०४३

सनत्कुमार उवाच॥
लोकपालाष्टकं दिव्यं साक्षात्परमदुर्लभम्॥
सर्वसम्पत्करं गुह्यं परक्रविनाशनम्॥ ४३.१ ॥

स्वदेशरक्षणं दिव्यं गजवाजिविवर्धनम्॥
पुत्र वृद्धिकरं पुण्यं गोब्राह्मणहितावहम्॥ ४३.२ ॥

पूर्वोक्तदेशकाले तु वेदिकोपरिमण्डले॥
मध्ये शिवं समभ्यर्च्य यथानायायं यथाक्रमम्॥ ४३.३ ॥

दिग्विदिक्षु प्रकर्तव्यं स्थण्डिलं वालुकामयम्॥
अष्टौ विप्रान्समभ्यर्च्य वेदवेदाङ्गपारगान्॥ ४३.४ ॥

जितेन्द्रियान्कुलोद्भूतान्सर्वलक्षणसंयुतान्॥
शिवाभिमुखमासीनाऽनाहतेष्वम्बरेषु च॥ ४३.५ ॥

वस्त्रैराभरणैर्दिव्यैर्लोकपालकमन्त्रकैः॥
गन्धपुष्पैः सुधूपैश्च ब्राह्मणानर्चयेत्क्रमात्॥ ४३.६ ॥

पूर्वतो होमयेदग्नौ लोकपालकमन्त्रकैः॥
समिद्धृताभ्यां होतव्यमग्निकार्यं क्रमेण वा॥ ४३.७ ॥

एवं हुत्वा विधानेन आचार्यः शिववत्सलः॥
यजमानं समाहूय सर्वाभरमभूषितान्॥ ४३.८ ॥

तेन तान्पूजयित्वाथ द्विजोभ्यो दापयेद्धनम्॥
पृथक्पृथक्तन्मन्त्रैश्च दशनिष्कं च भूषणम्॥ ४३.९ ॥

दशनीष्केण कर्तव्यमासनं केवलं पृथक्॥
स्नपनं तत्र कर्तव्यं शिवस्य विधिपूर्वकम्॥ ४३.१० ॥

दक्षिणा च प्रदातव्या यथाविभविस्तरम्॥
एवं यः कुरुते दानं लोकेशानां तु भक्तितः॥
लोकेशानां चिरं स्थित्वा सार्वभौमौ भवेद्बुधः॥ ४३.११ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे त्रिचत्वारिंशोऽध्यायः॥ ४३ ॥