सनत्कुमार उवाच॥
हिरण्यवृषदानं च कथयामि समासतः॥
वृषरूपं हिरण्येन सहस्रेणाथ कारयेत्॥ ४१.१ ॥
तदर्धार्धेन वा धीमांस्तदर्धार्धेन वा पुनः॥
अष्टोत्तरशतेनापि वृषभं धर्मरूपिणम्॥ ४१.२ ॥
ललाटे कारयेत्पुण्ड्रमर्धचन्द्रकलाकृतिम्॥
स्फटिकेन तु कर्त्तव्यं खुरं तु रजतेन वै॥ ४१.३ ॥
ग्रीवां तु पद्मरागेण ककुद्गोमेदकेन च॥
ग्रीवायां घाण्टवलयं रत्नचित्रं तु कारयेत्॥ ४१.४ ॥
वृषाङ्कं कारयेत्तत्र किङ्किणीवलयावृतम्॥
पूर्वोक्तदेशकाले तु वेदिकोपरिमण्डले॥ ४१.५ ॥
वृषेन्द्रं स्थापयेत्तत्र पश्चिमामुखमग्रतः॥
ईश्वरं पूजयेद्भक्त्या वृषाध्वजम्॥ ४१.६ ॥
वृषेन्द्रं पूज्य गायत्र्या नमस्कृत्य समाहितः॥
तीक्ष्णश्रृङ्गाय विद्महे धर्मपादाय धीमहि॥
तन्नो वृषः प्रचोदयात्॥ ४१.७ ॥
मन्त्रेणानेन सम्पूज्य वृषं धर्मविवृद्धये॥
होमयेच्च घृतान्नाद्यैर्यथाविभवविस्तरम्॥ ४१.८ ॥
वृषभः पूज्य दातव्यो ब्राह्मणेभ्यः शिवाय वा॥
दक्षिणा चैव दातव्या यथावित्तानुसारतः॥ ४१.९ ॥
एतद्यः कुरुते भक्त्या वृषदानमनुत्तमम्॥
शिवस्यानुचरो भूत्वा तेनैव सह मोदते॥ ४१.१० ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे सुवर्णवृषदानं नामैकचत्वारिंशोऽध्यायः॥ ४१ ॥