०१

शिवधर्मः

ॐ महागणपतये नमः ॥ हरिः ॐ ॥ अविघ्नमस्तु । श्रीगुरुभ्यो नमः ॥
ॐ नमः शिवाय ॥

सर्वाकारमशेषस्य जगतः सर्वदा शिवम् ।
गोब्राह्मणनृपाणां च शिवं भवतु सर्वदा ॥

शिवमादौ शिवं मध्ये शिवमन्ते तथैव च ।
सर्वेषां शिवभक्तानामनुगानां च नश्शिवम् ॥

मेरुपृष्ठे सुखासीनमृषिसङ्घैः समावृतम् ।
लोकानुग्रहकं शान्तं सर्वज्ञं नन्दिकेश्वरम् ॥

तेषां मध्ये समुथाय मुनिर्ब्रह्मसुतोत्तमः ।
सनत्कुमारः सुतपाः पृच्छतिस्मयया विधि ॥

भगवन् सर्वधर्मज्ञ शिवधर्मपरायण ।
श्रोतुकामः परं धर्ममिमे सर्वे समागतम् ॥

अग्निष्टोमादयो धम्रा यज्ञाः बहुवित्तकृतान्विताः ।
नात्यन्तफलभूयिष्ठा बह्वायाससमन्विताः ॥

न शक्यास्ते यतः कर्तुमल्पवित्तैर्द्विजातिभिः ।
सुखोपायमतो ब्रूहि सर्वकामार्थसाधकम् ॥

हिताय सर्वसत्वानां शिवधर्मं सनातनम् ।
येन सिद्धाः सुरादैत्या गन्धर्वोरगराक्षसाः ॥

ऋषयः किन्नरायक्षास्तथा किं पुरुषादयः ।
गणाश्च विविधान्यान्ये शिवधर्मपरायणाः ॥

यं सम्पूज्यनरास्सर्वे तद्भक्ताश्शिवधर्मिकाः ।

श्रीनन्दिकेश्वर उवाच

श्रूयतामभिधास्यामि सुखोपायं महाफलम् ।
परमं सर्वधर्माणां शिवधर्मं सनातनम् ॥

शिवेन कथितं पूर्व पार्वत्याष्षण्मुखस्य च ।
गणानां देवमुख्यानामस्माकं च विशेषतः ॥

अज्ञानार्णवमग्नानां सर्वेषां प्राणिनायम् ।
शिवधर्मोडुपः श्रीमानुत्तारार्थमुदाहृतः ॥

यैरयं शान्तचेतस्कैश्शिवभक्तैश्शिवार्थिभिः ।
सं सेव्यते परोधम्रस्ते रुद्रा नात्र संशयः ॥

ग्रामे वा यदिवारण्ये जले वापि स्थलोऽपिवा ।
यत्र वा दृश्यते लिङ्गं सर्वतीर्थानि तत्र वै ॥

प्। २(५)

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
ये स्मरन्ति विरूपाक्षं ते रुद्रा नात्रसंशयः ॥

कीर्तयिष्यन्ति ये रुद्रास्सकृदप्याशु ते नराः ।
सर्वपापैः प्रमुच्यन्ते सर्वजन्मकृतैरपि ॥

येऽर्चयन्ति सदारुद्रं न ते प्रकृतिमानुषाः ।
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्रसंशयः ॥

जातेन देहिना येन नार्चितोभगवाञ्छिवः ।
स चिरं सञ्चरत्यस्मिन् संसारे दुःखसागरे ॥

तस्य चित्तम् महाच्छिद्रं सम्भोगस्स्वार्थमूकता ।
यः क्षणं वा मुहूर्तं वा शर्वमेकं न चिन्तयेत् ॥

दुर्लभं प्राप्यमानुष्यं येऽर्चयन्ति सदाशिवम् ।
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥

भवभक्तिपराये तु भवं प्रणतचेतसा ।
भवसंस्मरणोद्युक्तास्तेन दुःखस्य भागिनः ॥

भवनानि मनोज्ञानि विभ्रमा भरणाः स्त्रियः ।
धनञ्चादृष्टपर्यन्तं शिवपूजा विधेः फलम् ॥

ये वाञ्छन्ति महाभोगान् राज्यं वा त्रिदशालये ।
तेऽर्चयन्तु सदा कालं हरस्य चरणाम्बुजम् ॥

सौभाग्यकान्तिमद्रूपं सत्वं त्यागप्रभावतः ।
शौर्यं च जगतिख्यातिं शिवमर्चयतो भवेत् ॥

नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् ।
नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् ॥

शिवधर्मस्य सारोऽयं शिवे भक्तिः सुनिश्चला ।
सा चाष्टाङ्गी शिवेनोक्ता कार्या नित्यं प्रयत्नतः ॥

श्रीभगवानुवाच

मद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् ।
स्वयमभ्यर्चनं भक्त्या ममार्थेचाङ्गचेष्टितम् ॥

मत्कथाश्रवणे भक्ति स्वरनेत्राङ्गविक्रिया ।
ममानुस्मरणं नित्यं यश्च मान्नोपजीवति ॥

भक्तिरष्टविधाप्येषा यस्मिन् म्लेच्छेऽपि वर्तते ।
सविप्रेन्द्रो मुनिः श्रीमान् सयतिस्सचपण्डितः ॥

न मे प्रियश्चतुर्वेदी मद्भक्ताः खपचोऽपि यः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथाह्यहम् ॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

प्। ३(६)

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥

अर्चयेतनरो नित्यं यो मां समयमास्थितः ।
स मां पर्वतदुर्गेषु मार्गमाणो विनश्यति ॥

यो मां सर्वगतं पश्येत् सर्वं च मयिसंस्थितम् ।
तस्याहं नित्यमात्मस्थः स च नित्यं मयि स्थितः ॥

सुदुर्लभा शिवे भक्तिर्दुर्लभं च शिवार्चनम् ।
सुदुर्लभं शिवे दानं शिवहोमश्च दुर्लभः ॥

सुदुर्लभं शिवज्ञानं तदभ्यासोऽति दुर्लभः ।
सुदुर्लभतरं ज्ञेयं जपध्यानं शिवात्मकम् ॥

सुदुर्लभा तयोः प्राप्तिस्तदभ्यासोऽति दुर्लभः ।
सुदुर्लभमिदं ज्ञात्वा शिवे भक्तिं समाश्रयेत् ॥

लाभस्तेषां मनुष्याणां ये शिवं शरनं गताः ।
एषा दिवा च रात्रौ च नित्या शिवगतास्मृतिः ॥

नमस्कारादिसंयुक्तं शिव इत्यक्षरद्वयम् ।
जिह्वाग्रे वर्तते यस्य सफलां तस्य जीवितम् ॥

इत्येष वः समासेन शिवधर्मोऽखिलः क्रमात् ।
निर्दिष्टः प्रथमाध्याये शेषस्यैव प्रविस्तरः ॥

य इमं पठते नित्यं शृणुयाद्वापि भक्तितः ।
विमुक्तः सर्वपापेभ्यः शिवलोके महीयते ॥

डाकिन्यो विविधाकारा रक्षांसि प्रेतनायकाः ।
न तस्य पीडां कुर्वन्ति तथा चान्येऽपि हिंसकाः ॥

शत्रवो नाशमायान्ति सर्वरोगैर्न बाध्यते ।
सर्वरोगैर्न बाध्येत आपदो न स्पृशन्तितम् ॥

धनमायुर्यशो विद्यां प्रभावमतुलं व्रजेत् । (ल)
शुभान्युपचयं यान्ति नित्यं पूर्णगुणान्विताः ॥

इति श्रीशिवधर्मशास्त्रे भक्तिलक्षणं नाम प्रथमोध्यायः ॥