०५१

ऋषय ऊचुः॥
निग्रहोऽघोररूपेयं कथितोऽस्माकमुत्तमम्॥
वज्रवाहनिकां विद्यां वक्तुमर्हसि सत्तम॥ ५१.१ ॥

सूत उवाच॥
वज्रवाहनिका नाम सर्वशत्रुभयङ्करी॥
अनया सेचयेद्वज्रं नृपाणां साधयेत्तथा॥ ५१.२ ॥

वज्रं कृत्वा विधानेन तद्वज्रमभिषिच्य च॥
अनया विद्यया तस्मिन्विन्येसेत्काञ्चनेन च॥ ५१.३ ॥

ततश्चाक्षरलक्षं च जपेद्विद्वान्समाहितः॥
वज्रीदशांशं जुहुयाद्वज्रकुण्डे घृतादिभिः॥ ५१.४ ॥

तद्वज्रं गोपयेन्नित्यं दापयेन्नृपतेस्ततः॥
तेन वज्रेण वै गच्छञ्छत्रूञ्जीयाद्रणाजिरे॥ ५१.५ ॥

पुरा पिता महेनैव लब्धा विद्या प्रयत्नतः॥
देवी शक्रोपकारार्थं साक्षाद्वज्रेश्वरी तथा॥ ५१.६ ॥

पुरा त्वष्ट प्रजानाथो हतपुत्रः सुरेश्वरात्॥
विद्ययाहरतः सोममिन्द्रवैरेण सुव्रताः॥ ५१.७ ॥

तस्मिन्यज्ञे यताप्राप्तं विदिनोपकृतं हविः॥
तदैच्छत महाबाहुर्विश्वरूपविमर्दनः॥ ५१.८ ॥

मत्पुत्रमवधीः शक्र न दास्ये तव शोभनम्॥
भागं भागार्हता नैव विश्वरूपो हतस्त्वया॥ ५१.९ ॥

इत्युक्त्वा चाश्रमं सर्वं मोहयामास मायया॥
ततो मायां विनिर्भिद्य विश्वरूपविमर्दनः॥ ५१.१० ॥

प्रसह्य सोममपिबत्सगणैश्च शचीपतिः॥
ततस्तच्छेषमादाय क्रोधाविष्टः प्रजापतिः॥ ५१.११ ॥

इन्द्रस्य शत्रो वर्धस्व स्वाहेत्यग्नौ जुहाव ह॥
ततः कालाग्निसङ्काशो वर्तनाद्वृत्रसञ्ज्ञितः॥ ५१.१२ ॥

प्रादुरासीत्सुरेशारिर्दुद्राव वृषान्तकः॥
ततः किरीटी भगवान्परित्यज्य दिवं क्षणात्॥ ५१.१३ ॥

सहस्रनेत्रः सगणो दुद्राव भयविह्वलः॥
तदा तमाह स विभृर्हृष्टो ब्रह्मा च विश्वसृट्॥ ५१.१४ ॥

त्यक्त्वा वज्रं तमेतेन जहीत्यरिसरिन्दमः॥
सोऽपि सन्नह्य देवेन्द्रो देवैः सार्धं महाभुजः॥ ५१.१५ ॥

निहत्य चाप्रयत्नेन गतवान्विगतज्वरः॥
तस्माद्वज्रेश्वरीविद्या सर्वशत्रुभयङ्करी॥ ५१.१६ ॥

मन्देहा राक्षसा नित्यं विजिता विद्ययैव तु॥
तां विद्यां सम्प्रवक्ष्यामि सर्वपापप्रमोचनीम्॥ ५१.१७ ॥

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि॥
धियो यो नः प्रचोदयात्॥
ॐ फट् जहि हुं फट् छिन्धि भिन्धि जहि हनहन स्वाहा॥
विद्या वज्रेश्वरीत्येषा सर्वशत्रुभयङ्करी॥
अनया संहृतिः शम्भोर्विद्याया मुनिपुङ्गवाः॥ ५१.१८ ॥

इति श्रीलिङ्ङ्गमहापाराणे उत्तरभागे एकपञ्चाशत्तमोऽध्यायः॥ ५१ ॥