ऋषय ऊचुः॥
अघोरेशस्य महात्म्यं भवता कथितं पुरा॥
पूजां प्रतिष्ठां देवस्य भगवन्वक्तुमर्हसि॥ ४९.१ ॥
सूत उवाच॥
अघोरेणाङ्ग युक्तेन विधिवच्च विशेषतः॥
प्रतिष्ठालिङ्गविधिना नान्यता मुनिपुङ्गवाः॥ ४९.२ ॥
तथाग्निपूजां वै कुर्याद्यथा पूजा तथैव च॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा॥ ४९.३ ॥
तिलैर्होमः प्रकर्तव्यो दधिमध्वाज्यसंयुतैः॥
घृतसक्तुमदूनां च सर्वदुःखप्रमार्जनम्॥ ४९.४ ॥
व्याधीनां नाशनं चैव तिलहोमस्तु भूतिदः॥
सहस्रेण महाभूतिः शतेन व्याधिनाशनम्॥ ४९.५ ॥
सर्वदुःखविनिर्मुक्तो जपेन च न संशयः॥
अष्टोत्तरशतेनैव त्रिकाले च यथाविधि॥ ४९.६ ॥
अष्टोत्तरसहस्रेण षण्मासाज्जायते ध्रुवम्॥
सिद्धयो नैव सन्देहो राज्यमण्डालिनामपि॥ ४९.७ ॥
सहस्रेण ज्वरो याति क्षीरेण च जुहोति यम्॥
त्रिकालं मासमेकं तु सहस्रं जुहुयात्पयः॥ ४९.८ ॥
मासेन सिद्ध्यते तस्य महासौभाग्यमुत्तमम्॥
सिद्ध्यते चाब्दहोमेन क्षौद्राज्यदधिसंयुतम्॥ ४९.९ ॥
यवक्षीराज्यहोमेन जातितण्डुलकेन वा॥
प्रीयेत भगवानीशो ह्यघोरः परमेश्वरः॥ ४९.१० ॥
दध्ना पुष्टिर्नृपाणां च क्षीरहोमेन शान्तिकम्॥
षण्मासं तु घृतं हुत्वा सर्वव्याधिविनाशनम्॥ ४९.११ ॥
राजयक्ष्मा तिलैर्होमान्नश्यते वत्सरेण तु॥
यवहोमेन चायुष्यं घृतेन च जयस्तदा॥ ४९.१२ ॥
सर्वकुष्ठक्षयार्थं च मधुनाक्तैश्च तण्डुलैः॥
जुहुयादयुतं नित्यं षण्मासान्नियतः सदा॥ ४९.१३ ॥
आज्यङ्क्षीरं मधुश्चैव मधुरत्रयमुच्यते॥
समस्तं तुष्यते तस्य नाशयेद्वै भगन्दरम्॥ ४९.१४ ॥
केवलं घृतहोमेन सर्वरोगक्षयः स्मृतः॥
सर्वव्याधि हरं ध्यानं स्थापनं विधिनार्चनम्॥ ४९.१५ ॥
एवं सङ्क्षेपतः प्रोक्तमघोरस्य महात्मनः॥
प्रतिष्ठा यजनं सर्वं नन्दिना कथितं पुरा॥ ४९.१६ ॥
ब्रह्मपुत्राय शिष्याय तेन व्यासाय सुव्रताः॥ ४९.१७ ॥
श्रीलीङ्गमहापुराणे उत्तरभागे एकोनपञ्चाशत्तमोऽध्यायः॥ ४९ ॥