०९

अथ नवमः ॥

श्रीनन्दिकेश्वर उवाच

अतः परमिदं पुण्यं वक्ष्यामि मुनिसत्तम ।
पुण्यातिशयसंयुक्तं सर्वदेवैरनुष्ठितम् ॥

(वरुणादित्यसोमाग्नि मरुद्धनदनारदैः ।)

विष्णुना ब्रह्मणादेव्या स्कन्देन्द्राभ्यां यमेन च ।
वरुणादित्यसोमाग्नि मरुद्धनदनारदैः ॥

धर्मश्रीशुक्रनक्षत्र विलोपीतं शनैश्चरैः ।
विश्वामित्र वसिष्ठात्रिबृहस्पति बुधादिभिः ॥

श्वेतागस्त्यदधीचाद्यैस्सर्वैश्च मुनिपुङ्गवैः ।
भृङ्गिमातृमहाकाल चण्डेश्वरगणाधिपैः ॥

वृषवासुकि कार्कोट गुलकानन्ततक्षकैः ।
पद्मशङ्खमहापद्मैरन्यैश्चापि महोरगैः ॥

सिद्धैर्यक्षैः किं पुरुषैर्वसुभिश्च महात्मभिः ।
अप्सरो दैत्यगन्धर्व रक्षोभूतगणैरपि ॥

शिवागतिर्यथा प्राप्ता सर्वगत्यतिशायिनी ।
मया चेशप्रसादेन तथा शृणु विधिं परम् ॥

सितचन्दनतोयेन स्नाप्यलिङ्गं प्रलीप्य च ।
श्वेतैर्विकसितैः पद्मैः सम्पूज्य प्रणिपत्य च ॥

पङ्कजैर्विमलैः सौम्यै विच्छिद्रे पुष्पिते सिते ।
मध्येकेसरजालस्य स्थाप्यलिङ्गं कनीयसम् ।
अङ्गुष्ठमात्रं विधिवत् सर्वगन्धमयं शुभम् ॥

स्थाप्य दक्षिणमूर्तौ तु बिल्वपत्रैस्तदर्चयेत् ।
अगरुं दक्षिणे पार्श्वे पश्चिमे तु मनः शिलाम् ।
उत्तरे चन्दनं दद्यात् हरितालं च पूर्वतः ॥

कुसुमैश्च सुगन्धैश्च विचित्रैश्चापि पूजयेत् ।
धूपं कृष्णागरुं दत्वा सघृतं वापि गुग्गुलुम् ॥

वासांसि च सुसूक्ष्माणि विकेशानि निवेदयेत् ।
पायसं घृतसंयुक्तं घृतधीपांश्च दापयेत् ॥

सर्वं निवेद्यमन्त्रेण ततो गच्छेत् प्रदक्षिणम् ।
प्रणम्य मूर्ध्ना देवेश मुत्यायान्ते क्षमापयेत् ।
सर्वोपहारसंयुक्तं तच्चलिङ्गं निवेदयेत् ॥

शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥

प्। ५६(५९)

अनेन विधिनादेवाः सर्वे देवत्वमागताः ।
देवी देवत्वमापन्ना गुहः स्कन्दत्वमागतः ॥

ब्रह्मा ब्रह्मत्वमापन्नो हरिर्विष्णुत्वमागतः ।
एवं योऽर्चयते नित्यं लिङ्गं सर्वगन्धमयं सकृत् ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

एतद्व्रतोत्तमं गुह्यं शिवलिङ्गमहाव्रतम् ॥

भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ।
चिरपर्युषितं माल्यं शिवस्यो(स्या)पनयेत्तु यः ॥

गो सहस्र प्रदानस्य फलं तस्य न संशयः ॥

इति श्रीशिवधर्मशास्त्रे लिङ्गमहाव्रतं नाम नवमोध्यायः ॥