०४५

ऋषय ऊचुः॥
एवं षोडश दानानि कथितानि शुभानि च॥
जीवच्छ्रा द्धक्रमोऽस्माकं वक्तुमर्हसि साम्प्रतम्॥ ४५.१ ॥

सूत उवाच॥
जीवच्छ्राद्धविधिं वक्ष्ये समासात्सर्वसम्मतम्॥
मनवे देवदेवेन कथितं ब्रह्मणा पुरा॥ ४५.२ ॥

वसिष्ठास च शिष्टाय भृगवे भार्गवाय च॥
श्रृण्वन्तु सर्वभावेन सर्वसिद्धिकरं परम्॥ ४५.३ ॥

श्राद्धमार्गक्रमं साक्षाच्छ्राद्धार्हाणामपि क्रमम्॥
विशेषमपि वक्ष्यामि जीवच्छ्राद्धस्य सुव्रताः॥ ४५.४ ॥

पर्वते वा नदीतीरे वने वायतनेऽपि वा॥
जीवच्छ्राद्धं प्रकर्तव्यं मृतकाले प्रयत्नतः॥ ४५.५ ॥

जीवच्छ्राद्धे कृते जीवो जीवन्नेव विमुच्यते॥
कर्म कुर्वन्नकुर्वन्वा ज्ञानी वाज्ञानवानपि॥ ४५.६ ॥

श्रोत्रियोऽश्रोत्रियो वापि ब्राह्मणः क्षत्रियोऽपि वा॥
वैश्यो वा नात्र सन्देहो योगमार्गगतो यता॥ ४५.७ ॥

परीक्ष्य भूमिं विधिवद्गन्धवर्णरसादिभिः॥
शल्यमुद्धृत्य यत्नेन स्थाण्डिलं सैकतं भुवि॥ ४५.८ ॥

मध्यतो हस्तमात्रेण कुण्डं चैवायतं शुभम्॥
स्थाण्डिलं वा प्रकर्तव्यमिषुमात्रं पुनः पुनः॥ ४५.९ ॥

उपलिप्य विधानेन चालिप्याग्निं विधाय च॥
अन्वाधाय यथाशास्त्रं परिगृह्य च सर्वतः॥ ४५.१० ॥

परिस्तीर्य स्वशाखोक्तं पारम्पर्यक्रमागतम्॥
समाप्याग्निमुखं सर्वं मन्त्रैरेतैर्यथाक्रमम्॥ ४५.११ ॥

सम्पूज्य स्थण्डिले वह्नौ होमयेत्समिदादिभिः॥
आदौ कृत्वा समिद्धोमं चरुणा च पृथक्पृथक्॥ ४५.१२ ॥

घृतेन च पृथक्प्रात्रे शोधितेन पृथक्पृथक्॥
जुहुयादात्मनोद्धृत्य तत्त्वभूतानि सर्वतः॥ ४५.१३ ॥

ॐ भूः ब्रह्मणे नमः॥ ४५.१४ ॥

ॐ भूः ब्रह्मणे स्वाहा॥ ४५.१५ ॥

ॐ भुवः विष्णवे नमः॥ ४५.१६ ॥

ॐ भुवः विष्णवे स्वाहा॥ ४५.१७ ॥

ॐ स्वः रुद्राय नमः॥ ४५.१८ ॥

ॐ स्वः रुद्राय स्वाहा॥ ४५.१९ ॥

ॐ महः ईश्वराय नमः॥ ४५.२० ॥

ॐ महः ईश्वराय स्वाहा॥ ४५.२१ ॥

ॐ जनः प्रकृतये नमः॥ ४५.२२ ॥

ॐ जनः प्रकृतये स्वाहा॥ ४५.२३ ॥

ॐ तपः मुद्गलाय नमः॥ ४५.२४ ॥

ॐ तपः मुद्गलाय स्वाहा॥ ४५.२५ ॥

ॐ ऋतं पुरुषाय नमः॥ ४५.२६ ॥

ॐ ऋतं परुषाय स्वाहा॥ ४५.२७ ॥

ॐ सत्यं शिवाय नमः॥ ४५.२८ ॥

ॐ सत्यं शिवाय स्वाहा॥ ४५.२९ ॥

ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूर्नमः॥ ४५.३० ॥

ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय भूः स्वाहा॥ ४५.३१ ॥

शर्व धरां मे गोपाय घ्राणे गन्धं शर्वस्य देवस्य पत्न्यै भूर्नमः॥ ४५.३२ ॥

ॐ शर्व धरां मे गोपाय घ्राणे गन्धं सर्वपत्न्यैभूः स्वाहा॥ ४५.३३ ॥

ॐ भव जलं मे गोपाय जिह्वायं रसं भवाय देवाय भुवो नमः॥ ४५.३४ ॥

ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवः स्वाहा॥ ४५.३५ ॥

ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पत्न्यै भुवो नमः॥ ४५.३६ ॥

ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य पत्न्यै भुवः स्वाहा॥ ४५.३७ ॥

रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वरों नमः॥ ४५.३८ ॥

रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वः स्वाहा॥ ४५.३९ ॥

रुद्राग्निं मे गापाय नेत्रे रूपं रुद्रस्य पत्न्यै स्वरों नमः॥ ४५.४० ॥

रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पत्न्यैस्वः स्वाहा॥ ४५.४१ ॥

उग्र वायुं मे गोपाय त्वचि स्पर्शं उग्राय देवाय महर्नमः॥ ४५.४२ ॥

उग्र वायूं मे गोपाय त्वचि स्पर्शमुग्राय देवाय महः स्वाहा॥ ४५.४३ ॥

उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पत्न्यै महरों नमः॥ ४५.४४ ॥

ॐ उग्र वायुं मो गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पत्न्यै देवाय जनः स्वाहा॥ ४५.४५ ॥

भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनो नमः॥ ४५.४६ ॥

भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनः स्वाहा॥ ४५.४७ ॥

भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य पत्न्यै जनो नमः॥ ४५.४८ ॥

भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य देवस्य पत्न्यै जनः स्वाहा॥ ४५.४९ ॥

ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपो नमः॥ ४५.५० ॥

ईश रजो मे गोपाय द्रव्ये तृष्णमीशाय देवाय तपः स्वाहा॥ ४५.५१ ॥

रजो मे गोपाय द्रव्ये तृष्णामीशस्य पत्न्यै तपो नमः॥ ४५.५२ ॥

ईश रजो मे गोपाय द्रव्ये तृष्णमीशस्य पत्न्यै तपः स्वाहा॥ ४५.५३ ॥

महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं नमः॥ ४५.५४ ॥

महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं स्वाहा॥ ४५.५५ ॥

महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय पत्न्यै ऋतं नमः॥ ४५.५६ ॥

महादेव सत्यं म गोपाय श्रद्धां महादेवस्य पत्न्यै ऋतं स्वाहा॥ ४५.५७ ॥

पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवाय सत्यं नमः॥ ४५.५८ ॥

पशुपते पाशं मे गोपाय भोक्तृत्वभाग्यं पशुपतये देवस्य सत्यं स्वाहा॥ ४५.५९ ॥

ॐ पशुपते पाशं मे गोपाय योक्तृत्वभोग्यं पशुपते र्देवस्य पत्न्यै सत्यं नमः॥ ४५.६० ॥

ॐ पशुपते पाशं म गोपाय योक्तृत्वभोग्यं पशुपतेर्देवस्य पत्न्यै सत्यं स्वाहा॥ ४५.६१ ॥

ॐ शिवाय नमः॥ ४५.६२ ॥

ॐ शिवाय सत्यं स्वाहा॥ ४५.६३ ॥

एवं शिवाय होतव्यं विरिञ्च्याद्यं च पूववत्॥
विरिञ्चाद्यं च पूर्वोक्तं सृष्टिमार्गेषु सुव्रताः॥ ४५.६४ ॥

पुनः पशुपतेः पत्नीं तथा पशुपतीं क्रमात्॥
सम्पूज्य पूर्ववन्मन्त्रैर्होतव्यं च क्रमेण वै॥ ४५.६५ ॥

चर्वन्तमाज्यपूर्वं च समिदन्तं समाहितः॥ ४५.६६ ॥

ॐ शर्व धरां मे छिन्धि घ्राणे गन्धं छिन्धि मेघं जहि भूः स्वाहा॥ ४५.६७ ॥

भुवः स्वाहा॥ ४५.६८ ॥

स्वः स्वाहा॥ ४५.६९ ॥

भूर्भुवः स्वः स्वाहा॥ ४५.७० ॥

एवं पृथक्पृथग्घुत्वा केवलेन घृतेन वा॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा॥ ४५.७१ ॥

विरजा च घृतेनैव शतमष्टोत्तरं पृथक्॥
प्राणादिभिश्च जुहुयाद्धृतेनैव तु केवलम्॥ ४५.७२ ॥

ॐ प्राणे निविष्टोऽमृतं जुहोमि शिवो म विशाप्रदाहाय प्राणाय स्वाहा॥ ४५.७३ ॥

प्राणाधिपतये रुद्राय वृषान्तकाय स्वाहा॥ ४५.७४ ॥

ॐ भूः स्वाहा॥ ४५.७५ ॥

ॐ भुवः स्वाहा॥ ४५.७६ ॥

ॐ स्वः स्वाहा॥ ४५.७७ ॥

भूर्भूवः स्वः स्वाहा॥ ४५.७८ ॥

एवं क्रमेण जुहुयाच्छ्राद्धोक्तं च यताक्रमम्॥
सप्तमेऽनि योगीन्द्राञ्छ्राद्धार्हानपि भोजयेत्॥ ४५.७९ ॥

शर्वादीनां च विप्राणां वस्त्राभरणकम्बलान्॥
वाहनं शयनं यानं कांस्यताम्रादिभाजनम्॥ ४५.८० ॥

हैमं च राजतं धेनुं तिलान् क्षेत्रं च वैभवम्॥
दासीदासगणश्चैव दातव्यो दक्षिणामपि॥ ४५.८१ ॥

पिण्डं च पूर्ववद्दद्यात्पृथगष्टप्रकारतः॥
ब्राह्मणानं सहस्रं च भोजयेच्च सदक्षिणम्॥ ४५.८२ ॥

एकं वा योगनिरतं भस्मनिष्ठं जितेन्द्रियम्॥
त्र्यहं चैव तु रुद्रस्य महाचरुनिवेदनम्॥ ४५.८३ ॥

विशेष एवं कथित अशेषश्राद्धचोदितः॥
मृते कुर्यान्न कुर्याद्वा जीवन्मुक्तो यतः स्वयम्॥ ४५.८४ ॥

नित्यनैमित्तिकादीनि कुर्याद्धा सन्त्त्यजेत्तु वा॥
बान्धवेऽपि मृते तस्य शौचाशौचं न विद्यते॥ ४५.८५ ॥

सूतकं च न सन्देहः स्नानमात्रेण शुद्ध्यति॥
पश्चाज्जाते कुमारे च स्वे क्षेत्रे चात्मनो यदि॥ ४५.८६ ॥

तस्य सर्वं प्रकर्तव्यं पुत्रोऽपि ब्रह्मविद्भिवेत्॥
कन्यका यदि राञ्जाता पश्चात्तस्य महात्मनः॥ ४५.८७ ॥

एकपर्णा इव ज्ञेया अपर्णा इव सुव्रता॥
भवत्येव न सन्देहस्तस्याश्चान्वयजा अपि॥ ४५.८८ ॥

मुच्यन्ते नात्र सन्देहः पितरो नरकादपि॥
मुच्यन्ते कर्मणानेन मातृतः पितृतस्तथा॥ ४५.८९ ॥

कालं गते द्विजे भूमौ खनेच्चापि दहेत्तु वा॥
पुत्रकृत्यमशेषं च कृत्वा दोषो न विद्यते॥ ४५.९० ॥

कर्मणा चोत्तरेणैव गतिरस्य न विद्यते॥
ब्रह्मणाकथितं सर्वं मुनीनां भावितात्मनाम्॥ ४५.९१ ॥

पुनः सनत्कुमाराय कथितं तेन धीमता॥
कृष्णद्वैपायनायैव कथितं ब्रह्मसूनुना॥ ४५.९२ ॥

प्रसादात्तस्य देवस्य वेदव्यासस्य धीमतः॥
ज्ञातं मया कृतं चैव नियोगादेव तस्य तु॥ ४५.९३ ॥

एतद्वः कथितं सर्वं रहस्यं ब्रह्मसिद्धिदम्॥
मुनिपुत्राय दातव्यं न चाभक्ताय सुव्रताः॥ ४५.९४ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे जीवच्छ्राद्वविधिर्नाम पञ्चचत्वारिंशत्तमोऽध्यायः॥ ४५ ॥