सनत्कुमार उवाच॥
कन्यादानं प्रवक्ष्यामि सर्वदानोत्तमोत्तमम्॥
कन्यां लक्षणसम्पन्नां सर्वदोषविवर्जिताम्॥ ४०.१ ॥
मातापित्रोस्तु संवादं कृत्वा दत्त्वा धनं महत्॥
आत्मीकृत्याथ संस्नाप्य वस्त्रं दत्त्वा शुभं नवम्॥ ४०.२ ॥
भूषणैर्भूषयित्वाथ गन्धमाल्यैरथार्चयेत्॥
निमित्तानि समीक्ष्याथ गोत्रनक्षत्रकादिकान्॥ ४०.३ ॥
उभयोश्चित्तमालोक्य उभौ सम्पूज्य यत्नतः॥
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने॥ ४०.४ ॥
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे॥
दासदासीधनाढ्यं च भूषणानिं विशेषतः॥ ४०.५ ॥
क्षेत्राणि च धनं धान्य वासांसि च प्रदापयेत्॥
यावन्ति देहे रोमाणि कन्यायाः सन्ततौ पुनः॥ ४०.६ ॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते॥ ४०.७ ॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे कन्यादानविधिर्नाम चत्वारिंशोऽध्यायः॥ ४० ॥