१२

अथ द्वादशोध्यायः

नन्दिकेश्वर उवाच

अथ सङ्क्षेपतो वक्ष्ये शिवभक्तानुकम्पया ।
आद्यं शाखोपशाखार्थं शिवभक्तिसमुद्भवम् ॥

क्वचिद्गच्छन् यथा पश्यन् न शिवलिङ्गमपूजितम् ।
तदा सम्पूज्य यो गच्छेत् स रुद्रो नात्रसंशयः ।
स्नानं नैवेद्यवस्त्राद्यमाददीत प्रियाण्यपि ॥

व्यक्तं तच्छिवमुद्दिश्य तदादानेन यत्फलम् ॥

दृष्ट्वा यतनमासाद्य नमस्कृत्य शिवं व्रजेत् ।
चतुष्पथ नदी शैलं शिवयोगिनमेव च ॥

अवतीर्य नमस्कृत्य दृष्ट्वा लिङ्गं यतव्रतः ।
हस्तियानासनाश्वेभ्यश्शिवयोगी तपस्विनाम् ॥

मृगांश्चोष्ट्रवयो मत्स्यमांसं लशुनगृगतनम्? ।
अवकट्यार्तवीयानि कुत्सितांश्च विवर्जयेत् ॥

सर्वदानोग्रतपसामश्वमेधायुतस्य च ।
फलं प्राप्नोत्ययत्नेन मत्स्यमांसविवर्जनात् ॥

सर्वदोषाश्रयं मद्यं न पिबेच्छिवभक्तितः ।
क्वमद्यं क्व शिवेभक्तिः क्वमांसं क्व शिवार्चनम् ॥

प्। ७६(७९)

सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
तत्सर्वं लभते पुण्यं यो मद्यं परिवर्जयेत् ॥

गर्भादि सर्वसंस्कारैश्श्मशानान्तैर्न भोजनम् ।
रजस्वलाभिः संस्पृष्टं शिवभक्तो विवर्जयेत् ॥

न गो ब्राह्मण भस्माग्नि लिङ्गच्छायां पदा स्पृशेत् ।
न लङ्घयीत निर्माल्यमत्सु तिष्ठेन्ननग्नतः ॥

वारयेच्छिवनिर्माल्यं भक्त्या लोभान्नभक्षयेत् ।
भक्षणान्निरयं गच्चेत्तद्विलङ्घ्य च मूढधीः ॥

न तस्य स्नानपूजाद्यं प्रतिगृह्णाति शङ्करः ।
नैव नैवेद्यनिर्माल्यं मलभक् पूजयेच्छिवम् ॥

भूप्रदेशं यथा कश्चित् स्वदेहमलभूषितम् ।
नाश्रयीत तथा रुद्रो नरं निर्माल्यभूषितम् ॥

तस्मान्न संस्पृशेल्लिङ्गं नरो निर्माल्यदूषितः ।
असंस्पृश्यो भवेत् सोऽपि यो यस्याङ्गमलं ग्रसेत् ॥

यत्र नैवेद्य निर्माल्य सङ्कीर्णकलशादिभिः ।
स्नानादि क्रियते भक्त्या न तद् गृह्णाति शङ्करः ॥

मूर्तयोयाश्शिवस्याष्टौ तासु निन्दां विवर्जयेत् ।
गुरौ च शिवभक्तेषु नृपसाधु तपस्विषु ॥

अष्टम्यादिषु सर्वेषु पक्षयो रमयोरपि ।
श्वश्रुकर्माञ्जनाभ्यङ्ग मैथुनादिविवर्जयेत् ॥

कुर्याद्विशेषतः पूजां नक्तं चात्र समाश्रयेत् ।
स्त्रीशूद्रमत्स्यमांसादीन् यत्नात् पर्वसुवर्जयेत् ॥

त्रिकालमेककालं वा नित्यस्नानं समाचरेत् ।
शौचं च मृज्जलैः कुर्याद्गन्धलेपापनुत्तये ।

योऽश्नीयादन्नमश्नातः पापमद्यात् स केवलम् ।
तस्मात् स्नात्वा प्रभुञ्जीत भस्मना सलिलेन वा ॥

प्रातः स्नात्वाम्भसा गच्छेद्भस्मना वा शिवं पदम् ।
त्रिसन्ध्यमाचरेद्यस्तु शिवग्नि गुरुतत्परः ॥

पावकमुत्सृज्यत्रिसप्तकुलमुद्धरेत् ।?
कुर्यात्प्रतिचतुर्मासं महापूजाप्रवर्तनम् ॥

भोजनं शिवभक्तानां शक्त्यादानं च कल्पयेत् ।
त्रिसप्तकुलसंयुक्तः समस्तैश्वर्यसंयुतः ।
वसेच्छिवपुरे नित्यं चातुर्मास्य प्रवर्तनात् ॥

देवे सर्वोत्सवे श्राद्धे पुण्येषु दिवसेषु च ।
शिवं सम्पूज्य नैवेद्यैः भोजयेच्छिवयोगिनम् ॥

ऋषयः पितरः सर्वाश्च शिवमाश्रित्य संस्थिताः ।
प्रीते शिवे तु ते सर्वे सुप्रीताः स्युर्न संशयः ॥

ज्ञानवैराग्यसञ्छन्नं भस्मनिष्ठं जितेन्द्रियम् ।
भोजयेच्छान्तमनसं श्राद्धेषु शिवयोगिनम् ॥

प्। ७७(८०)

यदीश्वरादि तत्वानां परिज्ञानं विवेकतः ॥

भवेत् साधर्म्य वैधर्म्यात् तस्य ज्ञानस्य लक्षणम् ।
नानिष्टं द्वेष्टि सम्प्राप्तं न चेष्टमभिनन्दति ।
प्रीतितापविषादानां वैराग्यादति वर्तते ॥

न धर्मनिष्ठा प्रतिष्ठस्य दिवसेनापि यत्फलम् ॥

नात(श्च)क्यं गृहस्थेन प्राप्तुं युगशतैरपि ।
वश्येन्द्रियः प्रसन्नात्मा यो न द्वेष्टि न काङ्क्षति ॥

शब्दादिविषयान् भोगान् स विज्ञेयो जितेन्द्रियः ।
ज्ञानवैराग्यसम्पन्नः शिवश्शान्तेन चेतसम् ॥

युक्तष्षडङ्गयोगेन शिवयोगी सकीर्तितः ।
शिवधर्माद्भवेज्ज्ञानं ज्ञानाद्वैराग्यसम्भवः ॥

ज्ञानवैराग्ययुक्तस्य शिवयोगः प्रवर्तते ।
शिवयोगाच्च सर्वज्ञः परिपूर्णस्सुनिर्वृतः ॥

सर्वेषामेव भूतानां त्रैवर्णाः पुरुषावराः ।
पुरुषेभ्यो द्विजश्रेष्ठाः द्विजेभ्यो ग्रन्थपारगाः ॥

ग्रन्थविद्भिश्च विज्ञेयास्तेभ्यस्सूक्ष्मार्थचिन्तकाः ।
अर्थविद्भिश्च नानार्थं प्रतियु(बु)द्धो विशिष्यते ॥

नानार्थविद्भ्यः कोटिभ्यो विशिष्टः योगिनः स्मृताः ।
योगिशकोटिकोटिभ्यो विशिष्टः शिवयोगिराट् ।
योगज्ञा योगसिद्धाश्च पितरो योगसम्भवाः ॥

भुक्ते प्रीणन्ति ते तस्माद् विशिष्टश्शिवयोगिभिः ।
सर्वयज्ञतपोदानैः कृतैर्दत्तैश्च यत्फलम् ।
तत्फलं लभते सर्वं सम्पूज्य शिवयोगिनम् ॥

पञ्चाग्निर्द्रव्य कालात्मा दक्षिणाहवितृत्विजः ।
ऋग्यजुः सामसंयोगाद्वेदयज्ञः प्रकीर्तितः ॥

ब्रह्मचर्य जपोमौनं क्षान्तिराहारलाघवम् ।
इत्येतत्तपसोरूपं सुघोरं पञ्चलक्षणम् ॥

यद्यदिष्टं विशिष्टं च न्यायप्राप्तं च यद्भवेत् ।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥

निवर्तनसहस्राढ्यां सर्वसस्यप्ररोहिणीम् ।
दद्याद्भूमि जलोपेतां भूमिदानं तदुच्यते ॥

एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् ।
सम्पूर्णायां द्विजः कश्चित् महीदानं तदुच्यते ॥

कन्यामलङ्कृतां दद्याद्यज्विने गुणसंवृताम् ।
द्विजाय वेदविदुषे कन्यादानं तदुच्यते ॥

सर्वदोषविनिर्मुक्तां तरुणीं सुपयस्विनीम् ।
योगामलं कृतां दद्यात् तद्गोदानमुदाहृतम् ॥

मध्यमोत्तमवस्त्राणि यो दद्यादहतानि व ॥
एतत् समासतो ज्ञेयं वस्त्रदानस्य लक्षणम् ॥

प्। ७८(८१)

ब्रह्मचारी समाधिस्थः शान्तः शीलपरायणः ।
अहोरात्रे(न्न)भुञ्जीत उपवासस्य लक्षणम् ॥

चत्वारिंशत्समायुक्तं पिण्डानां हि शतद्वयम् ।
मासेनाद्याद्यथा काममिति चान्द्रायणं व्रतम् ॥ स्मृतम् ॥

ऋषिभिः सर्वशास्त्रज्ञैस्तपोनिष्ठैर्जितेन्द्रियैः ।
देवैश्च सेवितं तोयं क्षितेस्तीर्थं तदुच्यते ॥

रुद्रावतारस्थानानि पुण्यक्षेत्राणि निर्दिशेत् ।
मृतानां तेषु रुद्रत्वं शिवक्षेत्रेषु देहिनाम् ॥

दानान्यावसथं कूपमुद्यातं देवतालयम् ।
तीर्थेष्वेतानि यः कुर्यात् सोऽक्षयं फलमाप्नुयात् ॥

क्षान्तिः स्पृहा दया सत्यं दानं शीलं तपः श्रुतम् ।
एतदष्टाङ्गमुद्दिष्टं परं पात्रस्य लक्षणम् ।

यज्ञोपवासदानानि तपस्तीर्थफलानि च ।
सम्पूर्णं लभते भक्तं सम्पूज्यशिवयोगिनम् ॥

शिवेभक्तिः क्षमासत्यमशेषेन्द्रियसंयमः ।
सर्वभूतेषु मैत्री च शिवधर्मस्य लक्षणम् ॥

शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः ।
इत्येतत्त्रिविधं ज्ञेयं शिवपात्रस्य लक्षणम् ॥

शिवमुद्दिश्य दातव्यमनपेक्ष्य गुणान्तरम् ।
वित्तमीश्वरभक्तस्य शिवदानस्य लक्षणम् ॥

शिवभक्तं द्विजश्रेष्ठं यः श्राद्धादिषु भोजयेत् ।
कुलानां शतमुद्धृत्य शिवलोके महीयते ।
बहुनात्र किमुक्तेन शिवभक्तन्तु भोजयेत् ॥

शिवभक्तेन यद्भुक्तं साक्षाद्भुक्तं शिवेन तत् ।
द्विजानां वेदविदुषां कोटिं सम्भोज्य यत्फलम् ॥

यतये वीतरागाय भिक्षादानेन तत्समम् ॥

तस्माच्छ्रद्धा विशेषेण पुण्येषु दिवसेषु च ।
शिवमुद्दिश्य विप्रेन्द्रान् शिवभक्तांस्तु भोजयेत् ॥

असंयतः संयतो वा सर्वावस्थां गतोऽपि वा ।
यो वा को वा शिवे भक्तः शिववत्पात्रमुत्तमम् ॥

सम्पर्कादर्थलोभाद्वा यो हि रुद्रं प्रपूजयेत् ।
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ।
तस्मान्नत्म्याश्च पूज्यश्च रक्षणीयश्च सर्वदा ॥

नाममात्रप्रसक्तोऽपि क्षणार्थमपि यः शिवे ॥

समुनिस्समहासाधुः स योगी स शिवं व्रजेत् ।
ग्र(गृ)हेश्राद्धस्य यत्पुण्यमरण्ये तच्छताधिकम् ॥

प्। ७९(८२)

तन्नदीष्वयुतं ज्ञेयमनन्तं स्याच्छिवालये ।
निवेद्य यतये सम्यगासनं मृदुवेत्रजम् ॥

दारुदन्तमयं वापि सिंहासनपतिर्भवेत् ।
कौपीनाच्छादनं वासा निवेद्य शिवयोगिने ॥

युगकोटिसहस्राणि शिवलोके महीयते ।
और्णं प्रावरणं दत्वा विस्तीर्णं शिवयोगिने ॥

रोम्णिरोम्णिसुवर्णस्य दत्तस्य फलमश्नुते ।
मृगव्याघ्रादिकं चर्म तिलपिष्टममर्दितम् ॥

मृदुरक्तकषायेण यो दद्याच्छिवयोगिने ।
यावत् तद्रोमसङ्ख्यानां मृगव्याघादि चर्मणि ॥

तावद् वर्षसहस्राणि शिवलोके महीयते ।
जलस्थलपवित्राणि यो दद्याच्छिवयोगिने ॥

त्राणार्थं सूक्ष्मजन्तूनामब्दलक्षं वसेद्दिवि ।
त्रिविष्टब्धसमायुक्तं यः प्रदद्यात् कमण्डलुम् ॥

महातपांसि यत् कृत्वा पुण्यं तत् सकलं भवेत् । लभेत् ।
मृदुवासश्च सुश्लष्णं प्राणि दोषविवर्जितम् ॥

निवेद्य शिवयोगिभ्यः सर्वयज्ञफलं लभेत् ।
मृद्भस्माधारपात्राणि वंशालाबु कृतानि च ॥

निवेद्य शिवयोगिभ्यस्सर्वतीर्थफलं लभेत् ।
दत्तयापनमुद्दिश्य निवेद्यशिवयोगिने ॥

दिव्यस्त्री भोगसंयुक्तं दिव्यरम्यं पुरं लभेत् ।
योगपट्टोपवीतानि निवेद्य शिवयोगिने ॥

वस्त्रयुग्मसहस्रस्य दत्तस्य फलमाप्नुयात् ।
मृद्वंशालाबुदार्वाद्यं सुकृतं भैक्षभोजनम् ॥

निवेद्य शिवयोगिभ्यः सदासत्रफलं लभेत् ।
शिवभक्ताय यो दद्यादुपानात् काष्ठपादुके ॥

स चराश्वसहस्रस्य दत्तस्य फलमाप्नुयात् ।
कल्माषदण्डं यो दद्यादन्नं वा शिवयोगिने ॥

बलावष्टम्भसंयुक्तं सस्यादण्डाग्रनायकः ।
तालवृन्तातपत्रं वा यो दद्याच्छिवयोगिने ॥

एकच्छत्रं स भुञ्जीत मण्डलं शतयोजनम् ॥

वाताश्रयविशेषेषु दण्डेषु शिवयोगिने ।
भवेत् क्षितिपतिश्श्रीमान् कुलाधारो गुणान्वितः ।
शिवज्ञानाभि युक्ताय यो दद्यात् पुस्तकं महत् ॥

युगकोटिशतं दिव्यं शिवलोके महीयते ।
भवेदिहागतः श्रीमान् सुखाढ्यो वेदपारगः ॥

प्। ८०(८३)

सर्वज्ञानार्थवक्त्रा च बृहस्पति समो भवेत् ।
शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः ॥

शिवं सम्प्राप्य तुल्यात्मा सर्वतुल्यबलो भवेत् ।
यः कुर्यात्कारयेद्वापि वपनं शिवयोगिनाम् ॥

वर्षलक्षं महाभोगे शिवलोके महीयते ॥

रुद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् ॥

तन्मालया सदाहस्ते रुद्रश्च क्रमते क्षितौ ।
रुद्राक्षणि स्वयं रुद्रो ये रुद्रानु चरास्सदा ॥

रुद्राक्षधारणात् तस्मादिह रुद्रः परत्र च ।
इति रुद्राक्षरुद्राणां धत्ते मालां सदाकरे ॥

शतार्धार्धप्रमाणेन रुरुद्रो नात्रसंशयः ।
जपंश्च रुद्रमन्त्राणां कोटिकोटि गुणो भवेत् ॥

मूर्ध्निहस्तो पवीते वा कृत्वा रुद्राक्षमालिकाम् ।
यस्य भुञ्जीततद्भुक्तं स्वयं रुद्रैर्नसंशयः ॥

रुद्राक्षधारणात् तस्मान् नित्यमेव प्रशस्यते ।
परस्यानुग्रहार्थाय ब्राह्मणस्य विशेषतः ॥

यतिमात्रोपकरणं दत्वाल्पमतिभक्तितः ।
वर्षलक्षं महायानैश्शिवलोके महीयते ॥

कुर्यादावसथं सौख्यं गुप्तं च शिवयोगिनाम् ।
शिवालये तु ते यावत् तावत् पुण्यं विशेषतः ॥

यथा शिवस्तथा योगी यथा योगी तथा शिवः ।
तेन योगीन्द्रपात्रेषु दानमण्वपि चाक्षयम् ॥

यद्यद्यदोपयुज्येत तद्देयं तस्य यत्नतः ।
उपयोगप्रधानाभ्यां श्रेयस्तेनोभयोरपि ॥

व्याख्याने शिवधर्मस्य कृत्वा मण्डप(ल)मुत्तमम् ।
शोभितं पत्रपुष्पाद्यैर्न्यसेत् तत्रासनं गुरोः ॥

शोभितं वस्त्रपुष्पाद्यैश्शिवधर्मासनं महत् ।
पुरतस्तद्गुरोः स्थाप्य पूजयेदुभयं ततः ॥

शिवधर्मप्रवक्तारमाचार्यं वाचकं तथा ।
पूजयेच्छिवधर्मं च तुल्यमेव द्वयं यतः ॥

य एवं न्यायतो वक्ति शिवधर्मं शृणोति च ।
आयुर्विद्यां यशः सौख्यं स लब्ध्वान्ते शिवं व्रजेत् ॥

इत्येष वः समाख्यातश्शिवधर्मः सनातनः ।
सर्वेषां शिवभक्तानां शिवधर्मं शृणोति च ।
सर्वेषां शिवभक्तानामयं वाच्यो विशेषतः ॥ विजानतः ॥

शिवाश्रमेषु यो भक्त्या शिवधर्मं प्रकीर्तयेत् ।
शृणुयाद्वापठेत् तस्य शास्त्रोक्तमखिलं फलम् ॥

श्रुत्वैतदखिलं धर्ममाख्यातं ब्रह्मसूनुना ।
चन्द्रात्रेय स गोत्राय शिवभक्ताय सारवित् ॥

प्। ८१(८४)

सारात्सारं समुद्धृत्य चन्द्रात्रेयेन धीमता ।
उक्तं द्वादशमध्यायं धर्मशास्त्रं शिवात्मकम् ॥

यावद्यस्योपदेशेन शिवधर्मं समाचरेत् ।
तावत्तस्यापि तत् पुण्यमुपदेष्टुर्नसंशयः ॥

उपदेशं विना तस्माद्धर्मो ज्ञातुं न शक्यते ।
न च कर्तुमविज्ञानात् तस्मात् तुल्यं तयोः फलम् ।
उपदेष्टानुमन्ता च कर्ताकारयिता च यः ।
कृतानुपालकश्चैव पञ्चतुल्यफलाः स्मृताः ॥

कर्तुरत्यधिकं पुण्यं तत्कृतं योऽनुपालयेत् ।
यस्मादायतनं क्षिप्रं नाशं गच्छेदपालितम् ॥

भूमिरत्नाश्च नागानां गो हिरण्यादि वाससाम् ।
भवेत् पूर्वं हि दत्तानां दानाच्छ्रेयोनुपालनम् ॥

दातुरभ्यदिकं पुण्यं तद्दत्तं यो नु पालयेत् ।
अपालितं तु तद्यस्मात् तदहस्सम्प्रणश्यति ॥

तस्मादुपदिशेद्धर्मं स्वयं चैव समाचरेत् ।
कारयेदनुमन्येत कृतमन्यैश्च पालयेत् ॥

इति पञ्चप्रकारोऽयं शिवधर्मः प्रकीर्तितः ।
भद्राचलं रुद्रकोटि रविमुक्तं महालयम् ।
गो कर्णं भद्रकर्णं च सुवर्णाक्षोऽयदीप्तिमान् ।
स्थानं शिवस्य विख्यातं त्रिषुलोकेषु विश्रुतम् ॥

स्थानाष्टकमिदं ज्ञेयं रुद्रक्षेममहोदयम् ।
भद्रा चलादि स्थानानि रुद्रसायुज्यकारणम् ॥

भागलण्डन्दुरण्डञ्च माकोटं मण्डलेश्वरः ।
कारञ्जरं दारुवनं शङ्कुकर्णं स्थलेश्वरम् ॥

पवित्राष्टकमित्येतन्महापुण्यप्रवर्धनम् ।
मृताः प्रयान्ति तत्रैव शिवस्य परमं पदम् ॥

गया चैव कुरुक्षेत्रं बभ्रुं कनकलं तथा ।
विमलेश्वरोट्टहासं च महेन्द्रं भीममष्टमम्(कम्) ॥

एतद्गुह्याष्टकं नाम सर्वपातकनाशनम् ।(पापविमोचनम्) ।
गत्वा तु पुरुषः श्रीमान् गत्वा तु शिवमन्दिरम् ।
श्रीपर्वते हरिश्चन्द्र जल्पमात्रोदिकेश्वरः ॥

मध्यमा च महाकालं केदारं भैरवं तहा ।
एतद्गुह्याधिकं गुह्यमष्टकं परिकीर्तितम् ॥

सन्तार्य तु पितॄन् सर्वान् शिवं शान्तपदं व्रजेत् ।
अमरेश्वरं प्रभासं च नैमिशं पुष्करं तथा ।
पाषण्डं दण्डिमुण्डि च भारभूतिं भवान्तिकम् ॥

प्। ८२(८५)

लकुटीश्वरोऽति विख्यातस्तथा प्रत्यात्मिको महान् ।
प्रत्यात्मिकाष्टकमिदं क्षेत्रं रुद्रस्य कामिकम् ॥

तत्र याति मृताः सर्वे रुद्रस्य परमं पदम् ।
पुण्याष्टकमिदं ज्ञेयं शिवक्षेत्रस्य लक्षणम् ।
दानान्यावसथं कूपमुद्यानं देवतालयम् ॥

तीर्थेष्वेतेषु यः कुर्यात् सोऽक्षयं फलमाप्नुयात् ।
क्षान्तिः स्पृहादयासत्यं दानं शीलं तपः श्रुतम् ॥

एतदष्टाङ्गमुद्दिष्टं परं पात्रस्य लक्षणम् ।
इति पञ्चप्रकारोऽयं शिवधर्मः प्रकीर्तितः ।
कपालमालिनं देवं महाकालं नमोस्तु ते ॥

चन्द्रार्धमस्तकं नित्यं चर्मवासः सदा प्रियम् ।
गजधर्मधरं नित्यं चण्डेश्वर नमोस्तु ते ॥

त्रिशूलपाणे देवेश त्रिणेत्रत्रिदशेश्वर ।
त्रिमूर्ते च महात्मानं त्रिपुरान्त नमोस्तु ते ।
सर्वेश्वरं सर्वगतं सर्वजं(ज्ञं) सर्वतो मुखम् ।
सर्वत्रावस्थितं नित्यं सर्वव्यापिन् नमोस्तु ते ॥

स्थूलसूक्ष्मविभागेन व्याप्तं येन चराचरम् ।
अनन्तानादिमव्यक्तं व्यक्ताव्यक्त नमोऽस्तु ते ॥

अनन्तं शाश्वतं नित्यं विश्वं ध्रुवमुमापतिम् ।
श्रीकण्ठं सर्वकण्ठं च नीलकण्ठ नमोऽस्तु ते ॥

विद्यामयी यस्य विद्या विद्यातीतं च यत्स्थितिम् ।
सकलं निष्कलं चैव कलाहीन नमोस्तु ते ॥

यो गाधिपो योगगम्यो योगात्मा योगसम्भवः ।
महायोगपरं नित्यं योगेश्वर नमोस्तु ते ॥

सर्वतेजो मयं तेजस्तेजसामपि तैजसः ।
तेजोनिधिश्च तेजात्मा तेजोऽतीत नमोस्तु ते ॥

ओमित्येकाक्षरं यस्तु प्रख्यातं भुवनत्रये ।
तस्याप्यर्थपरो नित्यं सदाशिव नमोस्तु ते ॥

अर्धमात्रात् परार्धं तु तस्यार्धस्य परात्परम् ।
परात् परवरं शान्तं शान्तातीत नमोस्तु ते ॥

वालार्कशतभागस्य शतधाकल्पितस्य च ।
अनौपम्यमनामञ्च शिवशान्त नमोऽस्तु ते ॥

(अग्राह्यमिन्द्रियैर्वापि सर्ववस्तुविवर्जितम् ॥)
अनन्ता नादिमव्यक्तं देहस्थं देह वर्जितम् ।
हृदिस्थं सर्वभूतेषु व्योमस्थञ्च नमोऽस्तु ते ।
अग्राह्यमिन्द्रियैर्वापि सर्ववस्तु विवर्जितम् ।

प्। ८३(८६)

स तेजो गूढमात्मानं गुह्यानां गुह्यगोचरम् ॥

गुहावास सदानित्यं गुहानां गूढगोचर ।
गुहावास सदानित्यं गूढार्थं च नमोस्तु ते ॥

महादेवं महात्मानं महामाया परावरम् ।
महाज्ञानं परातीतं ज्ञानगम्य नमोस्तु ते ॥

एकाक्षरश्चतुर्भेदश्चतुर्मात्रैरलङ्कृतम् ।
चतुष्कलं कलातीतं विश्वातीतं नमोस्तु ते ।
ईशानम् ईश्वरो ब्रह्मा सदाशिव नमोस्तु ते ॥

धर्माश्च काममोक्षाय सर्वभूतानुकम्पया ।
सर्वस्तरतु दुर्गाणि सर्वोभद्राणि पश्य तु ॥

सर्वस्सुगतिमाप्नो तु सर्वस्य भवतः शिवम् ।
सर्वस्सुगतिमाप्नोतु सर्वस्य भवतां शिवम् ।

इति श्रीशिवधर्मशास्त्रे नन्दिप्रोक्तायां संहितायां शिवविद्या
शाखोपशाखा समुद्देशो नाम द्वादशोध्यायः ॥

शिवधर्मस्समाप्तः ॥

ॐ शिवायगुरवे नमः । शिवमस्तु । श्रीशिवाय नमः ॥