०४६

ऋषय ऊचुः॥
जीवच्छ्राद्धविधिः प्रोक्तस्त्वया सूत महामते॥
मृर्खाणामपि मोक्षार्थमस्माकं रोमहर्षण॥ ४६.१ ॥

रुद्रादित्यवसूनां च शक्रादीनां च सुव्रत॥
प्रतिष्ठा कीदृशी शम्भोर्लिगमूर्तेश्च शोभना॥ ४६.२ ॥

विष्णोः शक्रस्य देवस्य ब्रह्मणश्च महात्मनः॥
अग्नेर्यस्य निर्ऋतेर्वरुणस्य महाद्युतेः॥ ४६.३ ॥

वायोः सोमस्य यक्षस्य कुबेरस्यामितात्मनः॥
ईशानस्य धरायाश्च श्रीप्रतिष्ठाथ वा कथम्॥ ४६.४ ॥

दुर्गाशिवाप्रतिष्ठा च हैमवत्याश्च शोभना॥
स्कन्दस्य गणराजस्य नन्दिनश्च विशेषतः॥ ४६.५ ॥

तथान्येषां च देवानां गणानामपि वा पुनः॥
प्रतिष्ठालक्षणं सर्वं विस्तारद्वक्तुमर्हसि॥ ४६.६ ॥

भवान्सर्वार्थतत्त्वज्ञो रुद्रभक्तश्च सुव्रत॥
कृष्णद्वैपायनस्यासि साक्षात्त्वमपरा तनुः॥ ४६.७ ॥

सुमन्तुर्जैमिनिश्चैव पैलश्च परमर्षयः॥
गुरुभक्तिं तथा कर्तुं समर्थो रोमहर्षणः॥ ४६.८ ॥

इति व्यासस्य विपुला गाथा भागीरथीतटे॥
एकः समो वा भिन्नो वा शिष्यस्तस्य महाद्युतेः॥ ४६.९ ॥

वैशम्पायनतुल्योऽसि व्यासशिष्येषु भूतले॥
तस्मादस्माकमखिलं वक्तुमर्हसि साम्प्रतम्॥ ४६.१० ॥

एवमुक्त्वा स्थितेष्वेव तेषु सर्वेषु तत्र च॥
बभूव विस्मयोऽतीव मुनीनां तस्य चाग्रतः॥ ४६.११ ॥

अथान्तरिक्षे विपुला साक्षाद्देवी सरस्वती॥
अलं मुनीनां प्रश्रोऽयमिति वाचा बभूव ह॥ ४६.१२ ॥

सर्वं लिङ्गमयं लोकं सर्वं लिङ्गे प्रतिष्ठितम्॥
तस्मात्सर्वं परित्यज्य स्थापयेत्पूजयेच्च तत्॥ ४६.१३ ॥

लिङ्गस्थापनसन्मार्गनिहितस्वायतासिना॥
आशु ब्रह्माण्डमुद्भिद्य निर्गच्छेदविशङ्कया॥ ४६.१४ ॥

उपेद्राम्भोजगर्भेन्द्रयमाम्बुधनदेश्वराः॥
तथान्ये च शिवं स्थाप्य लिङ्गमूर्ति महेश्वरम्॥ ४६.१५ ॥

स्वेषुस्वेषु च पक्षेषु प्रधानास्ते यथा द्विजाः॥
ब्रह्मा हरश्च भगवान्विष्णुर्देवी रमा धरा॥ ४६.१६ ॥

लक्ष्मीर्धृतिः स्मृतिः प्रज्ञा धरा दुर्गा शची तथा॥
रुद्राश्च वसवः स्कन्दो विशाखः शाख एव च॥ ४६.१७ ॥

नैगमेशश्च भगवाल्ँलोकपाला ग्रहास्तथा॥
सर्वे नन्दिपुरोगाश्च गणा गणपतिः प्रभुः॥ ४६.१८ ॥

पितरो मुनयः सर्वे कुबेराद्याश्च सुप्रभाः॥
आदित्य वसवः साङ्ख्या अश्विनौ च भिषग्वरौ॥ ४६.१९ ॥

विश्वेदेवाश्च साध्याश्च पशवः पक्षिणो मृगाः॥
ब्रह्मादिस्थावरान्तं च सर्वं लिङ्गे प्रतिष्ठितम्॥ ४६.२० ॥

तस्मात्सर्वं परित्यज्य स्थापयेल्लिङ्गमव्ययम्॥
यत्नेन स्तापितं सर्वं पूजितं पूजयेद्यदि॥ ४६.२१ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे षट्चत्वारिंशोऽध्यायः॥ ४६ ॥