सूत उवाच॥
त्रियम्बकेण मन्त्रेण देवदेवं त्रियम्बकम्॥
पूजयेद्बाणलिङ्गे वा स्वयम्भूतेऽपि वा पुनः॥ ५४.१ ॥
आयुर्वेदविदैर्वापि यथावदनुपूर्वशः॥
अष्टोत्तरसहस्रेण पुण्डरीकेण शङ्करम्॥ ५४.२ ॥
कमलेन सहस्रेण तथा नीलोत्पलेन वा॥
सम्पूज्य पायसं दत्त्वा सघृतं चौदनं पुनः॥ ५४.३ ॥
मुद्गान्नं मधुना युक्तं भक्ष्याणि सुरभीणि च॥
अग्नौ होमश्च विपुलो यथावदनुपूर्वशः॥ ५४.४ ॥
पूर्वोक्तैरपि पुष्पैश्च चरुणा च विशेषतः॥
जपेद्वै नियुतं सम्यक् समाप्य च यथाक्रमम्॥ ५४.५ ॥
ब्राह्मणानां सहस्रं च भोजयेद्वै सदक्षिणम्॥
गवां सहस्रं दत्त्वा तु हिरण्यमपि दापयेत्॥ ५४.६ ॥
एतद्वः कथितं सर्वं सरहस्यं समासतः॥
शिवेन देवदेवेन शर्वेणात्युग्रशूलिना॥ ५४.७ ॥
कथितं मेरुशिखरे स्कन्दायामिततेजसे॥
स्कन्देन देवदेवेन ब्रह्मपुत्राय धीमते॥ ५४.८ ॥
साक्षात्सनत्कुमारेण सर्वलोकहितैषिणा॥
पाराशर्याय कथितं पारम्पर्यक्रमागतम्॥ ५४.९ ॥
शुके गते परन्धाम दृष्ट्वा रुद्रं त्रियम्बकम्॥
गतशोको महाभागो व्यसः पर ऋषिः प्रभुः॥ ५४.१० ॥
स्कन्दस्य सम्भवं श्रुत्वा स्थिताय च महात्मने॥
त्रियम्बकस्य माहात्म्यं मन्त्रस्य च विशेषतः॥ ५४.११ ॥
कथितं बहुधा तस्मै कृष्णद्वैपायानाय वै॥
तत्सक्वं कथयिष्यामि प्रसादादेव तस्य वै॥ ५४.१२ ॥
देवं सम्पूज्य विधिना जपेन्मन्त्रं त्रियम्बकम्॥
मुच्यते सर्पपापैश्च सप्तजन्मकृतैरपि॥ ५४.१३ ॥
सङ्ग्रामे तत्सर्वं लब्ध्वा सौभाग्यमतुलं भवेत्॥
लक्षहोमेन राज्यार्थी राज्यं लब्ध्वा सुखी भवेत्॥ ५४.१४ ॥
पुत्रार्थी पुत्रमाप्नोति नियुतेन न संशयः॥
धनार्थी प्रयुतेनैव जपेदेव न संशयः॥ ५४.१५ ॥
धनधान्यादिभिः सर्वैः सम्पूर्णः सर्वमङ्गलैः॥
क्रीडते पुत्रपौत्रैश्च मृतः स्वर्गे प्रजायते॥ ५४.१६ ॥
नानेन सदृशो मन्त्रो लोके वेदे च सुव्रताः॥
तस्मात्त्रियम्बकं देवं तेन नित्यं प्रपूजयेत्॥ ५४.१७ ॥
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं भवेत्॥
त्रयाणामपि लोकानां गुणानामपि यः प्रभुः॥ ५४.१८ ॥
वेदानामपि देवानां ब्रह्मक्षत्रविशामपि॥
अकारोकारमकाराणां मात्राणामपि वाचकः॥ ५४.१९ ॥
तथा सोमस्य सूर्यस्य वह्नेरग्नित्रयस्य च॥
अम्बा उमा महादेवो ह्यम्बकस्तु त्रियम्बकः॥ ५४.२० ॥
सुपुष्पितस्य वृक्षस्य यथा गन्धः सुशोभनः॥
वाति द्वरात्तथा तस्य गन्धः शम्भोर्महात्मनः॥ ५४.२१ ॥
तस्मात्सुगन्धो भगवान्गन्धारयति शङ्करः॥
गान्धारश्च७महादेवो देवानामपि लीलया॥ ५४.२२ ॥
सुगन्धस्तस्य लोकेस्मिन्वायुर्वाति नभस्तले॥
तस्मात्सुगन्धिस्तं देवं सुगन्धि पुष्टिवर्धनम्॥ ५४.२३ ॥
यस्य रेतः पुरा शम्भोर्हरेर्योनौ प्रतिष्ठितम्॥
तस्य वीर्यादभूदण्डं हिरण्यमजोद्भवम्॥ ५४.२४ ॥
चन्द्रादित्यौ सनक्षत्रौ भूर्भुवः स्वर्महस्तपः॥
सत्यलोकमतिक्रम्य पुष्टिर्वीर्यस्य तस्य वै॥ ५४.२५ ॥
पञ्चभूतान्यहङ्कारो बुद्धिः प्रकृतिरेव च॥
पुष्टिर्बीजस्य तस्यैव तस्माद्वै पुष्टिवर्धनः॥ ५४.२६ ॥
तं पुष्टिवर्धनं देवं घृतेन पयसा तथा॥
मधुना यवगोधूममाषबिल्वफलेन च॥ ५४.२७ ॥
कुमुदार्कशमीपत्रगौरसर्षपशालिभिः॥
हुत्वा लिङ्गे यथान्यायं भक्त्या देवं यजामहे॥ ५४.२८ ॥
ऋतेनानेन मां पाशाद्बन्धनात्कर्मयोगतः॥
मृत्योश्च बन्दनाच्चैव मुक्षीय भव तेजसा॥ ५४.२९ ॥
उर्वारुकाणां पक्वानां यथा कालादभूत्पुनः॥
तथैव कालः सम्प्राप्तो मनुना तेन यत्नतः॥ ५४.३० ॥
एवं मन्त्रविधिं ज्ञात्वा शिवलिङ्गं समर्चयेत्॥
तस्य पाशक्षयोऽतीव योगिनो मृत्युनिग्रहः॥ ५४.३१ ॥
त्रियम्बकसमो नास्ति देवो वा घृणयान्वितः॥
प्रसादशीलः प्रीतश्च तथा मन्त्रोपि सुव्रताः॥ ५४.३२ ॥
तस्मात्सर्वं परित्यज्य त्रियम्बकमुमापतिम्॥
त्रियम्बकेण मन्त्रेण पूजयेत्सुसमाहितः॥ ५४.३३ ॥
सर्वावस्थां गतो वापि मुक्तोऽयं सर्वपातकैः॥
शिवध्यानान्न सन्देहो यथा रुद्रस्तथा स्वयम्॥ ५४.३४ ॥
हत्वा भित्त्वा च भूतानि भुक्त्वा चान्यायतोऽपि वा॥
शिवमेकं सकृत्स्मृत्वा सर्वपापैः प्रमुच्यते॥ ५४.३५ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे चुतष्पञ्चाशत्तमोऽध्यायः॥ ५४ ॥