दशमोध्यायः
नन्दिकेश्वर उवाच
चतुर्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।
योऽब्दमेकं न भुञ्जीत शिवार्चनरतः शुचिः ॥
यत् पुण्यमक्षयं प्रोक्तं सततं रात्रयाजिनाम् ।
सत्यादिषु च यत्पुण्यं यत्पुण्यमृतुगामिनाम् ।
अग्निहेत्रे तु यत् पुण्यं यत् पुण्यं यज्ञयाजिनाम् ॥
तत्पुण्यं सकलं तस्य शिवलोकं च गच्छति ।
पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु यत्नतः ॥
अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते ।
द्वेपञ्चम्यौ तु मासस्य द्वे च पर्तिपदौ नरः ॥
सोपवासः सुगन्धश्च शयीत प्रियया सह ।
शेते निश्चल चित्तश्च रति प्रीति विवर्जितः ॥
शिवानु स्मृतिशीलश्च तस्य पुण्यफलं शृणु ।
दिव्यवर्षसहस्रं तु दिव्य वर्षशतं तथा ॥
तपस्तप्तं महत्तेन भवेदेवमसंशयः ॥
शिवभक्ति सुप्रीतात्मा यद्यपि स्यात् सपापकृत् ।
शिवलोके वसेन्नित्यं शिववत्संवृतोगणैः ॥
कृष्णाष्टम्यां तु नक्तेन या च कृष्णाचतुर्दशी ।
इह भोगमवाप्नोति परत्र च शिवां गतिम् ॥
योऽब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु ।
ब्रह्मचारी जितक्रोधश्शिवार्चाजपतत्परः ॥
संवत्सरान्ते विप्रेन्द्रान् शिवभक्तान् समाधिना ।
भोजयित्वा ततो ब्रूयात् प्रीयतां भगवाञ्छिवः ॥
भोजयेद्यस्तु विद्वांसं कपालव्रतधारिणम् ।
भोजितास्तेन देवेश ब्रह्मविष्णुमहेश्वराः ॥
कपालपूर्णमशनं भैक्षं यो यस्य गृह्णते ।
कुलं तस्योद्धरत्येव दशपूर्वान् दशावरान् ॥
प्। ५७(६०)
पादार्घ्याचमनीयानि गन्धपुष्पैः समन्ततः ।
अर्चयेद्व्रतिनं दृष्ट्वा पश्चाद्भैक्षेण तर्पयेत् ॥
पूजितैस्तैश्शिवः साक्षात् पूजितो नात्र संशयः ।
अवमतैरवमतः स्यात् स्वयं वै परमेश्वरः ॥
श्र(शु)द्धया परयायुक्ता कपाले यत्प्रयच्छति ।
तत् तस्य फलते दानं व्रजेच्छतसहस्रधा ॥
एवं विधिसमायुक्तः शिवलोकं स गच्छति ।
न च मानुष्यकं लोकमध्रुवं प्राप्नुयान्नरः ॥
उपवासात् परं भैक्षं भैक्षात्परमयाचितम् ।
अयाचितात् परं नक्तं तस्मान्नक्तेन वर्तयेत् ॥
दैवैर्भक्तन्तु पूर्वाह्णे मध्याह्णे मुनिभिस्तथा ।
अपराह्णे तु पितृभिः सन्ध्यायां गुह्यकादिभिः ॥
सर्ववेलामतिक्रम्य नक्तमुत्तम भोजनम् ।
वामाचारो महादेवो नक्तेनोद्धरते नृणाम् ॥
हविष्यं भोजनं स्नानं सत्यमाहारलङ्घनम् ।
अग्निकार्यमधश्शय्यान्नक्तभोजीसमाचरेत् ॥
कृष्णाष्टम्यां प्रयत्नेन कृत्वा नक्तं विधानतः ।
मार्गशीर्षस्य मासस्य शङ्करं ह्येवमर्चयेत् ॥
पित्वा शक्त्या तु गोमूत्रमनाहारो निशिस्वपेत् ।
अतिरात्रस्य यज्ञस्य फलमष्टगुणं लभेत् ॥
माघे माहेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत् ।
निशिपीत्वा च गोक्षीरं गोमेधाष्टकमाप्नुयात् ॥
एवं पौष्ये च सम्पूज्य शम्भुनामानमीश्वरम् ।
कृष्णाष्टम्यां घृतं प्राश्य वाजपेयाष्टकं लभेत् ॥
निशि पीत्वा च गोक्षीरं गोमेधाष्टकमाप्नुयात् ।
फाल्गुने च महादेवं सम्पूज्य प्राशयेत्तिलान् ॥
राजसूयस्य यज्ञस्य फलमष्टगुणं लभेत् ।
चैत्रे च स्थाणु नामानं कृष्णाष्टम्यां प्रपूजयेत् ॥
यवांश्च भर्जितान् प्राश्य सोऽश्वमेधाष्टकं लभेत् ।
वैशाखे शिवनामानमिष्ट्वा रात्रौ कुशोदकम् ।
पीत्वा पुरुषमेधस्य फलमष्टगुणं लभेत् ॥
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत् ।
गवां लक्षप्रदानस्य यत्फलं तदवाप्नुयात् ॥
आषाढे चोग्रनामानमिष्ट्वा प्राश्य च गोमयम् ।
सौत्रामणेस्तु यज्ञस्य फलमष्टगुणं लभेत् ।
श्रावणे शर्वनामानमिष्ट्वार्कन्निशि भक्षयेत् ॥
प्। ५८(६१)
वर्षकोटिशतं दिव्यं रुद्रलोके महीयते ।
मासे भाद्रपदेऽष्टम्यामीश्वरं नाम पूजयेत् ॥
गन्धपुष्पैस्तु रात्रौ तु पीत्वा वै तण्डुलोदकम् ।
पौण्डरीकस्य यज्ञस्य फलमष्टगुणं लभेत् ॥
कार्तिके रुद्रनामानं सम्पूज्य प्राशयेद्दधि ।
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ॥
वर्षान्ते भोजयेद्विप्रान् शिवभक्तिपरायणान् ।
पायसे घृतसंयुक्तं मधुनासुपरिप्लुतम् ॥
शक्त्या हिरण्यं वासांसि भक्त्यातेभ्यो निवेदयेत् ।
निवेदयीत रुद्राय गां च कृष्णां पयस्विनीम् ॥
वर्षमेकं चरेदेवं नैरन्तर्येण यो नरः ।
कृष्णाष्टमीव्रतं नाम तस्य पुण्यफलं शृणु ।
सर्वपापविनिर्मुक्तः सर्वैश्वर्य समन्वितः ॥
वसेच्छिवपुरे नित्यं नेहयाति कदाचन ।
पुण्येष्वेवं हि सर्वेषु विषुवग्रहणादिषु ॥
दानोपवासहोमाद्य भक्षयं जायते कृतम् ।
प्रतिमासं प्रवक्ष्यामि सिव व्रतमनुत्तमम् ॥
धर्मार्थकाममोक्षार्थं नरनार्यादि देहिनाम् ।
पुष्यमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ।
जितेन्द्रियः सत्यवादी शालिगोधूमगोरसैः ॥
पर्वयोरष्टमीं तस्मादुपवासेन यापयेत् ।
त्रिसन्ध्यमर्चयेदीशमग्निकार्यञ्च भक्तितः ॥
भूमिशय्या च मासान्ते पौर्णमास्यां घृतादिभिः ।
कृत्वास्नानं महापूजां शिवमन्त्रैः प्रकल्पयेत् ॥
नैवेद्यं यावकप्रस्थं क्षीरं सिद्धं निवेदयेत् ।
भोजयेच्च द्विजानष्टौ शिवभक्तान् सदक्षिणम् ॥
दद्याच्छिवायमिथुनं कपिलां वा निवेदयेत् ।
अलङ्कृतां सुरूपाञ्च तस्य पुण्यफलं शृणु ॥
सूर्यकोटिप्रतीकाशैर्विमानैस्सार्वका(गा)मिकैः ।
रुद्रकन्यासमाकीर्णैर्महावृषभसंयुतैः ॥
सङ्गीत नृत्तवाद्यैश्चाप्सरोगणशोभितैः(भिः) ।
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ॥
त्रिणेत्रः शूलपाणिश्च शिवैश्वर्यसमन्वितः ।
या या च्छिवपुरं दिव्यं यत्रास्ते शङ्करः स्वयम् ॥
यावत्तद्रोमसङ्ख्यानं तत्प्रसूतिकुलेषु च ।
तावद्युगसहस्राणि सुखी शिवपुरे वसेत् ॥
प्। ५९(६२)
एकविंशत्कुलैः सार्धं भोगान् भुक्त्वायथेप्सितान् ।
ज्ञानयोगं समासाद्य तत्रैव सविमुच्यते ॥
योगाद्दुःखान्तमाप्नोति ज्ञानाद्योगः प्रवर्तते ।
शिवधर्माद्भवेज्ज्ञानं शिवधर्मः शिवार्चनात् ॥
इत्येष वः समाख्यातः संसारार्णववर्तिनाम् ।
शिवमोक्षक्रमोपायः शिवार्चननिषेविणाम् ॥
माघमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ।
कृसरं घृतसंयुक्तं भुञ्जानस्संयतेन्द्रियः ॥
सोपवासश्चतुर्दश्यां भवेदुभयपक्षयोः ।
शिवायपौर्णमास्यां तु प्रदेयं घृतकम्बलम् ॥
कृष्णं गोमिथुनं चात्र सुरूपं विनिवेदयेत् ।
शेषं कृत्वा यथेद्दिष्टं पूर्वोक्तं लभते फलम् ॥
इन्द्रनीलप्रतीकाशैर्विमानैश्शिखिसंयुतैः ।
गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान् ॥
साम्प्राप्ते फाल्गुने मासे यः कुर्यान्नक्तभोजनम् ।
श्यामाकक्षीरनीवारैर्जितक्रोधो जितेन्द्रियः ॥
चतुर्दश्यामथाष्टम्यामुपवासरतो भवेत् ।
पौर्णमास्यां महास्नानं पञ्चगव्यघृतादिभिः ॥
वल्मीकाग्रादि मृद्भिश्च गोमूत्रैर्गोमयादिभिः ।
त्वग्भिश्च क्षीरवृक्षाणां धातुगन्धादिभिर्भवेत् ।
दद्याद् गोमिथुनं भक्त्या ताम्राभं परमेष्ठिने ॥
शेषमन्यद्यथोद्दिष्टं कृत्वाप्नोति महत्फलम् ॥
पद्मरागप्रतीकाशैर्विमानैर्मार्गसंयुतैः ।
गत्वा शिवपुरं रम्यं पूर्वोक्तान् लभते गुणान् ॥
चैत्रमासे शुभे प्राप्ते यः कुर्यान्नक्तभोजनम् ।
पौष्टिकं पयसायुक्तं भुञ्जानः संयतेन्द्रियः ॥
दद्याद्गोमिथुनं चात्र पाटलं समलङ्कृतम् ।
शिवाय तत् सुरूपञ्च शेषं पूर्ववदाचरेत् ॥
प्राणान्ते च परं स्थानं प्रयाति शिववद्वशी ।
स्वच्छमौक्तिकसङ्काशैरिन्द्रनीलोपशोभितैः ॥
जीवं जीवकसंयुक्तैर्विमानैः सुमनोरमैः ।
वैशाखमासे सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥
शाल्यन्नं पयसायुक्तं भुञ्जानः संयतेन्द्रियः ।
गोष्ठशायी शिवध्यायी निशायामेववस्त्रयुक् ॥
नियमं च यथोद्दिष्टं सामान्यं सर्वमाचरेत् ।
इन्द्रनीलप्रतीकाशै विमानैस्सार्वकामिकैः ॥
प्। ६०(६३)
गत्वा शिवपुरं दिव्यं मोदते कालमक्षयम् ।
वैशाखे पौर्णमाष्यां तु कुर्यात् स्नानं घृतादिभिः ॥
शिवालयं कृतं दद्यात् श्वेतं गोमिथुनं शुभम् ।
हंस कुन्देन्दु सङ्काशैर्विमानैस्समलङ्कृतम् ॥
सुश्वेतवृषभासक्तैः प्रयाति शिवमन्दिरम् ।
सर्वातिशययुक्ताभिः स्त्रीभिस्सम्परिवारितः ॥
नीलोत्पलसुगन्धाभिः क्रीडते कालमक्षयम् ।
ज्येष्ठमासे तु सम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥
शाल्यन्नं पयसाधौतमजाक्षीरेणसंयुतम् ।
निराशनं निशार्धं स्याद् दिवागां समनु व्रजेत् ॥
हितकारी गवां नित्यमहङ्कारविवर्जितः ।
पौर्णमाष्यां च पूर्वोक्तं कुर्यात्स्नानादिकं विधिम् ॥
देयं गो मिथुनं चात्र धूम्रवर्णमलङ्कृतम् ।
नीलोत्पलदलप्रख्यैर्महायानैरनौपमैः ॥
महासिंहनिबद्धैश्च क्रीडते कालमक्षयम् ।
आषाढे मासिसम्प्राप्ते यः कुर्यान्नक्तभोजनम् ॥
गुलखण्डाज्यसम्मिश्रं सक्तुमद्यात्सगोरसैः ।
दद्याद् गोमिथुनं गौरं शिवायालङ्कृतं शुभम् ॥
सामान्यं च विधिं सर्वं प्रकुर्यात् प्राक्प्रचोदितम् ।
शुद्धस्फटिकसङ्काशैर्यानैस्सारसवाहनैः ॥
अणिमादिगुणैर्युक्तः शिववद्विचरेदयम् ।
सम्प्राप्ते श्रावणेमासि यः कुर्यान्नक्तभोजनम् ॥
क्षीरषष्टिकभक्तेन सर्वभूतहितेरतः ।
श्वेताग्रपादपौण्ड्रञ्च दद्याद् गोमिथुनं शिवे ॥
सामान्यमखिलं कुर्यात् विधानं यत्प्रकीर्तितम् ।
सुविचित्रैर्महायानैर्विचित्रैश्च नियोजितैः ॥
गत्वा शिवपुरं दिव्यं पूर्वोक्ताल्लँभते गुणान् ।
प्राप्तेभाद्रपदे मासि यः कुर्यान्नक्तभोजनम् ॥
हुतशेषहविर्भोजी वृक्षमूलाश्रितो दिवा ।
रात्रौ चायतने सुप्त्वा सर्वभूतानुकम्पकः ॥
नीलस्कन्धं वृषङ्गाञ्च शिवाय विनिवेदयेत् ।
दिवाकरकरप्रख्यैर्वज्रवैडूर्यशोभितैः ॥
चक्रवाकसमायुक्तैर्विमानैस्सर्वकामिकैः ।
गत्वा शिवपुरं दिव्यमरासुरवन्दितम् ॥
क्रीडते स महातेजा भोगैर्यावदाभूतसम्प्लवम् ।
श्रीमदाश्वयुजेमासि यः कुर्यान्नक्तभोजनम् ॥
प्। ६१(६४)
घृताशनं प्रयुञ्जानः प्रसन्नात्माजितेन्द्रियः ।
वृषभं नीलकण्ठाभमुरोदेशे समुन्नतम् ॥
विमुच्यदद्याद्रूद्राय गामेकां समलङ्कृताम् ।
विधिशेषमशेषेण पूर्वोक्तञ्च समाचरेत् ॥
प्रयाणान्ते शिवस्थानं प्रयाति शिववद्वशी ।
स्वच्छमौक्तिकसङ्काशैर्विमानैस्सार्वकामिकैः ॥
जीवं जीवकसंयुक्तैरिन्द्रनीलोपशोभितैः ।
गत्वा शिवपुरं शैवं पूर्वोक्ताल्लँभते गुणान् ॥
शुशुभे कार्तिकेमासि यः कुर्यान्नक्तभोजनम् ।
क्षीरादन्नं प्रभुञ्जानः सत्यवादी जितेन्द्रियः ॥
दद्याद्गोमिथुनं चापि कपिलाज्वलनप्रभम् ।
पूर्वोक्तं च विधिं कुर्याच्छिवतुल्यगुणो भवेत् ॥
कल्पानलशिखा प्रख्यैर्महायानैर्मनोरमैः ।
महासिंहकृताटोपैश्शिववच्चष्टते वशी ।
मार्गशीर्षे शुभेमासे यः कुर्यान्नक्तभोजनम् ।
यवान्नं पयसायुक्तं भुञ्जानस्संयतेन्द्रियः ॥
दद्याद् गो मिथुनं दिव्यं पाण्डरं समलङ्कृतम् ।
शिवाय सर्वं पूर्वोक्तं विधानं समुपाचरेत् ॥
श्वेतपद्मसमैर्यानैः श्वेताश्ववरसंयुतैः ।
गत्वा शिवपुरं दिव्यं शिवतुल्यबलो भवेत् ॥
अहिंसासत्यमस्तेयं ब्रह्मचर्यं क्षमाशमः ।
त्रिःस्नानञ्चाग्निहोत्रं च भूशय्या नक्तभोजनम् ॥
पक्षयोरूपवासेन चतुर्दश्यष्टमीं वसेत् ।
इत्येवमादि नियमा नाचरेच्च शिवं प्रति ।
शिवभक्ता च या नारी ध्रुवं सा पुरुषो भवेत् ॥
स्त्रीत्वमप्युत्तमं सा चेत् काङ्क्षते शृणु तद्व्रतम् ।
उमामहेश्वरं नाम सदा प्रीति विवर्धनम् ॥
अवियोगकरं शान्तं धर्मकामार्थसाधनम् ।
पौर्णमास्याममावस्यां चतुर्दश्यष्टमीषु च ॥
नक्तमब्दं प्रकुर्वीत हविष्यं ब्रहमचारिणी ॥
उमामहेश्वरप्रख्यं हैमं कृत्वा सुशोभनम् ।
राजतं वाथवर्षान्ते स्नापयित्वा घृतादिभिः ॥
गन्धमाल्यैरलङ्कृत्य वस्त्रयुग्मैः सुशोभनैः ।
भक्ष्यैर्भोज्यैरशेषैश्च वितानध्वजचामरैः ॥
भोजयेच्छिवभक्तांश्च दीनानाथांश्च भोजयेत् (तर्पयेत्) ।
स्वशक्त्यादक्षिणां दत्वा शिवमन्तेक्षमापयेत् ॥
प्। ६२(६५)
ताम्रकांस्यादिपात्रं वा सितवस्त्रावकुण्ठितम् ।
कृत्वाचायतनं मध्ये प्रतिमामुपकल्पयेत् ॥
शिरसा धार्यतत्पात्रं वितानच्छत्रशोभितम् ।
ध्वजशङ्खादिविभवैः शिवस्यायतनं नयेत् ॥
लिङ्गमूर्तेर्महेशस्य व्रतमेतन्निवेदयेत् ।
तद्वेद्यां स्थापयेत्पात्रं रूपशोभा समन्वितम् ॥
ततः प्रदक्षिणी कृत्य प्रणिपत्यक्षमापयेत् ।
समाप्यैवं व्रतं पुण्यं शृणुयावत्फलं लभेत् ॥
द्वादशादित्यसङ्काशैर्विमानैस्सर्वकामिकैः ।
यथेष्टमैश्वरे लोके रुद्रैः सार्धं प्रमोदते ॥
कल्पकोटिसहस्राणि कल्पकोटि शतानि च ।
सा तस्यान्ते महाभोगैर्विष्णुलोके महीयते ॥
ततः कर्मावशेषेण सर्वकामसमन्विता ।
ब्रह्मलोकं समासाद्य परमंसुखमाप्नुयात् ॥
ब्रह्मलोकात्परिभ्रष्टा श्रीरिवप्रतिपूजिता ।
प्राजापत्यमवाप्नोति लोकं लोकनमस्कृता ॥
भोगांस्तनसुखं भुक्त्वा सोमलोके वसेत् सुखम् ।
सोमादैन्द्रं पुनर्लोकमासाद्यैन्द्रं पतिं लभेत् ॥
इन्द्रलोकाच्चगान्धर्वं सालोक्यं प्राप्यमोदते ।
गन्धर्वराजपतिना सार्धं भोगैरनेकधा ॥
महारत्नप्रभैर्दीप्तैरूपशोभितमद्भुतम् ।
यक्षलोकं च सम्प्राप्य यथाकामं प्रमोदते ॥
यक्षलोकपरिभ्रष्टा क्रीडते मेरुमूर्धनि ।
स्थानानि लोकपालानां क्रमादागत्यमोदते ॥
आलोकालोकपर्यन्ते सर्वस्मिन् क्षितिमण्डले ।
यत्र क्वचित् सुखं दिव्यं तदशेषमवाप्नुयात् ॥
एवं सा सर्वलोकेषु भोगान् भुक्त्वा यथेप्सितान् ।
क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् ॥
युवानं रूपसम्पन्नमशेषपृथिवीपतिम् ।
धर्मकामार्थमोक्षज्ञमित्थमासाद्यमोदते ॥
ततः सा धर्मशेषेण भवतीश्वरभाविता ।
स्वकर्मवासनायोगात् पुनः प्रारभते शुभम् ॥
शुभाच्च पुनरप्येवं यात्यायति सहस्रशः ।
यावन्नाप्नोतिनिर्वेदं तावद्भ्रमति कर्मणा ॥
यावद्विवेकोवैराग्यं वैराग्याज्ज्ञानसम्भवः ।
ज्ञानात् प्रवर्तते योगो योगाद् दुःखान्तमाप्नुयात् ॥
प्। ६३(६६)
याष्टम्यां च चतुर्दश्यां नियता ब्रह्मचारिणी ।
वर्षमेकं न भुञ्जीयात् महाभोगजिहीर्षया ॥
वर्षान्ते प्रतिमां कृत्वा पूर्ववद्विधिमाचरेत् ।
स्नानाद्यत्तद्व्रतं प्राप्ता पूर्वोक्तान् लभते गुणान् ॥
जाम्बूनदमयैर्यानैश्चतुर्द्वारैरलङ्कृतैः ।
गत्वा शिवपुरं दिव्यमक्षयं भोगमाप्नुयात् ॥
शिवादिसर्वलोकेषु भोगान् भुक्त्वा यथेसितान् ।
क्रमादागत्यलोकेऽस्मिन्राजानं पतिमाप्नुयात् ॥
यातामुपवसेदब्दं कृष्णामेकां पतिमाप्नुयात् ॥
यातामुपवसेदब्दं कृष्णामेकां चतुर्दशीम् ।
वर्षान्ते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् ॥
पीतानुलेपनैर्माल्यैः पीतवस्त्रैश्च पूजयेत् ।
पूर्वोक्तमखिलं कृत्वा शिवाय विनिवेदयेत् ।
सप्तभूमैर्महायानैस्तप्तचामीकरप्रभैः ।
युगकोटिशतं साग्रं शिवलोके महीयते ॥
शिवादिसर्वलोकेषु भोगान् भुक्त्वा यथेप्सितान् ।
क्रमादागत्य लोकेऽस्मिन् यथेष्टं पतिमाप्नुयात् ॥
यामावास्यां निराहारा भवेदब्दं सुयान्त्रित ।
शूलं पिष्टमयं कृत्वा वर्षान्ते विनिवेदयेत् ।
शिवाय राजतं पद्मं सुवर्णकृतकर्णिकम् ।
भक्त्या विन्यस्य तन्मूर्ध्नि शेषं पूर्ववदाचरेत् ॥
कामतोऽपि कृतं पापं ब्रूणहत्यादियत्कृतम् ।
तत्सर्वं शूलदानेन भिन्द्यान्नारी न संशयः ॥
महापद्मविमानेन नरनारी समाकुलम् (समन्विता) ।
युगकोटिशतं साग्रं शिवलोके महीयते ।
शिवलोकादि लोकेषु भुक्त्वा भोगान् यथेप्सितान् ॥
इमं लोके क्रमात् प्राप्य राजानं पतिमाप्नुयात् ।
पौर्णमास्यामुपवसेदब्दमेकं दृढव्रता ।
वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत् ॥
सुविचित्रैर्महायानैर्दिव्यगन्धमयैः शुभैः ।
युगकोटिशतं साग्रं शिवलोके महीयते ।
यथेष्टमैश्वरे लोके भुक्त्वाभोगानशेषतः ॥
क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् ।
या कार्तिकं शुभं मासं मेकभुक्तेन यापयेत् ॥
क्षमाहिंसादि नियमैः संयुक्ताब्रह्मचारिणी ।
गुलाज्यमिश्रं पिण्याकं मासान्ते विनिवेदयेत् ॥
प्। ६४(६७)
अष्टम्यां च चतुर्दश्याम्मुपवासरता भवेत् ॥
इन्द्रनीलप्रतीकाशैर्विमानैस्सार्वकामिकैः ।
वर्षायुतशतं साग्रं शिवलोके महीयते ।
यथावत्सर्वलोकेषु भोगानासाद्य सर्वतः ।
क्रमादागत्यलोकेष्मिन् यथेष्टं प्रतिमाप्नुयात् ॥
इत्येवं सर्वमासेषु विधिस्तुल्यः प्रकीर्तितः ।
एकभुक्तोपवासस्य फलं च सदृशं विदुः ॥
क्षमासत्यं दयादानं शौचमिन्द्रियनिग्रहः ।
शिवपूजाग्निहवनं सन्तोषास्तेय भावनम् ॥
सर्वव्रतेष्वयं धर्मः सामान्याद्दशधा स्मृतः ।
विशेषमपि वक्ष्यामि प्रतिमासं व्रतं प्रति ॥
मार्गशीर्षे शुभेमासे वृषभं पिष्टनिर्मितम् ।
गन्धमाल्यैरलङ्कृत्य शिवाय विनिवेदयेत् ॥
वृषयुक्तैर्महायानैर्वरभोगसमन्वितैः ।
वर्षायुतशतं साग्रं शिवलोके महीयते ॥
सर्वदेवनिकायेषु सम्प्राप्यविपुलं सुखम् ।
क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् ॥
पौष्यमासे पिनाकं तु गन्धमाल्यैरलङ्कृतम् ।
ताम्रकांस्यादिपात्रे वा कृत्वा दद्यात् पिनाकिने ॥
महापुष्पकयानेन दिव्यगन्धप्रवाहिना ।
वर्षायुतशतं साग्रं रुद्रलोके महीयते ।
भुक्त्वा तु विपुलान् भोगान् अशेषपुरसम्भवान् ।
सम्प्राप्यैवं क्रमाल्लोकान् यथेष्टं पतिमाप्नुयात् ॥
माघेरथं चाश्वयुक्तं गन्धमाल्यानुशोभितम् ।
पिष्टलिङ्गसमायुक्तं कृत्वा यतनमानयेत् ॥
महारथोपमैर्यानैः श्वेताश्ववरसंयुतैः ।
वर्षायुतशतं साग्रं शिवलोकेमहीयते ॥
सर्वामरनिकायेषु प्राप्यभोगान् यथेप्सितान् ।
क्रमादागत्य लोकेऽमिन् यथेष्टं पतिमाप्नुयात् ॥
फाल्गुने प्रतिमां पैष्टीं कृत्वा नृतसमन्विताम् ।
गन्धमाल्यैरलङ्कृत्य स्थापयेदीश्वरालये ॥
यानैरप्रतिमैर्दिव्यैर्गेयनाट्यसमन्वितैः ।
कुलैर्वर्षायुतं साग्रं शिवलोके महीयते ॥
सर्वामरनिकायेषु प्राप्यभोगात् सुदुर्लभान् ।
सम्प्राप्तेऽस्मिन् क्रमाल्लोके यथेष्टं पतिमाप्नुयात् ॥
चैत्रे भवं कुमारं च कृत्वा पैष्टमलङ्कृतम् ।
स्थाप्यपात्र्यां यथोक्तायां मानयेच्छिवमन्दिरम् ॥
प्। ६५(६८)
शरदिन्दुप्रतीकाशैर्विमानैः सार्वकामिकैः ।
वर्षायुतशतं साग्रं शिवलोके महीयते ॥
कर्मक्षयादिहागत्य पुत्रपौत्रसमन्विता ।
अभीष्टं पतिमाप्नोति लभेद्भोगान् सुदुर्लभान् ॥
तण्डुलाढकपिष्टेन कृत्वाकैलासपर्वतम् ।
ईश्वरोमासमायुक्तं सर्वधातुविभूषितम् ॥
कन्दरैर्निचितं(च्छीद्रै)चित्रैर्लवणप्रस्तसंयुतम् ।
सर्वरत्नसमायुक्तं स्थापयेदीश्वरालये ॥
कैलासव्रतमित्येवं वैशाखे या समाचरेत् ।
कैलासकल्पैस्साधारैश्शिवलोके महीयते ॥
शिवादिसर्वलोकेषु भुक्त्वाभोगानशेषतः ।
क्रमादागत्यलोकेऽस्मिन् नगेन्द्रेमोदते चिरम् ॥
लिङ्गं पिष्टमयं कृत्वा ज्येष्ठमासे सवैदिकम् ।
भक्त्या सम्पूज्यगन्धाद्यैर्वस्त्रयुग्मेन वेष्टयेत् ॥
उपशोभाविशेषैश्च तत्र जागरमाचरेत् ।
प्रतिपात्रे प्रतिपाद्यैर्नीत्वा चायतनेन्यसेत् ॥
शुद्धस्फटिकसङ्काशैर्विमानैस्सार्वकामिकैः ।
वर्षकोट्यायुतं दिव्यं रुद्रलोके महीयते ॥
भुक्त्वा भोगान् यथाकाममशेषपुरसम्भवान् ।
क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् ।
गृहं पिष्टमयं कृत्वा चाषाढे सप्तभूमिकम् ॥
सर्वबीजरसैश्चापि सम्पूर्णं शुभलक्षणम् ।
गृहोपकरणैर्युक्तं मुसलोलूखवादिभिः ॥
सर्वरत्नादिभिश्चान्यैर्दासी शय्याद्यलङ्कृतैः ।
एतैः पिष्टमयैः सर्वैः प्रदीपाद्युपशोभितैः ।
सर्वभक्ष्यसमायुक्तं गन्धमाल्यैरलङ्कृतम् ॥
कृष्णरक्तसितैः पीतैर्ध्वजवस्त्रोपशोभितम् ।
चतुर्विधेन चरुणा संयुक्तं सर्वपैस्तथा ॥
आषाढे पौर्णमास्यां तु गृहं स्थाप्य शिवाग्रतः ।
सर्वोपकरणोपेतं प्रणिपत्यन्यवेदयेत् ॥
सप्तभौमैर्महायानैः सर्वभोगपरिप्लुतैः ।
वर्षकोटिशतं साग्रं शिवलोके महीयते ॥
भुक्त्वा तु विपुलान् भोगान् सर्वलोकेष्वनुत्तमान् ।
प्राप्नोति सर्वभोगाढ्यं सप्तभौमं गृहं भुवि ॥
सर्वधातु समाकीर्णं विचित्रध्वजशोभितम् ।
निवेदयीत शर्वाय श्रावणे तिलपर्वतम् ॥
प्। ६६(६९)
स्वच्छेन्द्रनीलसङ्काशैर्यानैरप्रतिमैः शुभैः ।
वर्षकोटिशतं दिव्यं रुद्रलोकेमहीयते ॥
सम्प्राप्यविविधान् भोगान् मनसश्च यथेप्सितान् ।
क्रमाल्लोकमिमं प्राप्य राजानं पतिमाप्नुयात् ॥
कृत्वा भाद्रपदे मासे शोभनं शालिपर्वतम् ।
सुवर्णवस्त्रसंयुक्तं शिवायविनिवेदयेत् ॥
सचित्रैर्महायानैस्सर्वभोगसमन्वितैः ।
वर्षकोटिशतं साग्रं रुद्रलोकेमहीयते ॥
सम्प्राप्यविविधान् भोगाननेकपुरसम्भवान् ।
क्रमादागत्यलोकेऽस्मिन् राजानं पतिमाप्नुयात् ॥
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् ।
सुवर्णं वस्त्रसंयुक्तं शिवाय विनिवेदयेत् ॥
सुविचित्रैर्महायानैर्वरभोगसमन्वितैः ।
वर्षकोटिसहस्राणि रुद्रलोके महीयते ॥
रुद्रलोकादिलोकेषु भुक्त्वाभोगान्यथेप्सया ।
सम्प्राप्तास्मिन् क्रमाल्लोकान् राजानं पतिमाप्नुयात् ॥
धनधान्यादिसंयुक्तं सर्वबीजरसान्वितम् ।(दिभिः)
सर्वधातु समायुक्तं सर्वरत्नोपशोभितम् ।
शृङ्गैश्चतुर्भिस्संयुक्तं वितानच्छत्रशोभितम् ॥
गन्धमाल्यैश्च धूपैश्च प्रदीपैश्चोपशोभितम् ।
विविधैर्गीतवृत्तैश्च शङ्खवीणादिभिः स्वनैः ॥
ब्रह्मघोषैस्तथा पुण्यैर्मङ्गलैश्च विशेषतः ।
महाध्वजाष्टभिर्युक्तं नानाकुसुममण्डितम् ॥
नगेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम् ।
तस्य मूर्ध्निशिवं कुर्यात् सर्वदेवसमायुतम् ॥
दैत्यगन्धर्वसिद्धैश्च सुरभूतगणैस्तथा ।
विद्याधराप्सरोनागैः ऋषिभिश्च विशेषतः ॥
शालिपिष्टमयं सर्वं रूपं कुर्याद्विचक्षणः ।
देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् ॥
एवं सर्वेषु देवेषु कुर्यादस्त्राण्यथाक्रमात् ॥
शिवस्य महतीं पूजां कुर्याच्चरुसमन्वितम् ।
पूजयेत् सर्वदेवांश्च दशदिक्षुबलिं हरेत् ॥
द्विजांश्च भोजयेत्सर्वान् शिवभक्तान् सदक्षिणम् ।
दीक्षितान् व्रतिनश्चान्यानमुगम्यतु साधकान् ॥
आचार्यानुमते साध्वी नमेन्मेरुमुपस्थितम् ।
सर्वारम्भसमायुक्तं यथाविभवविस्तरम्(कल्पितम्) ॥
निवेदयीत रुद्राय कार्तिकेनगमुत्तमम् ।
या कुर्यात् सकृदप्येवं तस्याः पुण्यफलं शृणु ॥
प्। ६७(७०)
सर्वागमेषु यत्पुण्यं कथितं मुनिभिः पुरः ।
तत्पुण्यं कोटिगुणीतं माप्नुयात् सा न संशयः ॥
महारत्नप्रभैर्यानैस्सर्वकामसमन्वितैः ।
नृत्तगीतादिवाद्यैश्चाप्सरोगणसेवितैः(शोभितैः) ॥
सूर्यकोटिसमप्रख्यैर्विमानैर्मेरुसन्निभैः ।
नरनारीसमाकीर्णैर्दिव्यगन्धवहैः शुभैः ॥
देवदानवगन्धर्वैः स्तूयमाना गणाधिपैः ।
स्वच्छन्दा सर्वगाभूत्वा प्रयातीश्वरमन्दिरम् ॥
कल्पकोटिशतं दिव्यं मोदते सा महातपाः ।
एवं सर्वेषु लोकेषु भोगान् भुक्त्वा यथेप्सितान् ॥
पुण्यक्षयादिहागत्य महीपाल प्रिया भवेत् ।
सुरूपा सुभगा नित्यं भवेदीश्वरभाविता ॥
यद्यत्कार्यं समुद्दिश्य नरनारीनपुंसकाः ।
पूजयन्ति शिवं भक्त्या तत्तदेवाशु जायते ॥
मृण्मयं दारुजं शैलं पैष्टिकं वा सुकलिमतम् ।
कृत्वा गृहं महं वापि यथा विभवसम्भवम् ॥
सर्वोपकरणोपेतं सर्वधान्यैः प्रपूरितम् ।
शिवायेत्थं गृहं दत्वा सर्वकामानवाप्नुयात् ॥
उक्त्वैकभक्तं हेमन्ते मासमेकं सुयन्त्रिता ।
मासान्ते च रथं कृत्वा चित्रवस्त्रोपशोभितम् ॥
श्वेतैश्चतुर्भिस्संयुक्तं वृषभैस्समलङ्कृतम् ।
शोभितं ध्वजयूपाद्यैः छत्रचामरदर्पणैः ।
तण्डुलाढकपिष्ठेन कृत्वा लिङ्गं स वैदिकम् ॥
विन्यस्य रथमध्ये तु पूजयेत् कृतलक्षणम् ।
तद्रात्रौ रथमार्गेण शङ्खभेर्यादिभिः स्वनैः ॥
भ्रामयित्वा शनैः पश्चाच्छिवायतनमाप्नुयात् (न येत्) ।
तत्र जागरपूजाभिः प्रदीपाद्युपशोभितैः ।
प्रोक्षणीय प्रदानैश्च क्षपयेतशनैः क्षमाम्(ण) ॥
प्रभाते स्नापनं कृत्वा तद्भक्तानां च भोजनम् ।
दीनानाथान्धकेभ्यश्च यथाशक्त्या च दक्षिणाम् ॥
रथशोभासमायुक्तां शिवाय विनिवेदयेत् ।
भुक्त्वा च बान्धवैः सार्धं प्रणम्येशं गृहं व्रजेत् ।
सर्वव्रतानां परमम्मस्मिन् धर्मसमाप्यते ।
व्रतं शिवरथं नाम सर्वकामार्थसाधकम् ॥
सर्वव्रतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
सर्वं शिवरथे नैव सा पुण्यफलभाग्भवेत् ॥
सूर्यायुतप्रतीकाशैर्विमानैः सार्वकामिकैः ।
त्रिसप्तकुलजैः सार्धं शिवलोके महीयते ॥
प्। ६८(७१)
भुक्त्वा च विपुलान् भोगान् सर्वलोकेष्वनुक्रमात् ।
कल्पकोट्ययुतं साग्रं कल्पान्ते स महीपतिम् ॥
युवानं रूपसम्पन्नं भर्तारं भोगसंयुतम् ।
लभते कुशलं नित्यं राजानं रतिलालसम् ।
पञ्चतूली समायुक्तां मृद्नीङ्खट्वांसुशोभनाम् ।
सर्वोपकरणोपेतां शिवशय्यां प्रकल्पयेत् ।
शिवं देवी युतं कृत्वा पैष्टमस्यां निवेदयेत् ॥
शिवज्ञानार्थतत्वज्ञमाचार्यं विनयान्वितम् ।
सम्पूज्यगन्धपुष्पाद्यैर्वस्त्रालङ्कारचामरैः ।
भक्ष्यभोज्यैरशेषैश्च ततः शय्यां निवेदयेत् ॥
तत्रोर्णातूलतन्तूनां परिसङ्ख्या तु यावती ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥
शिवादिसर्वलोकेषु भुक्त्वा भोगानशेषतः ।
क्रमादागत्यलोकेऽस्मिन् सिंहासनपतिर्भवेत् ॥
दशगावस्सवृषभा वृषभैकादशी स्मृता ।
शिवाय विनिवेद्यैतामवधारयतत्फलम् ॥
तत्रैकादशतुल्यात्मा बलभोगादिभिर्गणैः ।
शिवादिसर्वलोकेषु यथेष्टं मोदते सुखी ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
भुक्त्वा तु विपुलान् भोगान् अशेष पुरसम्भवान् ॥
तदन्ते ज्ञानमासाद्य प्रसादात् परमेष्ठिनः ।
विमुच्यमोहकलिलं स्वात्मन्येवा नु(व)तिष्ठति(ते) ॥
वृषभं गोशतं दद्यात् शिवायातीवशोभनम् ।
त्रिसप्तकुलजैस्सार्धं शृणुयात् फलमाप्नुयात् ॥
सूर्यकोटिसमप्रख्यैः सर्वकामसमन्वितैः ।
महायानैरसङ्ख्यातैःरमरासुरपूजितैः ॥
शतरुद्रबलश्चैव वीरभद्र इवापरः ।
गत्वाशिवपुरं दिव्यमशेषाधिपतिर्भवेत् ।
भुक्त्वा तु विपुलान् भोगान् प्रलये सर्वदेहिनाम् ।
देहकञ्चुकमुत्सृज्य स कैवल्यमवाप्नुयात् ॥
सर्वज्ञः सर्वपरमः शुद्धः स्वात्मन्यव स्थितः ।
सर्वगः परिपूर्णश्च शिववत्पतिरव्ययः ॥
यो दद्यादुभयमुखीं शिवाय सुशोभनाम् ।
सप्तद्वीपां क्षितिं दत्वा यत्फलं तदवाप्नुयात् ॥
पादद्वयं शिरोर्धं च यथावत्सस्यनिर्गतम् ।
तथा गौः पृथिवी ज्ञेया तद्दातास्यान्महीपतिः ॥
इति श्रीशिवधर्मशास्त्रे उपवासविधिसमयमुखी
दानविधिर्दशमोध्यायः ॥