सूत उवाच॥
सर्वेषामपि देवानां प्रतिष्ठामपि विस्तरात्॥
स्वैर्मत्रैर्यागकुण्डानि विन्यस्यैकैकमेव च॥ ४८.१ ॥
स्थापयेदुत्सवं कृत्वा पूजयेच्च विधानतः॥
भानोः पञ्चाग्निना कार्यं द्वादशाग्निक्रमेण वा॥ ४८.२ ॥
सर्वकुम्मडानि वृत्तानि पद्माकाराणि सुव्रताः॥
अम्बाया योनिकुण्डं स्याद्वर्धन्येका विधीयते॥ ४८.३ ॥
शक्तीकार्येषु योनिकुण्डं विधीयते॥
गायत्रीं कल्पयेच्छम्भोः सर्वेषामपि यत्नतः॥
सर्वे रुद्रांशजा यस्मात्सङ्क्षेपेण वदामि वः॥ ४८.४ ॥
गायत्रीभेदाः॥
तत्पुरुषाय विद्महे वाग्विशुद्धाय धीमहि॥
तन्नः शिवः प्रचोदयात्॥ ४८.५ ॥
गणाम्बिकायै विद्महे कर्मसिद्ध्यै च धीमहि॥
तन्नो गौरी प्रचोदयात्॥ ४८.६ ॥
तत्पुरुषाय विद्महे महादेवाय धीमहि॥
तन्नो रुद्रः प्रचोदयात्॥ ४८.७ ॥
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि॥
तन्नो दन्तिः प्रचोदयात्॥ ४८.८ ॥
महासेनाय विद्महे वाग्विशुद्धाय धीमहि॥
तन्नः स्कन्दः प्रोचदयात्॥ ४८.९ ॥
तीक्ष्णश्रृङ्गाय विद्महे वेदपादाय धीमहि॥
तन्नो वृषः प्रचोदयात्॥ ४८.१० ॥
हरिवक्त्राय विद्महे रुद्रवक्त्राय धीमहि॥
तन्नो नन्दी प्रचोदयात्॥ ४८.११ ॥
नारायणाय विद्महे वासुदेवाय धीमहि॥
तन्नो विष्णुः प्रचोदयात्॥ ४८.१२ ॥
महाम्बिकायै विद्महे कर्मसिद्धैय च धीमहि॥
तन्नो लक्ष्मीः प्रचोदयात्॥ ४८.१३ ॥
समुद्धृतायै विद्महे विष्णुनैकेन धीमहि॥
तन्नो धरा प्रचोदयात्॥ ४८.१४ ॥
वैनतेयाय विद्महे सुवर्णपक्षाय धीमहि॥
तन्नो गरुडः प्रचोदयात्॥ ४८.१५ ॥
पद्मोद्भवाय विद्महे वेदवक्त्राय धीमहि॥
तन्नः स्रष्टा प्रचोदयात्॥ ४८.१६ ॥
शिवास्यजायै विद्महे देवरूपायै धीमहि॥
तन्नो वाचा प्रचोदयात्॥ ४८.१७ ॥
देवराजाय विद्महे वज्रहस्ताय धीमहि॥
तन्नः शक्रः प्रचोदयात्॥ ४८.१८ ॥
रुद्रनेत्राय विद्महे शक्तिहस्ताय धीमहि॥
तन्नो वह्निः प्रचोदयात्॥ ४८.१९ ॥
वैवस्वताय विद्महे दण्डहस्ताय धीमहि॥
तन्नो यमः प्रचोदयात्॥ ४८.२० ॥
निशाचराय विद्महे खड्गहस्ताय धीमहि॥
तन्नो निर्ऋतिः प्रचोदयात्॥ ४८.२१ ॥
शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि॥
तन्नो वरुणः प्रचोदयात्॥ ४८.२२ ॥
सर्वप्राणाय विद्महे यष्टिहस्ताय धीमहि॥
तन्नो वायुः प्रचोदयात्॥ ४८.२३ ॥
यक्षेश्वराय विद्महे गदाहस्ताय धीमहि॥
तन्नो यक्षः प्रचोदयात्॥ ४८.२४ ॥
सर्वेश्वराय विद्महे शूलहस्ताय धीमहि॥
तन्नो रुद्रः प्रचोदयात्॥ ४८.२५ ॥
कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि॥
तन्नो दुर्गा प्रचोदयात्॥ ४८.२६ ॥
एवं प्रभिद्य गायत्रीं तत्तदेवानुरूपतः॥
पूजयेत् स्थापयेत्तेषामासनं प्रणवं स्मृतम्॥ ४८.२७ ॥
अथवा विष्णुमतुलं सूक्तेन पुरुषेण वा॥
विष्णुं चैव महाविष्णुं सदाविष्णुमनुक्रमात्॥ ४८.२८ ॥
स्थापयेद्देवगायत्र्या परिकल्प्य विधानतः॥
वासुदेवः प्रधानस्तु ततः सङ्कर्षणः स्वयम्॥ ४८.२९ ॥
प्रद्युम्नो ह्यनिरुद्धश्च मूर्तिभेदास्तु वै प्रभोः॥
बहूनि विविधानीह तस्य शापोद्भवानि च॥ ४८.३० ॥
सर्वावर्तेषु रूपाणि जगतां च हिताय वै॥
मत्स्यः कूर्मोऽथ वाराहो नारसिंहोऽथ वामनः॥ ४८.३१ ॥
रामो रामश्च कृष्णश्च बौद्धः कल्की तथैव च॥
तथान्यानि न देवस्य हरेः सापोद्भवानि च॥ ४८.३२ ॥
तेषामपि च गायत्रीं कृत्वा स्ताप्य च पूजयेत्॥
गुह्यानि देवदेवस्य हरेर्नारायणस्य च॥ ४८.३३ ॥
विज्ञानानि च यन्त्राणि मन्त्रोपनिषदानि च॥
पञ्च ब्रह्माङ्गजानीह पञ्चभूतमयानि च॥ ४८.३४ ॥
नमो नारायणायेति मन्त्रः परमशोभनः॥
हरेरष्टाक्षराणीह प्रणवेन समासतः॥ ४८.३५ ॥
ओं नमो वासुदेवाय नमः सङ्कर्षणाय च॥
प्रद्युम्नाय प्रधानाय अनिरुद्धाय वै नमः॥ ४८.३६ ॥
एकमेकेन मन्त्रेण स्थापयेत्परमेश्वरम्॥
बिम्बानियानि देवस्य शिवस्य परमेष्ठिनः॥ ४८.३७ ॥
प्रतिष्ठा चैव पूजा च लिङ्गवन्मुनिसत्तमाः॥
रत्नविन्याससहितं कौतुकानि हरेरपि॥ ४८.३८ ॥
अचले कारयेत्सर्वं चलेप्येवं विधानतः॥
तन्नेत्रोन्मीलनं कुर्यान्नेत्रमन्त्रेण सुव्रताः॥ ४८.३९ ॥
क्षेत्रप्रदक्षिणं चैव आरामस्य पुरस्य च॥
जलाधिवासनं चैव पूर्ववत्परिकीर्तितम्॥ ४८.४० ॥
कुण्डमण्डपनिर्माणं शयनं च विधीयते॥
हुत्वा नवाग्निभागेन नवकुण्डे यताविधि॥ ४८.४१ ॥
अथवा पञ्चकुण्डेषु प्रधाने केवलेऽथ वा॥
प्रतिष्ठा कथिता दिव्या पारम्पर्यक्रमागता॥ ४८.४२ ॥
शिलोद्भवानां बिम्बानां चित्राभासस्य वा पुनः॥
जलाधिवासनं प्रोक्तं वृषेन्द्रस्य प्रकीर्तितम्॥ ४८.४३ ॥
प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता॥
प्रासादाङ्गस्य सर्वस्य यथाङ्गानां तनोरिव॥ ४८.४४ ॥
वृषाग्निमातृविघ्नेशकुमारानपि यत्नतः॥
श्रेष्ठां दुर्गां तथा चण्डीं गायत्र्या वै यथाविधि॥ ४८.४५ ॥
प्रागाद्यं स्थापयेच्छम्भोरष्टावरणमुत्तमम्॥
लोकपालगणेशाद्यानपि शम्भोः प्रविन्यसेत्॥ ४८.४६ ॥
उमा चण्डी च नन्दी च महाकालो महामुनिः॥
विघ्नेश्वरो महाभृङ्गी स्कन्दः सौम्यादितः क्रमात्॥ ४८.४७ ॥
इन्द्रादीन्स्वेषु स्थानेषु ब्रह्माणं च जनार्दनम्॥
स्थापयेच्चैव यत्नेन क्षेत्रेशं वेशगोचरे॥ ४८.४८ ॥
सिंहासने ह्यनन्तादीन् विद्येशामपि च क्रमात्॥
स्थापयेत्प्रणवेनैव गुह्याङ्गादीनि पङ्कजे॥ ४८.४९ ॥
एवं सङ्क्षेपतः प्रोक्तं चलस्थापनसुत्तमम्॥
सर्वेषामपि देवानां देवीनां च विशेषतः॥ ४८.५० ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागेऽष्टचत्वारिंशोऽध्यायः॥ ४८ ॥