवलिङ्गमहाव्रतन्नाम
नवमोध्यायः ॥

प्। १०५(१३१)

श्रीः

अथ दशमोध्यायः

नन्दिकेश्वरः

चतुर्दश्यामथाष्टम्यां पक्षयोश्शुक्लकृष्णयोः ।
अब्दमेकन्न भुञ्जीत शिवार्चनरतः शुचिः ॥ १०-१ ॥

यत्पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनाम् ।
सत्यवादिषु यत्पुण्यं यत्पुण्यं तीर्थगामिनाम् ॥ १०-२ ॥

अग्निहोत्रेषु यत्पुण्यं यत्पुण्यं यज्ञयाजिनाम् ।
तत्पुण्यं सकलन्तस्य शिवलोकं स गच्छति ॥ १०-३ ॥

पृथिवीभाजनं कृत्वा भुक्त्वा पर्णसुयत्नतः ।
अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते ॥ १०-४ ॥

द्वयोः पर्वस्य पञ्चम्योः द्वयोः प्रतिपदोर्नरः ।
सोपवासः सुगन्धाङ्गः शयीत प्रियया सह ॥ १०-५ ॥

शेते निश्चलचित्तस्तु रतिप्रीतिविवर्जितः ।
शिवानुस्मृतचित्तस्य तस्य पुण्यफलं शृणु ॥ १०-६ ॥

दिव्यं वर्षसहस्राणि दिव्यं वर्षशतानि च ।
तपस्तप्तं महत्तेन भवेदत्र न संशयः ॥ १०-७ ॥

शिवभक्तिसुपूतात्मा यद्यपि स्यात् स पापकृत् ।
शिवलोके वसेन्नित्यं शिववत्संस्मृतो गुणैः ॥ १०-८ ॥

प्। १०६(१३२)

कृष्णाष्टम्यां तु नक्तेन यावत्कृष्णचतुर्दशी ।
इह भोगानवाप्नोति परत्र च शिवां गतिम् ॥ १०-९ ॥

योब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु ।
ब्रह्मचारी जितक्रोधः शिवस्यार्चनतत्परः ॥ १०-१० ॥

संवत्सरान्ते विप्रेन्द्रान् शिवभक्तान् समाधिना ।
भोजयित्वा ततो ब्रूयात् प्रीयतां भगवान् शिवः ॥ १०-११ ॥

एवं विधिसमायुक्तः शिवलोकं स गच्छति ।
न च मानुष्यकं लोकमद्ध्रुवं प्राप्नुयाच्च सः ॥ १०-१२ ॥

उपवासात्परं भैक्षः भैक्षात्परमयाचितम् ।
अयाचितात्परं नक्तं तस्मान्नक्तान्न विद्यते ॥ १०-१३ ॥

देवैर्भुक्तन्तु पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा ।
अपराह्णे च यतिभिः सन्ध्यायां गुह्यकादिभिः ॥ १०-१४ ॥

सर्वां वेलामतिक्रम्य नक्तभोजनमुत्तमम् ।
वामाचारो महादेवो नक्तेनोद्धरते नरान् ॥ १०-१५ ॥

हविष्यभोजनं स्थानं सत्यमाहारलाघवम् ।
अग्निकार्यमुपस्थानं नक्तभोजनमाचरेत् ॥ १०-१६ ॥

कृष्णाष्टम्यां प्रयत्नेन कृत्वानन्तं विधानतः ।
मार्गशीर्षे शुभे मासे शङ्करन्तु समर्चयेत् ॥ १०-१७ ॥

पीत्वा तु शक्त्या गोमूत्रमनाहारो निशिं यजेत् ।
अतिरात्रस्य यज्ञस्य फलमष्टगुणं भवेत् ॥ १०-१८ ॥

प्। १०७(१३३)

एवं पुष्येपि सम्पूज्य शम्भुनामानमीश्वरम् ।
कृष्णाष्टम्यां घृतं प्राश्य वाजपेयाष्टकं लभेत् ॥ १०-१९ ॥

माघे माहेश्वरन्नाम कृष्णाष्टम्यां प्रपूजयेत् ।
निशिपीत्वा च गोक्षीरं गोमेधाष्टकमाप्नुयात् ॥ १०-२० ॥

फाल्गुने च महादेवं सम्पूज्य प्राशयेत्तिलान् ।
राजसूयस्य यज्ञस्य फलमष्टगुणं लभेत् ॥ १०-२१ ॥

वर्षलक्षं महाभोगैः शिवलोके महीयते ।
चैत्रे तु स्थाणुनामानं कृष्णाष्टम्यां प्रपूजयेत् ॥ १०-२२ ॥

यावत्सुखर्जितान् प्राश्य सोश्वमेधफलं लभेत् ।
वैशाखे शिवनामानं पिवेद्रात्रौ कुशोदकम् ॥ १०-२३ ॥

नरमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ।
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत् ॥ १०-२४ ॥

गवां कोटिप्रदानस्य यत्फलं तदवाप्नुयात् ।
आषाढे चोग्रनामानमिष्ट्वा प्राश्य च गोमयम् ॥ १०-२५ ॥

सौत्रामणेस्तु यज्ञस्य फलमष्टगुणं लभेत् ।
श्रावणे शर्वनामानं पिण्याकं भक्षयेन्निनि ॥ १०-२६ ॥

वर्षकोटिशतं साग्रं रुद्रलोके महीयते ।
मासे भाद्रपदेष्टम्यां त्र्यम्बकन्नामकं यजेत् ॥ १०-२७ ॥

प्राशनाद्बिल्वपत्राणामनन्तफलमाप्नुयात् ।
आश्विजेश्वरनामानं पीत्वा वै तण्डुलोदकम् ॥ १०-२८ ॥

प्। १०८(१३४)

पौण्डरीकस्य यज्ञस्य फलमष्टगुणं भवेत् ।
कार्तिके रुद्रनामानं सम्पूज्य प्राशयेद्दधि ॥ १०-२९ ॥

अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ।
वर्षान्ते भोजयेद्विप्रान् शिवभक्तिपरायणान् ॥ १०-३० ॥

पायसं मधुनायुक्तं घृतेन च परिप्लुतम् ।
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ॥ १०-३१ ॥

निवेदयीत रुद्राय गाञ्च कृष्णां पयस्विनीम् ।
वर्षमेकञ्चरे देवं नैरन्तर्येण यो नरः ॥ १०-३२ ॥

कृष्णाष्टमीव्रतं भक्त्या तस्य पुण्यफलं शृणु ।
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ॥ १०-३३ ॥

वसेच्छिवपुरे नित्यं नेहायाति कदाचन ।
पुण्योत्सवेषु सर्वेषु विष्वौ च ग्रहणादिषु ॥ १०-३४ ॥

दानोपवासहोमाद्यम् अक्षयं जायते कृतम् ।
प्रतिमासं प्रवक्ष्यामि इदं व्रतमनुत्तमम् ॥ १०-३५ ॥

धर्मार्थकाममोक्षार्थं नरनार्यादिदेहिनाम् ।
पुष्यमासेषु सम्प्राप्ते यः कुर्यान्नक्त भोजनम् ॥ १०-३६ ॥

सत्यवादी जितक्रोधः शालिगोधूमगोरसैः ।
पक्षयोरष्टमीं यत्नात् उपवासेन वर्तयेत् ॥ १०-३७ ॥

त्रिसन्ध्यमर्चयेदीशम् अग्निकार्यञ्च शक्तितः ।
भूमिशय्यां च मासान्ते पूर्णेमास्यक्षतादिभिः ॥ १०-३८ ॥

प्। १०९(१३५)

कृत्वा स्नानं महापूजां शिवे यत्नात्प्रपूरयेत् ।
नैवेद्यमाढकप्रस्थं क्षीरसक्तं निवेदयेत् ॥ १०-३९ ॥

भोजयीत द्विजानष्टौ शिवभक्तान् सुदक्षिणान् ।
शिवाय यो गोमिथुनं कपिलां च निवेदयेत् ॥ १०-४० ॥

अलङ्कृत्वा स्वरूपञ्च तस्य पुण्यफलं शृणु ।
सूर्यकोटिप्रतीकाशैः विमानैस्सार्ववामिकैः ॥ १०-४१ ॥

रुद्रकन्यासमाकीर्णैः महावृषभसंयुतैः ।
सङ्गीतनृत्तवाद्याद्यैः अप्सरोगणशोभितैः ॥ १०-४२ ॥

चामरैर्धूयमानैश्च स्तूयमानैस्सुरासुरैः ।
त्रिणेत्रः शूलपाणिश्च शिवैश्वर्य समन्वितः ॥ १०-४३ ॥

गच्छेच्छिवपुरन्तत्र यत्रास्ते शङ्करस्स्वयम् ।
यावत्तद्रोमसङ्ख्यानं तत्प्रसूतिकुलेषु च ॥ १०-४४ ॥

तावद्वर्षसहस्राणि शिवलोके महीयते ।
त्रिस्सप्तकुलजैस्सार्धं भुक्त्वा भोगान्यथेप्सितान् ॥ १०-४५ ॥

ज्ञानयोगं समासाद्य तत्रैव भुविमुच्यते ।
योगाद्दुःखान्तमाप्नोति ज्ञानाद्योगः प्रवर्तते ॥ १०-४६ ॥

शिवधर्माद्भवेज्ज्ञानं शिवधर्मः शिवार्चनात् ।
इत्येषवस्समाख्यातः संसारार्णववर्तिनाम् ॥ १०-४७ ॥

शिवमोक्षक्रमोपायः शिवाश्रयनिषेविणाम् ।
माघमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥ १०-४८ ॥

प्। ११०(१३६)

कृसरं घृतसंयुक्तं भुञ्जानस्संयतेन्द्रियः ।
सोपवासः चतुर्दश्यां भवेदुभयपक्षयोः ॥ १०-४९ ॥

शिवाय पौर्णमास्यां यः प्रदद्याद्धृतकम्बलम् ।
कृष्णं गोमिथुनं चात्र सुरूपं च निवेदयेत् ॥ १०-१५० ॥

शेषं कृत्वा यथान्यायं पूर्वोक्तमखिलं लभेत् ।
इन्द्रनीलप्रतीकाशैः विमानैः शिखिसंवृतैः ॥ १०-५१ ॥

गत्वा शिवपुरं रम्यं भुक्त्वा भोगान्यथेप्सितान् ।
सम्प्राप्ते फाल्गुने मासे यः कुर्यान्नक्तभोजनम् ॥ १०-५२ ॥

श्यामाकाक्षीरनीवारैः वीतक्रोधोजितेन्द्रियः ।
चतुर्दश्यामथाष्टम्यामुपवासरतो भवेत् ॥ १०-५३ ॥

पौर्णमास्यां महास्नानं पञ्चगव्यघतादि * ।

त्वग्भिश्च क्षीरवृक्षाणां धात्रीगन्धादिभिस्तथा ।
दद्याद्गोमिथुनं भक्त्या ताम्राभं परमेष्ठिने ॥ १०-५५ ॥

शेषमन्यद्यथोद्दिष्टं कृत्वा प्राप्नोति तत्फलम् ।
पद्मरागप्रतीकाशैः विमानैर्गजसंयुतैः ॥ १०-५६ ॥

गत्वा शिवपुरं दिव्यं पूर्वोक्तं लभते फलम् ।
चैत्रमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥ १०-५७ ॥

शाल्यन्नं पयसायुक्तं भुञ्जानः संयतेन्द्रियः ।
दद्याद्गोमिथुनं चात्र पाटलं समलङ्कृतम् ॥ १०-५८ ॥

प्। १११(१३७)

शिवायाति स्वरूपं च शेषं पूर्ववदाचरेत् ।
पद्मरागनिभैर्यानैः दिव्याश्वरथसंयुतैः ॥ १०-५९ ॥

गच्छेच्छिवपुरं रम्यं दुष्प्रापमकृतात्मभिः ।
वैशाखमासे सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥ १०-६० ॥

पिष्टकं पयसायुक्तं भुञ्जानस्संयतेन्द्रियः ।
गोष्ठशायी शिवध्यायी निशायामेकवस्त्रधृक् ॥ १०-६१ ॥

नियमं च यथोद्दिष्टं सामान्यं सर्वमाचरेत् ।
वैशाखे पौर्णमास्यां च कुर्यात्स्नानं घृतादिभिः ॥ १०-६२ ॥

शिवायालङ्कृतं श्वेतं दद्याद्गोमिथुनं शिवम् ।
हंसकुन्दन्दुवर्णाभैर्महायानैरलङ्कृतम् ॥ १०-६३ ॥

सुश्वेतवृषसंयुक्तैः प्रयातीश्वरमन्दिरम् ।
सर्वातिशानिरूपाभिः स्त्रीभिस्सम्परिवारितः ॥ १०-६४ ॥

नीलोत्पलसुगन्धाभिः क्रीडते कालमक्षयम् ।
ज्येष्ठमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥ १०-६५ ॥

शाल्यन्नमम्भसा धौत माज्यक्षीरेणसंयुतम् ।
वीरासनीनिशार्धं स्यात् दिवागामनुगच्छति ॥ १०-६६ ॥

हितकारी गवां नित्यमहङ्कारविवर्जितः ।
पौर्णमास्यां च पूर्वेद्युः कुर्यात्स्नानादिकं विधिम् ॥ १०-६७ ॥

देयं गोमिथुनं चात्र धूमवर्णमलङ्कृतम् ।
नीलोत्पलदलप्रख्यैरसङ्ख्यानैरनौपमैः ॥ १०-६८ ॥

प्। ११२(१३८)

महासिह्मनिबद्धैश्च क्रीडते कालमक्षयम् ।
आषाढमासे सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥ १०-६९ ॥

भूरिखण्डास्य सम्मिश्रं सक्तुमद्या सगोरसम् ।
दद्याद्गोमिथुनं गौरं शिवायालङ्कृतं शुभम् ॥ १०-७० ॥

सामान्यं च विधिं कुर्यात् सर्वञ्च प्राक्प्रचोदितम् ।
शुद्धस्फटिकसङ्काशैः यानैस्सारसवाहनैः ॥ १०-७१ ॥

अणिमादिगुणैर्युक्तः शिववद्विचरेत्स्वयम् ।
सम्प्राप्ते श्रावणे मासे यः कुर्यान्नक्तभोजनम् ॥ १०-७२ ॥

क्षीरसाष्टिकयुक्तेन सर्वभूतहिते रतः ।
श्वेताग्रपादपाण्ट्रं च दद्याद्गोमिथुनं शिवे ॥ १०-७३ ॥

सामान्यमखिलं कुर्यात् विधिना यत् प्रकीर्तितम् ।
सविचित्रैर्महायानैः विचित्राश्वनियोजितैः ॥ १०-७४ ॥

गत्वा शिवपुरं दिव्यं पूर्वोक्तं लभते फलम् ।
प्राप्ते भाद्रपदे मासे यः कुर्यान्नक्त भोजनम् ॥ १०-७५ ॥

हुतशेषन्तु भुञ्जानो वृक्षमूलाक्षितो दिवा ।
रात्रौ चायतने वासी सर्वभूतानुकम्पकः ॥ १०-७६ ॥

नीलस्कन्धं वृषं गां च रुद्राय विनिवेदयेत् ।
निशाकरकरप्रख्यैः वज्रवैडूर्यशोभनैः ॥ १०-७७ ॥

चक्रवाकसमायुक्तैः विमानैस्सार्वगामिकैः ।
गत्वा शिवपुरं रम्यममरासुरवन्दितम् ॥ १०-७८ ॥

प्। ११३(१३९)

क्रीडते विविधैर्भोगैर्यावदाभूतसम्प्लवम् ।
श्रीमदाश्वयुजे मासि यः कुर्यान्नक्तभोजनम् ॥ १०-७९ ॥

घृताशनं प्रयुञ्जीत प्रसन्नात्माजितेन्द्रियः ।
वृषभं नीलवर्णाभम् उरोदेशे समुन्नतम् ॥ १०-८० ॥

विमुच्य दद्याद्रुद्राय गामेकां समलङ्कृताम् ।
विधिशेषं च पूर्वोक्तमशेषं समुपाचरेत् ॥ १०-८१ ॥

प्राणान्ते च परं स्थानं प्रयाति शिववद्वशी ।
स्वच्छमौक्तिकसङ्काशैरिन्द्रनीलोपशोभितैः ॥ १०-८२ ॥

जीवञ्जीवकसंयुक्तैः विमानैस्सार्वगामिकैः ।
प्रक्रीडते महाभोगैः यावदाभूतसम्प्लवम् ॥ १०-८३ ॥

सुशुभे कार्तिके मासे यः कुर्यान्नक्तभोजनम् ।
क्षीरोदनन्तु भुञ्जीत सत्यवादी जितेन्द्रियः ॥ १०-८४ ॥

दद्याद्गोमिथुनं चात्र कापिलं ज्वलनप्रभम् ।
पूर्वोक्तविधिना कृत्वा शिवतुल्यगुणो भवेत् ॥ १०-८५ ॥

कल्पानलशिखा प्रख्यैः महायानैरनूपमैः ।
महासिंहकृताटोपैः शिववच्चेष्टिते सुखी ॥ १०-८६ ॥

मार्गशीर्षे शुभे मासे यः कुर्यान्नक्तभोजनम् ।
यवान्नं पयसायुक्तं भुञ्जानस्संयतेन्द्रियः ॥ १०-८७ ॥

दद्याद्गोमिथुनं दिव्यं पाण्डरं समलङ्कृतम् ।
शेषं शिवाय पूर्वोक्त * * विधिना समुपाक्रमेत् ॥ १०-८८ ॥

प्। ११४(१४०)

सितपद्मनिभैर्यानैः श्वेताश्वरथसंयुतैः ।
गत्वा शिवपुरं दिव्यं शिवतुल्यबलो भवेत् ॥ १०-८९ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया ।
त्रिस्नानार्चाग्निहवनं भूशर्या नक्तभोजनम् ॥ १०-९० ॥

पक्षयोरुपवासेन चतुर्दश्यष्टमीषु च ।
इत्येववमादिनियमैराचरेत शिवव्रतम् ॥ १०-९१ ॥

शिवभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।
स्त्रीत्वमत्युत्तमं सा तत्काङ्क्षते शृणु तद्व्रतम् ॥ १०-९२ ॥

उमामहेश्वरन्नाम सदाप्रीतिविवर्धनम् ।
अतियोगकरं शान्तं धर्मकामार्थसाधनम् ॥ १०-९३ ॥

पौणमास्याममायां च चतुर्दश्यष्टमीषु च ।
नक्तमब्दं प्रकुर्वीत हविष्यं ब्रह्मचारिणी ॥ १०-९४ ॥

उमामहेश्वरन्नाम हेम्ना कृत्वा सुशोभनाम् ।
प्रतिमां चापि वर्षान्ते स्नापयित्वा घृतादिभिः ॥ १०-९५ ॥

गन्धपुष्पैरलङ्कृत्य वस्त्रपुष्पैश्च शोभनैः ।
भक्ष्यभोज्यैरशेषैश्च वितानध्वजचामरैः ॥ १०-९६ ॥

भोजयेच्छिवभक्तांश्च दीनानाथांश्च तर्पयेत् ।
शक्त्या तु दक्षिणां दद्यात् गुरवे ज्ञानदायिने ॥ १०-९७ ॥

हेमकांस्यादिपात्रं वा सितभस्मावकुण्डितम् ।
कृत्वा चायतने मध्ये प्रतिमामुपकल्पयेत् ॥ १०-९८ ॥

प्। ११५(१४१)

शिरसाधार्य तत्पात्रं वितान छत्रशोभितम् ।
ध्वजशङ्खादिविभवैः शिवस्यायतनं नयेत् ॥ १०-९९ ॥

लिङ्गमूर्तेः महेशस्य व्रतस्यान्ते निवेदयेत् ।
तद्वेद्यां स्थापयेत्पात्रमुपशोभासमन्वितम् ॥ १०-१०० ॥

शिवं प्रदक्षिणी कृत्य प्रणिपत्यक्षमापयेत् ।
समाप्य तद्व्रतं पुण्यं शृणुयाच्च फलं लभेत् ॥ १०-१०१ ॥

द्वादशादित्यसङ्काशैः महायानैरनूपमैः ।
यथेष्टमैश्वरे लोके रुद्रैस्सार्धं प्रमोदते ॥ १०-१०२ ॥

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
तदन्ते समहाभोगैः विष्णुलोके महीयते ॥ १०-१०३ ॥

ततः कर्मावशेषेण सर्वकामसमन्वितम् ।
ब्रह्मलोकं समासाद्य परं सुखमवाप्नुयात् ॥ १०-१०४ ॥

ब्रह्मलोकात्परिभ्रष्टा श्रीमती परिपूजिता ।
प्राजापत्यं समासाद्य लोकालोकनमस्कृतः ॥ १०-१०५ ॥

भोगांस्तु सुचिरं भुक्त्वा सोमलोके वसेत्सुखी ।
सोमादैन्द्रं परं लोकमासाद्येन्द्रपतिर्भवेत् ॥ १०-१०६ ॥

इन्द्रलोकाच्च गान्धर्वं लोकं प्राप्य च मोदते ।
गन्धर्वपतिमाप्नोति भोगान्भुक्त्वा यथेप्सितान् ॥ १०-१०७ ॥

महारत्नप्रभादीप्तैरूपशोभितमद्भुतैः ।
यक्षिलोकमिदं प्राप्य यथाकामं प्रमोदते ॥ १०-१०८ ॥

प्। ११६(१४२)

यक्षलोकात्परिभ्रष्टा क्रीडतेलमरुन्धती ।
स्थानानि लोकपालानां क्रमादागत्य मोदते ॥ १०-१०९ ॥

लोकालोकस्य पर्यन्ते सर्वस्मिन् क्षितिमण्डले ।
यत्रक्वचित्सुखं दिव्यं तदशेषमवाप्नुयात् ॥ १०-११० ॥

यौवनं रूपसम्पन्नम् अशेषपृथिवीपतिम् ।
धर्मार्थकाममोक्षज्ञमिममासाद्य मोदते ॥ १०-१११ ॥

ततस्सा धर्मशेषेण भवतीश्वरभाविता ।
स्वकर्मभावनायोगात् पुनः प्रारभते शुभम् ॥ १०-११२ ॥

शुभं वा पुनरप्येवं योनिं यानि सहस्रशः ।
यावन्नाप्नोति निर्वेदं तावद्भ्रमति कर्मणा ॥ १०-११३ ॥

तन्निर्वेदाच्च वैराग्यं वैराग्यात् ज्ञानसम्भवः ।
ज्ञानात्प्रवर्तते योगो योगाद्दुःखान्तमाप्नुयात् ॥ १०-११४ ॥

अष्टम्यां च चतुर्दश्यां नियतं ब्रह्मचारिणी ।
वर्षमेकन्न भुञ्जीत महाभोगजिगीषया ॥ १०-११५ ॥

वर्षान्ते प्रतिमां कृत्वा पूर्ववद्विधिमाचरेत् ।
स्नानाद्यन्तद्व्रतं प्राप्य पूर्वोक्तांश्च गुणान् लभेत् ॥ १०-११६ ॥

जाम्बूनदमयैर्यानैः चतुर्द्वारैरलङ्कृतैः ।
गत्वा शिवपुरं दिव्यम् अशेषं भोगमाप्नुयात् ॥ १०-११७ ॥

उमादेवी प्रियार्थन्तु तुष्टाव परमार्थतः ।
नारी चैवोपवासेन चाब्दं कृत्वा चतुर्दशीम् ॥ १०-११८ ॥

प्। ११७(१४३)

वर्षान्ते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् ।
पीतैस्तु लेपनैर्माल्यैः पीतवस्त्रैश्च पूजयेत् ॥ १०-११९ ॥

पूर्वोक्तमखिलं कृत्वा शिवाय विनिवेदयेत् ।
सप्तभौमैर्महायानैः तप्तचामीकरप्रभैः ॥ १०-१२० ॥

युगकोटिसहस्राग्रं रुद्रलोके महीयते ।
शिवादिसर्वलोकेषु भुक्त्वा भोगान्यथेप्सितान् ॥ १०-१२१ ॥

क्रमादागत्य लोकेस्मिन् यथेष्टं पतिमाप्नुयात् ।
अमावास्यां निराहारा भवेदेवं सुयन्त्रिता ॥ १०-१२२ ॥

शूलं पिष्टमयं कृत्वा वर्षान्ते तु निवेदयेत् ।
शिवाय राजतं पद्मं सुवर्णकृतकर्णिकम् ॥ १०-१२३ ॥

तद्भक्त्या विन्यसेन्मूर्ध्नि शेषं पूर्ववदाचरेत् ।
कामतोपि कृतं पापं भ्रूणहत्यादिकं च यत् ॥ १०-१२४ ॥

तत्सर्वं शूलदानेन भिन्यान्नारी न संशयः ।
महापद्मविमानेन नरनारीसमन्विता ॥ १०-१२५ ॥

युगकोटिशतं साग्रं रुद्रलोके महीयते ।
ईशलोकादिलोकेषु भुक्त्वा भोगाननेकधा ॥ १०-१२६ ॥

इह लोके क्रमात्प्राप्य यथेष्टं पतिमाप्नुयात् ।
पौर्णिमायाममावास्याम् अब्दमेकं सुयन्त्रिता ॥ १०-१२७ ॥

वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत् ।
सुविचित्रैर्महायानैः दिव्यगन्धर्वभूषितैः ॥ १०-१२८ ॥

प्। ११८(१४४)

युगकोटिशतं साग्रं शिवलोके महीयते ।
यथेष्टमैश्वरे लोके भुक्त्वा भोगान्विशेषतः ॥ १०-१२९ ॥

क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् ।
या कार्तिके शुभे मासे एक भुक्तेन वर्तते ॥ १०-१३० ॥

क्षमाहिंसादिनियमैः संयुक्ता ब्रह्मचारिणी ।
गुलाज्यमिश्रं पिण्याकं मासान्ते तु निवेदयेत् ॥ १०-१३१ ॥

अष्टम्यां च चतुर्दश्याम् उपवासरतो भवेत् ।
इन्द्रनीलप्रतीकाशैः विमानैस्सार्वगामिकैः ॥ १०-१३२ ॥

वर्षकोटिशतं साग्रं रुद्रलोके महीयते ।
ईशलोकादिलोकेषु भुक्त्वा भोगाननेकधा ॥ १०-१३३ ॥

यथावद्भोगमासाद्य लोकेषु च विशेषतः ।
क्रमादागत्य लोकेस्मिन् यथेष्टं पतिमाप्नुयात् ॥ १०-१३४ ॥

इत्येवं सर्वमासेषु विधिस्तुल्यः प्रकीर्तितः ।
एकभुक्तोपवासस्य फलञ्च सदृशं विदुः ॥ १०-१३५ ॥

क्षमासत्यं दयादानं शौचमिन्द्रियनिग्रहः ।
शिवपूजाग्निहोमं च सन्तोषोऽस्तेयभावनः ॥ १०-१३६ ॥

सर्वव्रतेषु यद्धर्मः सामान्यो दशधा स्मृतः ।
विशेषमपि वक्ष्यामि प्रतिमासव्रतं प्रति ॥ १०-१३७ ॥

मार्गशीर्षे शुभेमासे वृषं पिष्टसुनिर्मितम् ।
गन्धमाल्यैरलङ्कृत्य शिवालविनिवेदयेत् ॥ १०-१३८ ॥

प्। ११९(१४५)

वृषयुक्तैर्महायानैरप्सरोगणसंयुतैः ।
वर्षायुतशतं साग्रं शिवलोके महीयते ॥ १०-१३९ ॥

सर्वदेवनिकायेषु सम्प्राप्य सुखमुत्तमम् ।
क्रमादागत्य लोकेस्मिन् यथेष्टं पतिमाप्नुयात् ॥ १०-१४० ॥

पुष्यमासे शुभे प्राप्ते शूलं कृत्वा पिनाकिनः ।
गन्धमाल्यैरलङ्कृत्य शिवाय विनिवेदयेत् ॥ १०-१४१ ॥

महापुष्पकयानेन दिव्यगन्धप्रभावता ।
वर्षायुतशतं दिव्यं रुद्रलोके महीयते ॥ १०-१४२ ॥

भुक्त्वा तु विपुलान् भोगान् अशेषपुरसम्भवान् ।
सम्प्राप्यैव क्रमाल्लोकान् यथेष्टं पतिमाप्नुयात् ॥ १०-१४३ ॥

रथमश्वयुतं माघे दीपमाला प्रशोभिते ।
पैष्टलिङ्गं समायुक्तं कृत्वा यतनमानयेत् ॥ १०-१४४ ॥

महारथोपमैर्यानैः श्वेतवाजीविराजितैः ।
वर्षकोटिशतं साग्रं शिवलोके महीयते ॥ १०-१४५ ॥

अनुभूयातुलान् भोगान् अशेषपुरसम्भवान् ।
क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् ॥ १०-१४६ ॥

फाल्गुने प्रतिमां पैष्टीं कृत्वा रूपसमन्विताम् ।
गन्धमाल्यैरलङ्कृत्य स्थापयेच्छिवसन्निधौ ॥ १०-१४७ ॥

यानैरप्रतिमैर्दिव्यैः गीतवादित्रसङ्कुलैः ।
वर्षायुतशतं साग्रं शिवलोके महीयते ॥ १०-१४८ ॥

प्। १२०(१४६)

सर्वामरनिकायेषु सम्प्राप्य सुखमुत्तमम् ।
क्रमाअदागत्य लोकेऽस्मिन् यथेष्टं पतिमाप्नुयात् ॥ १०-१४९ ॥

चैत्रे भवं कुमारं च कृत्वा पैष्टमलङ्कृतम् ।
स्थाप्य पात्रे यथा प्रोक्तम् आनयेच्छिवमन्दिरम् ॥ १०-१५० ॥

शदीन्द्रप्रतीकाशैः विमानैस्सार्वगामिकैः ।
वर्षकोट्ययुतन्दिव्यं शिवलोके महीयते ॥ १०-१५१ ॥

कर्मक्षयादिहागत्य पुत्रपौत्रप्रतिष्ठितम् ।
अभीष्टं पतिमासाद्य लभेद्भोगान्सुदुर्लभान् ॥ १०-१५२ ॥

तण्डुलाढकपिष्टेन कृत्वा कैलासपर्वतम् ।
ईश्वरोमासमायुक्तं सर्वधातुविभूषितम् ॥ १०-१५३ ॥

कन्दरैर्निचितैः चित्रैः लवणप्रस्थसंयुतैः ।
सर्वरत्नसमायुक्तं स्थापयेदीश्वरालये ॥ १०-१५४ ॥

कैलासव्रतमित्युक्तं वैशाख्यां यस्समाचरेत् ।
कैलासकोपमैर्यानैः शिवलोके महीयते ॥ १०-१५५ ॥

शिवादिसर्वलोकेषु भुक्त्वा भोगानशेषतः ।
क्रमादागत्य लोकेस्मिन् राजेन्द्रं पतिमाप्नुयात् ॥ १०-१५६ ॥

लिङ्गं पिष्टमयं कृत्वा ज्येष्ठे मासे सवेदिकम् ।
भक्त्या सम्पूज्य गन्धाद्यैः वस्त्रयुग्मेन वेष्टयेत् ॥ १०-१५७ ॥

उपशोभाविशेषैश्च तत्र जागरमाचरेत् ।
प्रभाते ध्वजशङ्खाद्यैः शिवाय विनिवेदयेत् ॥ १०-१५८ ॥

प्। १२१(१४७)

शुद्धस्फटिकसङ्काशैः विमानैस्सार्वगामिकैः ।
वर्षकोटियुगं साग्रं शिवलोके महीयते ॥ १०-१५९ ॥

भुक्त्वा भागान्यथा काममशेषपुरसम्भवान् ।
क्रीडाविरतभावैश्च मोदते शङ्करालये ॥ १०-१६० ॥

क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् ।
ग्रहं पिष्टमयं कृत्वा आषाढे सप्तभौमिकम् ॥ १०-१६१ ॥

सर्वबीजरसैश्चापि सम्पूर्णं शुभलक्षणम् ।
ग्रहोपकरणैर्युक्तं मुसलोलुखलादिभिः ॥ १०-१६२ ॥

सर्वरत्नादिगोश्वाद्यैः दासीशय्याद्यलङ्कृतम् ।
एतैः पिष्टमयैस्सर्वैः प्रदीपाद्युपशोभितैः ॥ १०-१६३ ॥

सर्वभक्तसमाकीर्णं गन्धमाल्यैरलङ्कृतम् ।
श्वेतरक्तासितैः पीतैः ध्वजैर्वस्त्रैस्सुशोभितम् ॥ १०-१६४ ॥

चतुर्विधैश्च चरणैः संयुक्तं दर्पणेन तु ।
आषाढे पौर्णमास्यान्तु शिवं स्थाप्य शिवाग्रतः ॥ १०-१६५ ॥

सर्वोपकरणोपेतं प्रणिपत्य निवेदयेत् ।
शतभौमैर्महायानैः विमानैस्सार्वगामिकैः ॥ १०-१६६ ॥

वर्षकोटिशतं साग्रं शिवलोके महीयते ।
भुक्त्वा तु विपुलान् भोगान् सर्वलोकेष्वनुक्रमात् ॥ १०-१६७ ॥

प्राप्ता तु सर्वभोगाढ्यं सप्तभौमं ग्रहं लभेत् ।
सर्वधातु समाकीर्णं विचित्रध्वजशोभितम् ॥ १०-१६८ ॥

प्। १२२(१४८)

निवेदयीत शर्वाय श्रावणे तिलपर्वतम् ।
रु(त्व)चेन्द्रनीलसङ्काशैः यानैरप्रतिमैश्शुभैः ॥ १०-१६९ ॥

वर्षकोटिशतं साग्रं शिवलोके महीयते ।
विविधान्भुवनान्भोगानवाप्य विविधान्दिवि ॥ १०-१७० ॥

क्रमाल्लोकमिमं प्राप्य राजानं पतिमाप्नुयात् ।
कृत्वा भाद्रपदे मासे शोभनं शालिपर्वतम् ॥ १०-१७१ ॥

वितानध्वजवस्त्राद्यैः धातुभिश्च निवेदयेत् ।
दिवाकरकरप्रख्यैः महायानैः सुशोभनैः ॥ १०-१७२ ॥

वर्षकोटिसहस्राणि रुद्रलोके महीयते ।
सम्प्राप्यविपुलान् भोगान् अशेषपुरसम्भवान् ॥ १०-१७३ ॥

क्रमादागत्य लोकेस्मिन् राजानं पतिमाप्नुयात् ।
कृत्वाचाश्वयुजे मासि विपुलं धान्यपर्वतम् ॥ १०-१७४ ॥

सुवर्णवस्त्रसंयुक्तं शिवाय विनिवेदयेत् ।
सुविचित्रैर्महायानैः वरभोगसमन्वितैः ॥ १०-१७५ ॥

वर्षकोटिसहस्राणि रुद्रलोके महीयते ।
रुद्रलोकादिलोकेषु भुक्त्वा भोगान्यथेप्सितान् ॥ १०-१७६ ॥

सम्प्राप्तेस्मिन् क्रमाल्लोके राजानं पतिमाप्नुयात् ।
सर्वधान्यसमायुक्तं सर्वबीजरसादिभिः ॥ १०-१७७ ॥

सर्वधातु समायुक्तं सर्वरत्नोपशोभितम् ।
शृङ्गैश्चतुर्भिस्संयुक्तं वितानध्वजशोभितम् ॥ १०-१७८ ॥

प्। १२३(१७९)

गन्धैर्माल्यैस्तथा धूपैः प्रदीपैश्चापि शोभितम् ।
विचित्रनृत्तगीतैश्च शङ्खवीणादिभिस्तथा ॥ १०-१७९ ॥

ब्रह्मघोषैस्तथा पुण्यैः मङ्गलैश्च विशेषतः ।
महाध्वजाष्टसंयुक्तं विचित्रकुसुमोज्वलम् ॥ १०-१८० ॥

नागेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम् ।
तस्य मूर्ध्नि शिवं कुर्यात् सर्वदेवसमावृतम् ॥ १०-१८१ ॥

दैत्यगन्धर्वभूतैश्च सिद्धयक्षगणैस्तथा ।
विद्याधराप्सरोनागैः ऋषिभिश्च विशेषतः ॥ १०-१८२ ॥

शालिपिष्टमयं सर्वं रूपं कृत्वा विचक्षणः ।
देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् ॥ १०-१८३ ॥

एवं सर्वेषु देवेषु कुर्यादस्त्रं यथाक्रमम् ।
शिवस्य महतीं पूजां कृत्वाचारसमन्विताम् ॥ १०-१८४ ॥

पूजयेत् सर्वदेवांश्च दशदिक्षु बलिं हरेत् ।
व्रतिनो भोजयेत् पश्चात् शिवभक्तान्सदक्षिणान् ॥ १०-१८५ ॥

सर्वारम्भसमायुक्तं महाविभवकल्पितम् ।
निवेदयीतरुद्राय कार्तिक्यान्नगमुत्तमम् ॥ १०-१८६ ॥

यः कुर्यात्सकृदप्येवं तस्य पुण्यफलं शृणु ।
सर्वागमेषु यत्पुण्यं कथितं मुनिभिः पुरा ॥ १०-१८७ ॥

तत्पुण्यं कोटिगुणितं प्राप्नुयान्नात्र संशयः ।
महारत्नप्रभैर्यानैः सर्वरत्नसमवितैः ॥ १०-१८८ ॥

प्। १२४(१५०)

गीतनृत्तादिवाद्यैश्चाप्यप्सरोभिश्च शोभितैः ।
सूर्यकोटिसमप्रख्यैः विमानैर्मेरुसन्निभैः ॥ १०-१८९ ॥

नरनारीसमाकीर्णैः दिव्यगन्धवहैश्शुभैः ।
देवदानवगन्धर्वैः स्तूयमानो गणादिभिः ॥ १०-१९० ॥

स्वच्छन्दस्सर्वगो भूत्वा प्रयाति वरमन्दिरम् ।
कल्पकोटिशतं दिव्यं मोदते स महातपाः ॥ १०-१९१ ॥

एवं सर्वेषु लोकेषु भोगान् भुक्त्वा यथेप्सितान् ।
पुण्यक्षयादिहागत्य राजानं पतिमाप्नुयात् ॥ १०-१९२ ॥

सुरूपा सुभगा नित्यं भवतीश्वरभाविता ।
यं यं कामं समुद्दिश्य नरनारी नपुंसकाः ॥ १०-१९३ ॥

पूजयन्ति शिवं भक्त्या तन्तमेवमवाप्नुयात् ।
मृण्मयं दारुजं शैलमैष्टकं वा सुकल्पितम् ॥ १०-१९४ ॥

कृत्वा मठं गृहं वापि यथाविभवसम्भवम् ।
सर्वोपकरणो पेतं सर्वधान्यप्रपूरितम् ॥ १०-१९५ ॥

शिवाय तद्गृहं दत्वा सर्वान्कामानवाप्नुयात् ।
भुक्त्वैकभुक्तं हेमन्ते माघमासे समन्वितः ॥ १०-१९६ ॥

मासान्ते च रथं कुर्यात् चित्रवस्त्रोपशोभितम् ।
श्वेतैश्चतुर्भिस्संयुक्तं वृषभैस्समलङ्कृतम् ॥ १०-१९७ ॥

शोभितं ध्वजपुष्पाद्यै छत्रचामरदर्पणैः ।
तण्डुलाथकपिष्टेन लिङ्गं कृत्वा सवेदिकम् ॥ १०-१९८ ॥

प्। १२५(१५१)

विन्यस्य रथमध्ये तु पूजयेत्कृतलक्षणम् ।
तद्रात्रौ राजमार्गेण शङ्खभेर्यादिभिस्स्वनैः ॥ १०-१९९ ॥

भ्रामयित्वाशनैः पश्चात् शिवायतनमानयेत् ।
तत्रजागरपूजाभिः प्रदीपाद्युपशोभितः ॥ १०-२०० ॥

प्रेक्षणीय प्रदानैश्च क्षपयीत शनैर्निशाम् ।
प्रभाते स्नपनं कृत्वा तद्भक्तांश्चैव पूजयेत्(भोजयेत्) ॥ १०-२०१ ॥

कृपणानाथदीनानां यथाशक्त्या तु दक्षिणाम् ।
रथशोभासमायुक्तं शिवाय विनिवेदयेत् ॥ १०-२०२ ॥

भुक्त्वा च बान्धवैस्सार्धं प्रणम्येशगृहं यजेत् ।
प्रवरं सर्वदानानामस्मिन्धर्मे समापिते ॥ १०-२०३ ॥

व्रतं शिवरथं नाम सर्वकामार्थसाधकम् ।
सर्वव्रतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ १०-२०४ ॥

सर्वं शिवरथे नैव तत्पुण्यं सकलं लभेत् ।
सूर्यायुतप्रतीकाशैः विमानैस्सार्वगामिकैः ॥ १०-२०५ ॥

त्रिसप्तकुलजैस्सार्धं शिवलोके महीयते ।
भुक्त्वा तु विपुलान् भोगान् सर्वलोकेष्वनुक्रमात् ॥ १०-२०६ ॥

कल्पकोट्ययुतं साग्रं तस्यान्ते समहीपतिः ।
पञ्चतूलीसमायुक्तां मृद्वीं खट्वामलं कृताम् ॥ १०-२०७ ॥

सर्वोपकरणोपेतां शिवशय्यां प्रकल्पयेत् ।
शिवं वेदीसमायुक्तं पैष्टमस्यान्निधापयेत् ॥ १०-२०८ ॥

प्। १२६(१५२)

शिवज्ञानार्थतत्वज्ञम् आचार्यं विनयान्वितम् ।
सम्पूज्यगन्धपुष्पाद्यैः वस्त्रालङ्कारमाचरेत् ॥ १०-२०९ ॥

भक्ष्यभोज्यैरशेषैश्च ततश्शय्यान्निवेदयेत् ।
तत्तूलमूलतन्तूनां परिसङ्ख्या तु यावती ॥ १०-२१० ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
शिवादिसर्वलोकेषु भुक्त्वा भोगानशेषतः ॥ १०-२११ ॥

क्रमादागत्य लोकेस्मिन् सिह्मासनपतिर्भवेत् ।
दशगावस्सवृषभा वृषभैकादश स्मृताः ॥ १०-२१२ ॥

शिवाय विनिवेद्यैव विशुद्धेनान्तरात्मना ।
रुद्रैकादशतुल्यात्मा बलभोगादिभिर्गुणैः ॥ १०-२१३ ॥

शिवादिसर्वलोकेषु यथेष्टं मोदते वशी ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ १०-२१४ ॥

भुक्त्वा तु विपुलान् भोगानशेषकुलजैस्सह ।
तदन्ते ज्ञानमासाद्य प्रसादात्परमेष्टिनः ॥ १०-२१५ ॥

विमुच्यमोहकलिलं स्वात्मन्येवावतिष्ठते ।
सवृषं गोशतं दद्यात् शिवायातीव शोभनम् ॥ १०-२१६ ॥

त्रिस्सप्तकुलजैस्सार्धं शृणुयात्फलमाप्नुयात् ।
सूर्यकोटिप्रतीकाशैः विमानैस्सार्वगामिकैः ॥ १०-२१७ ॥

अनेककामसङ्ख्यानैरमरासुरवन्दितैः ।
शतरुद्रबलोपेतो वीरभद्र इवापरः ॥ १०-२१८ ॥

प्। १२७(१५३)

गत्वा शिवपुरन्दिव्यमशेषाधिपतिर्भवेत् ।
भुक्त्वा तु विपुलान् भोगान् प्रलये सर्वदेहिनाम् ॥ १०-२१९ ॥

मोहकञ्चुकमुत्सृज्य ज्ञानं कैवल्यमाप्नुयात् ।
सर्वयज्ञपरश्शुद्धः स्वात्मन्येव व्यवस्थितः ॥ १०-२२० ॥

परिपूर्णश्च शिववदशेषपतिरव्ययः ।
गाञ्चोभयमुखीन्दद्यात् शिवायातीव शोभनैः ॥ १०-२२१ ॥

सप्तद्वीपां क्षितिं दत्वा यत्फलं तदवाप्नुयात् ।
पादद्वन्द्वं शिरोर्धं च यदावत्सनिर्गतम् ॥ १०-२२२ ॥

तदागौः पृथिवीज्ञेया यावद्गर्भन्नमुञ्चति ।

इति शिवधर्मशास्त्रे व्रतोपवासगोदानप्रशंसानाम
दशमोध्यायः ॥

प्। १२८(१५४)

श्रीः

अथ एकादशाध्यायः

श्रीनन्दिकेश्वर उवाच

सर्वेषामेव वर्णानां शिवाश्रमनिषेविणाम् ।
शिवधर्मश्शिवेनोक्तो धर्मकामार्थमुक्तये ॥ ११-१ ॥

ब्राह्मणः क्षत्रियो वैश्यः स्त्रीशूद्रो वा शिवाश्रमी ।
वानप्रस्थो गृहस्थो वा यश्चान्यो वा शिवाश्रमी ॥ ११-२ ॥

स्वाश्रमादुत्तरे कुर्यात् पुष्पारामं सुशोभनम् ।
अग्न्यङ्गारकसंयुक्तमैशान्यामीश्वरालयम् ॥ ११-३ ॥

प्रादेशसम्भवे कुर्यात् यत्र स्यात् सम्भवो भुवि ।
शिवाद्दक्षिणतः कुर्यात् तद्भक्तानां तथाबलम् ॥ ११-४ ॥

त्रिसन्ध्यमर्चयेदीशमग्निकार्यञ्च नित्यशः ।
द्विसन्ध्यमेककालं वा पूजयेद्भक्तितः शिवम् ॥ ११-५ ॥

असम्पूज्य शिवं मोहात् न भुञ्जीत कदाचन ।
एष धर्मः परो ज्ञेयः शेषो धर्मः प्रकीर्तितः ॥ ११-६ ॥

कार्यातिपातसंरोधाद्राजोपद्रवकादिषु ।
मनसा पूजयेद्भक्त्या वाचिकं वा जपादिभिः ॥ ११-७ ॥

शिवाश्रमाश्रितैः पूजा कर्तव्या यतिभिस्तथा ।
मनसा पूजयेद्योगी पुष्पैरारण्य सम्भवैः ॥ ११-८ ॥

प्। १२९(१५५)

शिवार्थे पुष्पहिंसायां न भवेत्स तु हिंसकः ।
यद्यल्पमपि चात्मार्थे हिंसते हिंसकस्तदा ॥ ११-९ ॥

शिवार्चनपरोनित्यं तद्भक्तानां च भोजनम् ।
पर्वमैथुनवर्जी स्यात् श्रीमान् शिवग्रहाश्रमी ॥ ११-१० ॥

देवाग्न्यतिथिभैक्षार्थं पचेन्नैवात्मकारणात् ।
आत्मार्थे यः पचेन्मोहात् नरकार्थं स जीवति ॥ ११-११ ॥

देवार्थं पचनं येषां सन्तानार्थन्तु मैथुनम् ।
स्वर्गार्थं जीवितं तेषां नरकर्थं विपर्यये ॥ ११-१२ ॥

वित्ततृतीयभागेन प्रकुर्वीत शिवार्चनम् ।
कुर्वीत वा तदर्धेन यतो नित्यं हि जीवितम् ॥ ११-१३ ॥

न्यायेनोपार्जितं वित्तम् अन्यायं परिवर्जयेत् ।
अन्यायोपार्जितैः वित्तैः नरकार्थं स जीवति ॥ ११-१४ ॥

यश्शिवं ब्रह्मचारी स्यात् सशिवार्चाग्नितत्परः ।
भवेज्जितेन्द्रियः शान्तो नैष्ठिको व्रतिकोपि वा ॥ ११-१५ ॥

सर्वसङ्गविनिर्मुक्तः कन्दमूलफलाशनः ।
शिवो वै मनसा ज्ञेयः शिवार्चाग्निपरो भवेत् ॥ ११-१६ ॥

निवृत्तस्सर्वसङ्गेभ्यः शिवध्यानपरायणः ।
ज्ञेयश्शिवो प्रतीकोयं भस्मनिष्ठो जितेन्द्रियः ॥ ११-१७ ॥

रुद्राक्षैः कङ्कणं हस्ते गलेचैव हि मस्तके ।
लिङ्गं शिवाश्रमस्थानां भस्मनां च त्रिपुण्ट्रकम् ॥ ११-१८ ॥

प्। १३०(१५६)

हस्ते च मूर्ध्न्युरसिवा रुद्राक्षन्धारयेत यः ।
सोगम्यः सर्वभूतानां रुद्रलोकं स गच्छति ॥ ११-१९ ॥

रुद्रभक्तैश्शिवस्यैष धार्यो रुद्रसमस्सदा ।
पुष्पारामैककर्मात्मा पुष्पवाटी क्रियान्वितः ॥ ११-२० ॥

त्रिस्नानपूजासंयुक्तः कौपीनाच्छादनस्सदा ।
योगिनां भक्तियोगेन योगस्थानमवाप्नुयात् ॥ ११-२१ ॥

शिवध्यानपराश्शान्ताः शिवधर्मपरायणाः ।
सर्व एवाश्रमा ज्ञेयाः शिवभक्ताश्शिवाश्रयाः ॥ ११-२२ ॥

महाव्रताष्टकं धार्यमीशेनोक्तं शिवार्थिभिः ।
सर्वव्रतानां परममस्मिन्धर्मः समाप्यते ॥ ११-२३ ॥

शिवे भक्तिस्सदा क्षान्तिरहिंसा सर्वदा दया ।
सन्तोषस्सत्यमस्तेयं ब्रह्मचर्यं तथाष्टकम् ॥ ११-१२४ ॥

यथासम्भवपूजाभिः कर्मणा मनसा गिरा ।
शिवे भक्तिस्सदा कार्या तद्वच्च शिवयोगिषु ॥ ११-२५ ॥

स्वदेहान्निर्विशेषेण शिवभक्तांश्च पालयेत् ।
भयदारिद्र्यरोगेभ्यः तेषां कुर्यात्प्रियाणि च ॥ ११-२६ ॥

शिवस्य परिपूर्णस्य किन्नाम क्रियते जनैः ।
यत्कृतं शिवभक्तानां तत्कृतं स्याच्छिवे सदा ॥ ११-२७ ॥

सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः ।
प्रयत्नेनापि द्रष्टव्यः तत्र सन्निहितो हरः ॥ ११-२८ ॥

प्। १३१(१५७)

महेश्वरस्य भक्तस्य शिवार्चनरतस्य च ।
अर्चां कृत्वा यथान्यायमश्वमेधफलं लभेत् ॥ ११-२९ ॥

नित्यं शिवकथासक्तो नित्यं शिवपरायणः ।
अर्चयित्वा यथान्यायं गाणापत्यं लभेन्नरः ॥ ११-३० ॥

शिवाश्रमगतं भक्त्या शिवभक्तं प्रपूजयेत् ।
स्वागतासनपाद्यार्घ्यमधुपर्कादिभोजनैः ॥ ११-३१ ॥

यस्स्वागते नमस्कारं कुर्यादप्यभिवादनम् ।
दशवर्षसहस्राणि अग्निलोके महीयते ॥ ११-३२ ॥

प्राप्ताय शिवभक्ताय यो दद्यात्स्वयमासनम् ।
विंशद्वर्षसहस्राणि पुरन्दरपुरे वसेत् ॥ ११-३३ ॥

शिवभक्ताय विप्राय पादौ प्रक्षाल्य यत्नतः ।
घृतेनाप्यञ्जयेद्भक्त्या विष्णुलोके महीयते ॥ ११-३४ ॥

प्रतिश्रयप्रदानेन हैमं स्वर्गे गृहं भवेत् ।
जलं सुशीतलं दत्वा सर्वकाममवाप्नुयात् ॥ ११-३५ ॥

लभेद्दीपप्रदानेन ज्ञानचक्षुरतीन्द्रियम् ।
मृदुशय्याप्रदानेन सिंहासनपतिर्भवेत् ॥ ११-३६ ॥

कृत्वाम्भसा तथा स्नानं सौभाग्यं कान्तिवर्धनम् ।
स्नानं विधिसमायुक्तं वारुणं लोकमाप्नुयात् ॥ ११-३७ ॥

स्वेदबिन्दुपरीताङ्गमध्वश्रमविराजितम् ।
संवीज्यतालवृन्तेन वायुलोकमवाप्नुयात् ॥ ११-३८ ॥

प्। १३२(१५८)

क्षुत्पिपासातुरं शान्तम् आर्तम्मलिनरोगिणम् ।
पालयित्वा यथाशक्त्या सर्वपापैः प्रमुच्यते ॥ ११-३९ ॥

रोगार्तस्य शिवं कृत्वा भेषजाद्यैः प्रयत्नतः ।
युगकोटिशतं साग्रं शिवलोके महीयते ॥ ११-४० ॥

शिवभक्तं विशेषेण रोगार्तं यस्तु पालयेत् ।
भैषज्यैर्वृत्तिदानेन शिवलोकं व्रजेद्ध्रुवम् ॥ ११-४१ ॥

सर्वयत्नेन महता यन्तु कुर्यादरोगिणम् ।
शिवलोककुडुम्बी स्यात् तस्य पुण्यमनन्तकम् ॥ ११-४२ ॥

कालात्पुनरिहायातः समस्तज्ञानपारगः ।
ध्वंसनं सर्वदुःखानां रुद्रत्वं समवाप्नुयात् ॥ ११-४३ ॥

सितेन भस्मना कुर्यात् त्रिसन्ध्यं यस्त्रिपुण्ट्रकम् ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ११-४४ ॥

रुद्राग्नेर्यत्परं वीर्यं तद्भस्मपरिकीर्तितम् ।
ध्वंसनात्सर्वदुःखानां सर्वपापविशोधनम् ॥ ११-४५ ॥

योगी सर्वाङ्गिकस्नानम् आपादतलमस्तकम् ।
त्रिसन्ध्यमाचरेन्नित्यमाशुयोगमवाप्नुयात् ॥ ११-४६ ॥

यस्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः ।
कुलैकविंशमुत्तार्य सगच्छेत्परमं पदम् ॥ ११-४७ ॥

स्वतश्शुद्धकुलागावः सम्भूतन्ता सुगोमयम् ।
शिवाग्निना पुनः पक्तं पवित्रं भस्म तत् स्मृतम् ॥ ११-४८ ॥

प्। १३३(१५९)

भस्मस्नानं जलस्नानादसङ्ख्येय गुणाधिकम् ।
तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत् ॥ ११-४९ ॥

सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥ ११-५० ॥

महापातकसंयुक्तः संयुक्तस्सर्वपातकैः ।
भस्मस्नानन्तु सेवेतमुच्यते सर्वपातकैः ॥ ११-५१ ॥

भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते ।
उक्तं तत्सर्वदेवेभ्यः स्नातो येन शिवः स्वयम् ॥ ११-५२ ॥

ब्रह्माद्याश्च तदारभ्य मुनयश्च शिवार्थिनः ।
सर्वपर्वसु यत्नेन भस्मस्नानं प्रचक्रिरे ॥ ११-५३ ॥

तस्मादेवं शिवस्नानमाग्नेयं यस्समाचरेत् ।
अनेनैव शरीरेण सरुद्रोनात्र संशयः ॥ ११-५४ ॥

दुश्शीलश्शीलयुक्तो वा योवा कोवाप्यलक्षणः ।
भूतिरीशस्य संयोगात् सम्पूज्या राजपुत्रवत् ॥ ११-५५ ॥

गुणवत्पात्रपूजायान्नस्याच्छासनपूजकः ।
शासनं पूजयेत्तस्मात् अविचारं शिवाज्ञया ॥ ११-५६ ॥

रुद्राग्नेर्यत् परं वीर्यं तद्भस्मपरिकीर्तितम् ।
दाहकस्सर्वदुःखानां तस्माद्भस्मेति चोच्यते ॥ ११-५७ ॥

शिवाग्नौ पूजनात्साक्षात् शिवो भवति पूजितः ।
अविकल्पमतिस्तस्मात् पूजयेच्छिवशासनम् ॥ ११-५८ ॥

प्। १३४(१६०)

छद्मनापि हि यो धत्ते गतिं शासनमैश्वरम् ।
सोपि यां गतिमाप्नोति न तां यज्ञशतैरपि ॥ ११-५९ ॥

आचमान्तेन विधिना निर्दोषं शिवभस्मना ।
गन्धलेपविशुध्यर्थं नित्यमद्भिरुपस्पृशेत् ॥ ११-६० ॥

गन्धलेपविहीनोपि भावाशुद्धो न शुद्ध्यति ।
उदकुम्भसहस्रैस्तु मृदां भारशतैरपि ॥ ११-६१ ॥

अपिवर्षसहस्रेण भावाशुद्धो न शुद्ध्यति ।
भावपूतं चरेच्छौचं वस्त्रपूतं जलं पिबेत् ॥ ११-६२ ॥

दृष्टिपूतं न्यसेत्पादं सत्यपूतं वचो वदेत् ।
जटाकलापि यो नस्यात् पक्षान्ते वपनं चरेत् ॥ ११-६३ ॥

यदेव पुण्यन्दीक्षायां तत्पुण्यं वपने कृते ।
जटीमुण्डी शिखी वापि भिक्षाशी विगतस्पृहः ॥ ११-६४ ॥

मौनी भूतानुकम्पी च यतिः शान्तमनाश्चरेत् ।
साधुकारी चरेद्भक्षमेकान्नं परिवर्जयेत् ॥ ११-६५ ॥

उपवासात्परं भैक्षम् एकान्नं गृहिणो मलम् ।
यस्सर्वसङ्गनिर्मुक्तः शुद्धश्शिवपरायणः ॥ ११-६६ ॥

सोपीह वपनं कृत्वा योगीन्द्रानुचरो भवेत् ।
वसेदायतने नित्यं सगणः शिवधार्मिकः ॥ ११-६७ ॥

शरणागतमुद्विग्नमाक्रान्तं रिपुतस्करैः ।
माभैषीरिति चाश्वास्य शिवलोके महीयते ॥ ११-६८ ॥

प्। १३५(१६१)

दारिद्र्यार्णवनिर्मग्नं महाभूतमचेतनम् ।
समुद्धृत्य यथा शक्त्या सर्वकाममवाप्नुयात् ॥ ११-६९ ॥

पतिते शास्त्रसङ्कीर्णे शवचण्डालपक्षिणाम् ।
कारुण्यात्सर्वभूतेभ्यो देयमन्नं स्वशक्तितः ॥ ११-१७० ॥

अत्यल्पमपि कारुण्यात् दत्तं भवति चाक्षयम् ।
तस्माद्वै सर्वभूतेषु कारुण्याद्दानमुत्तमम् ॥ ११-७१ ॥

अभावे तृणभूम्यम्भः पत्रम्मूलं फलानि च ।
दत्वागताय कारुण्यात् स्वर्गं यान्ति प्रियेण वा ॥ ११-७२ ॥

ईदृशं स्वर्गसोपानं यथालोके प्रियंवदाः ।
इहामुत्रसुखं तेषां वाच्येषां मधुरा स्वरा ॥ ११-७३ ॥

अमृतस्यन्दिनीं वाचं चन्दनस्पर्शशीतलाम् ।
धर्माविरोधिनीमुक्त्वा सुखमक्षयमाप्नुयात् ॥ ११-७४ ॥

अलन्दानेन विप्रेन्द्रा याजनाध्ययनेन वा ।
इदं स्वर्गस्य सोपानम् अमलं यत्प्रियं वचः ॥ ११-७५ ॥

प्रत्युत्थानाभिगमनम् अनुवृज्यप्रियं वचः ।
पूर्वाभिभाषिता वृष्टिः प्रत्येकं स्वर्गहेतवः ॥ ११-७६ ॥

सम्पृच्छेदागतं भक्त्या चाप्यायनमपस्तथा ।
गमनेप्येववक्तव्यं पन्थानस्सन्तु ते शिवाः ॥ ११-७७ ॥

शिवं भवतु ते नित्यम् अशेषार्थप्रसिद्धये ।
आशीर्वादमिदं वाचस्सर्वकार्येषु सर्वदा ॥ ११-७८ ॥

प्। १३६(१६२)

नमस्काराभिवादेषु स्वस्तिमङ्गलवाचकैः ।
शिवं भवतु सर्वत्र प्रब्रूयात्सर्वकर्मसु ॥ ११-७९ ॥

एवमादिशिवाचारमनुष्ठाय शिवाश्रमी ।
अशेषपापनिर्मुक्तः शिवलोके महीयते ॥ ११-८० ॥

शिवभक्तेषु या भक्तिः तद्भक्तैः क्रियते नरैः ।
शिवे भक्तिर्भवति सा भक्ति भक्तैरनुष्ठिता ॥ ११-८१ ॥

आक्रुष्टस्ताडितो वापि यो नाक्रोशेन्नताडयेत् ।
वाचा न कर्माष स्वस्थं क्षान्तिरेव विधीयते ॥ ११-८२ ॥

स शूरस्सात्विको विद्वान् स तपस्वी जितेन्द्रियः ।
ये नाशुक्षान्तिशस्त्रेण शत्रुक्रोधो विनिर्जितः ॥ ११-८३ ॥

क्षमादानं क्षमासत्यं क्षमाऽहिंसा क्षमाश्रुतम् ।
क्षमा स्वर्गश्च मोक्षश्च क्षमयैव जगद्धृतम् ॥ ११-८४ ॥

सर्वेषामेव तीर्थानां तीर्थं ज्ञानस्य पारगः ।
ज्ञानतीर्थात्परन्तीर्थं ये स्नाता ज्ञानवारिणा ॥ ११-८५ ॥

ज्ञानं योगन्तपो जप्यं यज्ञदानादिसत्क्रियाः ।
क्रोधिनस्तु वृथा यस्मात्तस्मात्क्रोधं विवर्जयेत् ॥ ११-८६ ॥

मर्मास्थि प्राणहृदयं निर्दहेदप्रियं वचः ।
नवाच्यमप्रियन्तस्मात् शिवभक्ते विशेषतः ॥ ११-८७ ॥

निर्मलैः क्षान्तिसलिलैः समाप्य धनशीतलैः ।
इह सौख्यमवाप्नोति परत्र च शिवां गतिम् ॥ ११-८८ ॥

प्। १३७(१६३)

आत्मवत्सर्वभूतानां यो हिताय शिवाय च ।
सर्वधावर्तते नित्यमहिंसेयमुदाहृता ॥ ११-८९ ॥

सर्वशास्त्रेण वेदैश्च यज्ञैश्चैषान्तु यत्फलम् ।
ये न हिंसन्ति भूतानि तेषां पुण्यं ततोधिकम् ॥ ११-९० ॥

त्रैलोक्यमपि यो दद्यादखिलं रत्नपूरितम् ।
चरेत्तपांसि सर्वाणि न च तुल्यमहिंसया ॥ ११-९१ ॥

अहिंसेयं परोधर्मः शक्तानां परिकीर्तितः ।
अशक्तानामयन्धर्मो दानयज्ञादिपूर्विकः ॥ ११-९२ ॥

नातः परं प्रपश्यामः क्वचिदप्यागमेव यम् ।
पुंसामभयदानन्तु दानमद्भुतमुत्तमम् ॥ ११-९३ ॥

सर्वभूताभयन्दत्वा यश्चरेच्छान्तमानसः ।
इहैव सर्वभूतेभ्यो न भयन्तस्य विद्यते ॥ ११-९४ ॥

यो न हिंसति भूतानि स्थावराणि चराणि च ।
स भुङ्क्ते दुःखरहितः परां शान्तिमनुत्तमाम् ॥ ११-९५ ॥

पापा रमन्ति पापेषु ह्यपि क्रूरा नराधमाः ।
आभूतसम्प्लवं यावत् पच्यन्ते नरकाग्निषु ॥ ११-९६ ॥

स्वदेशे यो नृपः कुर्यात् प्राणिघातनिवारणम् ।
सनृपस्सहदेशेन नन्दते विभवैश्चिरम् ॥ ११-९७ ॥

देहान्ते च महाभोगैस्समस्तकुलसंयुतः ।
कल्पकोटिसहस्राणि शिवलोके महीयते ॥ ११-९८ ॥

प्। १३८(१६४)

यस्तु स्वार्थं परार्थं वा समस्तेन्द्रियसंयतः ।
नाकार्ये यः प्रवर्तेत तमाहुश्शान्तिलक्षणम् ॥ ११-९९ ॥

यः प्रशान्तेन्द्रिय ग्रामः सदाचन्द्रांशुनिर्मलः ।
सप्राप्नोति परं स्थानं शैवं शान्तेन चेतसा ॥ ११-१०० ॥

यथालब्धोपपन्नेन वृत्तिन्यायागतेन च ।
उत्पन्नार्थेन यस्तुष्टः सन्तोषः स प्रकीर्तितः ॥ ११-१०१ ॥

अतीतानागतार्थेषु वर्तमानेषु जीवति ।
नानुस्मरत्यतीतानि सन्तोषो यमुदाहृतः ॥ ११-१०२ ॥

तेन सर्वमवैरिष्टं तेनावाप्तं तपः कृतम् ।
तेन तृष्णापदन्त्यक्त्वा सन्तोषस्सम्यगाश्रितः ॥ ११-१०३ ॥

सन्तोषैश्वर्ययुक्तानां यत्सुखं शान्तचेतसाम् ।
देवासुरमनुष्याणां कृतस्स्वर्गेपि तत्सुखम् ॥ ११-१०४ ॥

स्वानुभूतं स्वदृष्टं च यो दृष्टार्थन्निगूहति ।
यथाभूतार्थकथनमित्येतत्सत्यलक्षणम् ॥ ११-१०५ ॥

सत्यं पुनस्सत्यमेतत् सत्यासत्यं च लक्षणम् ।
परपीडाविनिर्मुक्तं यावत् स्याद् वचनं शिवम् ॥ ११-१०६ ॥

अश्वमेधाच्च तत्सत्यम् अधिकं बहुभिर्गुणैः ।
सत्ये प्रतिष्ठितं ज्ञानं धर्मस्सत्ये प्रतिष्ठितः ॥ ११-१०७ ॥

सत्ये प्रतिष्ठितं शौचं मोक्षस्सत्ये प्रतिष्ठितः ।
स्वामिना रक्ष्यमाणामुत्सृष्टानां च सम्भ्रमे ॥ ११-१०८ ॥

प्। १३९(१६५)

परस्वानामपादानमेतदस्तेयलक्षणम् ।
अलाभेषु परस्वेषु यो मनागपि वर्तते ॥ ११-१०९ ॥

कर्मणा मनसा वाच स तृप्तश्शिवतां व्रजेत् ।
मैथुनस्यासमाचारं तत्रचित्तमजल्पनम् ॥ ११-११० ॥

लक्षणं ब्रह्मचर्यस्य समस्तेन्द्रियनिग्रहः ।
ब्रह्मचर्ये स्थितं शौचं ब्रह्मचर्ये स्थितं तपः ॥ ११-१११ ॥

ब्रह्मचर्य स्थितं ज्ञानं ब्रह्मचर्ये स्थिता क्षमा ।
ये स्थिता ब्रह्मचर्येण ते नित्यं संस्थिताश्शिवे ॥ ११-११२ ॥

एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः ।
ग्रहिभिस्तां गतिं प्राप्तुं शक्या यज्ञशतैर्न हि ॥ ११-११३ ॥

स सर्वसङ्गमुत्सृज्य चेतसास्ते निराकुलः ।
अहो यतिवरः श्रीमान् नापयाति स्मृतिम्मृतौ ॥ ११-१४४ ॥

पर्वन्त्यक्त्वा युजेद्योषां योन्यदारविवर्जितः ।
ब्रह्मचारी समस्सोपि विज्ञेयस्तु शिवागमे ॥ ११-११५ ॥

शिवाग्न्यतिथिगुर्वर्थं कुर्यात् कर्माणि सर्वतः ।
अहिंसकस्सविज्ञेयः रुद्रत्वं गच्छति क्षितौ ॥ ११-११६ ॥

शिवाग्निगुरुकार्येषु समुद्युक्तस्सदानरः ।
तस्य कार्याणि सिध्यन्ति मनसा चिन्तितान्यपि ॥ ११-११७ ॥

एषधमद्रुमश्श्रीमानष्टशाखा शिवोद्भवः ।
न शक्यो विस्तराद्वक्तुमुपशाखा प्रभेदतः ॥ ११-११८ ॥

प्। १४०(१६६)

ये पठन्ति शिवे भक्त्या स्वचार्यध्यानमुत्तमम् ।
त्रिसप्तकुलजैस्सार्धं शिवलोके महीयते ॥ ११-११९ ॥

इति शिवधर्मशास्त्रे नन्दिकेश्वरप्रोक्ते शिवाश्रमाचारलक्षणं
नाम एकादशोध्यायः ॥

प्। १४१(१६७)

श्रीः

अथ द्वादशोध्यायः

नन्दिकेश्वर उवाच

अथ सङ्क्षेपतो वक्ष्ये शिवभूतानुकम्पया ।
आद्यशाखोपशाखार्थं शिवभक्तिसमुद्भवम् ॥ १२-१ ॥

क्वचिद्गच्छन्यदा पश्यं च्छिवलिङ्गमपूजितम् ।
तदा तत्पूज्ययो गच्छेत् सरुद्रो नात्र संशयः ॥ १२-२ ॥

स्नाननैवेद्यवस्त्राद्यं नाददीत प्रियाणि च ।
त्यक्तन्तच्छिवमुद्दिश्य तदा दानेन निष्फलम् (तत्फलम्) ॥ १२-३ ॥

दृष्ट्वायतनमुत्क्रम्य नमस्कृत्य शिवं व्रजेत् ।
चतुष्पथं नदीं शैलं शिवयोगिनमेव च ॥ १२-४ ॥

अवतीर्य नमस्कृत्वा दृष्ट्वा लिङ्गं दृढव्रतः ।
हस्तियानासनाश्वेभ्यः शिवयोगितपस्विनम् ॥ १२-५ ॥

तत्रस्थोपि नमस्कृत्वा शिवलोके महीयते ।
मृगाश्वोष्ट्रवयोमांसं लशुनं ग्रञ्जनं तथा ॥ १२-६ ॥

कतकाद्यात्तवीर्यं च नित्यमेव विवर्जयेत् ।
सर्वदानोग्रतपसामश्वमेधशस्य च ॥ १२-७ ॥

फलं प्राप्नोत्ययत्नेन मद्यमांसविवर्जनात् ।
सर्वदोषाश्रयं मद्यम् अतिदूराद्विवर्जयेत् ॥ १२-८ ॥

प्। १४२(१६८)

क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्वशिवार्चनम् ।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ १२-९ ॥

तत्फलं लभते सर्वं यो मद्यं परिवर्जयेत् ।
गर्भादिसर्वसंस्कारे श्मशानान्तेन्नभोजने ॥ १२-१० ॥

रजस्वलादिसंस्पृष्टं शिवभक्तोविवर्जयेत् ।
न गो ब्राह्मणभस्माग्नि लिङ्गच्छायान्न लङ्घयेत् ॥ १२-११ ॥

न लङ्घयेत निर्माल्यम् अप्सुभूमौ निवेशयेत् ।
धारयेच्छिवनिर्माल्यं भक्त्यालोभान्नधारयेत् ॥ १२-१२ ॥

भक्षणान्नरकं गच्छेत् तद्विलङ्घी च मूढधीः ।
न तत्र स्नानपूजाद्यं प्रतिगृह्णाति शङ्करः ॥ १२-१३ ॥

भूप्रदेशं यथा कञ्चित् स्वदेहमलभूषितम् ॥ १२-१४ ॥

असंस्पृश्यो भवेत्सोपि यथास्वाङ्गमलस्पृशी ।
तस्मान्न संस्पृशेल्लिङ्गं नरो निर्माल्यदूषितः ॥ १२-१५ ॥

स्नानन्तु क्रियते भक्त्या न तद्गृह्णाति शङकरः ॥ १२-१६ ॥

मूर्तयोयाश्शिवस्याष्टौ तासु निन्दां विवर्जयेत् ।
गुरोश्च शिवभक्तानां नृपसाधुतपस्विनाम् ॥ १२-१७ ॥

अष्टम्यादिषु पञ्चम्यां पक्षयोरुभयोरपि ।
श्मश्रुकर्माञ्जनाभ्यङ्ग मैथुनादिविवर्जयेत् ॥ १२-१८ ॥

प्। १४३(१६९)

कुर्याद्विशेषतः पूजां नक्तं चात्र समाचरेत् ।
शौचञ्च मृज्जलैः कुर्याद्गन्धलेपापनोदकम् ॥ १२-१९ ॥

यो श्नीयादन्नमस्नातः पापमद्यात् सकेवलम् ।
तस्मात्स्नात्वा प्रभुञ्जीत भस्मना सलिलेन वा ॥ १२-२० ॥

प्रातः स्नात्वाम्भसा गच्छेत् भस्मस्नानाच्छिवं पदम् ।
पापकञ्चुकमुत्सृज्य तिलसप्तकमुद्धरेत् ॥ १२-२१ ॥

कुर्यात्प्रतिचतुर्मासं महापूजाप्रवर्तनम् ।
भोजनं च प्रदातव्यं शक्त्यादानं च कल्पयेत् ॥ १२-२२ ॥

त्रिसप्तकुलसंयुक्तः समस्तैः परिवारितः ।
वसेच्छिवपुरे नित्यं चातुर्मास्य प्रवर्तनात् ॥ १२-२३ ॥

एवं सर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च ।
शिवं सम्पूज्य नैवेद्यैः भोजयेच्छिवयोगिनः ॥ १२-२४ ॥

पितरस्सर्वदेवाश्च शिवमाश्रित्य संस्थिताः ।
प्रीते शिवे तु ते सर्वे सुप्रीतास्युर्न संशयः ॥ १२-२५ ॥

ज्ञानवैराग्यसम्पन्नं भस्मनिष्ठं जितेन्द्रियम् ।
भोजयेच्छान्तमनसं श्राद्धेषु शिवयोगिनम् ॥ १२-२६ ॥

यदीश्वरादितत्वानां परिज्ञानविवेकतः ।
भवेत्साधर्म्यवैधर्म्यम् एतज्ज्ञानस्य लक्षणम् ॥ १२-२७ ॥

नानिष्ठं चेष्टसम्प्राप्तिः नचेष्टञ्चाभि नन्दति ।
प्रतितापविषादेन वैराग्यमतिवर्तते ॥ १२-२८ ॥

प्। १४४(१७०)

भस्मनिष्ठाप्रतिष्ठस्य दिवसेनापि यत्फलम् ।
न तच्छक्यं ग्रहस्थेन प्राप्तुं क्रतुशतैरपि ॥ १२-२९ ॥

वश्येन्द्रियः प्रसन्नात्मा न च द्वष्टि न काङ्क्षति ।
शब्दादिविषयान् भोगान् सविज्ञेयो जितेन्द्रियः ॥ १२-३० ॥

ज्ञानवैराग्यसम्पन्नः शिवं शान्तेन चेतसा ।
युक्तष्षडङ्गयोगेन शिवयोगी प्रकीर्तितः ॥ १२-३१ ॥

शिवधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसम्भवः ।
ज्ञनवैराग्ययुक्तस्य शिवयोगः प्रवर्तते ॥ १२-३२ ॥

शिवयोगाच्च सर्वज्ञः परिपूर्णस्तु नित्यशः ।
स्वात्मन्यवस्थितश्शुद्धः शिववत्सर्वगो भवेत् ॥३३ ॥

सर्वेषामेव भूतानामुत्तमः पुरुषस्स्मृतः ।
पुरुषेभ्यो द्विजः श्रेष्ठो द्विजेभ्यो गन्धपारगः ॥ १२-३४ ॥

गन्धज्ञाद्वेदविद्वासः तेभ्यस्तत्वार्थचिन्तकः ।
नानातत्वपदार्थज्ञात् प्रतिबोद्धाविशिश्यते ॥ १२-३५ ॥

नानातत्वज्ञयोगिभ्यः विशिष्टायोगिनस्स्मृतः ।
योगिभ्यः शतकोटिभ्यः परमश्शिवयो * * ॥ १२-३६ ॥

योगज्ञा योगसिद्धाश्च पितरो योगसम्भवाः ।
भुक्तैः प्रीणन्ति ते तस्मात् विशेषाच्छिवयोगिनः ॥ १२-३७ ॥

सर्वयज्ञतपोदानैः कृतैः पुण्यैस्तु यत्फलम् ।
तत्फलं लभते सर्वं सम्पूज्य शिवयोगिनम् ॥ १२-३८ ॥

प्। १४५(१७१)

पश्वग्निरुद्रः कालात्मा दक्षिणाहवनिस्तथा ।
ऋग्यजुस्सामसंयोगैः वेदयज्ञः प्रकीर्तितः ॥ १२-३९ ॥

ब्रह्मचर्यं जपो मौनं क्षान्तिराहारलाघवम् ।
इत्येवं तपसो रूपं सङ्घोरं पञ्चलक्षणम् ॥ १२-४० ॥

यदिष्टञ्च विशिष्टञ्च न्यायप्राप्तं तु यद्भवेत् ।
तत्तद्गुणवते दानमित्येतद्दानलक्षणम् ॥ १२-४१ ॥

निवर्तनसहस्राढ्यां सर्वसस्य प्ररोहिणीम् ।
दद्याद्भूमिं जलोपेतां भूमिदानन्तदुच्यते ॥ १२-४२ ॥

एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् ।
सम्पूर्णां यो नृपः कश्चित् महीदानन्तदुच्यते ॥ १२-४३ ॥

कन्यामलङ्कृतान्दद्याद्यज्वने गुणसंयुताम् ।
द्विजाय वेदयुक्ताय कन्यादानन्तदुच्यते ॥ १२-४४ ॥

शिवभक्ताय विप्राय दत्वा कन्यां स्वलङ्कृताम् ।
सर्वदोषविनिर्मुक्तां तरुणीं सुपयस्विनीम् ॥ १२-४५ ॥

यो गामलङ्कृतां दद्यात् तद्गोदानमुदाहृतम् ।
मध्यमोत्तमवस्त्राणि यो दद्यात्तु नवानि च ॥ १२-४६ ॥

एतत्समासतो ज्ञेयं वस्त्रदानस्य लक्षणम् ।
ब्रह्मचारी समाधिस्थः क्षान्तश्शीलपरायणः ॥ १२-४७ ॥

अहोरात्रं न भुञ्जीत उपवासस्य लक्षणम् ।
चत्वारिंशत्समायुक्तं पिण्डानां हि शतद्वयम् ॥ १२-४८ ॥

प्। १४६(१७२)

नियम्य यद्यथाकाममिति चान्द्रायणं स्मृतम् ।
ऋषिभिस्सर्वशास्त्रज्ञैः तपोनिष्ठैर्जितेन्द्रियैः ॥ १२-४९ ॥

दैवैश्च सेवितन्तीर्थं क्षितौ तीर्थं तदुच्यते ।
रुद्रावतारस्थानानि पुण्यक्षेत्राणि निर्दिशेत् ॥ १२-५० ॥

मृतानान्तेषु रुद्रत्वं शिवक्षेत्रेषु देहिनाम् ।
आरामावसथं कूपमुद्यानन्देवतर्पणम् ॥ १२-५१ ॥

तीर्थेष्वेतानि यः कुर्यात् सोक्षयं लभते फलम् ।
क्षमास्पृहादया सत्यं दानं शीलन्तथाश्रुतम् ॥ १२-५२ ॥

एतदष्टाङ्गमुद्दिष्टं परमं पात्रलक्षणम् ।
यज्ञोपवासदानानि तपस्तीर्थफलानि च ॥ १२-५३ ॥

सम्पूज्य विभवैर्भक्त्या लभते शिवयोगिनम् ।
शिवभक्तः क्षमा सत्यम् अशेषेन्द्रियसंयमः ॥ १२-५४ ॥

सर्वभूतेषु मैत्री च शिवधर्मस्य लक्षणम् ।
शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः ॥ १२-५५ ॥

इत्येतत्रिविधं ज्ञेयं शिवपात्रस्य लक्षणम् ।
शिवमुद्दिश्य यद्दत्तम् अनवेक्ष्य गुणाश्रयम् ॥ १२-५६ ॥

वित्तमीश्वरभक्तेभ्यः शिवदानस्य लक्षणम् ।
शिवभक्तद्विजश्रेष्ठं यः श्राद्धादिषु भोजयेत् ॥ १२-५७ ॥

कुलसप्तकमुद्धृत्य शिवलोके महीयते ।
बहुनात्रकिमुक्तेन शिवभक्तन्तु भोजयेत् ॥ १२-५८ ॥

प्। १४७(१७३)

शिवभक्तो यदा भुङ्क्ते साक्षाद्भुङ्क्ते सदाशिवः ।
द्विजानां वेदविदुषां कोटिं सम्पूज्य यत्फलम् ॥ १२-५९ ॥

मुनये वीतरागाय भिक्षादानेन तत्फलम् ।
तस्माच्छ्राद्धे विशेषेण पुण्येषु दिवसेषु च ॥ १२-६० ॥

शिवमुद्दिश्य विप्रेन्द्रं शिवभक्तन्तु भोजयेत् ।
असंयतस्संयतो वा सर्वावस्थां गतोपि वा ॥ १२-६१ ॥

यो वा को वा शिवे भक्तः शिववत्पात्रमुत्तमम् ।
सम्पर्कादर्थलोभाद् वा योपि रुद्रं प्रपूजयेत् ॥ १२-६२ ॥

सोपि यां गतिमाप्नोति न तद्यज्ञशतैरपि ।
तस्मान्मान्यश्च पूज्यश्च रक्षणीयश्च सर्वदा ॥ १२-६३ ॥

नाममात्र्प्रपन्नस्तु क्षणार्धमपि यश्शिवे ।
समुनिस्समहासाधुः स योगी शिवतां व्रजेत् ॥ १२-६४ ॥

ग्रहे श्राद्धस्य यत्पुण्यम् अरण्ये तच्छताधिकम् ।
तन्नदीष्वयुतं ज्ञेयमनन्तं स्याच्छिवालये ॥ १२-६५ ॥

शिवाश्रमेषु यत्पुण्यं तत्पुण्यमयुताधिकम् ।
निवेदयीत ये भक्त्या त्वासनं मृदुवेत्रजम् ॥ १२-६६ ॥

नागदन्तमयं वापि सिह्मासनपतिर्भवेत् ।
कौपीनाच्छादनं वासो निवेद्य शिवयोगिने ॥ १२-६७ ॥

युगकोटिसहस्राणि शिवलोके महीयते ।
और्णं प्रावरणं दत्वा विस्तीर्णं शिवयोगिने ॥ १२-६८ ॥

प्। १४८(१७४)

रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ।
मृगद्वीप्यादिकं चर्म तिलपिष्टेन मर्दितम् ॥ १२-६९ ॥

मृदुरक्तकषायेण निवेद्य शिवयोगिने ।
यावत्तद्रोमसङ्ख्यानं मृगद्वीप्यादिचर्मणाम् ॥ १२-७० ॥

तावत्कोट्यब्दलक्षाणि रुद्रलोके महीयते ।
जलस्थलपवित्राणि यः कुर्याच्छिवयोगिने ॥ १२-७१ ॥

त्राणाच्च सर्वजन्तूनामब्दलक्षं वसेद्दिवि ।
त्रिविष्कम्भसमायुक्तं यः प्रदद्यात्कमण्डलुम् ॥ १२-७२ ॥

महत्सरांसि यद्दत्वा पुण्यन्तत्सकलं लभेत् ।
मृत्तिकामतिसुश्लक्ष्णां प्राणिदोषविवर्जिताम् ॥ १२-७३ ॥

निवेद्यशिवयोगिभ्यः क्षितिदानफलं लभेत् ।
मृद्भस्माधारपात्राणि वंशालाबुकृतानि च ॥ १२-७४ ॥

निवेद्य शिवयोगिभ्यः सर्वतीर्थफलं लभेत् ।
दन्तधावनमुष्टिञ्च निवेद्य शिवयोगिने ॥ १२-७५ ॥

दिव्यस्त्रीभोगसंयुक्तं दिव्यं रम्यं पुरं लभेत् ।
योगपट्टपवित्राणि निवेद्य शिवयोगिने ॥ १२-७६ ॥

वस्त्रयुग्मसहस्रस्य दत्तस्य फलमाप्नुयात् ।
मृण्मयालानु पात्राद्यं सवृन्तं भैक्षभाजनम् ॥ १२-७७ ॥

निवेद्य शिवयोगिभ्यः सदा सत्रफलं लभेत् ।
शिवभक्ताय यो दद्यात् उपानत्काष्ठपादुके ॥ १२-७८ ॥

प्। १४९(१७५)

सवराश्वसहस्रस्य दत्तस्य फलमाप्नुयात् ।
कल्माषदण्डं यो दद्यात् अन्यं वा शिवयोगिने ॥ १२-७९ ॥

बलावष्टम्भयुक्तात्मा सस्याद्दण्डाग्रनायकः ।
तालवृन्तातपत्रं वा यो दद्याच्छिवयोगिने ॥ १२-८० ॥

एकच्छत्रां स भुञ्जीत पृथिवीं च नराधिपः ।
पात्रान्तरेषु शेषेषु विशेषाच्छिवयोगिनाम् ॥ १२-८१ ॥

भवेत्क्षितिपतिः श्रीमान् कुलाधारः कुलान्वितः ।
शिवज्ञानाभियुक्ताय यो दद्यात्पुस्तकं महत् ॥ १२-८२ ॥

युगकोटिशतन्दिव्यं शिवलोके महीयते ।
भवेदिहागतः श्रीमानाढ्यो वेदस्य पारगः ॥ १२-८३ ॥

सर्वज्ञानार्थवक्ता च बृहस्पतिसमो धिया ।
शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः ॥ १२-८४ ॥

शिवं सम्पूज्यतुल्यात्मा सर्वतुल्यगुणः स्मृतः ।
यः कुर्यात्कारयेद्वापि भवनं शिवयोगिने ॥ १२-८५ ॥

वर्षलक्षम्महाभोगैः शिवलोके महीयते ।
रुद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् ॥ १२-८६ ॥

तन्मालया सदा हस्ते रुद्रस्सङ्क्रम्यते क्षितौ ।
रुद्राक्षाणि स्वयं रुद्राः ये च रुद्राक्षधारकाः ॥ १२-८७ ॥

रुद्राक्षन्धारयेत्तस्मादिहरुद्रः परस्य च ।
रुद्राक्षमालां यो धत्ते कण्ठे करतले सदा ॥ १२-८८ ॥

प्। १५०(१७६)

शतार्धार्धप्रमाणेन सरुद्रो नात्र संशयः ।
पशवोपि हि रुद्राक्षैः सम्पृक्ता यान्ति रुद्रताम् ॥ १२-८९ ॥

किं पुनश्चालयन्तीह नरो रुद्राक्षमालिकाम् ।
य एवं चालयन्मालां यज्जप्यं स्यान्नसंशयः ॥ १२-९० ॥

जपश्च रुद्रमन्त्राणां कोटिकोटिगुणोत्तरम् ।
मूर्ध्नि हस्तोपवीते वा कृत्वा रुद्राक्षमालिकाम् ॥ १२-९१ ॥

यश्च भुञ्जीत भस्माङ्गी रुद्रैर्भुक्तन्न संशयः ।
रुद्राक्षधारणन्तस्मान्नित्यमेव प्रशस्यते ॥ १२-९२ ॥

परार्थानुग्रहार्थं हि ब्राह्मणस्य विशेषतः ।
यावन्मात्रोपकरणन्दत्वाल्पमपि शक्तितः ॥ १२-९३ ॥

वर्षलक्षम्महाभोगैः शिवलोके महीयते ।
कुर्यादावसथं योन्यं सुगुप्तं शिवयोगिनाम् ॥ १२-९४ ॥

शिवालये कृते यावत् तावत्पुण्यफलं लभेत् ।
यथा शिवस्तथा योगी यथायोगी तथाशिवः ॥ १२-९५ ॥

तेन योगीन्द्रपादेषु दानमल्पं च लक्षदम् ।
यद्यदस्योपयुज्येत तद्देयन्तस्य यत्नतः ॥ १२-९६ ॥

उपयोगप्रदानाभ्यां श्रेयस्तेनो भयोरपि ।
व्याख्याने शिवधर्मस्य कृत्वा मण्टपमुत्तमम् ॥ १२-९७ ॥

शोभितं वस्त्रपुष्पाद्यैः न्यसेत्तत्रासनं गुरोः ।
शोभितं वस्त्रपुष्पाद्यैः शिवधर्मासनं शुभम् ॥ १२-९८ ॥

प्। १५१(१७७)

पुरस्तस्य गुरोस्थाप्य पूजयेदुभयन्ततः ।
शिवधर्मप्रवक्तारमाचार्यं वाचकन्तथा ॥ १२-९९ ॥

पूजयेच्छिवधर्मं च तुल्यमेतत् त्रयं यतः ।
य एव न्यायतो वक्ति शिवधर्मं शिवेति च ॥ १२-१०० ॥

आयौर्विद्यायशस्सौख्यं स लब्ध्वान्ते शिवं व्रजेत् ।
इत्येष वस्समाख्यातः शिवधर्मस्सनातनः ॥ १२-१०१ ॥

सर्वेषां शिवभक्तानाम् अयं वाच्यो विजानता ।
शिवाश्रमेषु यो भक्तः शिवधर्मं प्रकीर्तयेत् ॥ १२-१०२ ॥

शृणुयाद्वा भवेत्ताभ्यामत्रोक्तमखिलं फलम् ।
श्रुत्वैवमखिलन्धर्ममाख्यातं ब्रह्मसूनुना ॥ १२-१०३ ॥

चन्द्रात्रेय सगोत्राय शिवभक्ताय साखत् * ।
उक्तं च द्वादशाध्यायं धर्मशास्त्रं शिवात्मकम् ॥ १२-१०४ ॥

यावदस्योपदेशेन शिवधर्मं समाचरेत् ।
तावत्तस्यापि तत्पुण्यम् उपदेशान्न संशयः ॥ १२-१०५ ॥

उपदेशं विना यस्मात् धर्मो ज्ञातुन्न शक्यते ।
न च कर्तुमविज्ञाय तस्मात्तुल्यं फलं तयोः ॥ १२-१०६ ॥

उपदेष्टानुमन्ता च कर्ता कारयिता च यः ।
कृतानुपालकश्चैव पञ्चतुल्यफलाः स्मृताः ॥ १२-१०७ ॥

कर्तुरप्यधिकं पुण्यं तत्कृतं योनुपालयेत् ।
यस्मादायतनं क्षिप्रं नाशं गच्छत्यपालनात् ॥ १२-१०८ ॥

प्। १५२(१७८)

भूमिरत्नाश्वनागानां गोहिरण्यादिवाससाम् ।
भवेत्पूर्वोपदिष्टानां दानाच्छ्रेयोनुपालनम् ॥ १२-१०९ ॥

दातुरप्यधिकं पुण्यं दत्तं यश्चानुपालयेत् ।
अपालितन्तु तद्यस्मात् शीघ्रमेव प्रणश्यति ॥ १२-११० ॥

तस्मादुपदिशेद्धर्मं स्वयं चापि समाचरेत् ।
कारयेदनुमन्येत कृतमन्यैश्च पालयेत् ॥ १२-१११ ॥

इति पञ्चप्रकारोयं शिवधर्मः प्रकीर्तितः ।
रुद्रपादं रुद्रकोटिमविमुक्तं महालयम् ॥ १२-११२ ॥

गोकर्णं भद्रकर्णं च सुवर्णाक्षोथदीप्तिमान् ।
स्थाण्वीश्वरञ्च विख्यातं त्रिषुलोकेषु विश्रुतम् ॥ १२-११३ ॥

स्थानाष्टकमिदं ज्ञेयं रुद्रक्षेत्रं महोदयम् ।
वस्त्रापदादि स्थाण्वन्तं रुद्रसायुज्यकारणम् ॥ १२-११४ ॥

जलगण्डोपिरण्डश्च माकोटो मण्डलेश्वरः ।
कालञ्जरः शङ्कुकर्णं स्थलं स्थूलेश्वरं परम् ॥ १२-११५ ॥

पवित्राष्टकमित्येतं महापुण्यविवर्धनम् ।
मृताः प्रयान्ति तत्रैव शिवस्य परमं पदम् ॥ १२-११६ ॥

गया चैव कुरुक्षेत्रं नखलं कनकन्तथा ।
विमलेश्वराट्टहासं महेन्द्रं भीममष्टकम् ॥ १२-११७ ॥

एतद्गुह्याष्टकं नाम सर्वपापविशोधनम् ।
मृतस्तु पुरुषः श्रीमान् प्राप्नोति शिवमन्दिरम् ॥ १२-११८ ॥

प्। १५३(१७९)

श्रीपर्वतं हरिश्चन्द्रं जल्पमाभ्रादिकेश्वरम् ।
मध्यमञ्च महाकालं केदारं भैरवन्तथा ॥ १२-११९ ॥

एतद्गुह्यातिगुह्यं च अष्टाकं परिकीर्तितम् ।
ते सन्तुष्टान् पितॄन् सर्वान् शिवं यान्ति परं पदम् ॥ १२-१२० ॥

अमरेशं प्रभासं च नैमिशं पुष्करं तथा ।
आषाढडिण्डिमुण्डञ्च भारभूमिं भवान्तिकम् ॥ १२-१२१ ॥

लगुलीशञ्च विख्यातं तथा प्रत्यात्मको महान् ।
प्रत्यष्टकमिदं क्षेत्रं रुद्रस्यापि च कामदम् ॥ १२-१२२ ॥

तत्र यान्ति मृतास्सर्वे रुद्रस्य परमं पदम् ।
पुण्याष्टकमिदं ज्ञेयं शिवसायुज्यकारणम् ॥ १२-१२३ ॥

तीर्थेष्वेतेषु यः कुर्यात् श्राद्धं यज्ञं तपो जपम् ।
स्नानं दानं व्रतं कर्म सोक्षयं फलमाप्नुयात् ॥ १२-१२४ ॥

क्षमास्पृहा दया सत्यं दानं शीलं तपः श्रुतम् ।
एतदष्टाङ्गमुद्दिष्टं परं पात्रस्य लक्षणम् ॥ १२-१२५ ॥

धर्मार्थकाममोक्षार्थं सर्वभूतानुकम्पया ।
कर्ता कारयितामन्ता प्रेरकश्चानुमोदकः ॥ १२-१२६ ॥

इति पञ्चप्रकारोयं शिवधर्मस्य कीर्तितः ।
कपालमालिन्देवेश महाकाल नमोस्तु ते ॥ १२-१२७ ॥

चन्द्रार्धमूर्ध्नन् गौरीश चर्मपाशासि पाणिक ।
गजचर्मधरस्वामिन् चण्डनाथ नमोस्तु ते ॥ १२-१२८ ॥

प्। १५४(१८०)

त्रिशूलपाणे देवेश त्रिणेत्र त्रिदशेश्वर ।
त्रिमूर्ते च महादेव त्रिपुरान्त नमोस्तु ते ॥ १२-१२९ ॥

सर्वेश्वरस्सर्वगतस्सर्ववित्सर्वतो मुख ।
सर्वत्रावस्थितोवत्वं सर्वं व्यापिन्नमोस्तु ते ॥ १२-१३० ॥

स्थूलसूक्ष्मविभागेन व्याप्तं येन चराचरम् ।
अनन्तानादिसुव्यक्तव्यक्ताव्यक्त नमोस्तु ते ॥ १२-१३१ ॥

अनन्तं शाश्वतं विश्वं शिवं नित्यमुमापते ।
श्रीकण्ठं सर्पकण्ठञ्च नीलकण्ठं नमाम्यहम् ॥ १२-१३२ ॥

विप्रामयवपुर्यस्य विद्यातीतञ्च तत्स्थितम् ।
सकलन्निष्कलञ्चैव कालहीनन्नमाम्यहम् ॥ १२-१३३ ॥

योगाधिपो योगमयो योगात्मायोगसम्भवः ।
महायोगपरोसित्वं योगेश्वर नमो नमः ॥ १२-१३४ ॥

सर्वतेजोमयं तेजः तेजसामपि देशिकः ।
तेजोभूतश्च तेजस्विन् तेजोतीत नमोस्तु ते ॥ १२-१३५ ॥

ओमित्येकाक्षरेणासि व्याख्यातो भुवनत्रये ।
तस्याप्यर्थपरो नित्यं सदाशिव नमोस्तु ते ॥ १२-१३६ ॥

अर्धमात्रं परार्धन्तु तस्याप्यर्धं परात्परम् ।
परं परपरश्शान्तश्शान्तातीत नमोस्तु ते ॥ १२-१३७ ॥

अकारोकारयोरूर्ध्वं मकारो बिन्दुरेव यः ।
निर्वाण परमातीत तत्वातीत नमोस्तु ते ॥ १२-१३८ ॥

प्। १५५(१८१)

बलार्कशतभा यस्य शतधा कल्मितस्य च ।
अनौपम्यविमानश्च शिव शान्त नमोस्तु ते ॥ १२-१३९ ॥

अनन्तानादिमव्यक्तं देहस्थं देहवर्जितम् ।
हृदिस्थं सर्वभूतानां व्योमव्यापिन्नमाम्यहम् ॥ १२-१४० ॥

अग्राह्यमिन्द्रियैर्वापि सर्ववस्तुविवर्जितम् ।
स्वतेजोगूढमात्मानं महामायापरं परम् ॥ १२-१४१ ॥

महाज्ञानपरातीतं ज्ञानगम्यन्नमाम्यहम् ।
एकाक्षरं चतुर्भेदं चतुर्मात्रैरलङ्कृतम् ॥ १२-१४२ ॥

चतुष्कलं कलातीतं बीजातीतन्नमाम्यहम् ।
ईशानम् इश्वरो ब्रह्मन् सदाशिव नमोस्तु ते ॥ १२-१४३ ॥

धर्मार्थकाममोक्षार्थं सर्वभूतानुकम्पया ।
नन्दिनासनकादिभ्यः शिवधर्मस्समीरितः ॥ १२-१४४ ॥

वक्ता श्रोतानुमन्तास्य शिवलोके महीयते ।
सर्वे च सुखीनस्सन्तु सर्वेसन्तुनिरामयाः ॥ १२-१४५ ॥

सर्वे भद्राणि पश्यन्तु द्ःखान्यतितरन्तु च ।
मुक्तिं भजन्तु देहान्ते सर्वे यान्तु शिवं जनाः ॥ १२-१४६ ॥

इति शैवशास्त्रे शिवधर्मोत्तरे नन्दिकेश्वरप्रोक्ते द्वादशोध्यायः ॥

शुभमस्तु । ॐ ॥ शिवधर्मोत्तरस्समाप्तः । दक्षिणामूर्तये नमः ॥
ॐ ॥