२
प्। १
श्रीः
शिवोगुरुश्शिवो देवः शिवोव * * * * णाम् ।
शिव आत्मा शि * * * * * * * * * * * ॥ १-१ ॥
विचित्रं विश्वनिर्माणम् विचित्रं शिवचेष्टितम् ॥ १-२ ॥
विचित्रं शिवमाहात्म्यम् विचित्र * * * * * ।
स्वर्गापवर्गयोस्सद्यः साधनन्तद्ब्रवीम्यहम् ।
मेरुपृष्ठेसमा * * * * * * * * * * ॥ १-४ ॥
सनत्कुमारः पप्रच्छ शिवधर्मान्यथाक्रमम् ॥ १-५ ॥
श्रीनन्दिकेश्वरः * * * * * * * * * * ।
परमं सर्वधर्माणां शिवधर्मं शिवात्मकम् ।
शिवेन कथितं पूर्वं पार्वत्याष्षण्मुखस्य च ॥ १-७ ॥
गणानान्देवमुख्यानामस्माकञ्च विशेषतः ।
संसारार्णवमग्नानां सर्वेषां प्राणिनामयम् ॥ १-८ ॥
शिवधर्मोडुपः श्रीमानुत्तारार्थमुदाहृतः ।
प्। २)
यैरयं शान्त चेतस्कैः शिवभक्तैश्शिवार्थिभिः ॥ १-९ ॥
संसेव्यते परो धर्मस्ते रुद्रा नात्र संशयः ।
ग्रामे वा यदि वारण्ये जले वापि स्थलेऽपि वा ॥ १-१० ॥
यत्रैव विद्यते लिङ्गं सर्वतीर्थानि तत्र वै ।
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ १-११ ॥
ये स्मरन्ति विरूपाक्षं विज्ञेयास्ते गणेश्वराः ।
कीर्तयिष्यन्ति ये रुद्रं सकृदप्याशु ते नराः ॥ १-१२ ॥
सर्वपापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ।
जातेनात्मद्रुहा येन नार्चितो भगवान् शिवः ॥ १-१३ ॥
सुचिरं सञ्चरत्यस्मिन् संसारे दुःखसागरे ।
सा * * * * * * * * * * स्साम्यमूकता ॥ १-१४ ॥
यत्क्षणं वा मुहूर्तं वा शिवमेकन्न चिन्तयेत् ।
दुर्लभं प्राप्य मानुष्य * * * * * * * * ॥ १-१५ ॥
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ।
भवभक्तिपरा ये तु भवप्रणतचेतसः ॥ १-१६ ॥
भवना * * * * * * * * * * * * ॥ १-१७ ॥
तेर्चयन्ति सदाकालं हरस्य चरणाम्बुजम् ।
प्। ३)
सौभाग्यं कान्ति * * * * * * * * * * * ॥ १-१९ ॥
शौर्यञ्च जगतिख्यातिः शिवमर्चयतो भवेत् ।
नारुद्रस्संस्मरेद्रुद्रन्नारुद्रो रुद्रमर्चयेत् ॥ १-२० ॥
नारु * * * * * * * * * * * माप्नुयात् ।
सम्पर्कात्कौतुकाल्लोभात् भयाद्वापि च संस्मरेत् ॥ १-२१ ॥
कीर्तयेदर्चयेद्वापि सोप्यप * * * * * ।
शिवधर्मस्य सारोयं शिवे भक्तिस्सुनिश्चला ॥ १-२२ ॥
सा चाष्टाङ्गी शिवेनोक्ता कार्या नित्यं प्रयत्नतः ।
मद्भक्तजनवात्सल्य * पूज * * ञ्चानुमोदनम् ॥ १-२३ ॥
स्वयमभ्यर्चनं भक्त्या ममार्थे चाङ्गचेष्टनम् ।
मत्कथा श्रवणे भक्तिस्वरनेत्राङ्गविक्रिया ॥ १-२४ ॥
ममानुस्मरणन्नित्यं यश्चमाञ्चोपजीवति ।
भक्तिरष्टविधाह्येषा यस्मिन् म्लेच्छेपि वर्तते ॥ १-२५ ॥
स विप्रेन्द्रो ज्वलः श्रीमान् सयतिस्सच पण्डितः ।
न मे प्रियश्चतुर्वेदी मद्भक्तश्वपचोऽपि च ॥ १-२६ ॥
तस्मै देयन्ततो ग्राह्यं स च पूज्यो यथाह्यहम् ।
पत्रं पुष्पं फलन्तोयं यो मे भक्त्या प्रयच्छति ॥ १-२७ ॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।
यो मान्न सर्वगं पश्येत् सर्वन्नमयि संस्थितम् ॥ १-२८ ॥
प्। ४)
समां पर्वतदुर्गेषु मार्गमाणो न पश्यति ।
यो मां सर्वगतं पश्येत् सर्वञ्च मयि संस्थितम् ॥ १-२९ ॥
तस्याहन्नित्यमात्मस्थः स च नित्यम्मयिस्थितः ।
इति ॥
दुर्लभा च शिवे भक्तिः दुर्लभञ्च शिवार्चनम् ॥ १-३० ॥
सुदुर्लभं शिवे दानं शिवहोमञ्च दुर्लभम् ।
सुदुर्लभं शिवज्ञानं तदभ्यासोऽपि दुर्लभः ॥ १-३१ ॥
सुदुर्लभतरं ज्ञेयं जपध्यानं शिवात्मकम् ।
सुदुर्लभमिदं ज्ञात्वा शिवेभक्तिं समाश्रयेत् ॥ १-३२ ॥
लाभस्तेषाम्मनुष्याणा * * * * * * * * ।
षान्दिवा च रात्रौ च नित्यं शिवगता स्मृतिः ॥ १-३३ ॥
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ।
जिह्वाग्रे * * * * * * * * * * * * ॥ १-१३४ ॥
प्रोक्तः प्राथमिकाध्याये शिवधर्मे य ईरितः ॥ १-३५ ॥
य इदं पठते नि * * * * * * * * * ।
धनमायुर्यशो विद्यां प्रभावमतुलं लभेत् ।
कैलासे शिवसान्निध्ये * * * * * * * * ॥ १-३७ ॥
प्। ५)
त्वमतीवशिवे भक्तः पद्मयोनिसुतोत्तम ॥ १-३८ ॥
तेन ते निखिलं वक्ष्ये शृणुष्वैकाग्रमानसः ।
पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ १-३९ ॥
विवादस्सुमहानासीत् ब्रह्मविष्ण्वोः परस्परम् ।
अहं कर्ता त्वहं कर्ता नमत्तोन्यो जगत्पतिः ॥ १-४० ॥
एवमाह हरिं ब्रह्मा ब्रह्माणञ्च हरिस्तथा ।
तयोर्दर्पापहाराय प्रबोधार्थञ्च देवयोः ॥ १-४१ ॥
मध्ये समुद्गतं लिङ्गमैश्वरन्तेजसः परम् ।
ज्वालामालामयन्दिव्यमप्रमेयमनूपमम् ॥ १-४२ ॥
योजनायुतविस्तीर्णं स्थितं तद्विमलेम्भसि ।
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ १-४३ ॥
ज्वालाभिर्मोहितौ तस्य लिङ्गस्य सुरसत्तमौ ।
तदा विस्मयमापन्नौ पश्यन्तावमराधिपौ ॥ १-४४ ॥
गतावूर्ध्वमधस्तस्य सम्प्रधार्य परस्परम् ।
अधो द्रष्टुं गतो विष्णुः ऊर्ध्वञ्चैव पितामहः ॥ १-४५ ॥
अपश्यन्तावधश्चोर्ध्वन्तौ समेत्य परस्परम् ।
कृताञ्जलिपुटौ भूत्वा लिङ्गन्तुष्टुवतुस्तदा ॥ १-४६ ॥
नमस्ते ज्ञानलिङ्गाय शिवलिङ्गाय लिङ्गिने ।
नमस्ते गूढलिङ्गाय परलिङ्गाय भामिने ॥ १-४७ ॥
नमस्ते ज्योतिलिङ्गाय वेदलिङ्गाय वेधसे ।
प्। ६)
नमस्ते सूक्ष्मलिङ्गाय बुद्धिलिङ्गाय बुद्धये ॥ १-४८ ॥
नमः पर्वतलिङ्गाय भावलिङ्गाय ते नमः ।
जगत्कारणलिङ्गाय जगतां पतये नमः ॥ १-४९ ॥
आवयोः पतये चैव पतीनां पतये नमः ।
एवं स्तुत्वा महादेवं प्रणम्य शिरसा च तौ ॥ १-५० ॥
ब्रह्मविष्णूसमापन्नौ भक्त्या परमया युतौ ।
लिङ्गमध्ये परम्मध्यं स्थितं प्रादेशसम्मितम् ॥ १-५१ ॥
समाधिस्तोत्रसम्पन्नौ दृष्टवन्तौ शिवात्मकम् ।
नैतच्च काञ्चनं रौप्यं ताम्रं स्फटिकमौक्तिकम् ॥ १-५२ ॥
लक्ष्यमात्रस्थितं शान्तं केवलन्तच्छिवात्मकम् ।
तयोस्तुष्टो महादेवः प्रदाय वरमुत्तमम् ॥ १-५३ ॥
कारणत्वमनुज्ञाय तत्रौवा * * * * * ।
तल्लिङ्गानुकृतिं लिङ्गमीडिरे मुनयस्तदा ।
परं गूढशरीरञ्च लिङ्गक्षेत्र * * * * ॥ १-५५ ॥
कल्पान्ते तस्य लिङ्गस्य लीयन्ते सर्वदेवताः ॥ १-५६ ॥
दक्षिणे लीयते ब्रह्मा वामतश्च * * * * ।
लीयते मूर्ध्नि वै वेदाः सषसङ्गपदक्रमाः ।
प्। ७)
जठरे लीयते सर्वं जगत् * * * * * * ॥ १-५८ ॥
स्थापितं तेन सर्वं स्यात् पूजितञ्च न संशयः ॥ १-५९ ॥
पूर्वं लिङ्गं सम * * * * * * * चक्र तुः ।
ब्रह्मा ब्रह्माक्षरैर्दिव्यैः लिङ्गं पूजयते सदा ॥ १-६० ॥
गन्धपुष्पादिभिर्नित्यं विष्णुः पूजय * * * ।
तस्य सम्पूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् ।
शक्रोपि देवराजेन्द्रो * * * * * * * * ॥ १-६२ ॥
लिङ्गं हैममयं कान्तं धनदोर्च्चयते सदा ॥ १-६३ ॥
तेनासौ धन * * * * * * * * * प्तवान् ।
विश्वेदेवा महात्मानो रौप्यं लिङ्गं मनोहरम् ॥ १-६४ ॥
यजन्ते विधिवद्भक्त्या तेन विश्वत्व * * * ।
वायुत्वन्तेन सम्प्राप्तम् अनौपम्यगुणावहम् ।
इन्द्रनीलमयं लिङ्गं विष्णुः पूजयते सदा ॥ १-६६ ॥
विष्णुत्वं प्राप्तवांस्तेन सोत्भुतैकं सनातनम् ।
प्। ८)
वसवः कांसिकं लिङ्गं पूजयन्ति विधानतः ॥ १-६७ ॥
प्राप्तास्तेन महात्मानो वसुत्वं च महोदयम् ।
अश्विनौ पार्थिवं लिङ्गं पूजयन्तौ विधानतः ॥ १-६८ ॥
तेन तावश्विनौ देवौ दिव्यं देहं गतावुभौ ।
स्फाटिकं निर्मलं लिङ्गं वरुणोर्चयते सदा ॥ १-६९ ॥
तेन तद्वरुणत्वं हि प्राप्तमृध्या समन्वितम् ।
लिङ्गमन्नमयं पुण्यम् अग्निरभ्यर्च्य भावितः ॥ १-७० ॥
मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा ।
तेन सोमोऽपि सम्प्राप्तः सोमत्वं सततोज्वलम् ॥ १-७१ ॥
प्रवालकमयं लिङ्गं यजन्ते पन्नगोत्तमाः ।
तेन नागेषु भोगाढ्याः प्राप्तास्ते परमं पदम् ॥ १-७२ ॥
कृष्णाय समयं लिङ्गं पूजयन्त्यसुरोत्तमाः ।
राक्षसाश्च महात्मानः तेन तेमित विक्रमाः ॥ १-७३ ॥
त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्ति ते ।
महर्धबलधामानः प्राप्नुवन्ति परं पदम् ॥ १-७४ ॥
(कृष्णायसमयं लिङ्गं)
त्रैलोहिकमयं लिङ्गं यजन्ते गृह्यकोत्तमाः ।
तेन योगबलोपेताः प्रयान्तीश्वरमन्दिरम् ॥ १-७५ ॥
(पदे पदान्तरं गत्वा हस्तौ चलनवर्जितौ ।
वाचास्तोत्रं मनोध्यानञ्चतुरङ्गं प्रदक्षिणम् ॥
प्। ९)
उरसा शिरसा भक्त्या मनसा च धिया दृशा ।
पद्भ्यां भुजाभ्यां वाचा च प्रणामोष्टाङ्गमुच्यते ॥)
बहुलोहमयं लिङ्गं यजन्ते मातरस्सदा ।
मातृत्वं प्राप्यतास्सर्वाः प्रयान्ति परमं पदम् ॥ १-७६ ॥
एवं देवास्सगन्धर्वाः स यक्षोरगराक्षसाः ।
पूजयन्ति सदाकालम् ईशानं सुरनायकम् ॥ १-७७ ॥
सर्वो लिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम् ।
तस्मात् सम्पूजयेल्लिङ्गं यदीच्छेत्सिद्धिमात्मनः ॥ १-७८ ॥
इति शिवधर्मे द्वितीयोध्यायः ॥
प्। १०)
३
श्रीः
अथ तृतीयोध्यायः
लिङ्गे देवो महादेवः साक्षादेव व्यवस्थितः ।
अनुग्रहाय लोकानां तस्माल्लिङ्गं समर्च्चयेत् ॥ २-१ ॥
यो न पूजयते मोहात् लिङ्गं त्रिभुवनेश्वरम् ।
न च स्वर्गस्य मोक्षस्य न च राज्यस्य भाजनम् ॥ २-२ ॥
यस्तु पूजयते नित्यं लिङ्गं त्रिभुवनेश्वरम् ।
स स्वर्गमोक्षराज्यानां क्षिप्रं भवति भाजनम् ॥ २-३ ॥
तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया ।
अर्चयेत महादेवमापन्नोऽपि सदा बुधः ॥ २-४ ॥
वरं प्राणपरित्यागः छेदनं शिरसोऽपि वा ।
नत्वनभ्यर्च्य भुञ्जीयात् भगवन्तन्त्रिलोचनम् ॥ २-५ ॥
एवन्निर्वहते यस्तु यावज्जीवं(यं) प्रतिज्ञया ।
मनुष्यचर्मणा बद्धः सरुद्रो नात्र संशयः ॥ २-६ ॥
नास्ति लिङ्गार्चनात्पुण्यम् अन्यदप्यधिकं क्वचित् ।
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ॥ २-७ ॥
मया लिङ्गं द्वेष्टिसम्मोहात् सर्वदेवनमस्कृतम् ।
नरो नरकगामी स्यात् तस्य सम्भाषणादपि ॥ २-८ ॥
प्। ११)
महेश्वरमयं सर्वं त्रैलोक्यं सचराचरम् ।
ते कृतघ्ना भवन्तीह येन भक्ता महेश्वरे ॥ २-९ ॥
सागराणां क्षयोप्यस्ति क्षीयते हिमवानपि ।
रुद्रलोके क्षयो नास्ति शङ्करे शरणं गते ॥ २-१० ॥
एष्टव्या बहवः पुत्राः शिवतन्त्रानुसारिणः ।
समुद्धरन्ति ते गोत्रं रज्जुः कूपात् घटं यथा ॥ २-११ ॥
लिङ्गद्वयं समाख्यातं चरञ्चाचरमेव च ।
चरं प्रतीति विख्यातम् अचरं पार्थिवात्मकम् ॥ २-१२ ॥
चरे सदा वसत्येव प्रातियुक्तो महेश्वरः ।
अचरे मन्त्रसंस्कारात् वसत्येव सदाशिवः ॥ २-१३ ॥
स्थावरं जङ्गमं चैव द्विविधं लिङ्गमुच्यते ।
जङ्गमस्यावमानेन स्थावरं निष्फलं भवेत् ॥ २-१४ ॥
लिङ्गमित्थं प्रतिष्ठाप्य तस्मिन् ध्यायेत् सदाशिवम् ।
ध्यानम्
तस्येदमैश्वरं रूपं खण्डचन्द्रावतंसकम् ॥ २-१५ ॥
तमालश्यामलगलं स्फुरत्फालविलोचनम् ।
लसद्वामाङ्ग नारीकं कृतशेषशुभाङ्गदम् ॥ २-१६ ॥
गङ्गातरङ्गसत्सङ्ग सदाधौतजटाधरम् ।
सुराङ्गजरजः पुञ्ज पूजितावयवोज्वलम् ॥ २-१७ ॥
विचित्रगात्रविधृतं महाव्यालविभूषणम् ।
प्। १२)
महोक्षस्यन्दनगतं विधृताजगवायुधम् ॥ २-१८ ॥
गजाजिनोत्तरासङ्गं दशार्धवदनं गुहम् ।
शरणार्थीकृतत्राणं नतनिर्वाणकारणम् ।
मनोरथपथाथीतं वरदानपरायणम् ॥ २-२० ॥
इति ध्यात्वा महादेवम् अन्तर्यागं समाचरेत् ।
तत्र द्रव्याणिमनसा कल्पयित्वा विशोध्य च ॥ २-२१ ॥
ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ।
दक्षिणे चोत्तरे चैव नन्दीशं सुयशान्तथा ॥ २-२२ ॥
आराध्य मनसा सम्यगासनं कल्पयेत्ततः ।
तस्योपरि शिवं ध्यायेत् साम्बं सर्वमनोहरम् ॥ २-२३ ॥
सर्वलक्षणसंयुक्तं सर्वावयवशोभिनम् ।
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ २-२४ ॥
रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम् ।
शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् ॥ २-२५ ॥
चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ।
वरदाभयहस्तं च मृगटङ्कधरं हरम् ॥ २-२६ ॥
सर्वकल्याणनिलयं चारुनीलगलान्तरम् ।
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ २-२७ ॥
ततस्सञ्चिन्तयेत्तस्य वामभागे महेश्वरीम् ।
प्। १३)
प्रफुल्लोत्फलपत्राभविस्तीर्णायतलोचनाम् ॥ २-२८ ॥
पूर्णचन्द्राभवदनां नीलकुन्तलमूर्धजाम् ।
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ २-२९ ॥
अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् ।
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मतराम्बराम् ॥ २-३० ॥
सर्वाभरणसम्पन्नां ललाटतिलकोज्वलाम् ।
विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् ॥ २-३१ ॥
सर्वतोनुगुणाकारां किञ्चिल्लज्जानताननाम् ।
हेमारविन्दं विकसत् दधानां दक्षिणे करे ॥ २-३२ ॥
दण्डवच्चापर(न्त्य)म् हस्तन्यस्यासीनां सहासने ।
एवं देवं च देवीं च ध्यायेत्सनवरे शुभे ॥ २-३३ ॥
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ।
ध्यात्वा वाह्यक्रमेणैव पूजान्निर्वर्तयेद्धिया ॥ २-३४ ॥
समिदाज्यादिभिः पश्चात् नाभौ होमं च भावयेत् ।
भ्रूमध्ये च शिवं ध्यायेत् शुद्धदीपशिखाकृतिम् ॥ २-३५ ॥
अथ चिन्तामयं सर्वं समाप्याराधनक्रमम् ।
लिङ्गे च पूजयेद्देवं सर्वदेवशिखामणिम् ॥ २-३६ ॥
केचिद्विश्वेश्वरं देवं केचिद्धालास्य सञ्ज्ञितम् ।
केचिच्छ्रीसोमनाथाख्यं केचित्केदारमद्भुतम् ॥ २-३७ ॥
केचिच्छ्रीपर्वतं मुख्यं केचिद्गोपर्वतन्नराः ।
केचिद्दक्षिणकैलासं केचिद्वृद्धा चलाभिधम् ॥ २-३८ ॥
प्। १४)
केचिद् रामेश्वरं पुण्यं वेदकान्तारमद्भुतम् ।
(प्राप्यपूर्वोक्तमार्गेण) प्राप्य पूर्वोक्तमार्गेण पूजयित्वा
द्विजोत्तमाः ॥ २-३९ ॥
अनायासेन संसारात् विमुक्ता भवबन्धनात् ।
किमत्र बहुनोक्तेन श्रूयतां मुनिपुङ्गवाः ॥ २-४० ॥
पूजयध्वं महादेवं भुक्तिमुक्तिफलप्रदम् ।
पूजिते देवदेवेशे पुराणे सर्व * * णे ॥ २-४१ ॥
पूजितास्सर्वदेवाश्च इति वेदान्तनिर्णयः ॥ २-४० ॥
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ।
त्रिलोचनारविन्दाढ्यं कृतबालेन्दुशेखरम् ॥ २-४१ ॥
दक्षिणन्नीलजीमूतसमानरुचिरप्रभम् ।
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ २-४२ ॥
दंष्ट्राकरालन्दुर्धर्षं स्फुरिताधरपल्लवम् ।
इन्दुरेखाकृतोत्तंसमूर्ध्वज्वलितमूर्धजम् ॥ २-४३ ॥
उत्तरं विक्रमप्रख्यं नीलालकविभूषितम् ।
सविलासं त्रिणयनञ्चान्द्राभरणभास्वरम् ॥ २-४४ ॥
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्वलम् ।
चन्द्ररेखाधरं सोम्यं मन्दस्मितमनोहरम् ॥ २-४५ ॥
पश्चिमं स्फाटिकप्रख्यम् इन्दुरेखासमुज्वलम् ।
अतीव सोम्यमुत्फुल्ललोचनत्रितयोज्वलम् ॥ २-४६ ॥
इति शिवधर्मे तृतीयोध्यायः ॥
४
प्। १५)
श्रीः
अथ चतुर्थोध्यायः
रुद्राक्षवृक्षास्तपनाक्षिजाताः
ते द्वादशास्याः कपिलाप्रभेदैः ।
चन्द्राक्षिजाः षोडशशुभ्रवर्णाः
कृष्ण * * दशस्युः ज्वलनाक्षिजाताः ॥ ३-१ ॥
ब्राह्मं सितं कापिलवर्णयुक्तं
क्षात्रं तु वैश्यं ह्युभयात्मकं तत् ।
कृष्णं तु शूद्रं कथयन्ति बीजं
रुद्राक्षबीजप्रभवन्तु जात्या ॥ ३-२ ॥
एकाननं शङ्कर एव साक्षात्
रुद्राक्षबीजं विनिहन्ति हत्याम् ।
द्विवक्त्रबीजं बहुगोवधघ्नं
देवेशदैवत्यमलभ्यमक्ष्णाम् ॥ ३-३ ॥
आग्नेयमुक्तं वदनत्रयन्तु
योषिद्वधघ्नं दधतां क्षणेन ।
चतुर्मुखं यच्चतुराननीयं
नरस्य हत्यां क्षणतो निहन्ति ॥ ३-४ ॥
प्। १६)
कालाग्नि * * ण तु पञ्चवक्त्रं
भक्ष्यदुस्सङ्गगपातकघ्नम् ।
स्कान्दं हि यत् षड्वदनं करेण
नरेण धार्य द्विजहन्तृ मध्ये ॥ ३-५ ॥
सप्ताननं भोगिपतिह्यनन्तत्
स्तेयाद्विशुद्धिं विदधाति सद्यः ।
वैनायकं ह्यष्टमुखं सुवर्णं
कूटं गुरुस्त्रीगमनाद्यघघ्नम् ॥ ३-६ ॥
तवाननं भैरव एव देवो
भुक्तिं च मुक्तिं शिवतुल्यकीर्तिम् ।
करोति वामेन करेण धार्यं
हत्यायुतानां विनिहन्तिकोटिम् ॥ ३-७ ॥
हरिस्स्वयं यद्दशवक्त्रबीजं
पिशाच भूतग्रहराक्षसाश्च ।
वेताल सर्पप्रतियोधिसिह्म
व्यादिकांस्तांश्च निहन्ति शीघ्रम् ॥ ३-८ ॥
एकादशास्यं दशचैकरौद्रं
धार्यं शिखायां विधिनानवद्ये ।
नराश्वमेधायुतवाजपेय-
सहस्रगोदानसहस्रतुल्यम् ॥ ३-९ ॥
प्। १७)
यद्वक्त्राणि दशद्वयेन कथितं तद्भास्करीयं स्मृतं कण्ठस्थं
रवितुष्टि कृद्धयमखैस्सम्यक्तपुण्यैस्समम् हस्त्यश्व श्व
सृगालमूषिकखगक्लीबान्धनारीमृगव्यालश्शुकभेकसर्पमहिष-
व्याधातदोषापहम् ॥ ३-१० ॥
यद्वक्त्राणि दशद्वयञ्च न लभेत् तत्कार्तिकेयं स्मृतं
सर्वं सिद्ध्यति भोगभोग्यमखिलं सिद्ध्येत् तत् पादुका ।
इष्टार्थाश्चरसारसाधनमथ भ्रूणार्यमाता
पितृभ्रातृस्त्री वसतो विशुद्ध्यति दधन्नास्मात् परं विद्यते ॥ ३-११ ॥
रुद्राक्षमेकं शिखयापि धार्यं
षट्त्रिंशमालाविदधीतमूर्ध्नि ।
द्वात्रिंशकैः कर्णयुगे च साध्या
शतार्धकॢप्ता हृदयेक्षमाला ॥ ३-१२ ॥
कण्ठे धृता येन सदाक्षमाला
जप्त्वाप्नुयाद्यज्ञसहस्रपुण्यम् ।
श्वेतं रक्तमथापि पीतमसितं विप्रादिकानां स्मृतं
रुद्राक्षन्नलभेद्यथा गतमिदन्धार्यं शिखायां करे ॥ ३-१३ ॥
कण्ठे कर्णयुगोपवीतहृदयेष्वाबध्यरौप्यादिभिः
पञ्चार्णप्रणवात्मकाख्यमनुभिः कोवानवद्ये भवेत् ।
स्नाने वा जपहोमयोर्व्रतविधौ देवार्चनादानयोः
दीक्षाश्राद्धकयोः कृतौभसभसितो रुद्राक्षमालाधरः ॥
कुर्यात्कर्म च वै कञ्च सकलं स्यादक्षयं यत्फलं
प्। १८)
नो चेद्व्यर्थमिदं भवत्ययमहो पापो नवद्ये ध्रुवम् ।
केचित् सूतकशाव * * * मलोत्सर्गे च सङ्गे स्त्रियः
शुद्धावक्षकमालिकान्न दधते त्यायुः क्षयस्यादिति ॥ ३-१५ ॥
अन्ये पापहरं सदा धृतमिति प्रोच्यं भुजे कर्णयोः
अक्षं मन्त्रपुरस्सरं तु महती माला न धार्या शुचौ ।
पापिष्ठोपि नरोक्षमेकमपि वा धत्ते स शुद्धो भवेत्
कुर्वन्वापि न लिप्यते ह्यनुचिते तत्तन्मुखाक्षोदितैः ॥ ३-१६ ॥
पुश्छं योज्य मुखं मुखेन सदृशं मुक्ताप्रवालान्तरैः
सौवर्णैर्मणिभिर्दधन्मखफलं मर्त्यो नवद्यो भवेत् ।
रुद्राक्षं वपुषा दधन्यदि मृतश्वानोऽपि मुक्तो भवेत् ।
खादन्नन्त्यमुहूर्तके शिवपुरं गच्छेत् स नो जायते ॥ ३-१७ ॥
किन्नूक्तैर्बहुभिस्समन्त्रकमिदं स्वाङ्गे सदाधारकः
संसारन्नपुनः प्रयाति मनुजो वक्ष्ये नवद्ये तव ।
बध्वास्वर्णेन रुद्राक्षं रजते नाथ वा मुने ।
शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥ ३-१८ ॥
यज्ञोपवीते हस्ते वा कण्ठदेशेथवा नरः ।
श्रीमत्पञ्चाक्षरेणैव प्रणवेनैव वाथवा ॥ ३-१९ ॥
आत्ममन्त्रेण मेधावी रुद्राक्षन्धारयेन्मुदा ।
रुद्राक्षधारणं साक्षात् शिवज्ञानस्य साधनम् ॥ ३-२० ॥
सर्वाश्रमाणां वर्णानां रुद्राक्षाणाञ्च धारणम् ।
प्। १९) कर्तव्यं मन्त्रतः प्रोक्तं द्विजानान्नान्यवर्णिनाम् ॥ ३-२१ ॥
रुद्राक्षधारणे लज्जा येषामस्ति महामुने ।
तेषान्नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ३-२२ ॥
रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः ।
उत्पत्तौ तस्य साङ्कर्यमस्त्येवेति विनिश्चयः ॥ ३-२३ ॥
अमन्त्रकं वा मन्त्रेण सहितं भाववर्जितम् ।
यो वा कोवा नरो नित्यं धारयेल्लज्जया विना ॥ ३-२४ ॥
सर्वपापविनिर्मुक्तः सम्यक् ज्ञानमवाप्नुयात् ।
अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते ॥ ३-२५ ॥
तस्मात्त्वं सर्वयत्नेन कुरु रुद्राक्षधारणम् ।
तस्मात्सर्वैस्सदा कार्यं रुद्राक्षाणाञ्च धारणम् ॥ ३-२६ ॥
भोगमोक्षप्रदं पुंसां मया चैतद्धृतं सदा ।
रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदिह विद्यते ॥ ३-२७ ॥
इति श्रीशिवधर्मे चतुर्थो ध्यायः ॥
५
प्। २०)
श्रीः
अथ पञ्चमोध्यायः
ईश्वरः । त्रिपुरहर शिवादिदेवशम्भो
त्रिणयन शङ्कर रुद्रशूलपाणे ।
भवशरणमितीरयन्ति येऽस्मिन्
भवजलधौ न पतन्ति ते मनुष्याः ॥ ४-१ ॥
शैवे । ॐ नमो नीलकण्ठाय इति पुण्याक्षराष्टकम्
मन्त्रमाहसकृद्वा यमपातकैस्तु प्रमुच्यते ॥ ४-२ ॥
नवाम्बुनिधिसन्त * * न पात्रन्दृदीकृतम् ।
स्वर्गारोहणनिश्रेणी महादेवेति कीर्तनम् ॥ ४-३ ॥
विमोचनं हि बन्धानामन्धानान्नधनौषधम् ।
दीनानामाश्रयस्थानं महादेवेति कीर्तनम् ॥ ४-४ ॥
महादेवेति वाग्वल्ली चतुरक्षरपल्लवा ।
भक्तिसिक्ताफलत्येका चतुर्वर्गफलान्यहो ॥ ४-५ ॥
महादेव महादेव महादेवेत्ययं ध्वनिः ।
सुधियो मुक्तिकान्तायाः पाणिग्रहणडिण्डिमः ॥ ४-६ ॥
कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।
सद्यः प्रलयमायान्ति महादेवेतिकार्तनात् ॥ ४-७ ॥
प्। २१)
शिवेति मङ्गलन्नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति तस्याशु महापातककोटयः ॥ ४-८ ॥
प्राणप्रयाणपाथेयं संसारव्याधिभेषजम् ।
अनन्तदुःखशमनं शिव इत्यक्षरद्वयम् ॥ ४-९ ॥
शिव इत्येष शब्दोऽस्ति वागस्ति वशवर्तिनी ।
तथापि नरके मर्त्यः पतन्तीत्यतिसाहसम् ॥ ४-१० ॥
शिवे त्रिवाचं यो नित्यं चण्डालोऽपि वदेन्मुदा ।
सहतेव वदेद्वाचं सह तेन वसेत् सदा ॥ ४-११ ॥
प्रसङ्ङ्गात् कौतुकाल्लोभात् भयादज्ञानतोऽपि वा ।
हर इत्युच्चरन्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४-२ ॥
आहर प्रहरसंहरेति च व्याहरन् सकृदघैः प्रमुच्यते ।
मोचयेत् प्रकृतिकामकर्मतो नामकीर्तनमुमापतेस्सदा ॥ ४-१३ ॥
आदौ नमः प्रयोक्तव्यं शिवायेत्यक्षरत्रयम् ।
जिह्वायां वर्तते यस्य सफलन्तस्य जीवितम् ॥ ४-१४ ॥
किन्तस्य बहुभिर्मन्त्रैः शस्त्रैर्वा बहुविस्तरैः ।
यस्योन्नमश्शिवायेति मन्त्रोयं हृदि वर्तते ॥ ४-१५ ॥
तेनाधीतं श्रुतं सर्वं तेन सर्वमनुष्ठितम् ।
यस्योन्नमश्शिवायेति मन्त्राभ्यासस्थिरीकृतः ॥ ४-१६ ॥
यः प्रातः देवदेवेशं शिवलिङ्गस्वरूपिणम् ।
पश्येत् सयाति सर्वस्मादधिकां गतिमुत्तमाम् ॥ ४-१७ ॥
प्। २२) मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत् ।
सायाह्ने सर्वयज्ञानां फलमाप्य विमुच्यते ॥ ४-१८ ॥
न प्रदोषे हरिं पश्येत् त्रयोदश्यां विशेषतः ।
यदि प्रमादात् पश्येद्वा द्वादशाब्दवृषक्षयः ॥ ४-१९ ॥
त्रयोदश्यान्तथा रात्रौ सोपहारं त्रिलोचनम् ।
दृष्ट्वाश्वमेधमाप्नोति मुच्यते सर्वपातकैः ॥ ४-२० ॥
गङ्गापुष्करकेदारनैमिशादीन्यनेकशः ।
तीर्थस्नानेन यत्पुण्यं शिवन्दृष्ट्वैव तल्लभेत् ॥ ४-२१ ॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यस्स्मरेत् सदा रुद्रं शुद्ध एव न संशयः ॥ ४-२२ ॥
ये वाञ्छन्ति महाभोगान् राज्यञ्च त्रिदशालयम् ।
अर्चयन्तु सदा भक्त्या हरस्य चरणाम्बुजम् ॥ ४-२३ ॥
ब्रह्मणस्सृष्टिकर्तृत्वं विष्णोर्दानवमर्दनम् ।
स्वर्गाधिपत्यमिन्द्रस्य शिवपूजाविधेः फलम् ॥ ४-२४ ॥
सौभाग्यं कान्तिमद्रूपं सत्यन्त्यागः प्रवक्तृता ।
शोर्यञ्च जगति ख्यातिः शिवपूजाविधेः फलम् ॥ ४-२५ ॥
यद्द्वारे मत्तमातङ्गाः वायुवेगास्तुरङ्गमाः ।
पूर्णेन्दुवदनानार्यः शिव * * * * फलम् ॥ ४-२६ ॥
भवनानि मनोज्ञानि विद्या ज्ञानं शिवे रतिः ।
धनञ्चादृष्टपर्यन्तं शिव * * * * फलम् ॥ ४-२७ ॥
प्। २३)
आयुरारोग्यमैश्वर्यं सत्पुत्राः सुखसम्पदः ।
स्वर्गापवर्गौ धर्मश्च शिव * * * * फलम् ॥ ४-२८ ॥
लिङ्गार्चनरतो नित्यं महापातकसम्भवैः ।
दोषैः कृतैर्नलिप्येत पद्मपत्रमिवाम्भसा ॥ ४-२९ ॥
मेरुमन्दरतुल्यानि पापानि सुबहून्यपि ।
ईश्वरं वैद्यमासाद्य नश्यन्ते दुष्टरोगवत् ॥ ४-३० ॥
कायास्सन्ति हि सापायाः सम्पदः पदमापदाम् ।
समागमास्सापगमाः सर्वमुत्पातभङ्गुरम् ॥ ४-३१ ॥
पुनर्जन्म पुनर्मृत्युः पुनः क्लेशपरम्परा ।
अघरट्टघटन्यायो न कदाचिदनीदृशम् ॥ ४-३२ ॥
मेरुपृष्ठे प्रयागे च गङ्गासागरनैमिशे ।
हिमवन्ते तपस्तप्तं तत्फलं लिङ्गपूजने ॥ ४-३३ ॥
किमत्र ग्रन्धमालाभिः सङ्क्षेपादुपदिश्यते ।
विमुक्तसर्वव्यापाराः जनाः पूजयतेश्वरम् ॥ ४-३४ ॥
किं विद्यैरखिलैश्शास्त्रैः दान यज्ञव्रतादिभिः ।
शिवस्सम्पूज्यतान्नित्यमुपदेशोयमुत्तमम् ॥ ४-३५ ॥
अयमेव परो धर्मः पूज्यते च सदाशिवः ।
एतावद्धि शिवज्ञानम् एतावद्धिपरं पदम् ॥ ४-३६ ॥
ईश्वरः । भस्मविद्धि परम्ब्रह्मसत्यं बोधसुखाद्वयम् ।
भत्सनात्सर्वपापानां पाशानाञ्च महामुने ॥ ४-३७ ॥
प्। २४)
भयेभ्यो रक्षणाद्रक्षा भासनाद्भसितं तथा ।
क्षारयत्यखिलं दोषं ततः क्षारमुदाहृतम् ॥ ४-३८ ॥
गौणन्नानाविधं विद्धि ब्रह्मन् ब्रह्मविदांवर ।
अग्निहोत्राग्निजन्तद्वत् विरजाहोमजं मुने ॥ ४-३९ ॥
औपासनसमुत्पन्नं ग्रहस्थानां विधीयते ।
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणाम् ॥ ४-४० ॥
शूद्राणां श्रोत्रियागारे पचनाग्निसमुद्भवम् ।
अन्येषामपि सर्वेषां धार्यन्दावानलोद्भवम् ॥ ४-४१ ॥
पञ्चाक्षरेण मन्त्रेण प्रणवेन युतेन च ।
ललाटे हृदये चैव दो * ये च महामुने ॥ ४-४२ ॥
त्रिपुण्ड्रं धारयेन्नित्यं ग्रहस्थश्च वनाश्रमी ।
अन्येषामपि सर्वेषां विनामन्त्रेण सुव्रत ॥ ४-४३ ॥
उद्धूलनं त्रिपुण्ड्रं च कर्तव्यम् भक्तितो मुने ।
इति शिवधर्मे पञ्चमोध्यायः ॥