०२

द्वितीयोऽद्यायः

सनत्कुमार उवाच

लिङ्गार्चनविधिं पूर्णं श्रोतुमिच्छामि तत्वतः ।
त्वत्प्रसादाद्विशेषेण भगवन्नन्दिकेश्वर ॥

यत्पुण्यं स्थापिते लिङ्गे कृते यच्च शिवालये ।
सम्मार्जने च यत्पुण्यं यत्पुण्यमुपलेपने ॥

प्। ४(७)

नीराज्जनौषधीबीजस्नानमङ्गलवादने ।
यत्पुण्यमर्च्यदानेन तोयस्नानेन यद्भवेत् ॥

पञ्चगव्यपयस्नाने दधिस्नाने च यत्फलम् ।
घृतस्नानेन यत्पुण्यं घृताभ्यङ्गेन यद्भवेत् ॥

मधुस्नानेन यत्पुण्यं पुण्यमिक्षुरसेन च ।
उद्वर्तनान्तरस्नाने कुशपुष्पोदकेन च ॥

सौवर्णरत्नतोयैश्च गन्धचन्दनवारिभिः ।
कर्पूरागरुतोयेन शुद्धतोयेन यद्भवेत् ॥

विलेपनैश्च गन्धाद्यैर्विलिप्तेन च यद्भवेत् ।
तालवृन्तप्रदानेन प्रदाने चामरस्य च ॥

मुक्तापुष्पार्चनैश्चैव मालाभिर्लिङ्गपूरणे ।
पुष्पमण्टपिकायाश्च पुष्पमालावलम्बने ॥

पूजाभक्तिविशेषैश्च वेद्यामालावलम्बने ।
पुष्पजातिविशेषेषु धूपेष्वपि च यत्फलम् ।

ग्रामखेटपुराणां च देशदानेन यत्फलम् ।
तत्पालनापहारेण पुण्यापुण्यं च यद्भवेत् ॥

यतीनामन्नपानादिमात्रोपकरणानि च ।
दत्वा किं लभते पुण्यं कृत्वा वा तत्प्रतिश्रयम् ॥

तत्संस्कारे तथा तेषां प्रत्युत्थानाभिवादने ।
तत्संस्कारे तथा तेषां प्रत्युत्यानाभिवादने ॥

यदप्यन्यद्भवेत् सूक्ष्ममज्ञानान्नप्रचोदितम् ।
तत्सर्वं कथयास्माकं भक्तानामनुकम्पया ॥

इति श्रीशिवधर्मशास्त्रे द्वितीयोऽध्यायः ॥