०३

तृतीयोध्यायः

नन्दिकेश्वर उवाच

त्वमतीवशिवे भक्तः पद्मयोनिसुतोत्तम ।
तेजते निखिलं वक्ष्ये शृणुष्वैकाग्रमानसः ॥

पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
विवादः सुमहानासीद्ब्रह्मविष्ण्वोः परस्परम् ॥

अहं कर्तास्म्यहं कर्ता न मत्तोऽन्यो जगत्प्रभुः ।
एवमाहहरिं ब्रह्मा ब्रह्माणं च हरिस्तथा ॥

तयोर्दर्पापहारार्थं प्रबोधार्थं च देवयोः ।
मध्ये समभवल्लिङ्गमैश्वरं तैजसं परम् ॥

ज्वालामालावृतं दिव्यं मप्रमेयमनौपमम् ।

प्। ५(८)

योजनायुतविस्तीर्णं स्थितं तद्विमलेऽम्भसि ॥

ज्वालाभिर्मोहितौ तस्य लिङ्गस्य सुरसत्तमौ ।
तदा विस्मयमापन्नौ पश्यन्तावमराधिपौ ॥

गतावूर्ध्वमधस्तस्य सम्प्रधार्य परस्परम् ।
अधोपलब्धये विष्णु रगादूर्ध्वं पितामहः ॥

अदृष्ट्वा तमधश्चोर्ध्वं तौसमेत्य परस्परम् ।
कृताञ्जलिपुटौ भूत्वा लिङ्गं तुष्टावतुस्तदा ॥

अनादे देवदेवेश विद्येश्वर महेश्वर ।
सर्वज्ञ ज्ञानविज्ञान प्रदानैक नमोऽस्तु ते ॥

बहुरूपमहारूप सर्वरूपोत्तमोत्तम ।
पशुपाशार्णवातीत वरप्रद नमोऽस्तु ते ॥

स्वभावनिर्मला भोग सर्वव्यापिन् महेश्वर ।
योग योगिन् महायोगिन् योगेश्वर नमोऽस्तु ते ॥

निरञ्जन निराधार स्वाधार निरूपप्लव ।
प्रसन्नपरमेशाय योगेश्वर नमोऽस्तु ते ॥

जिह्वाचापलभावेन मोहितौ नौक्वते स्तुतौ ।
तत्क्षन्तव्यः नौपम्यकस्ते स्तौति गुणार्णवम् ॥

लिङ्गोत्पत्तिस्तवं पुण्यं यः शृणोति सदानरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेशसम्मितम् ।
समाधिस्तोत्रसम्पन्नौ दृष्टवन्तौ शिवात्मकम् ॥

नैवतत्काञ्चनं रौप्यं ताम्रं स्फाटिकमौक्तिकम् ।
लक्षमात्रं स्थितं शान्तं केवलं तच्छिवात्मकम् ॥

तयोस्तुष्टो महादेवः प्रादाद्वरमनुत्तमम् ।
कारणत्वमनुज्ञाप्य तत्रैवान्तरधीयत ॥

प्राञ्जलिः प्रणतो विष्णुः ब्रह्मापि ब्रह्मतत्परः ।
पूर्वं लिङ्गं समभ्यर्च्य त्वत्तत्कार्याणि चक्रतुः ॥

ब्रह्मा ब्रह्माक्षरैर्दिव्यैर्लिङ्गं पूजयते सदा ।
गन्धपुष्पादिभिर्नित्यं विष्णुः पूजयते शिवम् ॥

ततः प्रभृति ब्रह्माद्याः प्रतिष्ठाप्यसुरासुराः ।
तल्लिङ्गानुकृतिं लिङ्गं पूजयनृषयस्तदा ॥

परं गरुडं शरीरं च लिङ्गं क्षेत्रमनादिवत् ।
यदाद्यमैश्वरं तेजस्तल्लिङ्गं पञ्चसञ्ज्ञितम् ॥

प्। ६(९)

कल्पान्ते तस्य लिङ्गस्य दीयन्ते सर्वदेवताः ।
दक्षिणे लीयते ब्रह्मा वायतश्च जनार्दनः ॥

हृदये चैव गायत्री सर्ववेदोत्तमोत्तमा ।
मूर्ध्निलीयन्ति वै वेदाः सषडङ्गपदक्रमाः ॥

जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् ।
उत्पाद्यते पुनस्तस्मात् ब्रह्माद्यं सचराचरम् ॥

आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका ।
आलयः सर्वभूतानां लयनाल्लिङ्गमुच्यते ॥

लिङ्गमित्थं प्रतिष्ठाप्य सर्वदेवभवोद्भवम् ।
स्थापितं तेन सर्वं स्यात् पूजितञ्च न संशयः ॥

प्राञ्जलिः प्रहितो विष्णु ब्रह्मापि ब्रह्मतत्परः ।
ब्रह्मा पूजयते नित्यं लिङ्गं शैलमयं शुभम् ॥

तस्य सम्पूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् ।
शक्रोऽपि देवराजेन्द्रो लिङ्गं मणिमयं शुभम् ॥

नित्यमर्चयते भक्त्या तेन शक्रत्वमाप्तवान् ।
लिङ्गं हेममयं कान्तं धनदोऽर्चयते सदा ॥

तेनासौ धनदो देवो धनदत्वमाप्तवान् ।
विश्वेदेवा महात्मानो रौप्यलिङ्गं मनोहरम् ॥

यजन्ते विधिवद्भक्त्या तेन विश्वत्वमवाप्नुवन् ।
वायुः पूजयते नित्यं लिङ्गं पित्तलसम्भवम् ॥

वायुत्वं तेनसम्प्राप्तमनौपम्य गुणावहम् ।
इन्द्रनीलमयं लिङ्गं विष्णुरर्चयते सदा ॥

विष्णुत्वं प्राप्तवांस्तेनाद्भुतैकं सनातनम् ।
वसवः का* तं लिङ्गं पूजयन्ति विधानतः ॥

महात्मानो वसुत्वं हि * * * * महोदयम् ।
अश्विनौपार्थिवं लिङ्गं यजन्ते तु विधानतः ॥

तेन तावपि नौ देवौ दिव्यदेहगतावुभौ ।
स्फाटिकं वृद्धिमल्लिङ्गं वरुणोर्चयते सदा ॥

वरुणत्वं हि सम्प्राप्तं तेन ऋध्या समन्वितम् ।
लिङ्गमन्नमयं पुण्यमग्निर्यजति भावितः ॥

अग्नि त्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् ।
ताम्रं लिङ्गं सदा कालं भक्त्या देवो दिवाकरः ॥

प्। ७(१०)

अर्च्यतेन सदाकालं प्राप्तं सूर्यत्वमुत्तमम् ।
मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा ॥

तेन सोऽपि सम्प्राप्तः सोमत्वं सततोज्ज्वलम् ।
प्रकलकमयं लिङ्गं यजन्ते पन्नगोत्तमाः ॥

तेन नागाः सुभोगाढ्याः प्रयास्यन्ते परं पदम् ।
कृष्णायसमयं लिङ्गं पूजयन्त्यसुरोत्तमाः ॥

राक्षसाश्च महात्मानः तेनतेऽमितविक्रमाः ।
त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्ति ते ॥

तेन ऋद्धिबलोपेताः प्रयान्ति परमं पदम् ।
त्रैलोहिकं सदालिङ्गं यजन्ते गुह्यकादयः ॥

तेन भोगफलोपेताः प्रयान्तीश्वरमन्दिरम् ।
वज्रलोहमयं लिङ्गं यजन्ते मातरस्सदा ॥

मातृत्वं प्राप्यताः सर्वाः प्रयान्ति परमं पदम् ।
एवं देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥

पूजयन्ति सदाकालमीशानं सुरनायकम् ।
तेन पूजयते नित्यं सर्वं लिङ्गे प्रतिष्ठितम् ॥

तस्मात् सदार्चयेल्लिङ्गं यदीच्छे च्छ्रेय आत्मनः ।
लिङ्गो देवो महादेवः साक्षादेव व्यवस्थितः ॥

अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् ।
यो न पूजयते मोहाल्लिङ्गं त्रिभुवनेश्वरम् ॥

न च स्वर्गस्य मोक्षस्य न च राज्यस्य भाजनम् ।
यस्तु पूजयते नित्यं लिङ्गं त्रिभुवनेश्वरम् ॥

स स्वर्गमोक्षराज्यस्य क्षिप्रं भवति भाजनम् ।
तस्मादेकमनाभूत्वा यावज्जीवं प्रतिज्ञया ॥

अर्चयन्ति महादेवमापन्नोऽपि सदाबुधाः ।
वरं प्राणपरित्यागः शिरसो वा परिच्छदे ॥

नत्वै वा पूज्यभुञ्जीयात् भगवन्तं त्रिलोचनम् ।
एवं निर्वहते यस्तु यावज्जीवं शिवार्चनम् ॥

आयुष्यं बलमारोग्यं स रुद्रो नात्रसंशयः ।
न हि लिङ्गार्चनादन्यत् पुण्यमभ्यधिकं क्वचित् ॥

इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ।
यो लिङ्गद्वेष्टिसम्मोहात् सर्वदेवनमस्कृतम् ॥

नरोनरकगामी स्यात् तस्य सम्भाषणादपि ।

प्। ८(११)

लिङ्गमित्थं प्रतिष्ठाप्य सर्वयत्नैर्विधानतः ॥

यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु ।
सर्वयज्ञतपोदान तीर्थवेदेषु यत्फलम् ॥

तत्फलं कोटिगुणितं स्थाप्यलिङ्गं लभेन्नरः ।
यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् ॥

सर्वकामोदितं पुण्यं कोटि कोटि गुणं लभेत् ।
मातृतः पितृतश्चैव यस्य चोद्वहते स्त्रियः ॥

कुलैकविंशमुत्तार्य शिवलोके महीयते ।
भुक्त्वा तु विपुलान् भोगान् प्रलयेसमुपस्थिते ॥

ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।
अथ चेद्राज्यमाकाङ्क्षेज्जायते स भवान्तरे ॥

सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ।
यः कृत्वा पार्थिवं लिङ्गमर्चयेत् स वैदिकम् ॥

इहैव धनवान् छ्रीमान्नन्ते रुद्रञ्च जायते ।
सन्ध्यायां योर्चयेल्लिङ्गं कृत्वा बिम्बेन पार्थिवम् ॥

दशैकादशिकं यावत् तस्य पुण्यफलं शृणु ।
अनेनैव तु देहेन रुद्रः सञ्चरतेक्षितौ ॥

पापहा सर्वमर्त्यानां दर्शनस्पर्शनादपि ।
उद्धृत्यदिविसंस्थाप्य कुलानामेकविंशतिः ॥

सहायैः सहितो नित्यं मोदतेदिविरुद्रवत् ।
यः श्रीवृक्षमयं लिङ्गं सर्वगन्धोपशोभितम् ॥

कुसुमैश्च सुगन्धैश्च फलैश्च विविधैस्तथा ।
भक्ष्यभोज्यान्नपानैश्च घृतदीपसमायुतम् ।
तस्य दक्षिणपार्श्वे तु विन्यसेदगरुं बुधः ॥

दद्यात् पश्चिमभागे तु शोभनां तु मनाश्शीलाम् ।
उत्तरे चन्दनं दद्यात् हरितालं तु पूर्वतः ॥

एवं वित्तानुसारेण कृत्वा विभवविस्तरम् ।
कृष्णपक्षे चतुर्दश्यां शिवाय विनिवेदयेत् ॥

सकृदप्येव यः कश्चिल्लिङ्गं कुर्याद्द्विजोत्तमः ।
यत्फलं लभते तस्य तन्मे निगदतः शृणु ॥

सर्वपापविनिर्मुक्तः सर्वोपद्रववर्जितः ।
निष्कलः सर्वगोभूत्वा प्रविशेच्छिवमव्ययम् ॥

पांसुना क्रीडमानोऽपि लिङ्गं कुर्यात्तु यो नरः ।

प्। ९(१२)

प्रत्यान्ते लभते राज्यमसपत्नमकण्टकम् ।
सूक्ष्मेणापि प्रयोगेणामेयं पुण्यसञ्चयम् ॥

शिवमर्चयतो यस्मात् तस्मान्नित्यं समर्चयेत् ।
तस्मात्सर्वप्रयत्नेन शृणुयाद्भावितात्मनः ॥

पापकञ्चुकमुत्सृज्य प्राप्नोति परमं पदम् ॥

इति श्रीशिवधर्मशास्त्रे नन्दिप्रोक्ते लिङ्गोत्पत्तिर्नामतृतीयोध्यायः ॥