११

एकादशोऽध्यायः

नन्दिकेश्वर उवाच

सर्वेषामेववर्णानां शिवाश्रमनिषेविणाम् ।
शिवधर्मः शिवेनोक्तो धर्मकामार्थमुक्तये ॥

ब्राह्मणः क्षत्रियो वैश्यः स्त्रीशूद्रो वा शिवाश्रमी ।
वानप्रस्थो गृहस्थो वा यच्चान्यो वा शिवाश्रमी ॥

स्वाश्रमादुत्तरे कुर्यात् पुष्पारामं सुशोभनम् ।
अन्यागारसमायुक्तमैशान्यामीश्वरालयम् ॥

प्रदेशा सम्भवे कुर्याद्यत्रस्यात् सम्भवो भुवि ।
शिवाद्दक्षिणतः कुर्यात् तद्भक्ताभ्यागतालयम् ॥

त्रिसन्ध्यमर्चयेदीशमग्निकार्यं च भक्तितः ।
द्विसङ्ख्यमेककालं वा पूजयेद्भक्तितः शिवम् ॥

असम्पूज्य शिवं मोहात् न भुञ्जीतकदाचन ।
एष धर्मः परोज्ञेयश्शेषो भवति मानवः ।
कार्यातिपातसंरोध व्याधिविद्रविणादिषु ॥

मनसा पूजयेद्भक्त्या वाचिकैर्वा जपादिभिः ।
शिवाग्रमाश्रितैः पूजा कर्तव्या यत्नतः सदा ॥

मनसा पूजयेद्योगी पुष्पैर्वारण्यसम्भवैः ।
शिवार्थं पुष्पहिंसा या न भवेत्सतु हिंसकः ॥

शिवार्चाग्नि परो नित्यं तद्भक्तो तिथि पूजकः ।
पर्वमैथुनवर्जी स्यात् श्रीमान् शिवगृहाश्रमी ॥

देवाग्न्यतिथिभैक्षार्थां पचेन्नैवात्मकारणात् ।
आत्मार्चयः पचेन्मोहात् नरकार्थं स जीवति ।
देवार्थं पचनं येषां सन्तानार्थं च मैथुनम् ।
स्वर्गार्थं जीवितं तेषां नरकार्थं विपर्यये ॥

वित्तात् तृतीयभागेन प्रकुर्वीत शिवार्चनम् ।
प्रकुर्वीत तदर्धे न यतो नित्यं हि जीवितम् ॥

न्यायो पार्जितवित्तः स्यादन्यायान् परिवर्जयेत् ।
अन्याये नार्चितैर्द्रव्यैः नरकार्थं स जीवति ।
यः शिवब्रह्मचारी स्यात् स शिवार्चाग्नि तत्परः ॥

भवेज्जितेन्द्रियः शान्तो नैष्ठिको भौतिकोऽपि वा ।
सर्वसङ्गविनिर्मुक्तः कन्दमूलफलाशनः ।
शिववैखानसो ज्ञेयः शिवार्चाग्निपरो वने ॥

निर्गतः सर्वसङ्गेभ्यः शिवध्यानरतः सदा ।
ज्ञेयः शिवयतिश्चैव भस्मनिष्ठो जितेन्द्रियः ॥

रुद्राक्षगणहस्तः स्यात् जटां चैकाञ्चमस्तके ।
लिङ्गं शिवाश्रमस्थानां भस्मनैव त्रिपुण्ड्रकम् ॥

हस्ते मूघ्न्युपवीते वा रुद्राक्षं धारयेत् तु यः ।
सोर्ध्वगः सर्वभूतानां रुद्रलोकन्तु गच्छति ॥

प्। ७०(७३)

रुद्रभक्तैः शिरस्येका धार्या रुद्रजटा सदा ।
ध्वंसिनी दुष्टसत्वानां रुद्रत्वं च तथाप्नुयात् ॥

सितेन भस्मना कुर्यात् त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।
सर्वपापविनिर्मुक्तः शिवेनसहमोदते ।
रुद्राग्नेर्यद्वलं वीर्यं तद्भस्मपरिकीर्तितम् ॥

ध्वंसनं सर्वदुष्टानां सर्वपापविशोधनम् ।
योगीसर्वाङ्गिकस्नानमापादतलमस्तकम् ॥

त्रिसन्ध्यमाचरेन्नित्यमाशुयोगमवाप्नुयात् ।
यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः ॥

कुलैकविंशमुत्तार्य स गच्छेत्परमां गतिम् ।
भस्मस्नानं जलस्नानमसङ्ख्येयगुणाधिकम् ॥

तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत् ।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
तत्फलं लभते सर्वं भस्मस्नानं समाचरेत् ॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
भस्मनापरमं स्नानं पवित्रं नैव विद्यते ॥

उक्तैवं मुनिदेवेभ्यः स्नातो देवः शिवः स्वयम् ।
तया प्रभृति ब्रह्माद्याः मुनयश्च शिवार्थिनः ॥

सर्वं सर्वं सुयत्नेन भस्मस्नानं प्रचक्रिरे ।
तस्मादेतच्छिवस्नानमाग्नेयं यः समाचरेत् ॥

अनेनैव शरीरेण स रुद्रो नात्र संशयः ।
दुश्शीलः शीलयुक्तो वा यो वा को वा फलार्थिभिः ॥

भूतिशासनसंयुक्तः सपूज्योराजपुत्रवत् ।
गुणवत्पात्र पूजायानस्याच्छासनपूजनम् ॥

शासनं पूजयेत्तस्मादविचारं शिवज्ञया ।
शिवाज्ञा पूजनात् साक्षाच्छिवो भवति पूजितः ॥

अविकल्पमतिस्तस्मात् पूजयेच्छिवशासनम् ।
छद्मनापि हि यो धत्ते भूतिशासनमैश्वरम् ।
सोऽपि यां गति माप्नोति न तां क्रतु शतैरपि ॥

आचम्यतोयविधिना निर्लेपः शिवभस्मना ।
गन्धलेपविशुद्धार्थं नित्यमद्भिरुपस्पृशेत् ॥

गन्धलेपविहीनो हि पि भावदुष्टेन शुध्यति । ष्टो
भावशुद्ध्या भवेच्छुद्धिः शुद्धभावस्ततो भवेत् ।
स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसे ॥

पञ्चस्नानानि विप्राणां विहितानि विशुद्धये ।
वारुणं वारुणस्नानमाग्नेयं भस्मना भवेत् ॥

प्। ७१(७४)

वृष्ट्या सातपया दिव्यं वायव्यम् रजसा गवाम् ।
मानसं ध्यानमन्त्रादि विहितं विश्वयोनिना ॥

उदकुम्भसहस्रेण मृद्भाराणां शतेन च ॥

आमृत्यो आचरन् शौचं भावदुष्टो न शुद्ध्यति ॥

भावपूतं भवेच्छौ चं वस्त्रपूतं जलं पिबेत् ॥

दृष्टिपूतं न्यसेत् पादं सत्यपूतं वचो वदेत् ।
जलाकलापधारी स्यात् पक्षादावपनं भवेत् ॥

यथैव पुण्यं दीक्षायां तत्पुण्यं पवने भवेत् ।
जटीमुण्डीशिखीवापि भिक्षाशी विगतस्पृहः ॥

मौनी भूतानुकम्पी च यतिश्शान्तिमतिर्भवेत्(श्चरेत्) ।
माधूकरं चरेद्भैक्षमेकान्नं परिवर्जयेत् ।
उपवाससमं भैक्ऽमेकान्नं गृहीणां स्मृतम् ॥

यः सर्वसङ्गनिर्मुक्तः शूद्रश्शिवपरायणः ।
सोऽपीहवपनं कृत्वा योगीन्द्रानुचरो भवेत् ॥

वसेदायतने नित्यं स गणः शिवधार्मिकः ।
पुष्पारामैककर्मात्मा पुष्पपालक्रियापरः ॥

त्रिस्नानपूजासंयुक्तः कौपीनाच्छादकः सदा ।
योगिनां भक्तियोगेन योगस्थानमवाप्नुयात् ।
शिवध्यानपराश्शान्ताश्शिवभक्तिपरायणाः ॥

भावपूताश्शिवस्यैते शिवाश्रमसमाश्रिताः ।
महाव्रताष्टकं धार्यमीशेनोक्तं शिवार्थिनाम् ॥

सर्वव्रतानां परममस्मिन् धर्मस्समाप्यते ।
शिवेभक्तिस्सदाक्षान्तिरहिंसा सर्वदाशमः ॥

सन्तोषस्सत्यमस्तेयं ब्रह्मचर्यं तथाष्टमम् ।
यथासम्भवपूजाभि कर्मणामनसागिरा ॥

शिवेभक्तिः सदाकार्या तद्वच्च शिवयोगिषु ।
स्वदेहान्निर्विशेषेण शिवभक्तांश्च पालयेत् ॥

भयदारिद्र्यदुःखेभ्यः (रोगेभ्यः) तेषां कुर्यात् प्रियाणि च ।
शिवस्य परिपूर्णस्य किं नामक्रियते नरैः ।
यत्कृते शिवभक्तानां तच्छिवस्य कृतं भवेत् ॥

सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः ।
ते च प्रयत्नादाराध्यास्तेषां सन्निहितो हरः ॥

महेश्वरस्य यो भक्तः शिवार्चनरतः सदा ।
आज्ञां कृत्वा यथान्यायमश्वमेधफलं लभेत् ।
नित्यं शिवकथासक्तो नित्यं शिवपरायणः ॥

अर्चयित्वा यथान्यायं गाणापत्यमवाप्नुयात् ॥

प्। ७२(७५)

शिवाश्रमगतं भक्त्या शिवभक्तं प्रपूजयेत् ॥

स्वागतासनपाद्यार्घ्यैर्मधुपर्कादि भोजनैः ।
यः स्वागतं नमस्कारं कुर्याद्वाप्यभिवादनम् ॥

दशवर्षसहस्राणि सोऽग्निलोके महीयते ।
प्राप्ताय शिवभक्ताय यो दद्यात् स्वयमासनम् ॥

विंशद्वर्षसहस्राणि पुरन्दरपुरे वसेत् ।
शिवभक्ताय शान्ताय पादौ प्रक्षाल्यभक्तितः ॥

घृताभ्यङ्गं ततो दत्वा विष्णुलोके महीयते (लोके वसेन्नरः) ।
प्राप्ताय शिवभक्ताय पाद्याचमनपूर्वकम् ।
योऽर्घ्यं निवेदयेद्भक्त्या सूर्यलोकं स गच्छति ॥

शिवभक्तद्विजं प्राप्तं मधुपर्काद्युपक्रमात् ।
भोजयित्वा यथान्यायं शिवलोके महीयते ॥

श्रान्तं संवाहनं कृत्वा सोमलोके महीयते ।
प्रतिश्रयप्रदानेन हैमं स्वर्गे गृहं भवेत् (लभेत्) ॥

जलं सुशीतलं दत्वा सर्वकामानवाप्नुयात् ।
लभेद्दीपप्रदानेन ज्ञानचक्षुरतीन्द्रियम् ॥

मृदुशय्याप्रदानेन सिंहासनपतिर्भवेत् ।
यो दद्यादम्भसा स्नानं वारुणं लोकमाप्नुयात् ॥

स्वेदबिन्दुपरीताङ्गमध्वगं श्रमकर्शितम् ।
संवीज्यतालवृन्तेन वायुलोके महीयते ॥

क्षुत्पिपासा तुरं श्रान्तं मलीनं चैव रोगिणम् ।
पालयित्वा यथाशक्त्या सर्वपापैः प्रमुच्यते ॥

रोगार्तस्य शिवं कृत्वा भेषजाद्यैः प्रयत्नतः ।
युगकोटिशतं साग्रं शिवलोके महीयते ॥

सुदुःखार्णवनिर्मग्नं हाहाभूतमचेतनम् ॥

समुद्धृत्य यथा शक्त्या सर्वकामानवाप्नुयात् ।
पतिताभिशस्तसङ्कीर्ण श्वचण्डालादिपक्षिणाम् ।
कारुण्यात्सर्वभूतानां देयमन्नं स्वशक्तितः ॥

अत्यल्पमपिकारुण्याद्दत्तं भवति चाक्षयम् ।
तस्मात्तु सर्वभूतेभ्यः करुणादानमुत्तमम् ॥

अभावे तृणभूम्यम्बु पात्रेन्धनफलादिकम् (वा) ।
दत्वागतनराणां च स्वर्गं योऽनिप्रियेण वा ॥

न ही दृक्स्वर्गसोपानं यथा लोके प्रियं वचः ।
इहामुत्रसुखं तेषां वाग्येषां मधुरा सदा ।
अमृतस्यन्दिनीं वाचं चन्दनस्पर्शशीतलाम् ॥

धर्माविरोधिनीमुक्त्वा सुखमक्षयमाप्नुयात् ।

प्। ७३(७६)

अलं दानेन विप्रेन्द्र यजनाध्ययनेन वा ।
इदं ते स्वर्गसोपानममलं यत्प्रियं वचः ॥

प्रत्युत्थानाभिगमनमनुव्रज्यं प्रियं वचः ।
पूर्वाभि भाषिणं दृष्ट्वा प्रत्येकं स्वर्गहेतवः ॥

सम्पृच्छेदागतं भक्त्या स्वागतं विनयेन तु ।
गमनेप्यस्य वक्तव्यं पन्थानः सन्तुते शिवाः ॥

शिवं भवतु ते नित्यमशेषार्थप्रसाधकम् ।
आशीर्वादमिदं वाच्यं सर्वकार्येषु सर्वदा ॥

नमस्कारादिवादेषु स्वस्तिमङ्गलवाचने ।
शिवं भवतु ते नित्यं प्रब्रूयात् सर्वकर्मसु ॥

एवमादि शिवाचारमनुतिष्ठन् शिवाश्रमी ।
अशेषपापनिर्मुक्तः शिवलोके महीयते ॥

शिवभक्तेषु या भक्तिः क्रियते हि सदानरैः ।
शिवे भवति सा नित्यं भक्तिर्भक्तैरनुष्टिता ॥

आक्रुष्टस्ताडितो वापि यो नाक्रोशेन्नताडयेत् ।
वागाद्यविकृतस्वस्थः क्षान्तिरेवाभिधीयते ॥

सर्वेषामेवतीर्थानां तीर्थं ज्ञानस्य पारगः ।
ज्ञानातीर्थात्परं तीर्थं यत्पूर्णं क्षान्तिवारिणा ॥

ज्ञनं योगं तपोजप्यं यज्ञदानादिसत्क्रियाम् ॥

क्रोधनस्य वृथायस्मात् तस्मात् क्रोधं विवर्जयेत् ॥

मर्मास्थि प्राणहृदयं निर्दहेदप्रियं वचः ।
नवाच्यमप्रियं तस्माच्छिवभक्ते विशेषतः ॥

क्षमादानं क्षमासत्यं क्षमाहिंसा क्षमाश्रुतम् ।
क्षमास्वर्गश्च मोक्षश्च क्षमयेतज्जगद्धृतम् ॥

सशूरस्सात्विको विद्वान् स तपस्वी जितेन्द्रियः ।
ये नाशुक्षान्ति बाणेन क्रोधशत्रुर्विदारितः ॥

निर्मलैः क्षान्तिसलिलैर्लोकमासाद्यशीतलैः ।
इह सौख्यमवाप्नोति परत्र च शिवां गतिम् ॥

आत्मवत्सर्वभूतानां यो हिताय शिवाय च ।
सर्वथा वर्तते नित्यमहिंसेयमुदाहृता ॥

सर्वशास्त्राणि वेदाश्च यज्ज्ञात्वा लभते फलम् ।
(या) न हिंसन्ति भूतानि तस्य पुण्यं ततोऽधिकम् ॥

त्रैलोक्यमखिलं दद्यादपि यो रत्नपूरितम् ।
चरेत्तपांसि सर्वाणि स तत् तुल्यमहिंसया ॥

अहिंसाख्यः परोधर्मः शक्तानां परिकीर्तितः ।
अशक्तानामयं धर्मो दानयज्ञादि पूर्वकम् ॥

प्। ७४(७७)

नान्तः परं प्रपश्यामः क्वचिदप्यागमेवयम् ।
पुंसामभयदानात् तु दानमद्भुतदर्शनम् ॥

सर्वभूतामयं दत्वा यश्चरेच्छान्तमानसः ।
इहैव सर्वभूतेभ्यो भयं तस्य न विद्यते ॥

यो न हिंसन्ति भूतान्ति स्थावराणि चराणि च ।
सर्वदुःखविनिर्मुक्तः परांशान्तिमवाप्नुयात् ॥

वाचारमन्ति पापैश्च ह्यतिक्रूरानराधिपाः (धमाः) ।
आभूतसम्प्लवं यावत् पच्यते नरकेषु ते ॥

स्वदेशे यो नृपः कुर्यात् प्रणिघातनिवारणम् ।
स नृपः सह देहेन नन्दते विभवैश्चिरम् ॥

देहान्ते च महाभोगैः समस्तकुलसंयुतः ।
कल्पकोटिशतं साग्रं शिवलोके महीयते ॥

स्वात्मार्थं वा परार्थं वा समस्तेन्द्रियसंयुतः ।
नाकार्ये सम्प्रवर्तेत तदाहुश्शमलक्षणम् ॥

यः प्रशान्तेन्द्रियग्रामस्सदा चन्द्रांशुनिर्मलम् ।
सम्प्राप्नोति शिवस्थानं शान्तश्शान्तेन चेतसा ॥

यथाकालोपपन्नेभ्यो न्यायवृत्त्या गमेन च ।
उत्पन्नार्थेन यस्तोषस्ससन्तोषः प्रकीर्तितः ॥

अतीतानागतार्थेषु वर्तमानेषु सर्वदा ।
ना सक्तिर्न स्मृतिर्वापि सन्तोषोऽयं परैः स्मृतः ।
तेन सर्वमखैरिष्टं तेनावाप्तं च तत्पदम् ।
येन तृष्णाग्र(गृ)हं त्यक्त्वा सन्तोषस्सम्यगाश्रितः ॥

सन्तोषैश्वर्ययुक्तानां यत्सुखं शान्तचेतसाम् ।
देवासुरमनुष्याणां कुतः स्वप्नेऽपि तत्सुखम् ॥

स्वानुभूतं स्वदृष्टं च यः पृष्टोऽर्थं न गूहते ।
यथाभूतार्थकथनमित्येतत् सत्यलक्षणम् ।

परपीडाविनिर्मुक्तं यावत् स्याद् वचनं शिवम् ॥

अश्वमेधायुतं पुण्यं सत्यं च तुलयाधृतम् ।
अश्वमेधायुतात्सत्यमधिकं दर्शितं गुणैः ॥

सत्ये प्रतिष्ठितं ज्ञानं धर्मं सत्ये प्रतिष्ठितम् ।
सत्ये प्रतिष्ठितं शौचं सत्ये मोक्षं प्रतिष्ठितम् ॥

सत्ये प्रतिष्ठितं शौच सत्ये मोक्षः प्रतिष्ठितम् ॥

स्वामिनारक्ष्यमाणानामुत्सृष्टानां च सम्भ्रमात् ।
परस्वानादानमेतदेतदस्तेयलक्षणम् ॥

अलोभेन परस्वेषु यो मनामपि वर्तते ।
कर्मणा मनसा वाचा स तृप्तः शिवतां व्रजेत् ॥

प्। ७५(७८)

मैथुनस्या समाचारस्तदचित्तमजल्पितम् ॥

लक्षणं ब्रह्मचर्यस्य समस्तेन्द्रियसंयमः ।
ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः ॥

ब्रह्मचर्ये स्थितं ज्ञानं ब्रह्मचर्ये स्थितं क्षमा ।
ये स्थिता ब्रह्मचर्येण ते नित्यं संस्थिताश्शिवे ॥

एकरात्रस्थितस्यापि या गतिर्ब्रह्मचारिणः ।
गृहस्थेन न सा शक्या प्राप्तुं यज्ञशतैरपि ॥

यस्सम्भवे समुत्सृज्य चेतसास्ते निराकुलम् ।
अहोयति वरः श्रीमानुपयातिमहत्तपः ।
पर्वमैथुनवर्जीयः परदारविवर्जितः ॥

ब्रह्मचारीसमः सोऽपि ज्ञेयश्शिवहृताश्रमी ।
शिवाग्न्यतिथिगुर्वर्थं कुर्वन् कर्माणि सर्वतः ॥

अहिंसकस्सविज्ञेय एतदप्याश्रमत्रयम् ।
समाप्यगुरुकार्यायोपयुक्ते सदानरः ॥

तस्य सिध्यन्ति कार्याणि मनसा चिन्तितानि च ।
एषधर्मद्रुमः श्रीमान् नष्टशाखाश्शिवोद्भवः ॥

न शक्यो विस्तराद्नक्तुमुपशाखा प्रभेदतः ।
ये पठन्ति शिवे भक्ता आचाराध्यायमुत्तमम् ॥

त्रिसप्तकुलजैस्सार्ध शिवलोकं व्रजन्ति ते ।
इति शिवधर्मशास्त्रे एकादशोध्यायः ॥