अथ चतुर्थोऽध्यायः
नन्दिकेश्वर उवाच
शिवभक्ता महोत्साहाः शिवार्चनपरायणाः ।
सर्वलक्षणसम्पन्नाः सर्वार्थान् साधयन्ति ते ॥
सर्वद्वन्द्व सहाधीराः नित्यमुद्युक्त चेतसः ।
परोपकार निरताः गुरुशुश्रूषणे रताः ॥
आर्जवामार्दवाः स्वच्छा अनुकूलाः प्रियंवदाः ।
अमानिनो बुद्धिमन्तस्त्यक्त स्पर्धागतस्पृहाः ॥
शान्ताः स्मितमुखाः भद्रा नित्यं स्वागतवादिनः ।
अल्पवाचोऽल्पवक्तारः शूरास्त्यागविशारदाः ॥
शौचाचारेण सम्पन्ना दया दाक्षिण्यगोचराः ।
डम्भमात्सर्यनिर्मुक्ताः याथा तथ्यविभाषिणः ॥
संविभागपराः प्राज्ञाः अशठाश्चाप्यकुत्सिताः ।
विषयेष्ववनिर्लेपाः पद्मपत्रमिवाम्भसः ॥
नदीनानापिमलिना न च रोषवशानगाः ।
भवन्ति भावितात्मानः सुस्निग्धाः साधुसेविताः ॥
न पाणिपादवाक्चक्षुः श्रोत्रशीर्षोदरैर्बुधाः ।
चापलानि न कुर्वन्ति सर्वसङ्गविवर्जिताः ॥
रुद्रात्मानो रुद्रपराः रुद्रांशा रुद्रभाषिताः ।
इत्याचारसमायुक्ता भवन्तिभुविमानवाः ॥
एकान्तं भक्तिमास्थाय परापरविभूतये ।
पूजनीयः शिवो नित्यं गुणेष्वेतेषु वर्तता ॥
सर्वेषामेव पात्रार्णामतिपात्रं महेश्वरः ।
पतनात् त्रायते यस्मात् दतीवनरकार्णवे ॥
किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् ।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥
तस्य पात्रस्य महात्म्याद्दानमण्वापि चाक्षयम् ।
तस्मात्तस्मै सदा देयमप्रमेयफलार्थिभैः ॥
शिवेदत्तं हुतं जप्तं पूजाबलि निवेदनम् ।
एकान्तात्यन्तफलदं तद्भवेन्नात्र संशयः ॥
प्। १०(१३)
एकान्तात्यन्तफलदं तद्भवेन्नात्रसंशयः ।
भक्त्या वित्तानुसारेण कुर्यात्प्रासादसञ्चयम् ॥
अल्पे महति वा पुण्यं फलमाढ्यदरिद्रयोः ॥
वित्तशाठ्येन यत्कुर्यात् फलमाढ्योऽपि यो नरः ।
तत्तत्फलमवाप्नोति प्रलोभाक्रान्तमानसः ॥
तस्मात्त्रिभागं वित्तस्य जीवनायप्रकल्पयेत् ।
भागद्वयं च धर्मार्थे अनित्यं जीवितं यतः ॥
भक्त्या प्रचोदितः कुर्यात् अल्पवित्तोऽपि यो नरः ।
महाविभवसारोऽपि न कुर्याद्भक्तिवर्जितः ॥
सर्वस्वमपि यो दद्यात् शिवे भक्तिविवर्जितः ।
न तेन धर्मभागीस्यात् भक्तिरेवात्र कारणम् ॥
न तत्तपोभिरत्युग्रैर्न च सर्वैर्सहामखैः ।
गच्छेछिवपुरं दिव्यं मुक्त्वाभक्तिं शिवात्मिकाम् ।
मृदादीष्टकशैलं वा यः कुर्यात्तु शिवालये ॥
त्रिसप्तकुलसंयुक्तः शिवलोके महीयते ॥
मृण्मयात् कोटिगुणितं पुण्यं स्याद्दारुभिः कृतैः ।
कोटि कोटिगुणं पुण्यं मृत्काष्ठादिष्टकामये ॥
द्विगुणं द्विगुणं पुण्यं शैलजे स्याच्छिवालये ।
मृच्छैलयोः समं ज्ञेयं पुण्यमाढ्यदरिद्रयोः ॥
तत्र तत्र गतः कुर्याः पुण्यं शैलेष्टकामयम् ।
नवं पुराणरहितं तस्यां कुर्याछिवालयम् ॥
अष्टेष्टकसमायुक्तं यः करोति शिवालयम् ।
विधूतपापसङ्घातः सोऽपि गच्छेच्छिवालयम् ॥
क्रीडमानोऽपि यः कुर्यात् बालभावाच्छिवालयम् ।
रुद्रलोके भवेत् सोऽपि विमानं सर्वगामिकम् ॥
दिव्यमालापरिक्षिप्तं दिव्यगन्धर्वशोभितम् ।
डोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम् ॥
मुक्तादामवितानेन शोभितं सूयसप्रभम् ।
अप्सरोगणसङ्कीर्णं सर्वकामसुखप्रदम् ॥
तत्रोषित्वा महाभोगै वर्षकोट्ययुतं सुखी ।
क्रमादागत्यलोकेऽस्मिन् राजा भवति धार्मिकः ॥
पश्यन् परिहरन् जन्तून् मार्जन्यामृदुसूक्ष्मया ।
शनैः सम्मार्जनं कुर्याच्चान्द्रायणफलं लभेत् ॥
प्। ११(१४) नाहारवशजीर्णाया वन्ध्यायाः क्षीरवत्सजम् ।
रोगार्तनवसूताया गोभ्यो गोमयमाहरेत् ॥
स्वसंस्थं गोमयं गृह्य स्थाने वा पतितं शुभे ।
उपर्युपरिसन्त्यज्य प्रत्यग्रं जन्तु वर्जितम् ॥
वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम् ।
पश्यन् परिहरन् जन्तून् चान्द्रायणफलं लभेत् ॥
यः कुर्यात्सर्वकार्याणि वस्त्र पूतेन वारिणा ।
स मुनिः समहासाधुः स योगी सशिवं व्रजेत् ॥
क्षरन्ति सर्वदानानि यज्ञहोमबलिक्रियाः ।
न क्षरेतमहादानमभयं सर्वदेहिनाम् ॥
नैरन्तर्येण यः कुर्यात्पक्षं सम्माजनार्चनम् ।
युगकोटिशतं साग्रं रुद्रलोके महीयते ॥
तस्यान्ते स चतुर्वेदः सुरूपः प्रियदर्शनः ।
आढ्यः सर्वगणोपेतो राजा भवतिधार्मिकः ॥
सम्पर्केणापि यः कुर्यात् नरः कर्मशिवालये ।
सोऽपि देहत्रयात् ज्ञानं प्राप्यशान्तिमवाप्नुयात् ॥
रुद्रदेवनिकायेषु कश्चिज्ज्ञानमवाप्नुयात् ।
कश्चिदेव तु मेदिन्यां लब्ध्वा ज्ञानं विमुच्यते ॥
तावद्भ्रमति संसारे दुःखशोकपरिप्लुतः ।
न भवन्ति शिवेभक्ता यावत् सर्वेऽपि देहिनः ॥
समासक्तं यथा चित्तं जन्तोर्विषयगोचरे ।
यदिनामशिवोऽप्येवं को न मुच्येत बन्धनात् ॥
यः कुर्यात् कुट्टिमाभूमिं दर्पणोदर सन्निभाम् ।
नानावर्णविचित्रां वा विचित्रकुसुमोज्ज्वलाम् ॥
क्वचित्कलशविन्यस्तां पङ्कजाद्युपशोभिताम् ।
मनोभिरम्यां सुस्निग्धां शिवयतनसंसदि ॥
यावद्धस्ता भवेद्भूमिः समन्तादुपशोभिता ।
तावद्युगसहस्राणि शिवलोके महीयते ॥
सुधाप्रलिप्तं यः कुर्यात् सर्वयत्नैः शिवालयम् ।
तावत्पुण्यं लभेत्सोऽपि यावदायतने कृते ॥
प्रत्यब्दं यः प्रकुर्वीत शम्भोरायतनं बुधः ।
धवलं क्षीरसुधया यथाशोभं च वर्णकैः ॥
यावन्त्यब्दानि कुरुते धवलं तच्छिवालयम् ।
प्। १२(१५)
तावद्युगसहस्राणि शिवलोके महीयते ॥
कारयेच्चित्रशास्त्रज्ञैर्यत्नाच्चित्रं शिवालये ।
रुद्रावतारक्रीडादिप्रयोगैरागमोदितैः ॥
तावत्तद्रूपरूपाणि सुरूपाणि तु लेखयेत् ।
तावद्युगसहस्राणि रुद्रलोके महीयते ।
खण्डस्फुटितसंस्कारं यः प्रकुर्याच्छिवालयम् ॥
आरामावसयाभ्यां च लभते मौलिकं फलम् ।
नास्तिरुद्रसमो देवो नास्ति रुद्रसमोगुरुः ॥
नास्तिरुद्रसमं ज्ञानं नास्तिरुद्रसमं तपः ।
निर्धूतमलपङ्काय स्वभावामलमूर्तये ॥
सितभस्माङ्गदेहाय देवेशाय नमोस्तु ते ।
नीलकण्ठाय शर्वाया जाया व्यक्तमूर्तये ॥
बहुरूपाय कान्ताय शाश्वताय नमोस्तु ते ।
पराय परमेशाय सप्ताङ्गायमहात्मने ॥
अतीतगुणसङ्घाय विश्वेशाय नमोस्तु ते ।
महाभोगीन्द्रहाराय पिङ्गलोचनचारवे ॥
विचित्र चरिताढ्याय अनन्ताय नमोस्तु ते ।
सर्वप्रणतदेहाय स्वयमप्रणतात्मने ।
पूज्यानामपि पूज्याय नमस्त्र्यक्षाय शूलिने ॥
ब्रह्मेन्द्रविष्णुवन्द्यायोत्पत्तिस्थिति हेतवे ।
भुक्तिमुक्ति प्रदानाय संस्कृताय नमोस्तु ते ॥
वामाय वामरूपाय वामाचाराय भामिने ।
वामकान्ताय वामायेशानाय नमोऽस्तु ते ॥
य इदं कीर्तयेत्पुण्यं प्रासादाध्यायमुत्तमम् ।
सर्वदोषविनिर्मुक्तो गाणापत्यमवाप्नुयात् ॥
इति श्रीशिवधर्मशास्त्रे प्रासादाध्यायश्चतुर्थः ॥