०८

अथाष्टमः

श्रीनन्दिकेश्वर उवाच

पृथिव्यां यानितीर्थानि पुण्यान्यायतनानि च ।
लीयन्ते तानि लिङ्गे तु तस्माल्लिङ्गं समर्चयेत् ॥

स स्नातस्सर्वतीर्थेषु स सर्वोपरिसंस्थितः ।
यः पूजयेन्महापुण्यं लिङ्गं सर्वार्थसिद्धिदम् ॥

शतेन स्थापितं लिङ्गं सहस्रेण न चालयेत् ।
दुःस्थितं सुस्थितं वापि शिवलिङ्गं न चालयेत् ॥

घृताभिषेकं यः कुर्यात् अहोरात्रं शिवस्य तु ।
सूक्ष्मद्वारेण कुम्भेन पुष्यमासे समुद्यतः ॥

गीतनृत्तोपचारेण शङ्खवादित्र निस्वनैः ।
कुर्याज्जागरणं चात्र प्रदीपाद्युपशोभितम् ॥

समस्तपापनिर्मुक्तः समस्तकुलसंयुतः ।
समस्तकामसम्पूर्णः समस्तगुणसंयुतः ॥

ज्वलद्भिस्समहायानैरसङ्ख्येयैरनुत्तमैः ।
युक्तः शिवपुरे नित्यं मोदते शिववत् सुखी ॥

ग्रहणे विषुवे चैव पुण्येषु दिवसेषु च ।
घृताभिषेकं यः कुर्यान्महापुण्यमवाप्नुयात् ॥

घृताभिषेकं यः पश्येदासमाप्ते रूपोषितः ।
विधूयसर्वपापानि शिवलोकं सगच्छति ॥

एकः पूजयते भक्त्या भक्त्या चान्यः प्रपश्यति ।
तुल्यमेवफलं ताभ्यां भक्तिरेवात्रकारणम् ॥

यः कुर्यात्पर्वकालेषु महायात्राप्रवर्तनम् ।
शिवस्य रथयात्रां वा नगरान्तः प्रदक्षिणम् ॥

महाचित्रध्वजैश्छत्रैः किङ्किणीखनान्वितैः ।
वितानध्वजमालाभिः घण्टाचामरदर्पणैः ॥

प्। ४९(५२)

शङ्खभेर्यादितुमुलैः गीतनाट्यादिसङ्कुलैः ।
लेख्यैर्दारुमयैर्यन्त्रैर्मातृरक्षोगणादिभिः ॥

उदगाग्नेययन्त्रैश्च बह्वाश्चर्यैरनेकशः ।
स्त्रीडोलायन्त्रचक्रैश्च महाचक्राष्टलम्बनैः ॥

उदध्यापानखाताद्यै महासत्रसमायुतम् ।
महाजनपदाकीर्णं यथाविभवविस्तरम् ॥

सर्वदानप्रपुण्यानि सर्वयज्ञफलानि च ।
अत्युग्रतपसां पुण्यं सर्वतीर्थफलानि च ॥

लब्ध्वानखरः श्रीमान् शिवयात्रा प्रवर्तनात् ।
शिवलोके महाभोगैः शिववन्मोदतेचिरम् ॥

तस्यान्ते देवराजत्वं सुचिरं कालमाप्नुयात् ।
जम्बूद्वीपाधिपः श्रीमान् तस्यान्ते स महीपतिः ।

आलिङ्गवेदिपर्यन्तं यो दद्याद् घृतकम्बलम् ।
घृतधाराफलं तस्य माघे पौर्णे तु पर्वणि ॥

मन्वन्तरशतं साग्रं शिवलोके महीयते ।
सम्यक् प्रोक्षणकं कृत्वा शिवलोकमवाप्नुयात् ।
सुरूपः सुभगश्श्रीमान् परिभ्रष्टोऽत्र जायते ॥

रूपं पिष्टमयं कृत्वा त्रिणेत्रं रत्नभूषितम् ।
श्रुत्वोपवीतसंयुक्तमेकपादं विशेषतः ।
दन्तेषु मौक्तिकं तस्य प्रवालमधरोष्ठयोः ॥

दद्याद्वज्रं च नेत्राभ्यां वैडूर्यं वाप्यसम्भवे ॥

हेमं रौप्यं च हस्ताभ्यां ताम्रं पादे प्रकल्पयेत् ।
अण्डजैः फेनजैर्वस्त्रैर्विचित्रैः परिवेष्टयेत् ॥

सुगन्धैश्चित्रवर्णैश्च पुष्पैरपि विभूषयेत् ।
विविधैः भक्ष्यभोज्याद्यैः बलिं तत्रोपकल्पयेत् ॥

भोजयेच्छिवभक्तांश्च विप्रान् भक्त्या च तर्पयेत् ।
प्रीयतां मे शिवो नित्यमुक्त्वा चोत्थापयेद् द्विजान् ॥

तैरेवसान्द्रं विप्रेन्द्रैस्तद्रूपन्तु शिवालये ।
नीत्वा समर्चयेद्वेद्यां शिवलिङ्गसमीपतः ॥

सर्वयज्ञफलं प्राप्य सर्वदानफलानि च ।
सुरूपो रूपदानेन शिवलोके महीयते ॥

भोजनं घृतसम्पूर्णं मधुनोपरिशोभितम् ।
दद्यात् कृष्णतिलानां च प्रस्थमेकं च मागधम् ॥

द्विगुणं तण्डुलानाञ्च पृथक्प्रस्थन्तु दापयेत् ।
गन्धैः पुष्पैस्तथा धूपैः नववस्त्रैश्च वेष्टयेत् ॥

सर्वभक्षान्नपानैश्च बलिं चैव निवेदयेत् ।

प्। ५०(५३)

अर्चयित्वा विधानेन पौर्णमास्यां विशेषतः ।
युगायुतसहस्राणि शिवलोकेमहीयते ॥

पुण्यक्षयादिहागत्य समृद्धे जायते कुले ।
मेधावी सुभगः श्रीमान् वेदवेदाङ्गपारगः ।
ताम्रपात्रं पयः पूर्णं कृत्वा चान्तःस्थकाञ्चनम् ॥

प्रच्छाद्योपरिपद्मेन गन्धपुष्पार्चितं महत् ।
शिवभक्तं द्विजं सम्यक् भोजयित्वा विधानतः ॥

प्राच्यां समुद्गते सोमे प्रतीच्यां च रवौगते ।
पौर्णमास्यां सवैशाख्यां गृह्यपात्रं शिवाग्रतः ॥

प्रीयतां मे महादेवः सोममूर्तिर्जगत्पतिः ।
तस्मैविप्रायतत्पात्रं मर्पयेद्भक्तितश्शनैः ॥

एतत्सोमव्रतं नाम कृत्वा रुद्रान्तिकं व्रजेत् ।
रुद्रलोकात्परिभ्रष्टो भवेज्जातिस्मरोनरः ।
पूर्वाभ्यासेन ते नैव पुनः शिवपुरं व्रजेत् ॥

आषाढे पौर्णमास्यां तु शिवं सम्पूज्य यत्नतः(भक्तितः) ।
उपवीतीसितादद्यात् शिवभक्तांश्च भोजयेत् ॥

पुनरेव च कार्तिक्यां पूज्यशम्भुं क्षमापयेत् ।
यतीनां दक्षिणां दद्यात् सूत्रवस्त्रादिशोभिताम् ॥

यः कुर्यात् सकृदप्येवं चातुर्मास्य पवित्रकम् ।
कल्पकोटिशतंसाग्रं शिवलोके महीयते ॥

पुण्यक्षयात्परिभ्रष्टश्चतुर्वेदी प्रजायते ।
इच्छया वा भवेद्राजा गुणवीर्यसमन्वितः ॥

भूमिदानस्य यत्पुण्यं कन्यादानस्य यत्फलम् ।
मुखवाद्येन तत्पुण्यमुभयं लभते नरः ॥

तदेव पुण्यगीतस्य नृत्तस्य च विशेषतः ।
तदेव जयशब्दस्य हस्ततालस्वने तथा ॥

योगां पयस्विनीं दद्यात् तरुणीं वृषसंयुताम् ।
शिवाय तेन दत्तं स्यात् जगत्सर्वं चराचरम् ॥

वृषभं परिपूर्णाङ्गमुदारञ्च शशिप्रभम् ।
गोमतीं धूर्वहं वापि यथेष्टं विनिवेदयेत् ॥

यावन्ति देहरोमाणि तत्प्रसूति कुलेषु च ।
तावन्मृगसहस्राणि शिवलोके महीयते ॥

स्नानाग्निकार्यमुद्दिश्य सुरूपां सुपयस्विनीम् ।
कुलीनां कपिलां दत्वा दत्तं भवति गोशतम् ॥

भयकान्तार दुर्गेभ्यः कपिलात्रातिमातृवत् ।
यत्नेन कपिलां तस्मात् शिवाय विनिवेदयेत् ॥

प्। ५१(५४)

शिवस्नानादिकार्यार्थमुत्पन्नं कपिलाघृतम् ।
तस्मात्तत्रैवसंयोज्य कपिलाशुभमिच्छता ॥

कपिलां यः पिबेच्छूद्रः शिवसंस्कारवर्जितः ।
सप्रयाति महाघोरं नरकं यातनाकुलम् ।
हुतशेषं पिबेद्विप्रः स्वर्गास्यादन्यथा पशुः ॥

गाञ्च लभ्यनमस्कृत्य यः कुर्यात्तां प्रदक्षिणम् ।
प्रदक्षिणी कृता तेन सप्तद्वीपावसुन्धरा ॥

गवां हुङ्कारशब्देन दर्शनस्पर्शनेन च ।
पापं प्रणश्यते यस्मात् पश्येत् स्पृशेत च ताम् ॥

कुतस्तेषां हि पापानि येषां गृहमलङ्कृतम् ॥

सततं बालवत्साभिर्गोभिः श्रीरिभिरिवस्वयम् ।
यानि तीर्थानि मेदिन्यामासमुद्रात् समन्ततः ॥

गवां शृङ्गोदकस्नानात् कलां नार्हति षोडशीम् ।
गवामस्थिनलङ्घेत * * मृतं न वर्जयेत् ॥

यावत् पिबति तद्गन्धं तावत् पुण्यैः प्रपूर्यते ।
गवां कण्डूयनाद्धूपात् गो प्रदान फलं लभेत् ॥

तुल्यं गो शतदानेन भयरोगादिपालनम् ।
तृणोदकादि संयुक्तं यः प्रदद्याद्गवादिकम् ॥

स गोमेधसमं पुण्यं लभते नात्र संशयः ।
बहुनात्र किमुक्तेन गावः पाल्याः प्रयत्नतः ॥

गावो दैन्यात् सदारक्ष्याः पोष्याग्राह्याश्च सर्वदा ।
ये ताडयन्ति ते पापाः सर्वलोकस्यमातरः ॥

क्रोशयन्ति च सम्मोहात् तैराकृष्टमिदं जगत् ।
ताडयेद्यदि वा मर्त्यो यश्चाक्रोशेन्नराधमः ॥

नरकाग्नौ स पच्येत गोनिश्वाससमीरिते ।
सपलाशेन दग्धेन तनुनाशं निवर्तयेत् ॥

गच्छां वेति च तां ब्रूयात् मा मातरितिवारयेत् ।
हलोत्सर्गं च यः कुर्यात् पक्षयोरुभयोरपि ॥

द्वादश्यां पञ्चदश्यां च चतुर्दश्यष्टमीषु च ।
तस्य गावो वृषाविष्ण शिवोमाः सर्वदेवताः ॥

शान्तिं जुषन्ति सुप्रीताः स्वर्गमायुर्बलं श्रियम् ।
दास्यन्ति च सदा नित्यं कल्याणं भद्रमेव च ॥

एवं यो वर्तते गोषु ताडनाक्रोशवर्जितः ।
महतीं श्रियमाप्नोति रुद्रलोकं स गच्छति ॥

गो ब्राह्मणार्थमुद्युक्तः प्राणैर्यदि वियुज्यते ।

प्। ५२(५५)

प्राप्नोति परमं स्थानं यत्र देवो महेश्वरः ॥

ब्राह्मणांश्चैव गावश्च कुलमेकं द्विधाकृतम् ।
एकत्रमन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ।
गोभिर्यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः ॥

गोभिर्वेदास्समुत्तीर्णाः सषडङ्गपदक्रमाः ।
शृङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ ।

शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।
शिरोमध्ये महादेवः सर्वदेवपतिः स्थितः ॥

ललाटाग्रे स्थिता देवी नासावंशेषु षण्मुखः ।
कम्बलाश्वतरौनागौ नासापुटसमाश्रितौ ॥

कर्णयोरश्विनौ देवौ चक्षुषी राशिभास्करौ ।
दन्तेषु वायवः सर्वे जिह्वायां वरुणः स्थितः ॥

सरस्वती च हुङ्कारे यमयक्षौ तु गण्डयोः ।
सन्ध्याद्वयं तथोष्ठाभ्यां ग्रीवामिन्द्रः समाश्रितः ॥

ऋक्षाणि ककुदिद्यौश्च साध्यश्चोरस्रिसंस्थितः ।
चतुष्पात् सकलो धर्मः स्वयं जङ्घासुसंस्थितः ॥

रुद्रैकादशकं पृष्ठे वसवः सन्धिषु स्थिताः ।
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥

खुराणां पश्चिमाग्रेषु गणोह्यप्ससां स्थितः ।
रुद्रैकादशकं पृष्ठे वसवः सन्धिषु स्थिताः ॥

श्रोणीतटस्थाः पितरो मातरो योनिमाश्रिताः ।
आदित्यारश्मयो वालाः पिण्डीभूता व्यवस्थिताः ॥

उदाने पृथिवी सर्वा स शैलवनकानना ।
साक्षाद् गङ्गा च गोमूत्रे गोमये यमुना स्थिता ।
अष्टाविंशद्देव कोट्यो रोमकूपेषु संस्थिताः ॥

चत्वारः सागराः पूर्णाः गवां ये च पयोधराः ।
एतद्वः कथितं सर्वं यथा गोषुप्रतिष्ठितम् ॥

गोषुदत्तं हुतं भुक्तं गोषु सर्वं चराचरम् ।
तस्माद् गावो न हिंस्याः स्युः पालनीयास्तु सर्वदा ।
गावः स्तुत्याश्च वन्द्याश्च गावो मां पान्तु नित्यशः ॥

ब्रह्मणा ब्रह्मशब्देन स्तूयते प्रणवेन यः ।
स शिवः शाश्वतो नित्यं गोषुमारिं व्यपोहति(तु) ॥

योर्च्यते सततं भक्त्या विष्णुना प्रभविष्णुना ।
स शिवः शाश्वतो देवो गोषुमारीं व्यपोहतु ॥

लम्बोदरेण देवेन गजवक्त्रेण योर्चितः ।

प्। ५३(५६)

स शिवः शास्वतो देवो गोषुमारिं व्यपोहतु ॥

सर्वरोगहरेणापि रविणा यः प्रपूज्यते ।
स शिवः शाश्वतो देवो गोषुमारीं व्यपोहतु ॥

श्रीमान् यो रुचिराङ्गेण घण्टाकर्णगणेन यः ।
नित्यं प्रणम्यते भक्त्या हृष्टे नानन्यचेतसा ॥

स शिवः शाश्वतो देवो गोषुमारीं व्यपोहतु ।
इत्युपद्रवसंयुक्तां गोषुमारीं व्यपोहतु ॥

नित्यं रुद्रबलोपेतो रुद्रशक्ति समन्वितः ।
घण्टाकर्णगणो देवो गोषुमारिं व्यपोहतु ॥

घण्टाकर्णगणोदेवश्शिवज्ञानविधायकः ।
शिवतेजोनुभावेन गोषुमारीं व्यपोहतु ॥

शिवाय देवदेवाय महादेवाय भामिने ।
रुद्राय स्थाणवे नित्यं हरायोग्राय ते नमः ॥

परमेशाय सिद्धाय सर्वसिद्धिप्रदायिने ।
त्र्यम्बकाय महेशायातिशान्ताय ते नमः ॥

अभिमन्त्र्यसदातोयमेतैर्मन्त्रैर्यथाक्रमम् ।
प्रोक्षयीत गवां देहं ततश्शान्तिर्भविष्यति ॥

इमां यः पठते गोषु रोगार्तासु विशेषतः ।
गो सावित्रीं महापुण्यां ततः शान्तिर्भविष्यति ॥

यः समुत्थाय सततं गो सावित्रीमिमां पठेत् ।
गवां चोत्सर्गकाले तु प्रस्थाने वा समागमे ।
आयुष्मान् बलवाञ्छ्रीमान् गोमानर्थपतिर्भवेत् ॥

दोहान्ते च शिवस्थानं स गच्छेन्नात्रसंशयः ।
प्रभूततोयंषु बृहत्तृणेषुसपुङ्गवान्नित्यमरोगवत्साः ।
चरन्तु गावः सुखिता वनेषुक्षीरं प्रयच्छन्तु सुखं स्वपन्तु ॥

यो लङ्कृत्यशिवायाश्च मुत्तमां विनिवेदयेत् ।
सोश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ॥

सुविनीतां स्त्रियं वापि पुरुषं वा निवेदयेत् ।
नरमेधस्य यज्ञस्य फलं षड्गुणमाप्नुयात् ॥

निवेदयी तयो भक्त्या भद्रन्नागमलङ्कृतम् ।
शिवायपर्वे दिवसे तस्य पुण्यफलं शृणु ॥

मत्तैरैरावतप्रख्यैः गजैर्युक्तैः सुशोभनैः ।
क्रीडते स महायानैः शतसङ्ख्यैरनेकधा ॥

कल्पकोटिसहस्राणि कल्पकोट्य युतानि च ।
रुद्रलोके ततश्चान्ते भवेदिन्द्रः सुराधिपः ॥

प्। ५४(५७)

भवेदिन्द्रसमः श्रीमान् रूपवीर्यबलान्वितः ।
यः शिवायजलोपेतां सर्वसस्य प्ररोहिणीम् ।
महीं महीपतिर्दद्यात् तस्य पुण्यफलं शृणु ॥

यावद्दण्डा भवेद्भूमिर्मीयमानासमन्ततः ।
तावत्सकल्पसङ्ख्यानं रुद्रलोके महीयते ॥

एवं सर्वत्रविज्ञेयं फलं दण्ड प्रमाणतः ।
ग्राम खेटपुरक्षेत्र विषयादि निवेदयेत् ॥

सर्वसस्यफलोपेतं सर्वबाधाविवर्जितम् ।
ग्रामं शिवाय यो दद्यात् तस्य पुण्यफलं शृणु ॥

सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत्फलम् ।
सर्वदानेषु यत्पुण्यं ग्रामदानेन तद्भवेत् ॥

सूर्यकोटिप्रतीकाशैर्दिव्यस्त्रीकोटिसंयुतै ॥

युगकोटिशतानीकैः सर्वकामसमन्वितैः ॥

विमानैग्रामदानेन त्रिसप्तकुलसंयुतः ।
यथेष्टमैश्वरे लोके क्रीडते कालमक्षयम् ।
पुण्यं नगरदानस्य ग्रामदानाच्छताधिकम् ।
देशदानेन चानन्त्यं न शक्यं तत्प्रकीर्तितुम् ॥

रत्नान्नपानगोश्वद्रिं सर्वं भूमौ प्रजायते ।
तस्मात् तु भूमिदानेन सर्वदानफलं लभेत् ।
योन्यदत्तां स्वदत्तां वा हरेद् भूमिं तु मानवः ।
प्रपच्यतेऽक्षयं कालं नरकेषु क्रमेण सः ॥

सर्वन्तु भूमिहारेण हृतमेव न संशयः ।
भूमिहर्ता भवेत्तस्मानरकेष्वामहीक्षयात् ॥

देवस्वानिहरन्तीह नरानरकनिर्भयाः ।
ब्रह्मस्वानि च ये मोहात् पच्यन्ते नरकेषु ते ॥

देव ब्रह्मस्व पुष्टानि वाहनानि महीपतेः ।
युद्धकाले नारीष्यन्ते सैकताः सेतवो यथा ॥

भूमिप्रदो वसेत् स्वर्गे यावत्कालं च सङ्ख्यया ।
तस्माच्छतगुणं कालं तद्धृत्वा नरके वसेत् ॥

विंशत्यष्टौ च याः कोट्यो नरकाणां सुदारुणाः ।
क्रमेण तेषु पच्यन्ते देव ब्रह्मस्व हारिणः ॥

कालान्तेषु समुत्तीर्णा वृक्षकीटादियोनिषु ।
भ्रमन्ति सुचिरं कालं क्षुत्पिपासादिपीडिताः ॥

एवं भ्रमन्ति सुचिरम् ईश्वरायोपजीविताः ।

प्। ५५(५८)

केनचिच्छिवभक्तेन शिवार्चायतनादिषु ।
ततो विधूतपात्मानस्तेनराश्शिवतेजसा ॥

दिवं प्रयान्ति सन्त्यज्य शरीरं यातनात्मकम् ॥

इति श्रीशिवधर्मशास्त्रे शिवप्रदानफलोऽष्टमः ॥