…
जयात्मयोगसंस्थाय जय संशुद्धबुद्धये ।
जयदानैक शूराय जयेशाय नमोऽस्तु ते ॥
जयोत्तमाय देवाय जय कल्याणकारिणे ।
जयप्रकटदेहाय जयजप्याय ते नमः ॥
जयलक्ष्मी विधानाय जयकान्ति विधायिने ।
यज वाक्यविधुष्टाया जिनाय नमो नमः ॥
जय त्रिशूलहस्ताय जयखट्वाङ्गधारिणे ।
जय निर्जितरूपाय जय रूपाय ते नमः ॥
जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ।
जय देवादिदेवाय महादेवाय ते नमः ॥
जय त्रिभुवनेशाय जय विख्यातकीर्तये ।
जय वीराय शर्वाय जय कीर्ते नमोऽस्तु ते ॥
जय निर्मलदेहाय? जय सर्वार्थकारिणे ।
जय मन्मथनाशाय शानाय नमोस्तु ते ॥
इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयादपि ।
विधूयसर्वपापानि शिवलोके महीयते ॥
कन्यार्थी लभते कन्यां जयार्थी लभते जयम् ।
अर्थकामोलभेदर्थं पुत्रकामो लभेत् सुतम् ॥
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ।
गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥
यो यं प्रार्थयते कामं मानवः श्रवणादिह ।
तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् ॥
श्रुत्वा ध्यायमिदं पुण्यं सङ्ग्रामं प्रविशेन्नृपः ।
स विजित्यापिताञ्छत्रून् कल्याणैः परिपूर्यते ॥
अक्षयं मोदते कालमतिरस्कृतशासनः ।
व्याधिभिर्नाभिभूयेत पुत्रपौत्रप्रतिष्ठितः ॥
शान्त्यध्यायमिदं पुण्यं यदुद्दिश्यपठेन्नरः ।
प्। ४१(४४)
तस्य रोगानबाधन्ते वातपित्तादिसम्भवाः ॥
नाकाले मरणं तस्य सर्वैश्चापि न दश्यते ।
विषं नाक्रमते देहे न जडान्धत्वमूकता ॥
नोपसर्गभयं तस्य न चोत्पातभयं भवेत् ।
नाभिचारकृतो दोषः विलिप्येत कदाचन ॥
सर्वकामसमृद्धात्मा यः पठेच्च दिने दिने ।
नित्यमूर्जितसत्वः स्यादज्ञाप्यस्य निवेदनम् ॥
वरेण्यं सर्वतीर्थानां गङ्गादीनां समन्ततः (विशेषतः) ।
तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ॥
दशानां राजसूयानामग्निष्टोमशतस्य च ।
श्रवणात् फलमाप्नोति कोटि कोटि गुणोत्तरम् ॥
अवध्यः सर्वदेवानामन्येषाञ्च विशेषतः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः ।
शरणागतघाती च मित्र विस्रम्यघातकः ॥
कष्टपापसमाचारः पितृहा मातृहा तथा ।
श्रवणादस्य पापेन मुच्यते सर्वपातकैः ॥
शान्त्यध्यायमिदं पुण्यं न देयं कस्यचित् ।
दातव्यं शिवभक्तेभ्यः शिवेन कथितं पुरा ॥
सर्वकामसमृद्ध्यर्थं ये पठन्ति दिने दिने ।
तेभ्यः पुण्यमिदं देयमात्मनः शिवमिच्छता ॥
इति शिवधर्मशास्त्रे षडक्षर शिवार्चन जपोवासफलप्रकरणेन
सहशान्त्यध्यायष्षट्कः ॥