०५०

ऋषय ऊचुः॥
निग्रहः कथितस्तेन शिववक्त्रेण शूलिना॥
कृतापरान्धिनां तं तु वक्तुमर्हसि सुव्रत॥ ५०.१ ॥

त्वया नविदिनं नास्ति लौकिकं वैदिकं तथा॥
श्रौतं स्मार्तं महाभाग रोमहर्षण सुव्रत॥ ५०.२ ॥

सूत उवाच॥
पुरा भृगुसुतेनोक्तो हिरण्याक्षाय सुव्रताः॥
निग्रहोऽघोरशिष्येण शुक्रेणाक्षयतेजसा॥ ५०.३ ॥

तस्य प्रसादद्दैत्येन्द्रो हिरण्याक्षः प्रतापवान्॥
त्रैलोक्यमखिलं जित्वा सदेवासुरमानुषम्॥ ५०.४ ॥

उत्पाद्य पुत्रं गणपं चान्धकं चारुविक्रमम्॥
रराज लोके देवेन वराहेण निषूदितः॥ ५०.५ ॥

स्त्रीबाधां बालबाधां च गवामपि विशेषतः॥
कुर्वतो नास्ति विजयो मार्गेणानेन भूतले॥ ५०.६ ॥
तेन दैत्येन सा देवी धरा नीता रसातलम्॥
तेनाघोरेण देवेन निष्फलो निग्रहः कृतः॥ ५०.७ ॥

संवत्सर सहस्रान्ते वराहेण च सूदितः॥
तस्मादघोरसिद्ध्यर्थं ब्राह्मणान्नैव बाधयेत्॥ ५०.८ ॥

स्त्रीणामपि विशेषेण गवामपि न कारयेत्॥
गुह्याद्गुह्यतमङ्गोप्यमतिगुह्यं वदामि वः॥ ५०.९ ॥

आततायिनमुद्दिश्य कर्तव्यं नृपसत्तमैः॥
ब्राह्मणेभ्यो न कर्तव्यं स्वराष्ट्रेशस्य वा पुनः॥ ५०.१० ॥

अतीवदुर्जये प्राप्ते बले सर्वे निषूदिते॥
अधर्मयुद्धे सम्प्राप्ते कुर्याद्विधिमनुत्तमम्॥ ५०.११ ॥

अघृणेनैव कर्तव्यो ह्यघृणेनैव कारयेत्॥
कृतमात्रे न सन्देहो निग्रहः सम्प्रजायते॥ ५०.१२ ॥

लक्षमात्रं पुमाञ्जप्त्वा अघोरं घोररूपिणम्॥
दशांशं विधिना हुत्वा तिलेन द्विजसत्तमाः॥ ५०.१३ ॥

सम्पूज्य लक्षपुष्पेण सितेन विधिपूर्वकम्॥
बाणलिङ्गेऽथवा वह्नौ दक्षिणामूर्तिमाश्रितः॥ ५०.१४ ॥

सिद्धमन्त्रोऽन्यता नास्ति द्रष्टा सिद्ध्यादयः पुनः॥
सिद्धमन्त्रः स्वयं कुर्यात्प्रेतस्थाने विशेषतः॥ ५०.१५ ॥

मातृस्थानेऽपि वा विद्वान्वेदवेदाङ्गपारगः॥
केवलं मन्त्रसिद्धो वा ब्राह्मणः शिवभावितः॥ ५०.१६ ॥

कुर्याद्विधिमिमं धीमानात्मनोऽर्थं नृपस्य वा॥
सूलाष्टकं न्यसेद्विद्वान्पूर्वादीशानकान्तकम्॥ ५०.१७ ॥

त्रिशिखं च त्रिशूलं च चतुर्विशाच्छिकाग्रतः॥
अघोरविग्रहं कृत्वा सङ्कलीकृतविग्रहः॥ ५०.१८ ॥

सर्वनाशकरं ध्यात्वा सर्वकर्माणि कारयेत्॥
कालाग्निकोटिसङ्काशं स्वदेहमपि भावयेत्॥ ५०.१९ ॥

शूलं कपालं पाशं च दण्डं चैव शरासनम्॥
बाणं डमरुकं खड्गमष्टायुधमनुक्रमात्॥ ५०.२० ॥

अष्टहस्तश्च वरदो नीलकण्ठो दिगम्बरः॥
पञ्चतत्त्वसमारूढो ह्यर्धचन्द्रधरः प्रभुः॥ ५०.२१ ॥

दंष्ट्राकरालवदनो रौद्रदृष्टिर्भयङ्करः॥
हुम्फट्कारमहाशब्दशब्दिताखिलदिङ्मुखः॥ ५०.२२ ॥

त्रिनेत्रं नागपाशेन सुबद्धमुकुटं स्वयम्॥
सर्वाभरणसम्पन्नं प्रेतभस्मावगुण्ठितम्॥ ५०.२३ ॥

भूतैः प्रेतैः पिशाचैश्च डाकिनीभिश्च राक्षसैः॥
संवृतं गजकृत्त्वा च सर्पभूषणभूषितम्॥ ५०.२४ ॥

वृश्चिकाभरणं देवं नीलनीरदनिस्वनम्॥
नीलाञ्जनाद्रिसङ्काशं सिंहचर्मोत्तरीयकम्॥ ५०.२५ ॥

ध्यायेदेवमघोरेशं घोरघोरतरं शिवम्॥
षट्त्रिंशदुक्तमात्राभिः प्राणायामेन सुव्रताः॥ ५०.२६ ॥

महामुद्रासमायुक्तः सर्वकर्माणि कारयेत्॥
सिद्धमन्त्रश्चिताग्नौ वा प्रेतस्थाने यथाविधि॥ ५०.२७ ॥

स्थापयेन्मध्यदेशे तु ऐन्द्रे याम्ये च वारुणे॥
कौबेर्यां विदिवत्कृत्वा होमकुण्डानि शास्त्रतः॥ ५०.२८ ॥

आचार्यो मध्यकुण्डे तु साधकाश्च दिशासु वै॥
परिस्तीर्य विलोमेन पूर्ववच्छूलसम्भृतः॥ ५०.२९ ॥

कालाग्निपीठमध्यस्थः स्वयं शिष्यैश्च तादृशैः॥
ध्यात्वा घोरमघोरेशं द्वात्रिंशाक्षरसंयुतम्॥ ५०.३० ॥

विभीतकेन वै कृत्वा द्वादशाङ्गुलमानतः॥
पीठे न्यस्य नृपेन्द्रस्य शत्रुमङ्गारकेण तु॥ ५०.३१ ॥

कुण्डस्याधः खनेच्छत्रुं ब्राह्मणः क्रोधमूर्च्छितः॥
अधोमुखोर्ध्वपादं तु सर्वकुण्डेषु यत्नतः॥ ५०.३२ ॥

श्मशानाङ्गारमानीय तुषेण सह दाहयेत्॥
तत्राग्निं स्थापयेत्तूष्णीं ब्रह्मचर्यपरायणः॥ ५०.३३ ॥

मायूरास्त्रेण नाभ्यां तु ज्वलनं दीपयेत्ततः॥
कञ्चुकं तुषसंयुक्तैः कार्पासास्थिसमन्वितैः॥ ५०.३४ ॥

रक्तवस्त्रसमं मिश्रैर्होमद्रव्यैर्विशेषतः॥
हस्तयन्त्रोद्भवैस्तैलैः सह होमं तु कारयेत्॥ ५०.३५ ॥

अष्टोत्तरसहस्रं तु होमयेदनुपूर्वशः॥
कृष्णपक्षे चतुर्दश्यां समारभ्य यथाक्रमम्॥ ५०.३६ ॥

अष्टम्यन्तं तथाङ्गारमण्डलस्थानवर्जितः॥
एवं कृते नृपेन्द्रस्य शत्रवः कुलजैः सह॥ ५०.३७ ॥

सर्वदुःखसमोपेताः प्रयान्ति यमसादनम्॥
मन्त्रेणानेन चादाय नृकपाले नखं तथा॥ ५०.३८ ॥

केशं नृणां तथाङ्गारं तुषं कञ्चुकमेव च॥
चीरच्छटां राजधूलीं गृहसम्मार्जनस्य वा॥ ५०.३९ ॥

विषसर्पस्य दन्तानि वृषदन्तानि यानि तु॥
गवां चैव क्रमेणैव व्याघ्रदन्तनखानि च॥ ५०.४० ॥

तथा कृष्णमृगाणां च बिडालस्य च पूर्ववत्॥
नकुलस्य च दन्तानि वराहस्य विशेषतः॥ ५०.४१ ॥

दंष्ट्राणि साधयित्वा तु मन्त्रेणानेन सुव्रताः॥
जपेदष्टोत्तरशतं मन्त्रं चाघोरमुत्तमम्॥ ५०.४२ ॥

तत्कपालं नखं क्षेत्रे गृहे वा नगरेऽपि वा॥
प्रेतस्थानेऽपि वा राष्ट्रे मृतवस्त्रेण वेष्टयेत्॥ ५०.४३ ॥

शत्रोरष्टमाराशौ वा परिविष्टे दिवाकरे॥
सोमे वा परिविष्टे तु मन्त्रेणानेन सुव्रताः॥ ५०.४४ ॥

स्थाननाशो भवेत्तस्य शत्रोर्नाशश्च जायते॥
शत्रुं राज्ञः समालिख्य गमने समवस्थिते॥ ५०.४५ ॥

भूतले दर्पणप्रख्ये वितानोपरि शोभिते॥
चतुस्तोरणसंयुक्ते दर्भमालासमावृते॥ ५०.४६ ॥

वेदाध्ययनसम्पन्ने राष्ट्रे वृद्धिप्रकाशके॥
दक्षिणेन तु पादेन मूर्ध्नि सन्ताडयेत्स्वयम्॥ ५०.४७ ॥

एवं कृते नृपेन्द्रस्य शत्रुनाशो भविष्यति॥
स्वाराष्ट्रपतिमुद्दिश्य यः कुर्यादाभिचारिकम्॥ ५०.४८ ॥

स आत्मानं निहत्यैव स्वकुलं नाशयेत्कुधीः॥
तस्मात्स्वराष्ट्रगाम्प्तारं नृपतिं पालयेत्सदा॥ ५०.४९ ॥

मन्त्रैषधिक्रियाद्यैश्च सर्वयत्नेन सर्वदा॥
एतद्रहस्यं कथितं न देयं यस्य कस्यचित्॥ ५०.५० ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चाशत्तमोऽध्यायः॥ ५० ॥