सनत्कुमार उवाच॥
गजदानं प्रवक्ष्यामि यथावदनुपूर्वशः॥
द्विजाय वा शिवायाथ दातव्यः पूज्य पूर्ववत्॥ ४२.१ ॥
गजं सुलक्षणोपेतं हैमं वा राजतं तु वा॥
सहस्रनिष्कमात्रेण तदर्धेनापि कारयेत्॥ ४२.२ ॥
तदर्धार्धेन वा कुर्यात्सर्वलक्षणभूषितम्॥
पूर्वोक्तदेशकाले च देवाय विनिवेदयेत्॥ ४२.३ ॥
अष्टम्यां वा प्रदातव्यं शिवाय परमेष्ठिने॥
ब्राह्मणाय दरिद्राय श्रोत्रियायाहिताग्नये॥ ४२.४ ॥
शिवमुद्दिश्य दातव्यं शिवं सम्पूज्य पूर्ववत्॥
एतद्यः कुरुते दानं शिवभक्तिसमाहितम्॥ ४२.५ ॥
स्थित्वा स्वर्गे चिरं कालं राजा गजपतिर्भवेत्॥ ४२.६ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे द्विचत्वारिंशोऽध्यायः॥ ४२ ॥