०५२

ऋषय ऊचुः॥
श्रुता वज्रेश्वरी विद्या ब्राह्मी शक्रोपकारिणी॥
अनया सर्वकार्याणि नृपामामिति नः श्रुतम्॥ ५२.१ ॥

विनियोगं वदस्वास्या विद्याया रोमहर्षण॥
सूत उवाच॥
वश्यमाकर्षणं चैव विद्वेषणमतः परम्॥ ५२.२ ॥

उच्चाटनं स्तम्भनं च मोहनं ताडनं तथा॥
उत्सादनं तथा छेदं मारणं प्रतिबन्धनम्॥ ५२.३ ॥

सेनास्तम्भनकादीनि सावित्र्या सर्वमाचरेत्॥
आगच्छ वरदे देवि भूम्यां पर्वतमूर्धनि॥ ५२.४ ॥

ब्राह्मणेब्यो ह्यनुज्ञाता गच्छ देवि यथासुखम्॥
उद्वास्यानेन मन्त्रेण गन्तव्यं नान्यथा द्विजाः॥ ५२.५ ॥

प्रतिकार्यं तथा बाह्यं कृत्वा पश्यादिकां क्रियाम्॥
उद्वास्य वह्निमाधाय पुनरन्यं यथाविधि॥ ५२.६ ॥

देवीमावाह्य च पुनर्जपेत्सम्पूजयेत्पुनः॥
होमं च विधिना वह्नौ पुनरेव समाचरेत्॥ ५२.७ ॥

सर्वकार्याणि विधिना साधयेद्विद्यया पुनः॥
जातीपुष्पैश्च वश्यार्थि जुहुयादयुतत्रयम्॥ ५२.८ ॥

घृतेन करवीरेण कुर्यादाकर्षणं द्विजाः॥
विद्वेषणं विशेषेण कुर्याल्लाङ्गलकस्य च॥ ५२.९ ॥

तैलेनोच्चाटनं प्रोक्तं स्तम्भनं मधुना स्मृतम्॥
तिलेन मोहनं प्रोक्तं ताडनं रुधिरेण च॥ ५२.१० ॥

खरस्य च गजस्याथ उष्ट्रस्य च यथाक्रमम्॥
स्तम्भनं सर्षपेणापि पाटनं चाकुशेन च॥ ५२.११ ॥

माणोच्चाटने चैव रोहीबीजेन सुव्रताः॥
बन्धनन्त्वहिपत्रेण सेनास्तम्भमतः परम्॥ ५२.१२ ॥

कुनट्या नियतं विद्यात्पूजयेत्परमेश्वरीम्॥
घृतेन सर्वसिद्धिः स्यात्पयसा वा विशुद्ध्यते॥ ५२.१३ ॥

तिलेन रोगनाशश्च कमलेन धनं भवेत्॥
कान्तिर्मधूकपुष्पेण सावित्र्या ह्ययुतत्रयम्॥ ५२.१४ ॥

जयादिप्रभृतीन्सर्वान् स्विष्टान्तं पूर्ववत्स्मृतम्॥
एवं सङ्क्षेपतः प्रोक्तो विनियोगोतिविस्तृतः॥ ५२.१५ ॥

जपेद्वा केवलां विद्यां सम्पूज्य च विधानतः॥
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा॥ ५२.१६ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे द्विपञ्चाशत्तमोऽध्यायः॥ ५२ ॥