सूत उवाच॥
इति निशम्य कृताञ्जलय स्तदा दिवि महामुनयः कृतनिश्चयाः॥
शिवतरं शिवमीश्वरमव्ययं मनसि लिङ्गमयं प्रणिपत्य ते॥ ४७.१ ॥
सकलदेवपतिर्भगवानजो हरिरशेषपतिर्गुरुणा स्वयम्॥
मुनिवराश्च गणाश्च सुरासुरा नरवराः शिवलिङ्गमयाः पुनः॥ ४७.२ ॥
श्रुत्वैवं मुनयः सर्वे षट्कुलीयाः समाहिताः॥
सन्त्यज्य सर्वं देवस्य प्रतिष्ठां कर्तुमुद्यताः॥ ४७.३ ॥
अपृच्छन्सूतमनघं हर्षगद्गदया गिरा॥
लिङ्गप्रतिष्ठां विपुलां सर्वे ते शंसितव्रताः॥ ४७.४ ॥
सूत उवाच॥
प्रतिष्ठां लिङ्गमूर्तेर्वो यथावदनुपूर्वशः॥
प्रवक्ष्यामि समासेन धर्मकामार्थमुक्तये॥ ४७.५ ॥
कृत्वैव लिङ्गं विधिना भुवि लिङ्गेषु यत्नतः॥
लिङ्गमेकतमं शैलं ब्रह्मविष्णुशिवात्मकम्॥ ४७.६ ॥
हेमरत्नमयं वापि राजतं ताम्रजं तु वा॥
सवेदिकं ससूत्रं च सम्यग्विस्तृतमस्तकम्॥ ४७.७ ॥
विशोध्य स्थापयेद्भक्त्या सवेदिकमनुत्तमम्॥
लिङ्गवेदी उमा देवी लिङ्गं साक्षान्महेश्वरः॥ ४७.८ ॥
तयोः सपूजनादेव देवी देवश्च पूजितौ॥
प्रतिष्ठया च देवेशो देव्या सार्धं प्रतिष्ठितः॥ ४७.९ ॥
तस्मात्सवेदिकं लिङ्गं स्थापयेत्स्थापकोत्तमः॥ ४७.१० ॥
मूले ब्रह्मा वसति भगवान्मध्यभागे च विष्णुः सर्वेशानः॥
पशुपतिरजो रुद्रमूर्तिर्वरेण्यः॥
तस्माल्लिङ्गं गुरुतरतरं पूजयेत्स्थापयेद्वा यस्मात्पूज्यो गणपतिरसौ देवमुख्यैः समस्तैः॥ ४७.११ ॥
गन्धैः स्रग्धूपदीपैः स्नपनहुतबलिस्तोत्रमन्त्रोपहारैर्नित्यं येऽभ्यर्चयान्ति त्रिदशवरतनुं लिङ्गमूर्तिं महेशम्॥
गर्भाधानादिनाशक्षयभयरहिता देवगन्धर्वमुख्यैः सिद्धैर्वन्द्याश्च पूज्या गणवरनमितास्ते भवन्त्यप्रमेयाः॥ ४७.१२ ॥
तस्माद्भक्त्योपचारेण स्थापयेत्परमेश्वरम्॥
पूजयेच्च विशेषेण लिङ्गं सर्वार्थसिद्धये॥ ४७.१३ ॥
समर्च्य स्थापयेल्लिङ्गं तीर्थमध्ये शिवासने॥
कूर्चवस्त्रादिभिर्लिङ्गमाच्छाद्य कलशैः पुनः॥ ४७.१४ ॥
लोकपालादिदैवत्यैः सकूर्चैः साक्षतैः शुभैः॥
उत्कूर्चैः स्वस्तिकाद्यैश्च चित्रतन्तुकवेष्टितैः॥ ४७.१५ ॥
वज्रादिकायुदोपेतैः सवस्त्रैः सपिधानकैः॥
लक्षयेत्परितो लिङ्गमीशानेन प्रतिष्ठितम्॥ ४७.१६ ॥
धूपदीपसमोपेतं वितानवितताम्बरम्॥
लोकपालध्वजैश्चैव गजादिमहिषादिभिः॥ ४७.१७ ॥
चित्रितैः पूजितैश्चैव दर्भमाला च शोभना॥
सर्वलक्षणसम्पूर्णा तया बाह्ये च वेष्टयेत्॥ ४७.१८ ॥
ततोधिवासयेत्तोये धूपदीपसमन्विते॥
पञ्चाहं वा त्र्यहंवाथ एकरात्रमधापि वा॥ ४७.१९ ॥
वेदाध्ययनसम्पन्नो नृत्यगीतादिमङ्गलैः॥
किङ्किणीरवकोपेतं तालवीणारवैरपि॥ ४७.२० ॥
ईक्षयेत्कालमव्यग्रो यजमानः समाहितः॥
उत्थाप्य स्वस्तिकं ध्यायेन्मण्डपे लक्षणान्विते॥ ४७.२१ ॥
संस्कृते वेदिसंयुक्ते नवकुण्डेन संवृते॥
पूर्वोक्त विधिना युक्ते सर्वलक्षणसंयुते॥ ४७.२२ ॥
अष्टमण्डलसंयुक्ते दिग्ध्वजाष्टकसंयुते॥
पूर्वोक्तलक्षणोपेतैः कुण्डैः प्रागादितः क्रमात्॥ ४७.२३ ॥
प्रधानं कुण्डमीशान्यां चतुरस्रं विधीयते॥
अथवा पञ्चकुण्डैकं स्थण्डिलं चैकमेव च॥ ४७.२४ ॥
यज्ञोपकरणैः सर्वैः शिवार्चायां हि भूषणैः॥
वेदिमध्ये महाशय्यां पञ्चतूलीप्रकल्पिताम्॥ ४७.२५ ॥
कल्पयेत्काञ्चनोपेतां सितवस्त्रावगुण्ठिताम्॥
प्रकल्प्यैवं शिवं चैव स्थापयेत्परमेश्वरम्॥ ४७.२६ ॥
प्राक्शिरस्कं न्यसेल्लिङ्गमीशानेन यथाविधि॥
रत्नन्यासे कृते पूर्व केवलं कलशं न्यसेत्॥ ४७.२७ ॥
लिङ्गमाच्छाद्य वस्त्राभ्यां कूर्चेन च समन्ततः॥
रत्नन्यासे प्रसक्तेऽथ वामाद्या नव शक्तयः॥ ४७.२८ ॥
नवरत्नं हिरण्याद्यैः पञ्चगव्येन संयुतैः॥
सर्वदान्यसमोपेतं शिलायामपि विन्यसेत्॥ ४७.२९ ॥
स्थापयेद्ब्रह्मलिङ्गं हि शिवगायत्रिसंयुतम्॥
केवलं प्रणवेनापि स्थापयेच्छिवमव्ययम्॥ ४७.३० ॥
ब्रह्मजज्ञानमन्त्रेण ब्रह्मभागं प्रभोस्तथा॥
विष्णुगायत्रिया भागं वैष्णवं त्वथ विन्यसेत्॥ ४७.३१ ॥
सूत्रे तत्त्वत्रयोपेते प्रणवेन प्रविन्यसेत्॥
सर्वं नमः शिवायेति नमो हंसः शिवाय च॥ ४७.३२ ॥
रुद्राध्यायेन वा सर्वं परिमृज्य च विन्यसेत्॥
स्थापयेद्ब्रह्मभिश्चैव कलशान्वै समन्ततः॥ ४७.३३ ॥
वेदिमध्ये न्यसेत्सर्वान्मूर्वोक्तविधिसंयुतान्॥
मध्यकुम्भे शिवं देवीं दक्षिणे परमेश्वरीम्॥ ४७.३४ ॥
स्कन्दं तयोश्च मध्ये तु स्कन्दकुम्भे सुचित्रिते॥
ब्रह्माणं स्कन्दकुम्भे वा ईशकुम्भे हरिं तथा॥ ४७.३५ ॥
अथवा शिवकुम्भे च ब्रह्माङ्गानि च विन्यसेत्॥
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः॥ ४७.३६ ॥
ब्रह्माण्येवं समासेन हृदयादीनि चाम्बिका॥
वेदिमध्ये न्यसेत्सर्वान्पूर्वोक्तविधिसंयुतान्॥ ४७.३७ ॥
वर्धन्यां स्थापयेद्देवीं गन्धतोयेन पूर्य च॥
हिरण्यं रजतं रत्नं शिवकुम्भे प्रविन्यसेत्॥ ४७.३८ ॥
वर्धन्यामापि यत्नेन गायत्र्यङ्गैश्च सुव्रताः॥
विद्येश्वरान्दिशं कुम्भे ब्रह्मकूर्चेन पूरिते॥ ४७.३९ ॥
अन्नतेशादिदेवांश्च प्रणवादिनमोन्तकम्॥
नववस्त्रं प्रतिघटमष्टकुम्भेषु दापयेत्॥ ४७.४० ॥
विद्येश्वराणां कुम्भेषु हेमरत्नादि विन्यसेत्॥
वक्त्रक्रमेण होतव्यं गायत्र्यङ्गक्रमेण च॥ ४७.४१ ॥
जयादिस्विष्टपर्यन्तं सर्वं पूर्ववदाचरेत्॥
सेचयेच्छिवकुम्भेन वर्धन्या वैष्णवेन च॥ ४७.४२ ॥
पैता महेन कुम्भेन ब्रह्मभागं विशेषतः॥
विद्येश्वराणां कुम्भैश्च सेचयेत्परमेश्वरम्॥ ४७.४३ ॥
विन्यसेत्सर्वमन्त्राणि पूर्ववत्सुसमाहितः॥
पूजयेत्स्नपनं कृत्वा सहस्रादिषु सम्भवैः॥ ४७.४४ ॥
दक्षिणा च प्रदातव्या सहस्रपणमुत्तमम्॥
इतरेषां तदर्धं स्यात्तदर्धं वा विधीयते॥ ४७.४५ ॥
वस्त्राणि च प्रधानस्य क्षेत्रभूषणगोधनम्॥
उत्सवश्च प्रकर्तव्यो होमयगबलिः क्रमात्॥ ४७.४६ ॥
नवाहं वापि सप्ताहमेकाहं च त्र्यहं तथा॥
होमश्च पूर्ववत्प्रोक्तो नित्यमभ्यर्च्य शङ्करम्॥ ४७.४७ ॥
देवानां भास्करादीनां होमं पूर्ववदेव तु॥
अभ्यन्तरे तथा बाह्ये वह्नौ नित्यं समर्चयेत्॥ ४७.४८ ॥
य एवं स्थापयेल्लिङ्गं स एव परमेश्वरः॥
तेन देवगणा रुद्रा ऋषयोऽप्सरसस्तथा॥ ४७.४९ ॥
सथापिताः पूजिताश्चैव त्रैलोक्यं सचराचरम्॥ ४७.५० ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे लिङ्गस्थापनं नाम सप्तचत्वारिंशोऽध्यायः॥ ४७ ॥