अथ पञ्चमः
नन्दिकेश्वर उवाच
लिङ्गमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः ।
स्नानकाले प्रकुवीत जयशब्दादिमङ्गलम् ॥
त्रिशूलशङ्खवज्राब्ज श्रीवत्सस्वस्तिकादिभिः ।
हैमरौप्यादिपात्रस्यैः कल्पितैर्गोमयादिभिः ॥
नानावर्णकसंयुक्तैरक्षतैस्तिलतण्डुलैः ।
प्। १३(१६)
सिद्धार्थैर्दधिसम्मिश्रैर्यथा शोभं प्रकल्पयेत् ॥
दूर्वापद्मप्रदीपाद्यैश्चूताश्वत्यादिपल्लवैः ।
ओषधीभिश्च मेध्याभिः सर्वबीजैर्यवाङ्कुरैः ॥
अष्टम्यादिषु सर्वेषु दिवसेषूत्सवेषु च ॥
पर्वकालेषु पुण्येषु पुष्यपौर्णिमपर्वणि ।
शङ्खभेर्यादिनिर्घोषैर्महद्भिर्गेयसंयुतैः ॥
कुर्यान्नीराजनं लिङ्गैः शिवमुद्दिश्यमङ्गलैः ।
यावत्पर्वाणि कुरुते भक्त्यानीराजनं शिवे ॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
स्नानकाले त्रिसन्ध्यं च यः कुर्याद्गेयवादितम् ॥
नृत्तं वा मुखवाद्यं वा तस्य पुण्यफलं शृणु ।
यावन्त्यहानिकुरुते गेयं नृत्तादि वा शतम् ॥
तावद्युगसहस्राणि रुद्रलोके महीयते ।
कपिला पञ्चगव्येन कुशवारियुतेन तु ॥
स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानं हि तत् स्मृतम् ।
एकाहमपि यो लिङ्गे ब्रह्मस्नानं समर्चयेत् (समाचरेत्) ॥
स विधूयाशुपापानि रुद्रलोके महीयते ।
कपिलापञ्चगव्येन विधिनासकृदा चरेत् ॥
स्नानं शतगुणं ज्ञेयमितरस्मान्नसंशयः ।
देवाग्निकार्यमुद्दिश्य देहशुद्धिं च शाश्वतीम् ।
कपिलामाहरेत्तस्मान् मुनिदेवादिवब्दिताम् ॥
कपिलां यः पिबेच्छूद्रः शिवकार्यार्थनिर्मिताम् ।
सपच्येत महाघोरे सुचिरं नरकार्णवे ॥
वर्षकोटिसहस्राणि यत्पापं समुपार्जितम् ।
कल्पकोटिसहस्रं तु यत्पापं समुपार्जितम् ॥
घृतस्नानेन तत्सर्वं दहत्याग्निरिवेन्धनम् ।
कृष्णाष्टम्यां घृतस्नानं कृत्वा लिङ्गे सकृन्नरः ॥
कुलैकविंशमुद्धृत्य शिवलोके महीयते ।
अयुतं योगवां दद्यात् दीग्ध्रीणां वेदपारगे ॥
वस्त्रादिहेमयुक्तानां क्षीरस्नानस्य तत्फलम् ।
सकृदाढकेन पयसा यो लिङ्गं स्नापयेन्नरः ॥
राजतेन विमानेन सोमलोकं सगच्छति ।
स्नाप्य दध्ना सकृल्लिङ्गं विष्णुलोके महीयते ॥
मधुना स्नापयित्वा तु चन्द्रलोके महीयते ।
प्। १४(१०)
स्नापयेत्तिलतैलेन हस्तयन्त्रोद्भवेन च ।
श्वेतपीतकपिष्टैर्वा वायुलोके महीयते ।
स्नानमिक्षुरसेनापि यो लिङ्गं सकृदाचरेत् ॥
लभेद्वैद्याधरं लोकं सर्वकामसमन्वितम् ।
फलोदकेन यो लिङ्गं सकृत्स्नापयते नरः ॥
उत्सृज्य पापकलिलां पितृलोके महीयते ।
सितेनभस्मनास्नाप्य सकृल्लिङ्गं प्रमोदते ॥
चन्द्रांशुनिर्मलः श्रीमान् शिववत्सोममण्डले ।
वस्त्रपूतेन तोयेन लिङ्गं स्नापयते सकृत् ॥
स सर्वकामतृप्तात्मा वारुणं लोकमाप्नुयात् ।
कुशोदकेन यो लिङ्गं भक्त्यास्नापयते सकृत् ॥
काञ्चनेन विमानेन ब्रह्मलोकं सगच्छति ।
गन्धचन्दनतोयेन स्नापयेत्सकृदीश्वरम् ॥
गन्धर्वलोकमाप्नोति गन्धर्वैश्च सपूज्यते ।
पुष्पोदकेन सावित्रं कौबेरहेमवारिणा ॥
रत्नोदकेन चाप्यैन्द्रं लोकं प्राप्य समोदते ।
पाटलोत्पलपद्मानि करवीराणिसर्वदा ॥
स्नानकालेम्बुयोज्यानि क्षीराणि सुरत्रीणि च ।
एषामेकतरस्नानं त्रिःकृत्वा भक्तितः शिवे ॥
विधूयपापकलिलं शिवलोके महीयते ।
कर्पूरागरुतोयेन यो लिङ्गं स्नापयेत्सकृत् ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
मन्त्राष्टशतजप्तेन विमलेनाम्भसा शिवम् ॥
स्नापयित्वा सकृद्भक्त्या शिवलोके महियते ।
कुलैकविंशमुद्धृत्य शिवलोके महीयते ॥
पितॄनुद्दिश्य यो लिङ्गं स्नापयेच्छीतवारिणा ।
तृप्ताः स्वर्गं प्रयास्यन्ति पितरोनरकादपि ॥
लिङ्गं शीताम्बुना स्नाप्य धारोष्णपयसा ततः ।
स्नाप्य पश्चाद् घृतेनापि घृतमेव विशिष्यते ॥
एतत् स्नानत्रयं कृत्वा पूजयित्वा च भक्तितः ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥
मृत्कुम्भात्ताम्रजैः कुम्भैः स्नानं शतगुणोत्तरम् ।
प्। १५(१८)
रौप्ये लक्षान्तरं पुण्यं हेमेकोट्याधिकं फलम् ।
लिङ्गस्य दर्शनं पुण्यं दर्शनात् स्पर्शनं तथा ॥
स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतःपरम् ।
इहामुत्रकृतं पापं घृतस्नानेन देहिनाम् ॥
क्षपये च्छङ्करो यस्मात् तस्मात् स्नानं समाचरेत् ।
दशापराधांस्तोयेन क्षीरेण तु शतं क्षमेत् ॥
सहस्रं क्षमते दध्ना घृतेनाप्ययुतं क्षमेत् ।
नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् ॥
एकविंशत्कुलोपेतो वसेच्छिवपुरे सुखी ।
स्नानं फलशतं ज्ञेयमभ्यङ्गः पञ्चविंशतिः ॥
फलानान्ते सहस्रं तु महास्नानं प्रकीर्तितम् ।
घृतस्नान घृताभ्यङ्गे कुर्याल्लिङ्गं विरूपणम् ॥
यवगोधूमजैश्चूर्णैः क्षालयेद्गन्धयोजितैः ।
सुखोष्णेनाम्भसा चापि स्नापयेदन्तरान्तरे ॥
घर्षयेद्विल्वपत्रैश्च तद्वत्पीठं च शोधयेत् ।
दशधेनु सहस्राणि यद्दत्वा लभते फलम् ॥
तत्फलं लभते सर्वं लिङ्गस्योद्वर्तने कृते ।
अर्घ्यं पुष्पफलोपेतं यः शिवाय निवेदयेत् ॥
दशवर्षसहस्राणि शिवलोके महीयते ।
आपः क्षीरं कुशाग्राणि घृतं दधिसतण्डुलम् ॥
तिलाः सिद्धार्थकाश्चैवमर्घ्यमष्टाङ्गमुच्यते ।
गन्धोदकेन सम्मिश्रं मुदकार्घ्याच्छतोत्तरम् ॥
पञ्चगव्यसमायुक्तमर्घ्यं शतगुणं भवेत् ।
योऽर्घ्यमष्टाङ्गमापूर्य लिङ्गमूर्ध्निनिवेशयेत् ॥
दशवर्षसहस्राणि रुद्रलोके समोदते ।
यवतण्डुलसव्रीहिमाषैरक्षतमादिशेत् ॥
घृतं विनाक्षतं ग्राह्यमिति केचिद्व्यवस्थिताः ।
दारवेणार्घ्यपात्रेण दत्वार्घ्यं यत्फलं भवेत् ॥
तस्माद् दशगुणं पुण्यं मृत्पात्रेण प्रकीर्तितम् ।
ताम्रपात्रार्घ्यदानेन पुण्यं शतगुणोत्तरम् ॥
पलाशपद्मपत्राभ्यां ताम्रपात्रसमं भवेत् ।
रौप्यपात्रेण विज्ञेयमर्घ्यं लक्षगुणोत्तरम् ॥
सुवर्णपात्रविन्यस्तमर्घ्यं कोटिगुणोत्तरम् ।
प्। १६(१९)
एवं स्नानार्घ्यनैवेद्यं बलिपूजादिषु क्रमात् ।
पात्रान्तरविशेषेण तत्फलं चोत्तरोत्तरम् ॥
रौप्यपात्रप्रदानेन तस्माच्छतगुणं शिवे ।
फल(शत)कोटिसुवर्णस्य यो दद्याद्वेदपारगे ॥
शिवाय रौप्यं यो दद्यात् तस्य पुण्यं ततोऽधिकम् ।
हेमपात्राणि यो भक्त्या शिवाय विनिवेदयेत् ॥
न शक्यं तस्य तद्भक्तुं पुण्यानन्त्यं विशेषतः ।
तुल्यं शिवे फलं प्रोक्तं दानादाढ्यदरिद्रयोः ॥
तयोरप्यधिकं तस्य यः शिवे भावनाधिकः ।
विभवेसति यो मोहात् न कुर्याद्विधिविस्तरम् ॥
नैव तत्फलमाप्नोति प्रलोभाक्रान्तमानसः ।
तस्मात् पत्रैः फलैपुष्पैस्तोयाद्यैश्चैव यत्कृतम् ॥
तदनन्तफलं ज्ञेयं भक्तिरेवात्रकारणम् ।
लिङ्गस्या लेपनं कृत्वा दिव्यगन्धैः सुगन्धिभिः ॥
वर्षकोटिशतं दिव्यं रौद्रलोके महीयते ।
गन्धानुलेपनात् पुण्यं द्विगुणं चन्दनस्य तु ॥
चन्दनाच्चागरुज्ञेयं पुण्यमष्टगुणोत्तरम् ।
कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते ॥
तस्माच्छतगुणं पुण्यं कुङ्कुमस्य विधीयते ।
चन्दनागरुकर्पूरैरश्लक्षणपिष्टैः सकुङ्कुमैः ॥
लिङ्गं पर्याप्तमालिप्य कल्पकोटिं वसेद्दिवि ।
संवीज्यतालवृन्तेन लिङ्गं गन्धैः प्रलेपितम् ॥
दशवर्षसहस्राणि वायुलोके महीयते ।
भक्त्यानिवेद्यरुद्राय तालवृन्तं सुशोभनम् ॥
दशवर्षसहस्राणि रुद्रलोके महीयते ।
मायूरव्यजनं दत्वा शिवायातीवशोभनम् ।
वर्षकोटिशतं पुण्यं रुद्रलोके महीयते ।
शिवायचामरं दत्वा मण्डीमण्डविभूषितम् ॥
हेमरूप्यादिदण्डं वा तस्य पुण्यफलं शृणु ।
चामरासक्तहस्ताग्र दिव्यस्त्रीपरिवारितः ॥
महाभोगविमानस्थश्चिरं शिवपुरे वसेत् ।
इत्यर्चना प्रचारेणानन्तं पुण्यसञ्चयम् ॥
सनत्कुमारः
पुऽपैः कतिविधैः पूजा कर्तव्या कथयस्व मे ।
प्। १७(२०)
श्रीनन्दिकेश्वर उवाच
पुष्पैरारण्यसम्भूतैः पत्रैर्वा गिरिसम्भवैः ॥
अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जन्तुवर्जितैः ।
आत्मारामोद्भवैश्चापि पुष्पैः सम्पूजयेच्छिवम् ॥
पुष्पजातिविशेषेण भवेत्पुण्यं विशेषतः ।
तपश्शीलगुणोपेते पात्रे वेदस्य पारगे ॥
दशदत्वा सुवर्णानि यत्फलं कुसुमेष्ट तत् ।
अर्कपुष्पेपिचैकस्मिन् शिवाय विनिवेदिते ॥
दश दत्वा सुवर्णानि यत्फलं तदवाप्नुयात् ।
एवं पुष्पविशेषेण फलं तदधिकं भवेत् ॥
एवं पुष्पान्तरे ज्ञेयं फलं स्यात् तन्निबोधत ।
अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ।
बिल्वपत्रसहस्रेभ्यः पद्ममेकं विशिष्यते ।
पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ॥
बकपुष्पसहस्रेभ्यो ह्येकं धुत्तूरकं वरम् ।
धत्तूरकसहस्रेभ्यो बृहत्पुष्पं विशिष्यते ॥
बृहत्पुष्पसहस्रेभ्यो द्रोणपुष्पं विशिष्यते ।
द्रोणपुष्पसहस्रेभ्यो ह्यपामार्गं विशिष्यते ॥
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ।
कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥
शमीपुष्पसहस्रेभ्यो श्रीमन्नीलोत्पलं वरम् ।
सर्वेषामेव पुष्पाणां प्रवरं नीलमुत्पलम् ॥
नीलोत्पलसहस्रेण यो मालां सम्प्रयच्छति ।
शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वसेच्छिवपुरे श्रीमान् शिवतुल्यपराक्रमः ।
शेषाणां पुष्पजातीनां यत्फलं परिकीर्तितम् ।
तत्फलस्यानुरूपेण शिवलोके महीयते ॥
शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते ।
करवीरसमाज्ञेया जातीविजयपाटला ॥
श्वेतमन्दारकुसुमं करञ्जेन्द्रतरुद्भवम् ।
वैभीतकानिपुष्पाणि तत्पत्राणि च वर्जयेत् ॥
दुर्गन्धान्युग्रगन्धीनि कुसुमानि विवर्जयेत् ।
प्। १८(२१)
गन्धवन्त्यपवित्राणि यानि कान्यपि वर्जयेत् ॥
गन्धहीनमपिग्राह्यं पवित्रं यत्कुशादिकम् ।
सात्विकं तद्धिकुसुमं पवित्रं नामतत्समम् ॥
कनकादीनि शस्तानि रात्रौ देयानिशङ्करे ।
दिवाशेषाणि पुष्पाणि दिवात्रान्तुमल्लिका ॥
प्रहरन्तिषु ते जाति करवीरमहर्निशम् ।
केशकीटोपबद्धानि शीर्णपर्युषितानि च ॥
स्वयं पठितपुष्पाणि त्यजेदुपहतानि च ।
मुकुलैर्नार्चयेद्देवं पक्वान्नं न निवेदयेत् ॥
फलं क्वचितविद्धं च यत्नात् पक्वं परित्यजेत् ।
अलाभेन तु पुष्पाणां पत्राण्यापि निवेदयेत् ॥
पत्राणामप्यलाभेन फलान्यपि निवेदयेत् ।
पलानामप्यलाभेन तृणगुल्मोषधीरपि ॥
ओषधीनामप्यलाभेन भक्त्याभवतिपूजितः ।
प्रत्येकमुक्तपुष्पेषु दशसौवर्णिकं फलम् ॥
स्रङ्निबद्धेषु तेष्वेव द्विगुणं फलमुच्यते ।
सुगन्धैर्मुक्तपुष्पैश्च यो लिङ्गं सम्प्रपूजयेत् ॥
मालाभिर्वापि सुघनैस्सोऽनन्तं फलमाप्नुयात् ।
बिल्वपत्रैरखण्डैर्यः सकृल्लिङ्गं प्रपूजयेत् ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
धुर्त्तूरकैश्च यो लिङ्गं सकृत्पूजयते नरः ॥
स गोलक्षप्रदानस्य (शिवं प्राप्य) फलं प्राप्य शिवं व्रजेत् ।
बृहती कुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् ॥
गवामयुतदानस्य फलं प्राप्य शिवं व्रजेत् ।
मल्लिकोत्पलपद्मानि जातीपुन्नागचम्पकाः ॥
अशोकश्वेतमन्दार कर्णिकारबकानि च ।
करवीरार्कमन्दारशमीतगरुकेसराः ॥
कुशापामार्गकुमुदकदम्बद्रोणजा अपि ।
सौगन्धिकासनानाङ्गबिन्दुशैवलिकार्जुनाः ॥
तुलसी कुरवकोलनागवञ्जुलसम्भवाः ।
नन्द्यावर्ताश्च शम्याक तिलकं नवमालिका ॥
तरुपुन्नागदन्ती च मालती कुटजादयः ।
पुष्पैरेतैर्यथा लब्धैर्योनरः पूजयेच्छिवम् ॥
स यत् फलमवाप्नोति तदेकाग्रमनाः शृणु ।
प्। १९(२२)
सूर्यकोटिप्रतीकाशैर्विमानैस्सार्वगामिकैः ।
पुष्पमालापरिक्षिप्तैर्गीतवादित्रनादितैः ॥
तन्त्रीमधुरवाद्यैश्च स्वच्छन्दगमनालसैः ।
रुद्रकोट्यासमाकीर्णैर्देवदानवदुर्लभैः ॥
दोधूयमानश्चामरैस्तु स्तूपमानः सुरासुरैः ।
गच्छेच्छिवपुरं दिव्यं यत्र वा रुचितं भवेत् ॥
एतैर्वा पीहकुसुमैः जलस्थलरुहैः शिवम् ।
सम्पूज्यप्रोक्षितैर्भक्त्या शिवलोके महीयते ॥
शिवस्योपरियः कुर्यात् सुघनं पुष्पमण्टपम् ।
शोभितं पुष्पमालाभिरापीठान्तं प्रलम्बिभिः ॥
अत्युच्चकैर्महायानैर्दिव्यगन्धोपशोभितैः ।
सर्वोपरिचरः श्रीमान् नास्ते शिवपुरे सुखी ॥
अनेकाकारविन्यस्तं कुसुमैर्गूहकं शिवे ।
यः कुर्यात्पर्वकालेषु विचित्रकुसुमोज्ज्वलम् ॥
सपुष्पकविमानानां सहस्रपरिवारितः ।
दिव्यस्त्रिसुखसम्भोग क्रीडारतिसमन्वितः ॥
अक्षयं मोदते कालमतिरस्कृतशासनः ।
शिवादिसर्वलोकेषु यत्रेष्टं याति तत्र सः ॥
पूजादिभक्तिविन्यास रचनादिषु सर्वतः ।
फलमेतत्समासेन ज्ञेयं वित्तानुसारतः ॥
मालाभिर्वेष्टयेद्वेदिं लिङ्गं सम्पूज्ययत्नतः ।
लिङ्गं वेदिर्भवेद्देवी लिङ्गं साक्षान्महेश्वरः ॥
तयोः सम्पूजनात्स्यातां देवी देवश्च पूजितौ ।
स्वयमुत्पाद्यपुष्पाणि यः शिवं पूजयेत् स्वयम् ॥
तानि साक्षात् सुगृह्णाति तद्भक्त्या सततं शिवः ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥
यः प्रकुर्याच्छिवाराममाम्रविल्वादिशोभितम् ।
जातीविजयराजाकं करवीराब्जर्ककुब्जकैः ॥
पुन्नागनागवकुलैरशोकोत्पलचम्पकैः ।
कदलीहेमपुष्पाद्यैः तस्य पुण्यफलं शृणु ॥
यावत्तत्पत्रकुसुमं नीजसूतीफलानि च ।
तावत् वर्षसहस्राणि रुद्रलोके महीयते ॥
लाक्षा प्राण्यङ्गनिर्मुक्तं धूपं दद्यात् सकृत् सकृत् ॥ शिवे ॥
प्। २०(२३)
चतुर्वेदि गृहे जन्म प्राप्नोति सततं सुखी ।
कृष्णागरुं सकर्पूरं धूपं दद्यात् सकृच्छिवे ॥
नैरन्तर्येण मासार्धं तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
भुङ्क्ते शिवपुरेभोगान् तस्यान्ते स महीपतिः ।
गुग्गुलुं घृतसंयुक्तं साक्षाद् गृह्णाति शङ्करः ॥
मासार्धमासदानेन शिवलोके महीयते ।
कृष्णपक्षे चतुर्दश्यां यः साज्यं गुग्गुलुं दहेत् ।
अपराधसहस्रैकमिहामुत्रकृते शिवः ।
क्षमतेशङ्करो यस्मात् तस्माद्देयं शिवे सदा ॥
देवदारुं नमेरुं च सर्जं श्रीवासकृन्द्रतः ।
श्रीफलं चाज्यसम्मिश्रं दत्वाप्नोति परां श्रियम् ॥
एभ्यस्सुगन्धधूपं तु षड्सहस्रगुणोत्तरम् ।
अगरुर्दशसाहस्रं द्विगुणं चासितागरुः ॥
गुग्गुलुः दशसाहस्रं सघृतो द्विगुणं भवेत् ।
प्रयच्छेद्गुग्गुलुं नित्यमाज्ययुक्तं विशेषतः ॥
द्वेसहस्रे फलानान्तु महिषाक्षस्य गुग्गुलोः ।
दग्ध्वाब्दमाज्यसम्मिश्रं शिवतुल्यः प्रजायते ॥
नमेरुं घृतसंयुक्तं दग्ध्वा बिल्वमथापिवा ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
शोधयेत् पापसंयुक्तं पुरुषं तु न संशयः ।
कृष्णागरुर्दहेत् पापं तुषाग्निरिवकाञ्चनम् ॥
योऽन्तः शिवपुरं सर्वं सुसुगन्धैः प्रलेपयेत् ।
कवाटद्वारकुड्यादितिर्यगूर्ध्वं सवैदिकम् ॥
वासयेत्पुष्पमालाभिः धूपैश्चापिसुगन्धिभिः ।
यः कुर्यात्सकृदप्येवं पुण्यं तदवधारय ॥
सर्वकामसुसम्पूर्णैर्महायानैरनेकशः ।
आपूरयन् दिशः सर्वाः आयोजनसुगन्धिभिः ॥
कल्पकोटिशतं दिव्यं शिवलोके महीयते ।
तस्यान्ते धर्मशेषेण त्रैलोक्याधिपतिर्भवेत् ॥
ऋतावृतौ तु यः कुर्यात् देवगन्धैः शिवालयम् ।
स समस्तकुलोपेतः शिवलोके महीयते ॥
त्रिवृच्छुक्लं सुपीतं वा पट्टसूत्रादिनिर्मितम् ।
दत्वोपवीतं रुद्राय भवेद्वेदान्तगो नरः ॥
प्। २१(२४)
वासांसि सुविचित्राणि सारवन्ति मृदूनि च ।
धूपितानि शिवे दद्यात् द्विद्वैकानि नवानि च ॥
यावत्तद्वस्त्रतन्तूनां परिमाणं विधीयते ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥
त्रुटिमात्रं तु यो दद्यात् द्धेमं लिङ्गस्य मूर्धनि ।
इन्द्रस्यार्धासनी तावत् यावदिन्द्राश्चतुर्दश ॥
एवमेवानुसारेण फलं ज्ञेयं समासतः ।
सर्वेषां हेमपात्राणां मकुटानां च सर्वशः ॥
योऽर्कपर्णपुटं मधुपर्कस्य मन्त्रितम् ।
निवेदयीत शर्वाय सोऽश्वमेधफलं लभेत् ॥
शालीतण्डूलकप्रस्थं कुर्यादन्नं सुसंस्कृतम् ।
शिवाय तच्चरुं दद्याच्चतुर्दश्यां विशेषतः ॥
हारिद्रं कृसरं शुक्लं पायसं याचकं तथा ।
गुलखण्डाज्यसम्मिश्रमेवमाद्यं निवेदयेत् ॥
यावन्तस्तण्डुलास्तस्मिन्नैवेद्यपरिसङ्ख्यया ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥
गुलखण्डकृतानां च भक्षाणां विनिवेदने ।
घृतेन पालितं तस्मादन्नानां तच्चतुर्गुणम् ॥
मार्जितापानकाद्यानां भक्ष्यार्थं फलमिष्यते ।
तदर्धं सलिलस्यापि वासितस्य निवेदने ॥
मातुलुङ्गफलाद्यानि सुपक्वानि निवेदयेत् ।
शिवायतत्फलं तस्य यद्भक्षाणां निवेदने ॥
घृतदीपप्रदानेन शिवायशतयोजनम् ।
याम्यं तमोलङ्घयित्वा विमानं सूर्यसन्निभम् ॥
पञ्चसौगन्धिकोपेतं ताम्बूलं यो निवेदयेत् ।
शिवाय गुरवे चैव तस्य पुण्यफलं शृणु ॥
सुगन्ध तेजास्तेजस्वी सर्वावयवशोभितः ।
वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥
यः कुर्यात्कार्तिकेमासि शोभनां दीपमालिकाम् ।
घृतेन च चतुर्दश्याममावास्यां विशेषतः ॥
सूर्यायुतप्रतीकाशतेजसा भासयेद्दिशः (यन्दिशः) ।
तेजोराशिर्विमानस्थः कुलमुद्धृत्य सर्वतः ।
यावत्प्रदीपसङ्ख्यानां घृतेनापूर्यवोधितः ।
प्। २२(२५)
तावद्युगसहस्राणि रुद्रलोके महीयते ।
दीपवृक्षान् समुद्वोध्य शिवस्या यतने शुभान् ॥
पूर्वस्माद्द्विगुणं पुण्यं लभते नात्र संशयः ।
स्थानदीपं समुद्बोध्य लोहगुच्छं शिवालये ॥
दत्वा कार्यासयुक्तं तु शिवलोके महीयते ।
शिरसा धारयेद्दीपं सर्वरात्रं शिवाग्रतः ॥
ललाटेवायहस्ताभ्यामुद्युक्तश्च तथोरसि ।
सूर्यायुतप्रतीकाशैर्विमानैरूपशोभितैः ॥
कल्पायुतशतं दिव्यं शिवलोके महीयते ।
शिवस्य पुरतो दद्याद्दर्पणं चारुनिर्मितम् ।
पर्यन्तशोभितं कृत्वा श्वेतमाल्यैश्च चन्दनैः ।
चन्द्रांशुनिर्मलः श्रीमान् सुभगः कामरूपधृक् ॥
कल्पायुतसहस्राणि शिवलोके महीयते ।
कृत्वा प्रदक्षिणं भक्त्या शिवस्या यतनं नरः ॥
अश्वमेधसहस्रस्य सुखेन लभते फलम् ।
नमस्कारः स्मृतो यज्ञ सर्वयज्ञोत्तमः शिवे ॥
नमस्कृत्वा महादेवमश्वमेधफलं लभेत् ।
प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्पयेत् ॥
स यां गतिमवाप्नोति नतां क्रतु शतैरपि ।
सर्वयज्ञोपवासेषु सर्ववेदेषु यत्फलम् ॥
स्तुति जप्योपहारेण शिवे तत्फलमाप्नुयात् ।
श्वेतं महाध्वनं दद्यात् कृत्वा वै पञ्चरङ्गिकम् ॥
किङ्किणीरवकोपेतं मयूरछत्र शोभितम् ।
सशतेन विमानानां सर्वदेवोपरिस्थितः ॥
मन्वन्तरसहस्रैकं मोदते दिविरुद्रवत् ।
ध्वजमालाकुलं कुर्याद्यः प्रसादं शिवालये ॥
महाध्वजाष्टकं वापि दिग्विदिक्षुनिवेदयेत् ।
सविमानसहस्रेण दिव्यध्वजसुशोभिना ।
कल्पायुतशतं साग्रं मोदते दिविरुद्रवत् ।
शरच्चन्द्रांशु विमलं मुक्ताजालोपशोभितम् ॥
मणिदण्डमयं च्छत्रं दद्याद्वा काञ्चनादिना ।
सच्छत्रेण विचित्रेण धार्यमाणेन शोभिभिः ॥
विमानैः शतसम्भोगैश्चिरं शिवपुरे सुखी ।
यदिन्येद्राज्यमाकाङ्क्षेत् स देही कालपर्ययात् ॥
प्। २३(२६)
भुङ्क्तेसमुद्रपर्यन्तामेकच्छत्रां वसुन्धराम् ।
यः शृङ्खला समायुक्तां महाघण्टां महास्वनाम् ॥
कांस्यलोहमयीं वापि निबध्नीयाच्छिवालये ।
घण्टाकर्णगणः श्रीमान् शिवस्यातीववल्लभः ॥
शिवतुल्यबलोभूत्वा शिवलोकेवसेच्चिरम् ।
भेरीमृदङ्गपटहतिमिलामरवादिकम् ॥
वंशकांस्यादिवादित्रं यः शिवाय निवेदयेत् ।
सविमानैर्महाभोगैर्वंशवीणादिभिः स्वनैः ॥
युगायुतशतं साग्रं शिवलोके महीयते ।
स्त्रीसङ्गीत(क)दानेन सनादेन विशेषतः ॥
यथेष्टमैश्वरे लोके मोदते कालमक्षयम् ।
महं महास्वनं दत्वा शङ्खयुग्मं शिवालये ॥
युगकोटिमहाभोगैः शिवलोके महीयते ।
विमानं सितपद्माभं मध्ये करकभूषितम् ॥
विचित्रमेकवर्णं वा नववस्त्रादिशोभितम् ।
लम्बकैःसूत्रदामैश्च घण्टाचामरभूषितम् ॥
शिवस्योपरि यो दद्यात् पुरतो वापि कल्पयेत् ।
रुद्रवत् सर्वलोकेषु युगकोटिं स मोदते ॥
शिवस्योपरि यो दद्यात् सर्वरत्नोपशोभितम् ।
किङ्किणीरवकोपेतं चन्द्रकैश्चोपशोभितम् ॥
मण्टपं मौक्तिकं श्रीमत्तस्य पुण्यफलं शृणु ।
कोटिकोटिविमानान्तं सर्वकामसमृद्धिभिः ॥
आभूतसम्प्लवं यावत् तावच्छिवपुरे वसेत् ।
शर्वस्या यतनं कुर्यात् ववस्त्रपूजोपशोभितम् ॥
दुकूलपट्टदेवाङ्गैर्वस्त्रैर्वा वर्णकान्वितैः ।
वस्त्रादिपट्टतन्तूनां परिसङ्ख्या तु यावती ॥
तावद्युगसहस्राणि शिवलोके महीयते ।
शिवं स्तुत्वा जगत्सर्वं वृष्टिद्वारेण धार्यते ॥
यत्सन्धाय जगत्पुण्यमग्निकार्येण तद्भवेत् ।
यः कुर्यादिष्टकागारं रुद्राग्नेरतिशोभनम् ॥
सकृत्तत्राग्निकार्येण शिवसायुज्यमाप्नुयात् ।
शिवाग्निकार्यं यः कुर्यात् कुर्यादायुष्यमात्मनः ॥
मुच्यते पृथुभिः पापैः सितेन शिवभस्मना ।
कृत्वा शिवालयस्यान्ते दशमण्डलिकानि तु ॥
सर्वोपहारसंयुक्तं तेषां नित्यं बलिं हरेत् ।
प्। २४(२७)
पुष्पधूपजलोपेतं ताम्रपात्रं प्रकल्पयेत् ।
रुद्रमातृगणादीनां दिक्पतीनां च सर्वतः ॥
यः कुर्यात् सकृदप्येवं दशदिक्षु बलिक्रियाम् ।
दशवर्षसहस्राणि शिवलोके महीयते ॥
रौद्रं सन्ध्याबलिं कृत्वा नित्यं पर्वसु वा निशि ।
कल्पायुतशतं साग्रं शिवलोके महीयते ।
दधिभक्तमयं लिङ्गं हेमपात्रादिषु स्थितम् ।
पुष्पधूपार्चितं कृत्वा वितानोपरिशोभितम् ॥
शिरसाधारयन् पात्रं शनैर्गच्छन् प्रदक्षिणम् ।
शिवायतनपर्यन्तं शङ्खभेर्यादिभिः स्वनैः ॥
दर्पणध्वजमालादिर्गेयनृत्तादिशोभितैः ।
छत्रचामरधूपाद्यैर्यष्टिदीपादिभिस्तथा ॥
तच्छेषदधिभक्तेन लिङ्गस्य पुरतः स्थितः ।
पुष्पाक्षतविमिश्रेण सर्वदिक्षुबलिं हरेत् ॥
एतेन मातरो रुद्राश्शिवोमाषण्मुखादयः ।
शान्तिं जुषन्ति सुप्रीता रौद्रेण बलिना सदा ॥
शिवमाल्यापनयनं पूजान्ते तु प्रमार्जनम् ।
एकैकमेकं तुल्यं स्याच्चान्द्रायणफलेन तु ॥
शिवमण्डलकं कृत्वा हस्तमात्रं शिवाग्रतः ।
अवकीर्याक्षतैः पुष्पैः पत्रैर्वाप्यथकेवलैः ॥
सुरूपः सुभगः श्रीमान् तेजस्वी वेदवित्सुखी ।
चतुर्वेदि गृहे जन्म सकृत्कृत्वा लभेन्नरः ॥
एवं स्वस्तिकपद्माद्यैर्भूमिशोभां शिवालये ।
कृत्वा वर्णकपिष्टाद्यैस्तस्माच्छतगुणं भवेत् ॥
शिवयज्ञोपकरणं दत्वाल्पं यदि वा बहु ।
एवं वित्तानुसारेण शिवलोके महीयते ॥
शिवमुद्दिश्य यद्दत्तं सर्वकारणकारणम् ।
तदनन्तफलं दातुर्भवतीति किमद्भुतम् ॥
यद्यदिष्टं विशिष्टं च न्यायेन च यदागतम् ।
तच्छिवाय निवेद्यं स्याद् भक्त्यानन्यफलार्थिभिः ॥
कर्मशाठ्येन यः कुर्यान्मूल्येनापि शिवालये ।
सोऽप्यशाठ्योदिवं याति कर्मणापापवर्जितः ॥
कूपारामान्नपानाद्यैः शिवायतनकर्मणि ।
उपयुक्तानि भूतानि खननोत्पाटनादिषु ॥
अकामतोऽपि सर्वाणि स्यावराणि चराणि च ।
प्। २५(२८)
दिवं यान्ति न सन्देहः प्रसादात् परमेष्ठिनः ॥
लिङ्गार्धशतं साग्रं शिवक्षेत्रं समन्ततः ।
देहिनां तत्र पञ्चत्वं शिवसायुज्यकारणम् ॥
मनुजैः स्थापिते लिङ्गे क्षेत्रमानमिदं स्मृतम् ।
स्वयं भूते सहस्रं स्यादार्षे च स्यात्तदर्धकम् ॥
पापाचारोऽपि यस्तस्मिन् निवसेत शिवाश्रमे ।
सयाति परमं स्थानं तस्माच्छिवपुरं स्मृतम् ॥
तस्मादावसयं कुर्याच्छिवक्षेत्रसमीपतः ।
शिवलिङ्गसमीपस्थं यत्तोयं पुरतश्शुभम् ॥
शिवगङ्गेति तज्ज्ञेयं तस्मिन् स्नात्वा शिवं व्रजेत् ।
यः कुर्याद्दीर्घिकांवापि कूपं वापि शिवाश्रमे ॥
त्रिसप्तकुलसंयुक्तं शिवलोके महीयते ।
शिवादन्यत्परित्यज्य शिवैकाहितमानसः ॥
शिवपूजाविधिं कुर्याद्यदीच्छेच्छ्रेय आत्मनः ।
त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥
त्वरितं व्याधिरभ्येति तस्मात् पूज्यः सदाशिवः ।
यावन्नाभ्येति मरणं यावन्नाक्रमते जरा ।
यावन्नेन्द्रियवैकल्यं तावत्पूजयशङ्करम् ॥
न शिवार्चनतुल्योऽन्यो धर्मोऽस्तिभुवनत्रये ।
इति विज्ञाय यत्वेन पूजनीयः सदाशिवः ।
ये भक्ता देवदेवेशं शिवं शान्तमजं प्रभुम् ॥
पूजयन्ति सदाभक्त्या तच्चित्तास्तपसि स्थिताः ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥
सम्पूज्य पशुभर्तारं प्रहृष्टेनान्तरात्मना ।
कृताञ्जलिपुटो भूत्वेदं स्तोत्रमुदाहरेत् ॥
शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमम् ।
शिवमार्गप्रणेतारं प्रणतोऽस्मि सदाशिवम् ॥
शाश्वतं शोभनं शुद्धं शासकं दोष शोषकम् ।
विश्वं विश्वेश्वरेशानं शङ्करं प्रणमाम्यहम् ॥
सर्वपापहरं नाथं सर्वरोगहरं वरम् ।
सर्वदुःखहरं नित्यं नमाम्यार्तिहरवरम् ॥
अस्थानस्थानसंस्थानं स्थितस्थितिविभावनम् ।
स्थिरमात्रस्थयोगस्थं स्थाण्वीशं प्रणमाम्यहम् ॥
ईशानपरमं देवमीशानं मन्त्रनायकम् ।
ईशानं सर्वभूतानामीशानं प्रणमाम्यहम् ।
प्। २६(२९)
सर्वार्थसम्पदाधारो गणाध्यक्षो वरप्रदः ।
रुद्रस्य तनयो देवो नायकोऽथ विनायकः ॥
करोतु शान्तिकङ्क्षेमं कर्मसिद्धिञ्च मे सदा ।
इन्द्रनीलनिभस्त्र्यक्षो दीप्तशूलायुधोद्यतः ॥
रक्ताम्बरधरश्श्रीमान् कृष्णाङ्गोनागभूषणः ।
अक्षमाला शिरोग्रस्तः स्वयं विष्णुरिव स्थितः ॥
पापापनोदमतुलमलक्ष्मीमलनाशनम् ।
करोतु मे महाकालः शान्तिं प्रीतेन चेतसा ॥
शङ्खकुन्देन्दुवर्णाभः कण्ठे मरतकप्रभः ।
चतुर्मुखाश्चतुर्बाहुस्त्रिणेत्रस्सर्वतोज्ज्वलः ।
करोतु मे महाशान्तिं प्रीतः प्रीतेन चेतसा ॥
क्षितेः पतिर्वृषोदेवस्सर्वधर्मोत्तमोत्तमः ।
ईशं वहतिपृष्ठेन तस्माद्धर्मो जगत्पतिः ॥
वृषोवृषधरश्श्रीमान् करोतु मम शान्तिकम् ।
सर्वज्ञः सर्वसदृशः सर्वगःश्शर्वजः प्रभुः ॥
शमनः शत्रुसैन्यानां शास्ताशान्तिं करोतु मे ।
करोतु मे महाशान्तिं प्रीतः प्रीतेन चेतसा ॥
पीतवस्त्रपरीधाना कन्यारूपास्वलङ्कृता ।
गणमाताम्बिका त्र्यक्षा शान्ता गौरी सुरेश्वरी ॥
सर्वसिद्धिकरा देवी प्रसादपरमा वरा ।
शान्तिं करोतु मे माता सिद्धिं चाशुप्रयच्छति(तु) ॥
स्निग्धश्यामेन वर्णेन महामहिषमर्दिनी ।
धनुश्चक्रप्रहरणा खड्गपट्टसधारिणी ॥
आतर्जनोद्यतकरा सर्वोपद्रवनाशिनी ।
सर्वमङ्गलमाता मे शिवमाशुप्रयच्छतु ॥
निर्मांसेन शरीरेण स्नास्वस्थिसुनिबन्धनः ।
अतिसूक्ष्मोतिविक्रान्तस्त्र्यक्षोभिः किरिटिर्वरः ॥
रुद्रात्मनो रुद्रवीर्यो रुद्रैकगतमानसः ।
सोविमेशान्तभावेन शिवमावहतुध्रुवम् ॥
प्रचण्डगणसैन्येशो महाटङ्काक्षधारकः ।
अक्षमालार्पितकरस्त्र्यक्षश्चण्डेश्वरो महान् ॥
प्रचण्डपापहरणो ब्रह्महत्यादिशोधकः ।
करोतु मे महायोगी कल्याणानां परम्पराम् ॥
पद्मासनो हेमनिभश्चतुर्वदनपङ्कजः ।
कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः ॥
शिवध्यानैकपरमश्शिवार्चनरतस्सदा ।
ब्रह्मशब्देन दिव्येन ब्रह्माशान्तिं करोतु मे ॥
तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ।
प्। २८(३०)
श्यामः पीताम्बरधरो वनमालाविभूषितः ।
यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ॥
कृष्णनीलाञ्जनाकारश्शिवयोरसिलक्षणः ।
शिवप्रसादसम्पन्नश्शिवध्यानपरायणः ॥
शिवार्चनरतो नित्यं विष्णुश्शान्तिं करोतु मे ।
पद्मरागप्रभा देवी चतुर्वदनपङ्कजा ॥
अक्षमालार्पितकरा कमण्डलुधरा शुभा ।
ब्रह्माणी सौम्यवदना शिवपूजापरायणा ॥
शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा ।
(हिमशैलन्निभा देवी चतुर्वदनपङ्कजा ।
अक्षमालार्पितकराकमण्डलुधराशुभा ॥
ब्रहाणी सौम्यवदना शिवपूजापरायणा ।
शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा॥)
हिमशैलनिभा देवी महावृषभवाहिनी ।
त्रिशूलहस्ता वरदा नागाभरणभूषिता ॥
रुद्रभक्ता महादेवी रुद्रार्चनरता सदा ।
चतुर्भुजा चतुर्वक्त्रा त्रिणेत्रा पापहारिणी ॥
आर्तिं हरतु मे प्रीता महादेवी महेश्वरी ।
मयूरवाहिनी देवी सिन्दूरारुणविग्रहा ॥
शक्तिहस्ता महावीर्या सर्वालङ्कारभूषिता ।
रुद्रभक्ता महापुण्या रुद्रार्चनरता सदा ॥
कौमारी वरदा देवी शान्तिमाशुकरोतु मे ।
शङ्खचक्रगदाहस्ता श्यामा पीताम्बराशुभा ॥
चतुर्भुजा तार्क्ष्यगता वैष्णवी सुरपूजिता ।
शिवार्चनरता नित्यं रुद्रैकगत मानसा ॥
शान्तिं करोतु मे नित्यं सर्वासुरविमर्दिनी ।
वराहथोणा विकटा वराहवरवाहिनी ॥
श्यामावदातविपुला शङ्खचक्रगदाधरा ।
तर्जयन्ती सदाविघ्ना नर्चयन्ती सदाशिवम् ॥
वाराही वरदा देवी क्षेमारोग्यं ददातु मे ।
ऐरावत गजारूढा वज्रहस्ता महाबला ॥
नेत्राणां तु सहस्रेण भूषिता कनकप्रभा ।
सिद्धगन्धर्वनमिता वरालङ्कारभूषिता ॥
ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे ॥
प्। २८(३१)
श्यामः पीताम्बरधरो वनमालाविभूषितः ।
यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ॥
कृष्णनीलाञ्जनाकारश्शिवयोरलिलक्षणः ।
शिवप्रसादसम्पन्नश्शिवध्यानपरायणः ॥
शिवार्चनरतो नित्यं विष्णुश्शान्तिं करोतु मे ।
पद्मरागप्रभा देवी चतुर्वदनपङ्कजा ।
अक्षमालार्पितकरा कमण्डलुधरा शुभा ॥
ब्रह्माणी सौम्यवदना शिवपूजा परायणा ।
शान्तिं करोतु मे प्रीता ब्रहमशब्देन सर्वदा ॥
हिमशैलन्निभा देवी चतुर्वदनपङ्कजा ।
अक्षमालार्पितकरा कमण्डलुधरा शुभा ॥
ब्रह्माणि सौम्यवदना शिवपूजापरायणा ।
शान्तिं करोतु मे प्रीता ब्र्हमशब्देन सर्वदा ॥)
हिमशैलनिभा देवी महावृषभवाहिनी ।
त्रिशूलहस्तावरदा नागाभरणभूषिता ॥
रुद्रभक्ता महादेवी रुद्रार्चनरता सदा ।
चतुर्भुजा चतुर्वक्त्रा त्रिणेत्रा पापहारिणी ॥
आर्तिहरतु मे प्रीता महादेवी महेश्वरी ।
मयूरवाहिनी देवी सिन्दूरारुणविग्रहा ॥
शक्तिहस्ता महावीर्या सर्वालङ्कारभूषिता ।
रुद्रभक्ता महापुण्या रुद्रार्चनरता सदा ।
कौमारी वरदा देवी शन्तिमाशुकरोतु मे ॥
शङ्खचक्रगदाहस्ता श्यामा पीताम्बरा शुभा ।
चतुर्भुजा तार्क्ष्यगता वैष्णवी सुरपूजिता ॥
शिवार्चनरता नित्यं रुद्रैकगतमानसा ।
शान्तिं करोतु मे नित्यं सर्वासुरविमर्दिनी ॥
वराहथोणा विकटा वराहवरवाहिनी ।
श्यामावदातविपुला शङ्खचक्रगदाधरा ॥
तर्जयन्ती सदा विघ्नानर्चयन्ती सदा शिवम् ।
वाराही वरदा देवी क्षेमारोग्यं ददातु मे ।
ऐरावत गजारूढा वज्रहस्ता महाबला ॥
नेत्राणां तु सहस्रेण भूषिता कनकप्रभा ।
सिद्धगन्धर्वनमिता वरालङ्कारभूषिता ।
ऐन्द्री देवी सदाकालं शान्तिमाशुकरोतु मे ॥
प्। २९(३२)
ऊर्ध्वकेशोत्कटाक्षामा निर्मांसास्नायुबन्धना ।
करालवदनाघोरा खड्गपट्टसधारिणी ॥
कपालमालिनी देवी क्रूरा खट्वाङ्गधारिणी ।
आरक्तपिङ्गनयना गजचर्मावकुण्ठिता ॥
नाना नागोपवीताअङ्गी प्रेतस्थाननिवासिनी ।
शिवारूपेणघोरेण शिवारावभयङ्करी ॥
चामुण्डी चण्डरूपेण महारक्षां करोतु मे ।
आकाशमातरो देव्यस्तथालोकैकमातरः ॥
भूतानां मातरस्सर्वास्तदन्या देवमातरः ।
सर्वमातृगणा देव्यस्सायुधाव्यग्रपाणयः ॥
जगद्व्याप्यावतिष्ठन्ति बलिकामा महोदया ।
रुद्रभक्ता महादेवीर्या रुद्रार्चन परायणाः ॥
शान्तिं कुर्वन्तु मे नित्यं मातरस्सुरपूजिताः ।
ये रुद्रा रौद्रकर्माणी रौद्रस्थान निवासिनः ॥
स सौम्याश्चैव ये केचित् सौम्यस्थाननिवासिनः ।
मातरो रौद्ररूपाश्च गणानामधिपाश्च ये ।
विघ्नभूतास्तथाचान्ये दशदिक्षुसमाश्रिताः ॥
सर्वेसुप्रीतमनसः प्रतिगृह्णन्तु मद्बलिम् ।
सिद्धिजुषन्तु मे नित्यं भयेभ्यः पातुमां सदा ॥
ऐन्द्र्यां दिशि गणाये तु वज्रहस्ता महाबलाः ।
सुश्वेताक्षाः श्वेतान्निभास्तथा वै श्वेतलोहिताः ॥
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रार्चनपराः क्षेमं शान्तिं कुर्वन्तु मे सदा ॥
आग्नेयां ये गणास्सर्वे स्रुवहस्ता निषङ्गिणः ।
सुरक्ताक्षारक्तनिभास्तथा वै रक्तलोहिताः ॥
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ।
रुद्रप्रणामपरमाः शान्तिं कुर्वन्तु मे सदा ।
याम्यां दिशिगणा ये तु सततं दण्डपाणयः ॥
सुकृष्णाक्षाः कृष्ण निभास्तथा वै कृष्णलोहितः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
ते रुद्रार्चितचेतस्काः शिवं कुर्वन्तु मे सदा ।
नैर्-ऋत्यां तु गणा ये तु राक्षसाः खड्गपाणयः ॥
सुनीलाक्षानीलनिभास्तथा वै नीललोहिताः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
प्। ३०(३३)
परमेशार्चनरता रक्षां कुर्वन्तु मे सदा ।
अपरस्यां गणा ये तु सततं पाशपाणयः ॥
सुश्यामाक्षाश्श्यामनिभास्तथा वैश्यामलोहिताः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
शिवभक्तिपरास्सर्वे क्षेमं कुर्वन्तु मे सदा ।
वायव्यां तु गणा ये तु सततं ध्वजपाणयः ॥
सुधूम्राक्षा धूम्रनिभास्तथा वै धूम्रलोहिताः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
शिवभक्ता महात्मानः कुर्वन्तु मम शान्तिकम् ।
उत्तरस्यां गणा ये तु सततं निधिपाणयः ॥
सुपीताक्षाः पीतनिभास्तथा वै पीतलोहिताः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
शिवभक्तिरमास्सर्वे क्षेमं कुर्वन्तु मे सदा ।
ऐशान्यां तु गणा ये तु सततं शूलपाणयः ॥
सुसूक्ष्माक्षाः सूक्ष्मनिभास्तथा वै सूक्ष्मलोहिताः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
ऐशानं प्रणता देवं शान्तिं कुर्वन्तु मे सदा ।
अधोभागे गणा ये तु सततं चक्रपाणयः ॥
सुपीताक्षाः पीतनिभास्तथा वै पीतलोहिताः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
शिवभक्तिपराः कुर्युरलक्ष्मीमलनाशनम् ।
ऊर्ध्वभागे गणा ये तु सततं पद्मपाणयः ॥
सुपद्माक्षाः पद्मनिभास्तथा वै पद्मलोहिताः ।
दिव्यन्तरिक्षभौमाश्च पातालतलवासिनः ॥
शिवपूजासमुद्युक्ता अशुभं नाशयन्तु मे ।
एते गणा महात्मानो महाबलपराक्रमाः ॥
शिवं सम्पूज्य यत्नेन बलिमेषां विनिक्षिपेत् ।
ततः प्रीता महात्मानः शान्तिमायुर्बलं श्रियम् ॥
प्रयच्छन्त्याशुमर्त्यानां भक्तानां तु विशेषतः ।
अमरावती तु नगरी पूर्वभागे व्यवस्थिता ॥
विद्याधरगणाकीर्णा सिद्धगन्धर्वसेविता ।
रत्नप्राकाररचिता महारत्नोपशोभिता ॥
तत्र देवपतिः श्रीमान् वज्रहस्तो महाबलः ।
नेत्राणां तु सहस्रेण शोभनेन विराजिता ॥
प्। ३१(३४)
ऐरावतगजारूढो हेमवर्णो महाद्युतिः ।
देवेन्द्रः सततं हृष्टः परमेशार्चने रतः ॥
शिवध्यानैकपरमः शिवभक्तिपरायणः ।
शिवभक्तैस्तथान्यैश्च देवैरिवसहानुगैः ॥
शिवप्रणामपरमः करोतु मम शान्तिकम् ।
आग्नेय्यां दिशिभागे तु पुरी तेजोवती शुभा ॥
नानावर्णगणाकीर्णा रत्नज्वालासमुज्ज्वला ।
तत्र ज्वालापरीताङ्गो दीप्ताङ्गारसमद्युतिः ।
भूतिकृद्देहिनां देवो ज्वलनः पापनाशनः ॥
शिवपूजापरोद्युक्तः शिवस्मरणभावितः ।
शान्तिं करोतु मे देवस्तथा पापपरिक्षयम् ॥
वैवस्वती नामपुरी दक्षिणेन व्यवस्थिता ।
सुरासुरशतानीक पितृरक्षोरगालया ॥
तत्रेन्द्रनीलसङ्काशो रक्तान्तायतलोचनः ।
महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः ॥
श्रीमान्यमो महातेजाः शिवपूजापरायणः ।
शिवपूजासमासक्तः क्षेमारोग्यं ददातु मे ॥
नैर्-ऋत्यां तु दिशोभागे पुरीकृष्णवती शुभा ।
महारक्षोगणाकीर्णा पिशाचप्रेतसङ्कुला ॥
तत्रजीमूतसङ्काशो रक्तस्रग्वस्त्रभूषणः ॥
खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः ।
रक्षेन्द्रोनिर्-ऋतिर्नित्यं शिवपूजापरायणः ॥
करोतु मे महाशान्तिं शिवभक्तिसमुद्यतः ।
पश्चिमे तु दिशोभागे पुरी शुद्धवती शुभा ।
नानानागगणाकीर्णा नानाकिन्नरसेविता ।
तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः ॥
शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः ।
वरुणः परयाभक्त्या शिवैकाहितमानसः ।
रोगशोकार्तिसन्तापं निर्नाशयतु मे सदा ॥
वायव्यदिग्विभागे तु पुरी गन्धवती शुभा ।
ऋणिसिद्धगणैर्जुष्टा हेमप्राकारतो रणा ॥
तत्र ताम्रेण देहेन कृष्णपिङ्गललोचनः ।
परव्याप्तान्तराधीनो ध्वजयष्ट्या युधोद्यतः ॥
पवनः परमोदेवः परमेश्वरभावितः ।
क्षेमारोग्यं बलं शान्तिं करोतु विजयं तथा (मम) ॥
महोदया नामपुरी उत्तरेण महोज्ज्वला ।
प्। ३२(३५)
अनेक यक्षसङ्कीर्णा नानारत्नोपशोभिता ।
तत्र देवो गदा हस्तश्चित्रस्रग्वस्त्र भूषणः ।
ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः ॥
कुबेरो वरदश्श्रीमान् हरपादार्चने रतः ।
शान्तिं करोतु मे प्रीतः शान्तश्शान्तेन तेजसा ॥
यशीवती नाम पुरी ऐशानीं दिशमाश्रिता ।
नानागणसमाकीर्णा नानारत्नकृतालया ॥
तेजः प्राकारपर्यन्ता निरौपम्य गुणान्विता ।
तत्र मौक्तिकसङ्काशः शशाङ्ककृतशेखरः ॥
त्रिणेत्रश्शान्तरूपात्मा अक्षमाला धरो हरः ।
ईशानः परमोदेवः सर्वदेवोत्तमोत्तमः ॥
सोऽपि सर्वात्मभावेन शान्तिमाशुकरोतु मे ।
भूर्लोके च भुवर्लोके स्वर्गलोकेवसन्ति ये ॥
देवादिव्यप्रदायुक्ताः शान्तिं कुर्वन्तु मे सदा ।
महर्लोके जनर्लोके तपोलोके च ये स्थिताः ॥
तेऽपि प्रमुदिता देवाः शान्तिं कुर्वन्तु मे सदा ।
सत्यलोके च ये देवाः सुप्रभोज्ज्वलविग्रहाः ॥
शिवभक्तास्सुमनसः शान्तिं कुर्वन्तु मे सदा ।
तपोलोके च ये देवाः भासयन्तो दिशो दश ॥
शिवैकाहितचेतस्काः शमयन्तु महाभयम् ।
जनलोके च ये देवाः धौतचामीकरप्रभाः ॥
ईश्वरं प्रणता नित्यं शान्तिं कुर्वन्तु मे सदा ।
महर्लोके च ये देवा विमानोज्वलसंस्थिता ॥
भवप्रणामपरमाः भयं निर्नाशयन्तु मे ।
स्वर्लोकस्याश्च ये देवा दीप्तिमन्तो महाबलाः ॥
शङ्करं प्रणता नित्यं कुर्वन्तु विजयं मम ।
भुवर्लोके च ये देवा भासमन्तो दिशोदश ॥
शिवैकाहितचेतस्काः शमयन्तु महाभयम् ।
गिरिकन्दर्दुर्गेषु भूर्लोके निवसन्ति ये ॥
रुद्रार्चनपरादेवा रक्षां कुर्वन्तु मे सदा ।
शरच्चन्द्रांशु गौरेण देहेनामल चेतसा ।
सरस्वती शिवे भक्ता सर्वान् कामान् ददातु मे ॥
चारुचामीकरच्छाया सरोजकरपल्लवा ।
शिवभक्त्याधियां देवी श्रीर्विभूतिं ददातु मे ॥
वारुणा मुखचन्द्रेण विचित्रकनकोज्ज्वला ।
सदा देवी शिवेभक्ता सर्वान् कामान् ददातु मे ॥
प्। ३३(३६)
हारेण सुविचित्रेण भास्वत्कनकमेखला ॥
अपराजितारुद्रभक्ता करोतु विजयं मम ।
सिन्धूरारुणवर्णश्च रक्तायतविलोचनः ॥
सहस्रकिरणः श्रीमान् सप्तसप्तिकवाहनः ।
गभस्तिमाली भगवान् शिवभक्त्यार्चने रतः ॥
करोतु मे महाशान्तिं ग्रहपीडानिवारणम् ।
जगदाप्यायनकरो ह्यमृताधारशितला ॥
सोमः सौम्ये न भावेन ग्रहपीडां व्यपोहतु ।
पद्मरागेण देहेन देवः पिङ्गललोचनः ॥
अङ्गारकस्तुसततं रुद्रपूजापरायणः ।
रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमानसः ॥
ग्रहपीडाभयं सर्वं निर्नाशयतु मे सदा ।
कुङ्कुमच्छविना श्रीमान् देहेन परिमण्डलः ॥
शिवभक्तो बुधोऽप्येवं ग्रहपीडां व्यपोहतु ।
तप्तचामीकरच्छायः सर्वज्ञानकृतालयः ।
बृहस्पतिः सदाकालमीशानार्चनतत्परः ।
सोऽपि मे शान्तचित्तेन परमेणसमाहितः ॥
ग्रहपीडां विनिर्जित्य करोतु विजयं मम ।
हिमकुन्देन्दुवर्णाभः सुरदैत्येन्द्रपूजितः ।
शुक्रः शिवार्चने नित्यं ग्रहपीडां व्यपोहतु ।
भिन्नाञ्जननिभच्छायः संरक्तनयनद्युतिः ॥
शनैश्चराश्शिवेभक्तो ग्रहपीडां व्यपोहतु ।
नीलजीमूतसङ्काशः सैंहिकेयो महाबलः ॥
शिवपूजापरोराहुर्ग्रहपीडां व्यपोहतु ।
भिन्नाञ्जननिभः श्रीमानुल्काहस्तो महाबलः ॥
धूम्रज्वालाकुलो दीप्तः शिवार्चनरतस्सदा ।
केतुः सुशान्तचित्तेन ग्रहपीडां व्यपोहतु ॥
धूम्रवर्णः सदाक्रूरो मृत्युपुत्रो महाबलः ।
शिवार्चनरतः केतुः ग्रहपीडां व्यपोहतु ॥
एते ग्रहा महात्मानश्शिवार्चनपरायणाः ।
शान्तिं कुर्वन्तु मे हृष्टास्सदाकालं हितैषिणः ॥
कृत्तिका परमादेवी रोहिणी रुचिरानना ।
श्रीमन्मृगशिरोभद्रा आर्द्रा च परमोज्ज्वला ॥
पुनर्वसुस्तथा पुष्या आश्लेषा तु महाबला ।
नक्षत्रमातरोह्येता प्रभामालावदास्तिताः ॥
प्। ३४(३७)
महादेवार्चनरता महादेवानुभाविताः ।
पूर्वभागे स्थिता ह्येताश्शान्तिं कुर्वन्तु मे सदा ॥
मखा सर्वगुणोपेता पूर्वफल्गुन्यनूपमा
उत्तरा फल्गुनीश्रेष्ठा हस्तचित्रे तथोत्तमे ॥
स्वाती विशाखा वरदा * * दक्षिणसंस्थिताः ।
अर्चयन्ति सदाकालं देवं त्रिणयनं परम् ॥
ममापि शान्तिकं ह्येताः कुर्वन्तु शिवचोदिताः ।
अनूराधा तथा ज्येष्ठा मूला ऋद्धिबलान्विताः ॥
पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा ।
अभिजिन्नामनक्षत्रं श्रवणः परमोज्वलः ॥
एताः पश्चिमतो दीप्ताः राजन्ते चारुमूर्तयः ।
ईशानं पूजयन्त्येताः सार्वकालं सुभाविताः ।
शान्तिकर्मे प्रयच्छन्तु विभूतिं च समाहिताः ॥
धनिष्ठाशतभिषा चैव पूर्वाभद्रपदा तथा ।
उत्तराभद्ररेवत्या वश्विनी च महर्धिका ॥
भरणी च महावीर्या नित्यमुत्तरतः स्थिताः ।
शिवार्चने सदोद्युक्ताः शिवध्यानैक तत्पराः ॥
शान्तिं कुर्वन्तु मे नित्यं सदाकालं शुभोदयाः ।
मेषो मृगाधिपः सिंहो धनुर्दीप्तिमतांवरः ॥
पूर्वेण भासयन्त्येते शिव योगपरायणाः ।
शुभाः कुर्वन्तु ते नित्यं हरपादार्चने रताः ॥
कन्या च वृषभो देवो मकरश्च महर्धिकाः ।
एते दक्षिणभागे तु पूजयन्ति सदा शिवम् ।
भक्त्या परमया नित्यं शान्तिं कुर्वन्तु मे सदा ।
मिथुनं तु तुलाकुम्भः पश्चिमेन व्यवस्थिताः ।
शिवपादार्चनरताः क्षेमं कुर्वन्तु मे सदा ।
कर्कटो वृश्चिकोमीनः एते उत्तरतः स्थिताः ॥
यजन्त्ये ते सदा कालं रुद्रं भुवननायकम् ।
शान्तिं कुर्वन्तु मे नित्यं रुद्रज्ञानविधायिनः ॥
ऋषयः सप्तविख्याताः ध्रुवान्ताः परमोज्ज्वलाः ।
शिवप्रसादसम्पन्नाश्शान्तिं कुर्वन्तु मे सदा ॥
कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ।
मनुर्दक्षो वसिष्ठोऽथ मतङ्गः पुलहः क्रतुः ॥
नारदो भृगुरात्रे यो भरद्वाजोङ्गिरा मुनिः ।
प्। ३५(३८)
वाल्मीकिः कौशिकः कण्वः शाकल्योऽथ पुनर्वसुः ॥
दूर्वासाशृश्यशृङ्गश्च तृणबिन्दुर्विमण्डकः ।
दण्डी च पिप्पलादश्च याज्ञवल्क्योऽथ गौतमः ॥
मार्कण्डेयो जामदग्न्यः पुलस्त्यस्सौमरिः शुभः ।
अगस्त्यो जैमिनिर्व्यासो मरीचिर्जहुरेव च ।
शालङ्कायन इत्याद्या ऋषयोऽथ तपस्विनः ॥
शिवध्यानार्चनरताः शान्तिं कुर्वन्तु मे सदा ।
ऋषिपत्न्यो महाभागा ऋषिकन्या कुमारकाः ॥
शिवार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा ।
सिद्धास्स्मृद्धतपसो गन्धर्वाप्सरसां गणाः ॥
विद्याधरा महात्मानो गरुडश्च महर्धिकः ।
महेश्वरपराह्येते महेश्वरपरार्चनाः ॥
सिद्धिमाशुप्रयच्छन्तु आशीर्वादपरायणाः ।
नमुचिर्दैत्यराजेन्द्रश्शङ्कुकर्णो महाबलः ॥
महानादोऽथविख्यातो दैत्यः परमवीर्यवान् ।
हाटकेश्वरदेवस्य नित्यं पूजापरायणः ॥
बलं वीर्यं च मे क्षिप्रं प्रयच्छन्तु महर्धिकाः ।
महाजम्भोह्यग्रीवः प्रह्लादो दैत्यराट् प्रभुः ।
तारकोऽग्निमुखो दैत्यः कालनेमिर्बलिस्तथा ॥
एते दैत्या महात्मानश्शिवसद्भावभाविताः ।
पुष्टिं तथा बलं वीर्यं प्रयच्छन्तु सुरारयः ॥
विरोचनो हिरण्याक्षः सुपर्वा च पुलोमकः ।
मुचुकुन्दः सुकुन्दश्च दैत्यो रैवतकस्तथा ॥
भावेन परमेणापि यजन्ति परमं शिवम् ।
सततं च शुभात्मानः पुष्टिं कुर्वन्तु मे सदा ॥
दैत्यपत्न्यो महाभागा दैत्यानां कन्यकाः शुभाः ।
कुमारा ये च दैत्यानां शान्तिं कुर्वन्तु तेऽपि मे ॥
आरक्ते न शरीरेण रक्तान्ता यतलोचनः ।
अनन्तो नागराजेन्द्रः शिवपूजार्चनेरतः ॥
महापापविषं हत्वा शान्तिमाशु करोतु मे ।
सुश्वेतेन शरीरेण सुश्वेतमणिशेखरः ।
चारुभोगकृताटोप हरचारुविभूषणः ॥
वासुकिर्नामनागेन्द्रश्शिवपूजा परोमहान् ।
सर्वनागविषं हत्वा क्षेमारोग्यं ददातु मे ॥
प्। प्। ३६(३९)
अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ।
तेजसा चातिदीप्तेन नृतस्वस्तिकलाञ्छनः ॥
नागराट् तक्षकः श्रीमान् नागकोट्यासमावृतः ।
करोतु मे महाशान्तिं सर्वदोषविषापहाम् ॥
अतिकृष्णेन देहेन स्फुरद्विकटमस्तकः ।
कण्ठरेखा त्रयोपेतो घोरदंष्ट्रा युधोद्यतः ॥
कार्कोटको महानागो विषदर्पबलान्वितः ।
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे ॥
पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ।
पद्मबिन्दुकृताभासो ग्रीवायां शुभलक्षणः ॥
ख्यातः पद्मो महानागो हरपादार्चने रतः ।
करोतु मे महाशान्तिं महापापविषक्षयम् ॥
पुण्डरीक निभे नैव देहेनामिततेजसा ।
शङ्खशूलाब्जरुचिरैः भूषितौ मूर्ध्नि सर्वदा ॥
महापद्मो महानागो नित्यं पशुपतौरतः ।
विनिर्जित्यविषङ्घोरं शान्तिमाशु करोतु मे ॥
श्यामो देहेन हारेण श्रीमान् कमललोचनः ।
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया ॥
शङ्खपालश्रियादीप्ताश्शिवपादाब्जपूजकः ।
महाविषं महाघोरं हत्वाशान्तिं करोतु मे ॥
अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ।
दीप्तभोगकृता टोपः शुभलक्षणलक्षितः ॥
गुलिकोनागराजेन्द्रो नित्यं हरपरायणः ।
अपहृत्यविषङ्घोरं करोतु मम शान्तिकम् ॥
अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ।
गिरिकन्दरदुर्गेषु ये नागा दिविसंस्थिताः ।
पाताले ये स्थिता नागाः सर्वेऽप्यत्रसमाहिताः ।
हरपादार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा ॥
नागिन्यो नागकन्याश्च तथा नागकुमारकाः ।
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ॥
य इदं नागसंस्थानं कीर्तयेच्छृणुयादपि ।
तं च नागनहिंसन्ति विषं नाक्रमते सदा ॥
चिन्तितं लभते नित्यं तथा पापक्षयो भवेत् ।
सिद्धिं चापि प्रयच्छन्ति सर्वविघ्नविवर्जिताम् ॥
प्। ३७(४०)
सुरभी देवी गोलोके वसती शुभलक्षणा ।
सततं क्षीरधाराढ्या ब्रह्मर्षिगणपूजिता ॥
गोगणैर्गोवृषैर्नित्यं प्रहृष्टा परिवारिता ।
शिवभक्तासदाशान्ता शान्तिमाशुकरोतु मे ॥
एते च गोगणाः सर्वे गोवृषाश्च महौजसः ।
शिवभक्ता महात्मानः शान्तिं कुर्वन्तु मे सदा ॥
गङ्गापुण्यप्रदा देवि यमुनानर्मदा नदी ।
गोमती तापिकापेण्णा वरुणादेविकावरा ॥
सर्वभूतपतिं देवं परमेशं महेश्वरम् ।
पूजयन्ति महानद्यः शिवसद्भाव भाविताः ॥
शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् ।
सिद्धिं चाशुप्रयच्छन्तु सर्वविघ्नविवर्जितम् ॥
चन्द्रभागा महापुण्या नदीगोदावरी शुभा ।
सरयू गण्डकी श्रेष्ठा कौशिकी च सरस्वती ॥
एता नद्यो महाभागा शिवपादार्चने रताः ।
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः ॥
नैरञ्जना नाम नदी शोणश्चापि महानदः ।
मन्दाकिनी च परमा तथा सन्निहिताः शुभाः ॥
एताश्चान्याश्चवैवह्न्यो भुवि दिव्यन्तरिक्षगाः ।
रुद्रार्चनपरा(नित्यं)नद्यः कुर्वन्तु मम शान्तिकम् ॥
गुह्यानि यानि तीर्थानि आसमुद्रसरांसि च ।
कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु ॥
महावैश्रवणो यक्षो यक्षराजोमहर्धिकः ।
यक्षकोटिपरीवारो यक्षसङ्ख्येयसंयुतः ॥
महाविभवसम्पन्नो हरपादार्चनेरतः ।
हरध्यानैकपरमो हरपादानतोत्तमः ॥
शान्तिं करोतु मे प्रीतः पद्मपत्रायतेक्षणः ।
माणिभद्रमहायक्षो मणिरत्नविभूषितः ॥
मनोहरेण हारेण कण्ठलग्नेन राजता ।
शिवगानरतो नित्यं शिवपादाब्जपूजकः ॥
शान्तिं करोतु मे नित्यं सर्वदोषनिवारणः ।
यक्षिणी यक्षकन्याभिः परिवारितविग्रहः ॥
रुद्रार्चनपरोभक्तः करोतु मम शान्तिकम् ।
सुवीरस्तु महायक्षो मणिकुण्डलभूषितः ॥
प्। ३८(४१)
ललाटे हेमपट्टेन काञ्चनेन विराजता ।
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः ॥
शिवपूजापरोनित्यं करोतु मम शान्तिकम् ।
चाण्डिको नाम यक्षेन्द्रः कर्णिका कटकोज्ज्वलः ॥
मकुटेन विचित्रेण केयूराभ्यां विभूषितः ।
यक्षकन्यासमायुक्तो यक्षसङ्ख्येयसंयुतः ॥
हरार्चनपरः श्रीमान् करोतु मम शान्तिकम् ।
श्रीमान् विभण्डको यक्षो नानारत्नविभूषितः ॥
चारुकुण्डलयुग्मेन कर्णौ नित्यं विराजतः ।
यक्षेश्वरो यक्षपतिर्यक्षसेनापतिर्विभुः ॥
हरपादरतः श्रीमान् करोतु मम शान्तिकम् ।
धृतराष्ट्रो महायक्षो यक्षरक्षोऽधिपः प्रभुः ॥
दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः ।
शिवभक्तः शिवध्यानश्शिवपूजापरायणः ॥
शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् ॥
पूर्णभद्रो महायक्षः सर्वालङ्कारभूषितः ॥
रत्नसम्पन्नपट्टेन हैमेनापि विराजता ।
यक्षकोटिसहस्रैस्तु परिवारितविग्रहः ॥
रुद्रप्रणामपरमो रुद्रभक्तिपरः सदा ।
रुद्रार्चनसमुद्युक्तः करोतु मम शान्तिकम् ॥
विरूपाक्षस्तु यक्षेन्द्रः श्वेतवासा महाद्युतिः ।
चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः ।
विभूषितः सदाकालं वरदानैकतत्परः ।
रुद्रपूजा परोभक्तः करोतु मम शान्तिकम् ॥
अन्तरिक्षगता यक्षा ये यक्षाः स्वर्गसंस्थिताः ।
गिरिकन्दरदुर्गेषु ये यक्षा भुवि वासिनः ॥
पातालवासिनो यक्षा नानारूपोद्यतायुधाः ।
शिवभक्ताः सुमनसः शिवपूजासमुत्सुकाः ॥
शान्तिं कुर्वन्तु मे हृष्टाः शान्ताश्शान्तिपरायणाः ।
यक्षिण्यो विविधाकारास्तथा यक्षकुमारिकाः ॥
यक्षकन्या महाभागाः शिवार्चनपरायणाः ।
शान्तिं स्वस्त्ययनं क्षेमं बलं कल्याणमद्भुतम् (मुत्तमम्) ।
सिद्धिं चाशुप्रयच्छन्तु नित्यमेवसमाहिताः ॥
पर्वताः सर्वतस्सर्वे पर्वत्यश्च महर्धिकाः ॥
प्। ३९(४२)
शिवभक्ताः सदाकालं क्षेमं कुर्वन्तु मे सदा ।
समुद्राः सर्वतस्सर्वे ये चान्ये सागरः भुवि ॥
रुद्रार्चनरतानित्यं कुर्वन्तु मम शान्तिकम् ।
राक्षसाः सर्वतस्सर्वे राक्षसाघोररूपिणः ॥
राक्षसा ये महावीर्या राक्षसा ये महाबलाः ।
स्वर्गस्था राक्षसा ये तु अन्तरिक्षे च राक्षसाः ॥
पाताल राक्षसा ये तु नित्यं रुद्रार्चने रताः ।
शान्तिं कुर्वन्तु मे नित्यं सततं शिवभाविताः ॥
भैरवं यस्य रूपन्तु प्रेतभस्मावकुण्ठितम् ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥
नित्यमुज्वलवेषेण योगिन्योऽथ महाबलाः ।
अनेकरूपधारिण्यो डाकिन्यश्च महर्धिकाः ॥
रुद्रप्रणामपरमा रुद्ररूपार्चनेरताः ।
रुद्रैकाहितचेतस्काः कुर्वन्तु मम शान्तिकम् ॥
अन्तरिक्षे गतायाश्च डाकिन्यः स्वर्गसंस्थिताः ।
पातालभूतलेयाश्च गिरिदुर्गेषु संस्थिताः ॥
तृतीयं लोचनं यस्य त्रिशूलं भस्मभासुरम् ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥
सर्वे भूता महारूपास्सर्वे भूता महोज्ज्वलाः ।
सर्वे भूताः स्थिताः सौम्याः सर्वे भूतामनोजवाः ॥
अन्तरिक्षे च ये भूता ये भूतादिविसंस्थिताः ।
पातालभूतले भूता भूताभूतिविदायिनः ॥
खट्वाङ्गं यस्य विमलं त्रिशूलं करपल्लवे ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥
शूराः प्रेतगणाः सर्वे ये प्रेताः सर्वतो मुखाः ।
अति दीप्ताश्च ये प्रेताः ये प्रेता रुधिराननाः ॥
अन्तरिक्षे च ये प्रेताः ये प्रेतास्स्वर्ग वासिनः ।
पातालो भूतले प्रेताः ये प्रेताः कामरूपिणः ॥
श्मशाननिलयं यस्य ऋषभो यस्य वाहनम् ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥
ये पिशाचा महावीर्या ऋद्धिमन्तोऽमितप्रभाः ।
नानारूपधराः सर्वे च गुणवत्तराः ॥
अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः ।
भूतले ये पिशाचाश्च बहुरूपा मनोजवाः ॥
प्। ४०(४३)
चन्द्रार्धं मस्तके यस्य यस्य भस्मविभूषणम् ।
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥
अपस्मारग्रहास्सर्वे सर्वे चाविज्वरग्रहाः ।
गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये ॥
अन्तरिक्षे ग्रहा ये तु स्वर्गे ये च ग्रहोत्तमाः ।
भूपाताले गृहे ये तु ये ग्रहाः सर्वतोदिशम् ॥
कण्ठं यस्य महानीलं भूषणं यस्य पन्नगम्
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा ॥
इति देवादयः सर्वे शिवज्ञानविधायिनः ।
कुर्वन्तु शान्तिं जगतः शिवभक्तेषु सर्वदा ॥