०३९

सनत्कुमार उवाच॥
हिरण्याश्वप्रदानं च वदामी विजयावहम्॥
अश्वमेधात्पुनः श्रेष्ठं वदामी श्रृणु सुव्रत॥ ३९.१ ॥

अष्टोत्तरसहस्रेण अष्टोत्तरशतेन वा॥
कृत्वाश्वं लक्षणैर्युक्तं सर्वालङ्कारसंयुतम्॥ ३९.२ ॥

पञ्चकल्याणसम्पन्नं दिव्याकारं तु कारयेत्॥
सर्वलक्षणसंयुक्तं सर्वाङ्गैश्च समन्वितम्॥ ३९.३ ॥

सर्वायुधसमोपेतमिन्द्रवाहनमुत्तमम्॥
तन्मध्यदेशे संस्थाप्य तुरङ्गं स्वगुणान्वितम्॥ ३९.४ ॥

उच्चैः श्रवसकं मत्वा भक्त्या चैव समर्चयेत्॥
तस्य पूर्वादिशाभागे ब्राह्मणं वेदपारगम्॥ ३९.५ ॥

सुरेन्द्रबुद्ध्या सम्पूज्य पञ्चनिष्कं प्रदापयेत्॥
स चाश्वः शिवभक्ताय दातव्यो विधिनैव तु॥ ३९.६ ॥

सुवर्णाश्वं प्रदत्त्वा तु आचार्यमपि पूजयेत्॥
यथाविभवविस्तारं पञ्चनिष्कमथापिवा॥ ३९.७ ॥

दीनान्धकृपणानाथबालवृद्धकृशातुरान्॥
तोषयेदन्नदानेन ब्राह्मणांश्च विशेषतः॥ ३९.८ ॥

एतद्यः कुरुते भक्त्या दानमश्वस्य मानवः॥
ऐन्द्रान्भोगांश्चिरं भुक्त्वा रुचिरैश्वर्यवान्भवेत्॥ ३९.९ ॥

इति श्रीलिङ्गमहापुराणे उत्तरभागे हिरण्याश्वदानं नामैकोनचत्वारिंशोऽध्यायः॥ ३९ ॥