०७

अथ सप्तमः

नन्दिकेश्वर उवाच

ये स्मरन्ति सदाकालमीशानं पूजयन्ति ये ।
रुद्रलोकात् परिभ्रष्टा विज्ञेयास्तेगणेश्वराः ॥

अग्निहोत्रं च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गाचनस्यै ते कोट्यंशेनापि नार्हतः ॥

सदा यजति सोयज्ञैस्सदा दानं प्रयच्छति ।
सदा स वायुभक्षः स्यात् सदा यो वार्चयेच्छिवम् ॥

यः शिवं पूजयेन्नित्यं प्रणमेद्वापि भक्तितः ।
तस्य योगञ्च मोक्षञ्च शिवः प्रीतः प्रयच्छति ॥

यः कुर्यादर्चनं मासमेकाहारो जितेन्द्रियः ।
स यत्फलमवाप्नोति न तत् सर्वैर्महामखैः ॥

पौर्णमास्याममावास्या चतुर्दश्यष्टमी तथा (षु च) ।
स्नापयित्वाम्भसालिङ्गं सर्वयज्ञफलं लभेत् ॥

प्। ४२(४५)

कृष्णपक्षे त्रयोदश्यामुपोष्य परमेश्वरे ।
प्रातर्मध्याह्नयोः पूजां चतुर्दश्यां समाचरेत् ॥

पञ्चगव्यं सपीत्वादौ हविर्भुञ्जीतवाग्यतः ।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥

पौष्यकृष्णाष्टमी योगे पूजयित्वा च शङ्करम् ।
प्राप्नोति परमं स्थानं यत्र देवो महेश्वरः ॥

ब्रह्मचारी शुचिर्भूत्वा त्रिसन्ध्यं योऽर्चयेच्छिवम् ।
ससप्तकुलमुद्धृत्य शिवलोके महीयते ॥

दानोपवासनियमैः पूजा जागरभोजनैः ।
महास्नानादिविधिना शिवं पर्वसुपूजयेत् ॥

यत्पर्वयावतः कालात् भवत्तत्रार्च्यशङ्करम् ।
तावत्कालार्चनात्पुण्यं यत्तत्पर्वार्चनाल्लभेत् ॥

तस्मात् पर्वसु यत्नेन यथाविभवविस्तरैः ।
पूजनीयः शिवो नित्यं महापुण्यजिगीषया ।
नैरन्तर्येणषण्मासं विधिना पूज्यशङ्करम् ॥

पुण्यं तदेव सकलं लभते विषुवार्चनात् ।
एवमेव तु विज्ञेयं ग्रहणे चोत्तरायणे ॥

दिनाच्छिद्रेषु सङ्क्रान्तौ षडशीति मुखेषु च ।
मासैश्चतुर्भिर्यत्पुण्यं विधिना पूज्य शङ्करम् ॥

कार्तिक्यां तल्लभेत्पुण्यं पौर्णमास्यां शिवार्चनात् ।
पुण्यमेवञ्च फाल्गुन्यामाषाढ्यामेवमेव तु ॥

चातुर्मास्यार्चनं ह्येतत् महापुण्यफलप्रदम् ।
माघे मासे समुद्युक्तः त्रिसन्ध्यं योऽर्चयेच्छिवम् ॥

लभेत्षाण्मासिकं पुण्यं माघे नैव न संशयः ।
यथा माघे तथाषाढे मासे चैव तु कार्तिके ॥

त्रिषु पुण्यं समं ज्ञेयं मासे ह्येतेषु यत्कृतम् ।
चातुर्मास्य कृतं पुण्यं पुष्यमासार्चनाल्लभेत् ॥

चैत्रफाल्गुनयोः पुण्यं द्विमास जनितं भवेत् ।
चतुर्दश्याममावास्यां पौर्णमास्यां च पाक्षिकम् ॥

पुण्यमष्टगुणं ज्ञेयमष्टम्यां योर्चयेच्छिवम् ।
यः प्रदद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे ॥

एकाहं योऽर्चयेल्लिङ्गं तस्य पुण्यं ततोऽधिकम् ।
मासे मासे तु यो श्नीयात् यावज्जीवं सकृन्नरः ॥

यश्चार्चयेत् सकृल्लिङ्गं सममेतन्नसंशयः ।
एतेन क्रमयोगेन फलं विद्धि दिने दिने ॥

ज्ञेयं संवत्सरस्यापि यावद्यत्कालमर्चयेत् ।

प्। ४३(४६)

यः पुनस्सङ्गमुत्सृज्य शिवमब्दं प्रपूजयेत् ॥

नैरन्तर्याच्छतगुणं तत्पुण्यं तत्प्रवर्धते ।
पञ्चाशद्गुणितं पुणमब्दार्धं योऽर्चयेच्छिवम् ॥

ऋतावृतौ तदर्धं स्यान् मासे मासे तदर्धकम् ।
मासार्धमपि यो लिङ्गं नैरन्तर्येण पूजयेत् ॥

पुरुषोत्तमः सविज्ञेयो नैरन्तर्यं हि दुष्करम् ।
प्रातरुत्थाय यो लिङ्गं भक्त्यासम्पूजयेच्छिवम् ॥

कपिलानां शतं दत्वा यत्पुण्यं तदवाप्नुयात् ।
मध्यं दिनकरे प्राप्ते यो लिङ्गं प्रतिपूजयेत् ॥

सम्पूर्णां पृथिवीं दत्वा यत्पुण्यं तदवाप्नुयात् ।
वारुणी माश्रिते सूर्ये यः शिवं सम्यगर्चयेत् ॥

गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् ।
यो लिङ्गमर्धरात्रे तु शुचिः स्नात्वा प्रपूजयेत् ॥

अग्निष्टोमशतस्यासौ धर्मतो लभते फलम् ।
एवं पर्वसु वेलाषु स्ववेलास्वपि शङ्करम् ॥

सम्पूजयेन्नरो भक्त्या सर्वान्कामानवाप्नुयात् ।
शिवलिङ्गं महापुण्यं सर्वदेवनमस्कृतम् ॥

यः स्पृशेदपि वा नित्यं न स पापैः प्रलिप्यते ।
न तद्भूयः प्रपश्यन्ति योनिसङ्कर सङ्कटम् ॥

क्रमान्मोक्षं गमिष्यन्ति ये नरा लिङ्गमाश्रिताः ।
काञ्चनं मेरुमात्रं च सर्वां दत्वा वसुन्धराम् ॥

सागरानन्नपूर्णांश्च तल्लिङ्गार्चयतुः फलम् ।
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणाम् ॥

ईश्वरं वैद्यमासाद्य नश्यते दुष्टरोगवत् ।
शिवार्चनरतो नित्यं महापातकसम्भवैः ॥

दोषैः कृतैर्नलिप्येत पद्मपत्रमिवाम्भसा ।
छित्वा भित्वा च भूतानि हत्वा सर्वमिदं जगत् ॥

यजेदेकं विरूपाक्षं न स पापैः प्रलिप्यते ।
सर्वावस्था गतो वापि प्रयान्ति परमां गतिम् (युक्तां वा
सर्वपातकैः) ॥

(शिवमिष्ट्वा नरः सोऽपि) सरित्समुद्रतीरेषु वनेषु पवनेषु च ।
गिरिशृङ्गेषु तुङ्गेषु (गह्वरो पवनेषु च) तीर्थायतनसंश्रये ॥

(पुष्करिण्यां तटाकेषु) यत्र वा रमते बुद्धिस्तत्रैव शिवमर्चयेत् ।
सर्वयज्ञेषु यत्पुण्यं तल्लभेन्नात्र संशयः ॥

यः पुनः स्थानसङ्कल्पमुत्सृज्य शिवमर्चयेत् ।
सोऽश्वमेधफलं सर्वं लभते नात्र संशयः ॥

प्। ४४(४७)

सोश्वमेधफलं सर्वं लभतेनात्र संशयः ।
अयं विनापि मन्त्रेण पुण्यराशिः प्रकीर्तितः ॥

स्यादयं मन्त्रसंयुक्तं पुण्यं शतगुणाधिकम् ॥
तस्मान्मन्त्रेण शर्वाय स्नानगन्धफलादिकम् ॥

क्षितिगोरत्नवस्त्रादि होमाद्यं च निवेदयेत् ।
ज्ञेयो नमः शिवायेति मन्त्रः सार्वार्च्य साधकः ॥

सर्वमन्त्राधिकश्चायम्मोङ्काराद्यष्षडक्षरः ।
शिवेनान्तर्बहिर्यस्माद्माप्तं सर्वं चराचरम् ॥

जगदेकं च कुरुते तस्मादोमिति संस्मृतः ।
अयमर्धश्चतसृभिः मात्राभिः परिगीयते ॥

ब्रह्माहरिश्च रुद्रश्च मात्रास्ति(स्रे)स्य कीर्तिताः ।
दक्षिणाङ्गोद्भवो ब्रह्मा हरिर्वामाङ्गसम्भवः ॥

हृदयान्नीलरुद्रश्च ब्रह्मविष्णुप्रबोधकः ।
जगत्सृष्टिकरो ब्रह्मा विष्णुर्लोकविमोहकः ॥

जगत्सृष्टिकरो ब्रह्माविष्णुर्लोकविमोहकः ।
अनुग्रहपरोनित्यन्नीलरुद्रः शिवात्मकः ॥

त्रिभिरेतैर्जगद्व्याप्तं कारणैरात्मकर्मभिः ।
तिस्रोमात्राः शिवस्यैताः सर्वलोकप्रपूजिताः ॥

एता एव त्रयोलोकास्त्रयो वेदाग्नयस्तायः ।
त्रयोगुणास्त्रिवर्गश्च यच्चान्यज्जगतिस्थितम् ॥

अर्धमात्रा परोरुद्रः शिवः कारणकारणम् ।
तस्मादेतत्समुत्पन्नं जगतः कारणत्रयम् ॥

सर्वज्ञः कारणः शुद्धो नमस्कार महामखः ।
नमस्कारात्मयज्ञेन तस्मात् सम्पूजये च्छिवम् ॥

अज्ञानमशिवत्वं स्यात् सर्वदुःखालयं यतः ।
स्वभावात्तदवाप्तं हि तस्माद्रुद्रः परः शिवः ॥

नमः शिवाय शान्ताय कारण त्रय हेतवे ।
निवेदयामि चात्मानं मत्वैकमनसा पुनः ॥

उक्त्वों नमः शिवायेति मुच्यते सर्वपातकैः ।
यस्मात्तस्मात्तदामन्त्रमोङ्काराद्यमनुस्मरन् ॥

सर्वदा सर्वकार्येषु क्षुतनिष्ठिवनादिषु ।
यात्यों नमः शिवायेति शिवमुक्त्वा शिवं पदम् ॥

यः स्वपन् प्रतिबुध्यंश्च प्रयाणान्ते च स स्मरन् ।
सदों नमः शिवायेति स गच्छेत् परमाङ्गतिम् ॥

शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ।
संसारस्थूलबन्धानां मुद्वेष्टन करो भवेत् ॥

प्। ४५(४८)

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेद्देवमीशानं न स पापैः प्रलिप्यते ॥

स्मरणादेवरुद्रस्य पापसङ्घात पञ्जरम् ।
शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥

सर्वेषां शिवभक्तानामरोषार्थ प्रसिद्धये ।
मन्त्र माह शिवः सारमशेषार्थनिबन्धनम् ॥

सद्बीजं सर्वविद्यानामाद्यं ब्रह्म परात्परम् ।
सर्वार्थसाधकं मन्त्रं शिवसूत्रं षडक्षरम् ॥

भाष्यमस्यैव सूत्रस्य सर्वज्ञानानि शम्भुना ।
पश्चात् परापराणीह प्रव्यक्तं गदितानि तु ॥

तस्मादनेनमन्त्रेण प्रकुर्वीत शिवार्चनम् ।
सन्ध्यायां च जपेदेनं सर्वपापविशुद्धये ॥

गृहाच्छतगुणं पुण्यं सन्ध्यायां च जलाशये ।
शिवदक्षिणमूर्तौ तु तत्पुण्यमयुताधिकम् ॥

तस्माच्छिवालये सन्ध्यामाचरेच्छान्तमानसः ।
शिवमन्त्रेणसततं सर्वकामप्रसिद्धये ॥

यस्तुसर्वत्रसम्पूज्य सविशेषं सविस्तरम् ।
अश्वमेधायुतं पुण्यं लभते नात्रसंशयः ॥

सरित्समुद्रतीरेषु वनेषू पवनेषु च ।
यस्तमर्चयते भक्त्या तस्य पुण्यं ततोधिकम् ॥

जितेन्द्रियश्शान्तमनाश्शिवमन्त्रेण योऽर्चयेत् ।
न तस्य शक्यते पुण्यं वक्तुं वर्षशतैरपि ॥

गता वच्छक्यते वक्तुं यस्मिन् देशे वसेदयम् ॥

सोऽपि देशो भवेत्पूतः किं पुनस्तस्य बान्धवाः ।
येभ्यो यमन्नमश्नाति येस्तस्य परिचारकाः ॥

तेऽपीह तत्समायस्मात् तैर्विनानशिवार्चनम् ॥

न तत्र देशे दुर्भिक्षं न चमरिः प्रवर्तते ।
नाकाले म्रियते राजा पूज्यते यत्र शङ्करः ॥

यः शिवं पूजयेन्नित्यं मन्त्यजोऽपि जितेन्द्रियः ।
एवं भावसमायुक्तस्सोऽपि गच्छेत् पराङ्गतिम् ॥

नोपनीत सहस्रेभ्यो ब्रह्मचारी विशिष्यते ।
ब्रह्मचारीसहस्रेभ्यो वेदाध्यायी विशिष्यते ॥

वेदाध्यायि सहस्रेभ्यो ह्यग्निहोत्री विशिष्यते ।
अग्निहोत्रिसहस्रेभ्यो यज्ञयाजी विशिष्यते ॥

यज्ञयाजिसहस्रेभ्यो सत्रयाजी विशिष्यते ।
सत्र याजिसहस्रेभ्यः सर्वविद्यान्तपारगः ॥

प्। ४६(४९)

सर्वविद्यान्तविद्भश्च शिवभक्तो विशिष्यते ।
तस्मादेवं शिवं भक्त्याभ्यर्चयेच्छान्तमानसः ॥

शिवभक्तो जितक्रोधः शिवज्ञानपरायणः ।
मैत्रः कारुणिकोयस्तु सप्राप्नोति सदाशिवम् ॥

पुण्यप्रायेषु मैत्र्यैव मुदिता पुण्यशालिषु ।
अपुण्यवत्सु चोपेक्षा सर्वेषां च वदेच्छिवम् ॥

इत्येवं पञ्चधा चित्तं भावयित्वा यजेच्छिवम् ।
सम्पूज्यपशुभर्तारं प्रहृष्टेनान्तरात्मना ॥

ध्यानं कुर्याद्ययोद्दिष्टं सर्वपापनिकृन्तनम् ।
इष्ट्वा तु परयाभक्त्या भगवन्तं त्रिलोचनम् ॥

कृताञ्जलिपुटो भूत्वा स्तोत्रमेतज्जपेन्नरः ।
नमस्ते ज्ञानरूपाय सर्वज्ञानैक हेतवे ॥

ज्ञानविज्ञानतत्वाय नित्यं ज्ञानतमाय ते ।
सूक्ष्माय सूक्ष्मरूपाय सूक्ष्मज्ञानैक हेतवे ॥

सूक्ष्माणामपि सूक्ष्माय नमः सूक्ष्मतमायते ।
दिव्याय दिव्यदिव्याय दिव्यरनयैकहेतवे ।
दिव्यानामपि दिव्याय नमो दिव्यतमाय ते ॥

पराय परमेशाय परमार्थैक हेतवे ।
परापरविमुक्ताय नमः परतमाय ते ॥

पूज्याय पूज्य पूज्याय सर्वपूज्यैक हेतवे ।
पूज्यानामपि पूज्याय नमः पूज्यतमायते ॥

नित्याय नित्यरूपाय नित्यसम्भोग हेतवे ।

नित्यानामपि नित्याय नमो नित्यतमायते ॥

दीप्ताय दीप्तदीप्ताय सर्वदीप्त्येक हेतवे ।
दिप्तानामपि दीप्ताय नमोदीप्ततमाद्यते ।
साराय सारभूताय सर्वसारैक हेतवे ॥

साराणामपि साराय नमः सारतमायते ।
शक्ताय शक्तिरूपाय सर्वशक्त्यैक हेतवे ॥

शक्तानामपि शक्ताय नमः शक्ततमायते ।
शुद्धाय शुद्धरूपाय सर्वशुद्ध्यैक हेतवे ॥

शुद्धानामपि शुद्धाय नमः शुद्धतमायते ।
कालाय कालरूपाय सर्वकालैक हेतवे ॥

कालानामपि कालाय नमः कालतमायते ।
सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे ॥

मन्त्राणामपि मन्त्राय नमो मन्त्रतमायते ।
व्योमप्रमाणरूपाये शानाय नमो नमः ॥

व्योमप्रमाण योगाय पुरुषाय नमो नमः ।
व्योम प्रमाणभासाया घोराय नमो नमः ॥

प्। ४७(५०)

व्योमप्रमाणवामाय वामेशाय नमोस्तु ते ।
व्योमप्रमाणभोगाय भोगेशाय नमोस्तु ते ॥

व्योमप्रमाणमोक्षाय मोक्षेशाय नमोऽस्तुते ॥

व्योमप्रमाणविश्वाय विश्वेशाय नमोस्तु ते ॥

एककाय द्विकायाय बहुकायाय ते नमः ।
कायासङ्ख्येय युक्ताय त्र्यम्बकाय नमो नमः ॥

एकवक्तद्विवक्त्राय बहुवक्त्राय ते नमः ।
वक्त्रासङ्ख्येययुक्ताय परमेशाय ते नमः ॥

एकजिह्वद्विजिह्वाय बहुजिह्वाय ते नमः ।
जिह्वासङ्ख्येय युक्तायत्रिणेत्राय नमो नमः ।
व्योमप्रमाणसत्याया जिताय नमो नमः ॥

व्योमप्रमाणकामाय कामेशाय नमो नमः ।
व्योमप्रमाणदिव्याय दिव्येशाय नमो नमः ॥

व्योमप्रमाणकालाय कालेशाय नमो नमः ।
व्योमप्रमाणधर्माय धर्मेशाय नमो नमः ॥

एकदंष्ट्रद्विदंष्ट्राय बहुदंष्ट्राय ते नमः ।
दंष्ट्रासङ्ख्येय युक्ताय त्र्यम्बकाय नमो नमः ॥

एक कण्ठ द्विकण्ठाय बहुकण्ठाय ते नमः ।
कण्ठासङ्ख्येय युक्ताय नीलकण्ठाय ते नमः ॥

एक हस्त द्विहस्ताय बहुहस्ताय ते नमः ।
हस्तासङ्ख्येययुक्ताय नित्यं रुद्राय ते नमः ॥

एकनेत्रद्विनेत्राय बहुनेत्राय ते नमः ।
नेत्रासङ्ख्येय युक्ताये शानाय नमोऽस्तु ते ॥

नमस्तेऽस्तु महादेव नमस्तेऽस्तु महेश्वर ।
नमस्तेस्तु महायोगिन् नमस्तेस्तु महाबल ॥

नमस्तेस्तु महेशाय नमस्तेऽस्तु महोत्तम ।
नमस्तेऽस्तु महारूप नमस्तेऽस्तु सदाशिव ॥

नमस्तेऽस्तु महाशुद्ध नमस्तेऽस्तु सदोज्ज्वल ।
नमस्तेस्तु महादेव नमस्तेऽस्तु सदा भव ॥

नमस्ते भगवन् शान्त नमस्ते भगवन् ध्रुव ।
नमस्ते भगवद्दीप्त नमस्ते भगवन् हर ॥

अजिताय नमस्तुभ्यं भस्माङ्गाय नमोस्तु ते ।
सर्वात्मने नमस्तुभ्यं विश्वेशाय नमोस्तु ते ॥

सर्वज्ञाय नमस्तुभ्यं सर्वाम्भाय नमोस्तु ते ।
अनन्ताय नमस्तुभ्यमनाथाय नमो नमः(स्तु ते) ॥

प्। ४८(५१)

अव्यक्ताय नमस्तुभ्यं शाश्वताय नमोस्तु ते ।
सम्पूज्याय नमस्तुभ्यं वरदाय नमोस्तु ते ॥

इति स्तवे न यः कश्चित् संस्तुनोति महेश्वरम् ।
स विहायाशु पापानि रुद्रलोके महीयते ॥

भोगार्थी लभते भागान् राज्यार्थी राज्यमाप्नुयात् ।
कन्यार्थी लभते कन्यां योगार्थी योगमाप्नुयात् ॥

मुच्यते व्याधिभी रोगी दुःखी दुःखात् प्रमुच्यते ।
बन्धनान्मुच्यते बद्धो यशोर्थी कीर्तिमाप्नुयात् ॥

यान् यान् चिन्तयते कामांस्तांस्तान् प्राप्नोति भावितः ।
शैवं पदमवाप्नोति नित्यं पठति यो नरः ॥

इति श्रीशिवधर्मशास्त्रे दानधर्मोध्यायः सप्तमः ॥