सनत्कुमार उवाच॥
अथान्यत्सम्प्रवक्ष्यामि सर्वदानोत्तमोत्तमम्॥
पूर्वोक्तदेशकाले च मण्डपे च विधानतः॥ ४४.१ ॥
प्रणयात्कुण्डमध्ये च स्थण्डिले शिवसन्निधौ॥
पूर्वं विष्णुं समासाद्य पद्मयोनिमतः परम्॥ ४४.२ ॥
मन्त्राभ्यां विधिनोक्ताभ्यां प्रणवादिसमन्त्रकम्॥
नारायणाय विद्महे वासुदेवाय धीमहि॥
तन्नो विष्णुः प्रचोदयात्॥ ४४.३ ॥
ब्रह्मब्राह्मणवृद्धाय ब्रह्मणे विश्ववेधसे॥
शिवाय हरये स्वाहा स्वधा वौषट्वषट् तथा॥ ४४.४ ॥
पूजयित्वा विधानेन पश्चाद्धोमं समाचरेत्॥
सर्वद्रव्यं हि होतव्यं द्वाभ्यां कुण्डविधानतः॥ ४४.५ ॥
ऋत्विजौ द्वौ प्रकर्तव्यौ गुरुणा वेदपारगौ॥
तानुद्दिश्य यथान्यायं विप्रेभ्यो दापयेद्धनम्॥ ४४.६ ॥
शतमष्टोत्तरं तेभ्यः पृथक्पृथगनुत्तमम्॥
वस्त्राभरणसंयुक्तं सर्वालङ्कारसंयुतम्॥ ४४.७ ॥
गुरुरेको हि वै श्रीमान् ब्रह्मा विष्णुर्महेश्वरः॥
तेषां पृथक्पृथग्देयं भोजयेद्ब्राह्मणानपि॥ ४४.८ ॥
शिवार्चना च कर्तव्या स्नपनादि यथाक्रमम्॥ ४४.९ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे चतुश्चत्वारिंशोऽध्यायः॥ ४४ ॥