०५५

ऋषय ऊचुः॥
कथं त्रियम्बको देवो देवदेवो वृषध्वजः॥
ध्येयः सर्वार्थासिद्ध्यर्थं योगमार्गेण सुव्रत॥ ५५.१ ॥

पूर्वमेवापि निखिलं श्रुतं श्रुतिसमं पुनः॥
विस्तरेण च तत्सर्वं सङ्क्षेपाद्वक्तुमर्हसि॥ ५५.२ ॥

सूत उवाच॥
एवं पैतामहेनैव नन्दी दिनकरप्रभः॥
मेरुपृष्ठे पुरा पृष्टो मुनिसङ्घैः समावृतः॥ ५५.३ ॥

सोऽपि तस्मै कुमाराय ब्रह्मपुत्राय सुव्रताः॥
मिथः प्रोवाच भगवान्प्रणताय समाहितः॥ ५५.४ ॥

नन्दिकेश्वर उवाच॥
एवं पुरा महादेवो भगवान्नीललोहितः॥
गिरिपुत्र्याम्बया देव्या भगवत्यैकशय्या॥ ५५.५ ॥

पृष्टः कैलासशिखरे हृष्टपुष्टतनूरुहः॥
श्रीदेव्युवाच॥
योगः कतिविधः प्रोक्तस्तत्कथं चैव कीदृशम्॥ ५५.६ ॥

ज्ञानं च मोक्षदं दिव्यं मुच्यन्ते येन जन्तवः॥
श्रीभगवानुवाच॥
प्रथमो मन्त्रयोगश्च स्पर्शयोगो द्वितीयकः॥ ५५.७ ॥

भावयोगस्तृतीयः स्याभावश्च चतुर्थकः॥
सर्वोत्तमो महायोगः पञ्चमः परिकीर्तितः॥ ५५.८ ॥

ध्यानयुक्तो जपाभ्यासो मन्त्रयोगः प्रकीर्तितः॥
नाडीशुद्ध्यधिको यस्तु रेचकादिक्रमान्वितः॥ ५५.९ ॥

समस्तव्यस्तयोगेन जयो वायोः प्रकीर्तितः॥
बलस्थिरक्रियायुक्तो धारणाद्यैश्च शोभनैः॥ ५५.१० ॥

धारणात्रयसन्दीप्तो भेदत्रयविशोधकः॥
कुम्भकावस्थितोऽभ्यासः स्पर्शयोगः प्रकीर्तितः॥ ५५.११ ॥

मन्त्रस्पर्शविनिर्मुक्तो महादेवं समाश्रितः॥
बहिरन्तर्विभागस्थस्फुरत्संहरणात्मकः॥ ५५.१२ ॥

भावयोगः समाख्याताश्चित्तशुद्धिप्रदायकः॥
विलिनावयवं सर्वं जगत्स्थावरजङ्गमम्॥ ५५.१३ ॥

शून्यं सर्वं निराभासं स्वरूपं यत्र चिन्त्यते॥
अभावयोगः सम्प्रोक्तश्चित्तनिर्वाणकारकः॥ ५५.१४ ॥

नीरूपः केवलः शुद्धः स्वच्छन्दं च सुशोभनः॥
अनिर्देश्यः सदालोकः स्वयंवेद्यः समं ततः॥ ५५.१५ ॥

स्वभावो भासते यत्र महायोगः प्रकीर्तितः॥
नित्योदितः स्वयञ्ज्योतिः सर्वचित्तसमुत्थितः॥ ५५.१६ ॥

निर्मलः केवलो ह्यात्मा महायोग इति स्मृतः॥
अणिमादिप्रदाः सर्वे सर्वे ज्ञानस्य दायकाः॥ ५५.१७ ॥

उत्तरोत्तरवैशिष्ट्यमेषु योगेष्वनुक्रमात्॥
अहं सङ्गविनिर्मुक्तो महाकाशोपमः परः॥ ५५.१८ ॥

सर्वावरणनिर्मुक्तो ह्यचिन्त्यः स्वरसेन तु॥
ज्ञेयमेतत्समाख्यातमग्राह्यमपि दैवतैः॥ ५५.१९ ॥

प्रविलीनो महान्सम्यक् स्वयंवेद्यः स्वसाक्षिकः॥
चकारस्त्यानन्दवपुषा तेन ज्ञेयमिदं मतम्॥ ५५.२० ॥

परीक्षिताय शिष्याय ब्राह्मणायाहिताग्नये॥
धार्मिकायाकृतघ्नाय दातव्यं क्रमपूर्वकम्॥ ५५.२१ ॥

गुरुदैवतभक्ताय अन्यथा नैव दापयेत्॥
निन्दितो व्याधितोल्पायुस्तथा चैव प्रजायते॥ ५५.२२ ॥

दातुरप्येवमनघे तस्माज्ञात्वैव दापयेत्॥
सर्वसङ्गविनिर्मुक्तो मद्भक्तो मत्परायणः॥ ५५.२३ ॥

साधको ज्ञानसंयुक्तः श्रौतस्मार्तविशारदः॥
गुरुभक्तश्च पुण्यात्मा योग्यो योगरतः सदा॥ ५५.२४ ॥

एव देवि समाख्यातो योगमार्गः सनातनः॥
सर्ववेदागमाम्भोजमकरन्दः सुमध्यमे॥ ५५.२५ ॥

पीत्वा योगामृतं योगी मुच्यते ब्रह्मवित्तमः॥
एवं पाशुपतं योगं योगैश्वर्यमनुत्तमम्॥ ५५.२६ ॥

अत्याश्रममिदं ज्ञेयं मुक्तये केन लभ्यते॥
तस्मादिष्टैः समाचारैः शिवार्चनरतैः प्रिये॥ ५५.२७ ॥

इत्युक्त्वा भगवान्देवीमनुज्ञाप्य वृषध्वजः॥
शङ्कुकर्णं समासाद्य युयोजात्मानमात्मनि॥ ५५.२८ ॥

शैलादिरुवाच॥
तस्मात्त्वमपि योगीन्द्र योगाभ्यासरतो भव॥
स्वंयभुव परा मूर्तिर्नूनं ब्रह्ममयी वरा॥ ५५.२९ ॥

तस्मात्सर्वप्रयत्नेन मोक्षार्थो पुरुषोत्तमः॥
भस्मस्नायी भवेन्नित्यं योगे पाशुपते रतः॥ ५५.३० ॥

ध्येया यथाक्रमेणैव वैष्णवी च ततः परा॥
माहेश्वरी परा पश्चात्सैव ध्येया यथाक्रमम्॥ ५५.३१ ॥

योगेश्वरस्य या निष्ठा सैषा संहृत्य वर्णिता॥ ५५.३२ ॥
सूत उवाच॥
एवं शिलादपुत्रेण नन्दिना कुलनन्दिना॥
योगः पाशुपतः प्रोक्तो भस्मनिष्ठेन धीमता॥ ५५.३३ ॥

सनत्कुमारो भगवान्व्यासायामिततेजसे॥
तस्मादहमपि श्रुत्वा नियोगात्सत्रिणामपि॥ ५५.३४ ॥

कृतकृत्योऽस्मि विप्रेभ्यो नमो यज्ञेभ्य एव च॥
नमः शिवाय शान्ताय व्यासाय मुनये नमः॥ ५५.३५ ॥

ग्रन्थैकादशसाहस्रं पुराणं लैङ्गमुत्तमम्॥
अष्टोत्तरसताध्याय मादिमांशमतः परम्॥ ५५.३६ ॥

षट्चत्वारींशदध्यायं धर्मकामार्थमोक्षदम्॥
अथ ते मुनयः सर्वे नैमिषेयाः समाहिताः॥ ५५.३७ ॥

प्रणेमुर्देवमीशानं प्रीतिकण्टकितत्वचः॥
शाखां पौराणिकीमेवं कृत्वैकादशिकां प्रभुः॥ ५५.३८ ॥

ब्रह्मा स्वयम्भूर्भगवानिदं वचनमब्रवीत्॥
लैङ्गमाद्यन्तमखिलं यः पठेच्छृणुयादपि॥ ५५.३९ ॥

द्विजेभ्यः श्रावयेद्वापि स याति परमां गतिम्॥
तपसा चैव यज्ञेन दानेनाध्ययनेन च॥ ५५.४० ॥

या गतिस्तस्य विपुला शास्त्रविद्या च वैदिकी॥
कर्मणा चापि मिश्रेण केवलं विद्ययापि वा॥ ५५.४१ ॥

निवृत्तिश्चास्य विप्रस्य भवेद्भक्तिश्च शाश्वती॥
मयि नारायणे देवे श्रद्धा चास्तु महात्मनः॥ ५५.४२ ॥

वंशस्य चाक्षया विद्या चाप्रमादश्च सर्वतः॥
इत्याज्ञा ब्रह्मणस्तस्मात्तस्य सर्वं महात्मनः॥ ५५.४३ ॥

ऋषयः प्रोचुः॥
ऋषेः सूतस्य चास्माकमेतेषाभपि चास्य च॥
नारदस्य च या सिद्धिस्तीर्थयात्रारतस्य च॥ ५५.४४ ॥

प्रीतिश्च विपुला यस्मा दस्माकं रोमहर्षण॥ ५५.४५ ॥

सा सदास्तु विरूपाक्षप्रसादात्तु समन्ततः॥
एवमुक्तेषु विप्रेषु नारदो भगवानपि॥ ५५.४६ ॥

कराभ्यां सुशुभाग्राभ्यां सूतं पस्पर्शिवांस्त्वचि॥
स्वस्त्यस्तु सूत भद्रं ते महादेवे वृषध्वजे॥ ५५.४७ ॥

श्रद्धा तवास्तु चास्माकं नमस्तस्मै शिवाय च॥ ५५.४८ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चपञ्चाशत्तमोध्यायः॥ ५५ ॥

समाप्तं चैतल्लैङ्गोत्तरार्धम्॥
श्रीभवानीशङ्करार्पणमस्तु॥