०५३

ऋषय ऊचुः॥
मृत्युञ्जयविधिं सूत ब्रह्मक्षत्रविशामपि॥
वक्तुमर्हसि चास्माकं सर्वज्ञोऽसि महामते॥ ५३.१ ॥

सुत उवाच॥
मृत्युञ्जयविधिं वक्ष्ये बहुना किं द्विजोत्तमाः॥
रुद्राध्यायेन विधिना घृतेन नियुतं क्रमात्॥ ५३.२ ॥

सघृतेन तिलेनैव कमलेन प्रयत्नतः॥
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा॥ ५३.३ ॥

चरुणा सघृतेनैव केवलं पयसापि वा॥
जुहुयात्काल मृत्योर्वा प्रतीकारः प्रकीर्तितः॥ ५३.४ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे त्रिपञ्चाशत्तमोऽध्यायः॥ ५३ ॥